OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 17, 2021

 अफ्गानिस्थाने  सर्वत्र अरक्षितावस्था इति अभयार्थिनः।


अफ्गानः पूर्णतया तालिबानस्य नियन्त्रणे जाते जनैः प्राणरक्षार्थं संघशः पलायनम् आरब्घम्। अफ्गानस्य अध्यक्षः अषरफ् गनिः तस्य सहचराः च ओमान् राष्ट्रं प्रति पलायनम् अकुर्वन्। अन्यराष्ट्रैः च अफ्गानस्य नागरिकाणां कृते सीमाः उद्घाटिताः। अस्मिन् अवसरे विविधानां प्रमुखनेतृणां अभयकेन्द्रमभवत् भारतम्। भारते समागतानां अभयार्थिनां सकलानाम् एका तालिबान कथा वक्तुम् अस्ति। सा एवं भवति 'वयं सर्वे तालिबानस्य  अतिक्रूरपीडनम् असहमानाः पलायिताः भवामः' इति अभयार्थिनः अकथयन्।

Monday, August 16, 2021

सैनिकविद्यालये इतः परं बालिकाप्रवेशः।

नवदिल्ली> सैनिकविद्यालये इतः परं बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बह्यः बालिकाः मह्ययं पत्रिकाम् प्रेषितवत्यः वर्तन्ते इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।

हेय्ति देशे जाते भूकम्पे मरणानि ३०० अतीतानि।

   पोर्ट ओ प्रिन्स् > करीबियन् राष्ट्रे हेय्ति देशे शनिवासरे प्रातःकाले जाते अतिशक्तियुक्ते भूचलने मरणानि ३०० अतीतानि। द्विसहस्राधिकजनाः व्रणिताश्च। १०००० संख्याकानि गृहाणि भग्नानि। रिक्टर् मापिकायां ७.२ तीव्रतां रेखाङ्गिते भूचलने अधिकनाशः प्रतिवेदितः। दुरन्तस्य तीव्रतां परिगणय्य राष्ट्रे एकमासीया अतिजाग्रतीयावस्था प्रख्यापिता। रक्षाप्रवर्तनानि अनुवर्तन्ते। सेन्ट्रल् पोर्ट ओ प्रिन्स् देशात् १६० कि मि दूरे एव भूकम्पस्य प्रभवस्थानम्। प्रदेशे अष्ट किलोमीट्टर् वृत्तपरिधौ (perimetre) सप्त अनुकम्पनानि समजनि।

Sunday, August 15, 2021

 भारतस्य पञ्चसप्ततितमस्वतन्त्रतादिनसमारोहे  पञ्चसप्तति 'वन्दे भारत' रेल्यानानि प्रख्यापि तानि।


    नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसमारोहे भारतस्य प्रधानमन्त्रिणा राष्ट्राय ७५ संख्याकानि 'वन्दे भारत' रेल्यानानि प्रख्यापितानि। लघु विमानपत्तनानि तन्निबध्य उडान् नाम लघु-व्योमयाननिलयानि निर्मीय विमानयात्रासौविध्ययुक्ता रेल्यानप्रणाली इति अस्य विशेषः। एतैः रेल्यानैः राष्ट्रस्य समस्तमण्डलानि परस्परं प्रतिबन्धितानि भविष्यन्ति। 'स्वतन्त्रतायाः अमृतमहोत्सव:' इति नाम्ना  पञ्चसप्ततितमस्वतन्त्रता समारोहकार्यक्रमाः समायोजयिष्यन्ति।

 महिलानां विजयप्राप्तिः राष्ट्रविकासस्य मार्ग निर्देशिका - भारतराष्ट्रपतिः।


  नवदिल्ली> समीपकाले विविधमण्डलेषु भारतीयमहिलाभिः अधिगताः विजयप्राप्तयः भाविष्यत्काले राष्ट्रेण सम्प्राप्स्यमनस्य विकासस्य सूचनाः भवन्ति इति भारतस्य राष्ट्रपतिना  रामनाथकोविन्देन उक्तम्। भारतस्य ७५तमस्य स्वतन्त्रतादिवसस्य पूर्वेद्युः राष्ट्रमभिसंबोधयन् भाषमाण आसीत् राष्ट्रपतिः। 

 क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।

 भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।

  St. Thoma's HS Ayroor Aluva.

    कोच्ची> राष्ट्रस्य विभिन्नराज्येषु ग्राम ग्रामान्तरेषु प्रतिगृहं पञ्चसप्ततितमं स्वतन्त्रतादिनम् समाचर्यते। कोविड्रोगबाधा अस्ति चेदपि मार्गपार्श्व जनाः सुदिनस्य आह्लादान् अभिव्यञ्जयन्तः   तिष्ठन्ति। विद्यालयेषु समीपस्थाः छात्राः अध्यापकाः च मिलित्वा ध्वजारोहणम् अकुर्वन्। प्रतिगृहं छात्राः दीपाः छात्राः दीपान् प्रज्वालयन्ति। राज्य राजधान्यां तत्तद्राज्यमुख्यमन्त्रिणः,  जनपदेषु मन्त्रिणः च ध्वजारोहणं कृतवन्तः।

आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।

लेखिका- ज्योतिलक्ष्मी जे, वेदपूर्णपुरी 

 नवदिल्ली> भारतसर्वकारेण पलास्तिकवस्तूनां उपयोगेषु नियन्त्रणं वर्धितम्। पलास्तिवस्तूनम् उत्पादनं, वितरणम्, देशान्तरादानयनं सम्भरणं, विक्रयणं इत्यादीनां निरोधनाय "पलास्तिकमालिन्यनियन्त्रण- संस्करणनियमाः २०२१" भारतसर्वकारेण प्रकाशिताः। २०२२ जुलै मासादारभ्य ७५ मैक्रोणतः ऊनानां पलास्तिकवस्तूनाम् निरोधनं भविष्यति।
         सामान्यतः ५० मैक्रोण् घनमितानि पलास्तिकस्यूतानि उपयोक्तुं शक्यते। परन्तु सेप्तंबर् ३० दिनाङकादारभ्य नियमे प्रबले जाते (सति), ततःपरं ७५ मैक्रोन् घनमानतः ऊनानि पलास्तिकस्यूतानि उपयोक्तुम् न शक्यते।

 अफ्गानिस्थाने स्त्रीणाम् अधिकारान् तालिबानः दमयति। तासाम् अवस्था भीतिजनका हृदयभेदका च भवति। 

   युणैट्टड् नेषन्स् > अफ्गानिस्थाने तालिबानेन स्वायत्तीकृतेषु प्रदेशेषु स्त्रीणां बालिकानां च अधिकारस्योपरि तालिबानः कठिननियन्त्रणं आनयति इति भीतिदानि प्रतिवेदनानि बहिरागच्छन्ति इति यु एन् मुख्यकार्यदर्शिना अन्टोणियो गुट्टरसेन प्रोक्तम्। स्वाधीनप्रदेशेषु तालिबानः विशिष्य स्त्रियः तथा माध्यमप्रवर्तकान् च लक्ष्यीकृत्य मनुष्याघिकारस्योपरि कठिननियन्त्रणानि आनयन्ति इत्येतत् माम् अस्वस्थं करोति इति गुट्टरसः माध्यमान् प्रति अवोचत्। सामान्यजनान् लक्ष्यीकृत्य कृतानि आक्रमणानि मानविकनियमस्य लङ्घनं तथा युद्घापराधकृत्यसमं च भवति इति गुट्टरसेन प्रोक्तम्।

Saturday, August 14, 2021

 ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।  

संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य
उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति।

 कोच्ची> २०२१ टोक्यो ओलिम्पिक्स् मध्ये भारताय पदकानि सम्पादितवतां क्रीडकाणां कृते जीवनस्य नानामण्डलेषु कर्म कृतवद्भिः संस्कृतभाषया अभिनन्दनानि कारयित्वा केरलेषु द्वे विद्यालयीयसंस्कृतसमित्यौ। एरणाकुलं नगरस्थस्य  दक्षिणचिट्टूर् सेन्ट् मेरीस् प्राथमिकविद्यालयस्य तथा वैप्पिन् प्रदेशस्थस्य  कर्तेटं प्राथमिकविद्यालयस्य संस्कृतसमित्यौ एव एतादृशनूतनपदक्षेपस्य कार्यकर्तारः। 

  कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन  कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः  अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति। 

   विद्यालयद्वयस्थान् छात्रान् अतिरिच्य  कोच्चीनगरपिता नीतिज्ञः  एम् अनिल्कुमारः, जिल्लाशैक्षिकाधिकारी एम् पी ओमना, उपजिल्लाधिकारी एन् एक्स् आन्सलामः, राजनैतिक-सांस्कृतिकमण्डलेषु विद्यमानाः प्रमुखाः, भिषग्वराः, नीतिज्ञाः, कर्मकराः,सामान्यजनाः इत्यादयः एतस्मिन् अभिनन्दनकार्यक्रमे भागं कृतवन्तः।

 रत्नशालाविज्ञापनात् वधूनां चित्राणि निष्कासयितव्यानि इति केरलराज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्।

   कोच्चि > रत्नशालाविज्ञापनात् (jewellery  advertisement ) वघूनां चित्राणि निष्कासयितव्यानि इति राज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्। विज्ञापनानि सामान्य जनान् स्ववशीकरिष्यन्ति। रत्नाभरणानि वघूजनेन समं न निबध्नातु। वधूनां चित्रस्य स्थाने गृहिणीनां शिशूनां वा चित्राणां निवेशनं करणीयम्। केरल विश्वविद्यालयस्य मत्स्यपालन-समुद्रिक शिक्षा (Kerala University of fisheries and Oceanic Studies ( K U F O S ) विभागानां छात्राणां बिरुददानसमारोहे भागं स्वीकृत्य भाषणं कुर्वन् आसीत् अयम्। स्त्रीधनदुराचारमधिकृत्य अवबोधनार्थं सहायकं भविष्यति एतत् इति तेन अभिप्रेतम्। 

     लब्धं स्त्रीधनम् अपर्याप्तम् इति उक्त्वा पुरुषेण वा तस्य गृहाङ्गैः केरलेषु वधूजनाः काचन पीडिताः मारिताः च। सर्न्दर्भे अस्मिन् राज्यपालस्य स्वाभिमतप्रकाशनम् सन्दर्भोचितम् इति सामाजिकनिरीक्षकाः वदन्ति।

Friday, August 13, 2021

 गसनिनगरमपि तालिबानेन ग्रहीतम्।

    अफ्गानिस्थानस्य राजधान्याः समीपस्थं गसनि नगरं तालिबानसेनायाः अधीनम् अभवत्। काबूलतः १५० कि. मी दूरे वर्तते एतत् नगरम्। काबूल - कण्डहारयोः राजवीथ्यां वर्तमाननगरेषु भूरि नगराणि तालिबानस्य अधीनानि भवन्ति। तालिबानाधीनेषु पतितेषु प्रधाननगरेषु एत् दशमं नागरं भवति। गसनि नगरस्य नियन्त्रणं नष्टम् अभवत् इति अफगान सेनायैः अतिप्रहरः भविष्यति।  तालिबानतः भीत्या विविध-देशेभ्यः पलायिताः जनाः काबूलनगरम् अश्रित्य वर्तन्ते। तेषु तालीबानस्य गुप्तसैनिकाः अपि स्यात् इति अशङ्क्यते च।

Thursday, August 12, 2021

 कोविडस्य तृतीयतरङ्गम् इति सूचना। बंगलूरे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः रोगबाधिताः इति दृढीकृताः।

   बंगलूरु > बंगलूरुदेशे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः कोविड्रोगेण बाधिताः। ऊन-नववयस्कानां  १०६ बालकानां तथा नववयस्कादारम्य एकोनविंशति वयःपर्यन्तं १३६ बालकानां च रोगः दृढीकृतः। कोविडस्य तृतीयतरङ्गः अधिकतया बालकान् एव बाधिष्यते इति सूचनां प्रबलयति एतत् प्रतिवेदनम्। आगामि दिनेषु कोविड् रोगबाधितानां बालानां संख्या त्रिगुणीभविष्यति इति स्वास्थ्यसंस्थया पूर्वसूचना दत्ता अस्ति।  प्रौढजनापेक्षया बालकेषु प्रतिरोधक्षमता न्यूना एव। अतः बालकानां गृहे उपवेशनमेव रोगव्यापनं निरोद्धुम् उत्तमोपायः इति स्वास्थ्यविदाः वदन्ति।

श्रीजेषाय २ कोटिः आर्थिकपुरस्कारः उद्योगे उन्नतिश्च। 

  अनन्तपुरी> टोक्यो ओलिम्पिक्स् मध्ये  होक्कीस्पर्धायां कांस्यपदकविजेत्रे पि आर् श्रीजेषाय केरलसर्वकारस्य अनुमोदनम्। द्विकोटिरूप्यकाणि आर्थिकपुरस्कारः उद्योगे पदोन्नतिश्च पारितोषिकरूपेण दातुं मन्त्रिमण्डलेन निश्चितम्।   राज्यस्य शैक्षिकविभागे [क्रीडामण्डले] उपनिदेशकरूपेण [Deputy Director] विराजते तस्मै सम्प्रति सहनिदेशकरूपेण [Joint Director] पदोत्कर्षं दातुमपि निश्चितम्। 

   किञ्च ओलिम्पिक्स् महोत्सवे भागं कृतवद्भ्यः अन्येभ्यः पञ्चक्रीडकेभ्यश्च पञ्चलक्षरूप्यकाणि प्रतिक्रीडकं दातुमपि निश्चितम्। टोक्योयात्राव्ययार्थं पूर्वं दत्तं  पञ्चलक्षं विना अधिकतया एव एषः पारितोषिकः।

Wednesday, August 11, 2021

 दीर्घयात्रानन्तरं गजयूथं स्वस्थानेषु प्रतिनिवर्तते।


 एकसंवत्सरायतदीर्घयात्राननरं चीनस्य गजयूथं स्वसाम्राज्येषु प्रतिनिवर्तते। भिन्नाकारैः भिन्नवयस्कैः सहितः गजसंघः तेषां प्रकृतिजेषु षिन्हुवान् नाम निजीयशासितप्रदेशेषु (autonomous prephectur) प्रतिनिवृत्तमानाः इत्येव सूचना। रविवासरे रात्रौ यूथं युन्ननस्थं युवान्जियाङ् नदीं उत्तीर्णम्। 

सप्तदश मासात् पूर्वमेव यात्रा समारब्धा। प्रत्यागन्तुं द्विशतं किलोमीट्टर् दूरं संघेन इतोऽपि सञ्चरणीयम्। तदर्थं मासानि आवश्यकानि तथापि गजयूथस्य विनोदयात्रावेलायाम्  आशङ्कितजनमनस्सु कौतुकं सञ्जनयन् वर्तते इदं प्रतिनिवर्तनम्। सप्तदश मासाभ्यन्तरे गजयूथं लक्ष्यं विना ५०० किलोमीट्टर् सञ्चरन्नासीत्।

 तालिबानस्य अतिक्रमः - अफ्गानिस्थानात् भारतीयाः प्रतिनिवर्तयितव्याः।

नवदिल्ली> अफ्गानिस्थान-तालिबानसंघर्षे तीव्रे तत्रस्थाः भारतीयाः शीघ्रमेव प्रतिनिवर्तयेयुः इति भारतस्य विदेशकार्यमन्त्रालयेन जाग्रतासूचना दत्ता। भारतस्य वाणिज्यसंस्थाभिः स्वकीयाः भारतीयकर्मकराः ततः विनिवर्तव्याः इत्यपि निर्दिष्टम्। 

   अफ्गानिस्थानस्य चतुर्थं महानगरं मसार् ई षरीफ् नामकमपि तालिबानस्य आक्रमणविधेयमभवत् इत्यतः एव जाग्रतानिर्देशः कृतः।

Tuesday, August 10, 2021

 कोविड्रोगव्यापनकालः छात्रेभ्यः  कौशलवर्धनाय भवतु।


  आलप्पुष़> कोविड् रोगाणुव्यापनकालः छात्रेभ्यः बहुविधचित्तसंमर्दनोद्दीपकः इति सामान्यतया दृश्यते। किन्तु अस्मिन् सन्दर्भे केचन छात्राः स्वीयकौशलवर्धनाय  प्रयत्नं कुर्वन्ति। इदानीं केरले आलप्पुष़ जनपदे चेर्त्तल सेन्ट्तेरेसास् उच्च-विद्यालयस्य ('मणप्पुरम्') छात्रा लक्ष्मी विनयः एवं अनुकरणीयार्हं कर्म कुर्वन्ती अस्ति। सा तस्य समयस्य सदुपयोगाय परित्यक्ताः पलास्तिककूपीः उपयुज्य  मनोहराणि पुष्पसस्यरोपण-युक्तानि पात्राणि निर्माति। प्रथमतया वर्णान् लेपयित्वा कूपीनाम् उपरि मुखं निर्माति। तदनन्तरं पुष्पसस्यानि रोपयन्ति च।

      एषा बालिका दशम्यां कक्ष्यायां पठति  पाठ्येषु विषयेषु अपि सा कुशला। अस्याः प्रवर्तनानि सर्वेषाम् कृते आदर्शभूतानि भवन्ति इति विद्यालयस्य प्रबन्धकेन वैदिकेन अन्टोच्चन् सि. एम्. ऐ महोदयेन उक्तम्। ईदृशेषु आह्लादप्रेदेषु प्रवर्तनेषु अपि सर्वेषां श्रद्धाभवतु इति अध्यापक-रक्षा-कर्तॄणाम् अन्तर्जालोपवेशने, छात्राणाम् ओण् लैन् कक्ष्यायां च प्रथमाध्यापिकया एलिसबत्त् पोल् वर्यया उक्तम्। इदृशप्रवर्तनेन छात्राः उत्तेजिताः भवन्तु। प्रभावशालिनः च भवन्तु इत्यपि तया उक्तम्। विगते अध्ययनसंवत्सरे अत्रत्याः छात्राः १००% उत्तीर्णतां प्रप्तवन्तः। छात्राणां बहुमुखविकासः शिक्षाप्रणाल्या भवतु इति शैक्षिकदर्शनाधिष्ठितं भवति सि एम् ऐ संस्थायाः शैक्षिकदर्शनम् इति महाप्रबन्धकः वैदिकः डा. साजु माटवनक्काट् महोदयः सम्प्रतिवार्तां प्रति अवदत्।

 परीक्षणयात्रा विजयप्रदा। ऐ एन् एस् विक्रान्तः कोच्चीदेशे प्रत्यागतः।

 


 कोच्चि> प्राथमिकस्तरपरीक्षणयात्रायाः पूर्णतामवाप्य ऐ एन् एस् विक्रान्तः कोच्चिदेशे प्रत्यागतवान्।  आरबसमुद्रे पञ्चदिनयात्रां समीचीनरीत्या पूर्तीकृत्यैव  नाविकसेनायाः ऐ एन् एस् विक्रान्तस्य प्रतिनिवर्तनम्। महानौकायाः कार्यक्षमता गतपञ्चदिनेषु परीक्षिता च। भारतेन पूर्णातया स्वदेशे निर्मिता महानौका भवति ऐ एन् एस् विक्रान्तः। भारतीयनाविकसेनायाः विधानमहानिदेशकालयेन (Directorate general of navel Design)  विक्रान्तस्य रूपकल्पना कृता। निर्माणेषु प्रतिशतं ८६  प्रवर्तनानि  कोच्चि महानौकाशालायाम् (Cochin Shipyard Ltd)  एव समभवत्।

आगोलतापनस्य भयानकवर्धनं मनुष्यवंशस्य अपायसूचना इति अध्ययनानि प्रतिवेद्यन्ते।


 जनीव> आगोलतापनम् अतितीव्रत्वमापन्नमिति सूचनां प्रदास्य अध्ययनप्रतिवेदनम्। भूमेः जीवजालानां च सुस्थितये भीषां जनयन् भूमौ अन्तरिक्षतापमानं वर्धमानम् अस्ति इति संयुक्तराष्ट्रसभायाः (ऐ पि सि सि) अन्तर्सर्वकारीय- पर्यावरण -परिवर्तनस्थेयगणस्य (inter governmental panal on climate change) अध्ययनप्रतिवेदनं सूचयति। वर्धिततापमानं भारते वर्षाकालर्तुमपि बाधिष्यते इत्यपि अध्ययनानि सूचयन्ति।

आगोलतापवर्धना २१०० संवत्सराभ्यन्तरे २° सेलष्यस् उपरि आगमिष्यति इति ऐ पि सि सि प्रतिवेदनं पूर्वसूचनां ददाति। हरितगृहवातकानां बहिर्गमने जाग्रतां न पालयति चेत् स्थितिः अतीव रूक्षः भविष्यति इति पूर्वसूचना अप्यस्ति।