OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 10, 2021

आविश्वं कोविड्बाधिताः २० कोटि अतीताः। 

   वाषिङ्टण्> अद्यावधि आविश्वं २०.३६ कोट्यधिकेषु जनेषु कोविड्रोगः स्थिरीकृतः। ४३. ११लक्षं जनाः रोगबाधया मृत्युमुपगताः। ह्यः चतुर्लक्षं जनाः कोविड्बाधिताः अभवन्। षट्सहस्रं जनाः कालयवनिकां प्राप्ताः। 

  अधिकाधिकतया कोविड्बाधितानि राष्ट्राणि, रोगबाधितानां संख्या, [मृत्युसंख्या] इतिक्रमेण - अमेरिक्का - ३.६५कोटिः [६.३३लक्षं], भारतं - ३.२कोटि [४.२८लक्षं], ब्रसील् - २.०२कोटि [५.६३लक्षं],रूस् - ६४.७लक्षं [१.६६लक्षं], फ्रान्स् - ६३लक्षं [१.१२लक्षं], ब्रिट्टनं- ६०लक्षं [१.३लक्षं], तुर्की - ५९लक्षं [६०सहस्रम्]

अफ्गानिस्थाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिताः। 

   काबूल्> तालिबानभीकराः सुरक्षासेनया सह तीव्रयुद्धे अनुवर्तमाने अफ्गाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिता इति संयुक्तराष्ट्रसभायाः आवेदनपत्रे सूचितम्। बालकान् विरुध्य क्रियमाणाः अतिनिष्ठुरातिक्रमाः राष्ट्रस्य विविधभागेषु अनुदिनं वर्धन्ते इति बालकेभ्यः प्रवर्तमानेन यू एन् उपसंघटनेन यूणिसेफ् इत्यनेन स्पष्टीकृतम्। काण्डहारं, खोस्त्, पकतिया प्रदेशेषु २७ बालकाः व्यापादिताः इति दृढीकृतमस्ति। १३६ बालकाः तीव्रतया व्रणिताः इति च यूणिसेफ् इत्यनेन उच्यते। 

  एतदाभ्यन्तरे षष्ठी प्रादेशिकराजधानी अपि तालिबानेन निगृहीता। सबन्गन् प्रदेशस्य राजधानीभूतस्य एबक् नगरस्य नियन्त्रणमेव तालिबानेन स्वायत्तीकृतमिति सर्वकारेण स्पष्टीकृतम्।

Monday, August 9, 2021

ओलिम्पिक्स् महोत्सवस्य परिसमाप्तिः; आगामि ओलिम्पिक्स्२०२४ मध्ये पारीस्। 

 टोक्यो> कोविड्कालखण्डे सम्पन्नस्य ३२तमस्य ओलिम्पिक्स् महोत्सवस्य शुभकरसमाप्तिः। कोविड्कारणेन संवत्सरैकं परिवर्त्य परित्याज्यमिति चिन्तायाः अन्ते एव मानवराशेः अतिजीवनस्य निश्चयदार्ढ्यस्य प्रतिरूपमिव महामहस्यास्य विजयप्रदा परिसमाप्तिः। 

   आगामि ओलिम्पिक्स् २०२४ तमे वर्षे फ्रान्स् राष्ट्रस्य राजधान्यां पारीस् नगरे सम्पत्स्यति।

Sunday, August 8, 2021

 टोक्यो मध्ये भारताय सुवर्णचरितं विरचयन् नीरजचोप्रः। 

टोक्यो> टोक्यो ओलिम्पिक्स् महोत्सवस्य 'अतलटिक्स्' स्पर्धायां ह्यः नीरजचोप्रावर्येण प्रक्षिप्तं शूलं यदा ८७.५८ मीटर् परिमिते दूरे भूमिं निर्भिद्य स्थितम्। तदा भारतस्य कायिकचरिते नवयुगप्रसूतिरभवत्। १२५ संवत्सराणां प्रतीक्षायाः अन्ते ओलिम्पिक्स् कायिकमहोत्सवे अत्लटिक्स् विभागे कस्यचन भारतीयस्य प्रप्रथमं पदकं, तत्तु सुवर्णपदकम्! अनेन हरियानीयस्यास्य २३ वयस्कस्य दृढनिश्चयेन १३० कोटिजनानाम् आत्माभिमानं सुवर्णाञ्चितमभवत्। 

   शनिवासरे शूलप्रक्षेपस्पर्धायाः अन्त्यचक्रे प्रथमोद्यमे एव नीरजः ८७.०३मीटर् क्षिप्तवान्। द्वितीयोद्यमे क्षिप्तं ८७.५८ मीटर् दूरेण सुवर्णपदकं सुनिश्चितम्। चेक् रिप्पब्लिक् राष्ट्रस्य जाक्कूब वादलच् नामकः रजतपदकं, तद्राष्ट्रस्यैव वितेस्लाव् वेसलि नामकः कांस्यपदकं च प्राप्तवन्तौ।

जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामितकोविड्वाक्सिनाय राष्ट्रे अनुमतिः प्रदत्तः।


   नवदिल्ली> जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामित -कोविड्वाक्सिनस्य आपत्कालोपयोगार्थं राष्ट्रे अनुमतिः प्रदत्ता। आगस्त् मासस्य पञ्चमे दिने एव संस्थया एतदर्थं प्रार्थनापत्रं समर्पितम्। भारतस्य स्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येन एव कार्यमिदं ट्विट्टर् द्वारा प्रतिवेदितम्।  राष्ट्रे बयोलजिक्कल् इ नाम भारतीयसंस्थायाः साह्यकरणेन वाक्सिनमिदं वितरिष्यति। प्रार्थनापत्रं विशदरीत्या परिशोधनान्तरमेव एषः  प्रक्रमः भविष्यति। एकस्मिन् दिने एककोटिमितं वाक्सिनम् इति क्रमेण वाक्सिनीकरणं शीघ्रातिशीघ्रं कर्तुं एषः प्रक्रमः प्रभवति इति भारतसर्वकारसंघैः प्रतिवेदितम्।

Saturday, August 7, 2021

 ओलिम्पिक्स् वार्ताः - टोक्यो। 

 > वनिताहोक्की - तृतीयस्थाने ब्रिट्टनः। 

  महिलानां होक्कीस्पर्धायां कांस्यपदकमालक्ष्य पूर्वान्त्यचक्रे पराजितयोः दलयोः द्वन्द्वे भारतं पराजित्य ब्रिट्टनदलः पदकं प्राप्तवान्। अन्तिमनिमिषं यावत् प्रतिद्वन्दिनं प्रकम्पीकृत्य एव भारतमहिलाः ३- ४ इति क्रमेण पराभूताः अभवन्। परम्परायाः प्राथमिकस्तरे ब्रिट्टनं प्रति ४-१ इति रीत्या भारतं पराजितमासीत्। 

 > प्रासक्षेपस्य अन्तिमचक्रमद्य - प्रतीक्षया भारतम्।

  प्रेसक्षेपस्पर्धानाम् अन्तिमा स्पर्धा अद्य भविष्यति। तस्यां भारतक्रीडकः नीरजचोप्रा अनितर्भवतीति भारतस्य पदकप्रतीक्षा वर्धयते। योग्यताचक्रे श्रेष्ठतमं प्रदर्शनं कृतवानासीत्।

 ओलिम्बिक्स् प्रासक्षेपे नीरज चोप्रेण सुवर्णपदकम् प्राप्तम्।

धन्यवादः नीरजाय धन्यवादः टोक्यो देशाय।


  टोक्यो> १३० कोटि भारतीयानां प्रतीक्षां सुवर्णपदकेन सफलीकृताय नीरजाय धन्यवादम् अर्पयन्ति जनाः। पुरुषाणां प्रासक्षेपस्पर्धाविभागे (javelin) ८७.५८ मीट्टर् दूरं क्षिपन् नीरज चोप्रः नाम तीरसेनायाः कार्यकर्तृणा सुवर्णपदकम् अलङ्कृतम्। ओलिम्बिक्स् इतिहासे प्रासक्षेपे प्रथमतया एव सुवर्णपदकप्राप्तिः। अभिनव् बिन्द्रस्य पश्चात् व्यक्तिगतसुवर्णं प्राप्तवान्   द्वितीयः भारतीयक्रीडकः भवति हरियाना देशस्थः सुबेदार् नीरज चोप्रः।  बेय्जिड् अनन्तरम् इदं प्रथमतया एव भारतेन ओलिम्बिकस् मध्ये सुवर्णपदकं प्राप्तम्।

अफ्गान्सर्वकारस्य माध्यमविभागाध्यक्षः तालिबानेन मारितः।

  काबूल्> अफ्गानिस्थाने सर्वकारस्य उन्नतकार्यकर्ता तालिबानेन मारितः। अफ्गानसर्वकारस्य माध्यमविभागस्य अध्यक्षः दाव खान् मिनापल् एव काबूले शुक्रवासरे तालिबानेन मारितः। काबूलदेशस्थे देवालये शुक्रवासरे प्रचलिते प्रार्थनामध्ये आसीत् आक्रमणम्। तस्मिन् क्षणे एव दावखानः मृतः च इति आभ्यन्तरमन्त्रालयस्य कार्यकर्तारमुद्घृत्य रोयिट्टेष्स् नाम वार्तासंस्थया प्रतिवेदितम्।

Friday, August 6, 2021

अफ्गानविषये अद्य यू एन् चर्चा - अध्यक्षपदे भारतम्। 

    यू एन्> अफ्गानिस्थानस्य आभ्यन्तरयुद्धमधिकृत्य चर्चितुं भारतस्य आध्यक्षे संयुक्तराष्ट्रसमित्याः उपवेशः अद्य भविष्यति। अफ्गानस्य विदेशकार्यमन्त्री मुहम्मद हनीफ् अतमरः भारतविदेशकार्यमन्त्री एस् जयशङ्करेण सह कृतायाः चर्चायाः पश्चादेवायं निर्णयः। 

  चर्चानिर्णयं स्वागतं कृतवान् मुहम्दहनीफः भारताय कृतज्ञतां व्याहरत्। अफ्गानिस्थानस्य शान्त्यर्थं के के पदक्षेपाः स्वीकरणीयाः इति यू एन् समितिः चर्चिष्यते इति भारतस्य स्थिरप्रतिनिधिः अस्य मासस्य समित्यध्यक्षश्च टि एस् तिरुमूर्तिः न्यवेदयत्।

होक्यां कांस्यपदकप्राप्त्या भारतस्य सुवर्णशोभा। 

टोक्यो> ओलिम्पिक्स् कायिकमहोत्सवपरम्परायाः होक्किस्पर्धायां भारताय अभिमानीकृतविजयः। कांस्यपदकमुद्दिश्य ह्यः सम्पन्नायां स्पर्धायां शक्तिमन्तं जर्मनीदलं ५-४ इति लक्ष्यकन्दुकक्रमेण पराजित्य भारतं कांस्यपदकं प्राप्तवत्। ओलिम्पिक्स् होक्कीस्पर्धासु ४१ संवत्सरानन्तरमेव भारताय किमपि पदकमिति कारणेन अस्मिन् कांस्यपदके सुवर्णकान्तिः वर्तते। 

   भारतस्य लक्ष्यस्थानपालकः केरलीयः  पि आर् श्रीजेषः स्पर्धायामासकलं पदकप्राप्त्यर्थं निर्णायकं स्थानमवहत्। पूर्वान्त्यचक्रप्रवेशाय तथा कांस्यपदकप्राप्तये च तस्य पालनपाटवः अतुल्य आसीत्। 

  प्रधानमन्त्री राष्टपतिः इतरे च भारतस्य चरित्रविजये दलाय अभिनन्दनानि आशंसनानि  च समर्पितवन्तः।

Thursday, August 5, 2021

ओलिम्पिक्स् वार्ताः - टोक्यो ।

 लव्लिना कांस्यं विजितवती।

  महिलानां 'वेल्टर् वेय्ट्' नामके मुष्टामुष्टिस्पर्धायां भारतस्य लव्लिना बोर्गो हेय्न् नामिका कांस्यपदकं प्राप्तवती। असमराज्यीया भवति २३ वयस्का लव् लिना। 

   ह्यः सम्पन्ने पूर्वान्त्यचक्रे तुर्कीराष्ट्रस्य विश्वविजेत्री तथा विश्वस्य प्रथमस्थानीया बुसेनास् सुरमेनेली नामिकया पराभूता तथापि कांस्यं दृढीकृतवती। 

 नीरज चोप्रा अन्त्यचक्रं प्राविशत्। 

  पुरुषाणां प्रेसक्षेपस्पर्धायां भारतक्रीडकः नीरजचोप्रा प्रथमस्तरादेव अन्त्यचक्रं प्राविशत्। प्रथमे योग्यतामण्डले एव श्रेष्ठक्षेपणं कृत्वा [८६.७५मीटर्] एव सः अन्त्यचक्रं प्रविष्टवान्।

Wednesday, August 4, 2021

'ई-रुप्पी' नामिका नूतना आङ्किकात्मक-विनिमय सौविध्यं  प्रधानमन्त्रिणा प्रकाशिता।     
 नवदिल्ली> केन्द्रसर्वकारस्य' ई रुप्पी' (Digital payment)  नामिका नूतना आङ्‌किकात्मक-यविनिमयसौविध्यं प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्तर्जालेन प्रकाशितम्। भारतसर्वकारस्य जनक्षेमयोजनाः अधिकृत्य सम्यक् ज्ञानं सर्वजनानां मध्ये अस्ति इति दृढीकर्तुं प्रभवति एषा सुविधा। वाक्सिनीकरणप्रक्रमाः शीघ्रातिशीघ्रं कर्तुं सहायिका भवति एषा योजना इति माध्यमैः प्रतिवेदितम्। भारतीय 'भुगतान' निगमेन (NationalPaymentsCorporationof India) एव 'ई रुप्पी' नामिका सौविध्यं निर्मितम्। क्यू आर् कोड्, एस् एम् एस् इत्यादि द्वारा लभ्यमानं ई वौचर् आधारीकृत्य प्रवर्तमाना धनपत्ररहिता श्वेतपत्ररहिता च सुविधेयम्। गुणभोक्तृणां दूरवाणीमध्ये लब्धं 'ई वौचरं' उपयुज्य विविधायै सेवायै उपयोक्तुं अनया शक्यते।

Tuesday, August 3, 2021

होक्किस्पर्धायां भारतस्य पराजयः।

    टोक्यो> पुरुषाणां होक्किस्पर्धायाः पूर्वान्त्यचक्रे बल्जियं प्रति भारतं पराजयं प्राप। स्पर्धायाः प्राथमिकस्तरेषु २-१ इति लक्ष्यकन्दुकक्रमेण अग्रस्थितं भारतं विरुध्य अन्तिमसोपाने बल्जियेन चत्वारि लक्ष्याण्यपि प्राप्तानि। कांस्यपदकप्राप्त्यर्थं भारतस्य स्पर्धा अवशिष्यते। 

अश्वाभ्यासे जूलिया सुवर्णपदकं प्राप्तवती। 

अश्वाभ्यासस्य प्लवनमिति सविशेषे वैयक्तिकविभागे पुरुषक्रीडकान् आसाद्य जर्मन्याः महिलातारः जूलिया कजेस्कि सुवर्णपदकं प्राप्तवती। ब्रिट्टनस्य टोम् मक्वीनः रजकपदकं आस्ट्रेलियायाः आन्ड्रू होय् कांस्यपदकं च प्राप्तवन्तौ। 

 द्युति चन्द्रा बहिर्गता  

महिलानां २०० मीटर् धावनस्पर्धायां भारतस्य द्युतीचन्द्रा पूर्वान्त्यचक्रं न प्राविशत्। 'हीट्स्' मध्ये अन्तिमस्थानत्वेन धावितवती सा अधिकरणात् बहिर्गता।

सर्वेभ्यः वाक्सिनं ददत् प्रथमं भारतीयनगरमभवत् भुवनेश्वरः।

   भुवनेश्वरः> कोविडस्य तृतीयतरङ्गभीषां प्रतिरोद्धुं राष्ट्रे प्रयतमाने सन्दर्भेfस्मिन् प्रतिशतं१०० जनानां वाक्सिनं प्रयच्छत् प्रथमं भारतीयनगरमभवत् ओडीशायाः राजधानी भुवनेश्वरः। भुवनेश्वरस्य नगरसभामण्डले (बि एम् सि) दक्षिणपूर्वमण्डलस्य उपायुक्तेन अन्षुमान् रथेन कार्यमिदम् औद्योगिकतया प्रकाशितम्। निश्चितसमये एव वाक्सिनीकरणं पूर्तीकरणीयम् इति वयं निश्चितवन्तः। अष्टादशवयोपरि नवलक्षं जनाः बि एम् सि मध्ये सन्ति। तेषु ३१,००० स्वास्थ्यप्रवर्तकाः ३३,००० प्रथमश्रेणीयोद्धारः च भवन्ति। १८ वयस्कात् आरभ्य ४४ वयस्कपर्यन्तं ५,१७००० जनाः तथा ४५ वयोपरि ३,२५,००० जनाः च सन्ति। जूलाय् मासस्य एकत्रिंशत् दिनाभ्यन्तरे सर्वेभ्यः वाक्सिनं दातुं वयं केचन योजनाः समायोजिताः इति   ए एन् ऐ माध्यमाय प्रदत्ताम् प्रस्तुत्याम् अन्षुमानेन उदीरितम्।

Monday, August 2, 2021

होक्कि- भारतं पूर्वान्त्यचक्रे।

  टोक्यो>  पुरुषाणां  होक्किक्रीडापरम्परायां भारतं पूर्वान्त्यचक्रं प्राविशत्। अत्यन्तमुत्साहभरिते चतुर्थांशचक्रे ब्रिट्टनदलं ३-१ इति लक्ष्यकन्दुकक्रमेण पराजित्य एव भारतस्य पूर्वान्त्यचक्रप्रवेशः। कुजवासरे सम्पत्स्यमानायां तस्यां स्पर्धायां प्रतियोगी बेल्जियदलः। वनितानां होक्कीस्पर्धायां अद्य भारत-आस्ट्रेलिययोः चतुर्थांशचक्रं सम्पद्यते। 

 लमोण्ट् मेर्सलः शीघ्रतमः धावकः। 

ह्यः सम्पन्नायाः पुरुषाणां १००मीटर् धावनक्रीडायाः अन्तिमचक्रे इट्टलीराष्ट्रतः लमोण्ट् मेर्सल् जेकबः प्रथमस्थानं प्राप्य [९.८सेकन्ड् समयः] सुवर्णपदकं लब्धवान्। अमेरिक्कायाः फ्रड् कार्ले रजतपदकं , कानडायाः आन्द्रे डि ग्रासे कांस्यपदकं च प्राप्तवन्तौ।

 ओलिम्पिक्स् मध्ये भारतस्य 'अभिमामसिन्धुः'। 


 टोक्यो> ओलिम्पिक्स् क्रीडासु ह्यः भारतस्य आभिमानदिनम्। महिलानां पिच्छकन्दुकक्रीडायां भारतस्य पि वि सिन्धू कांस्यपदकं प्राप्तवती। तृतीयस्थानाय सम्पन्नायां स्पर्धायां चीनराष्ट्रस्य हे बिङ् जियावो नामिकां २१-१३, २१-१५ इति अङ्कक्रमेण पराजित्य एव पि वि सिन्धू भारतस्य अभिमानसिन्धुरभवत्। 

   २०१६ तमस्य 'रियो ओलिम्पिक्स्' मध्ये सिन्धू अस्मिन्नेवाधिकरणे रजतपदकं प्राप्तवती आसीत्। अनुस्यूततया द्वितीये ओलिम्पिक्स् महोत्सवे च पदकप्राप्ता प्रथमा महिला भवति पि वि सिन्धू।

मध्यप्रदेशे अतिवृष्टिः। गृहाणि भूमिसात् अभवत्। षट् जनाः मृताः।

 भोपालः> भारतस्य उत्तरभागे वृष्ट्यां अनुवर्तितायां सत्यां मध्यप्रदेशे द्वे गृहे  अधः पतिते  षट् जनाः मृताः च। रेवा जनपदे एकस्य कुटुम्बस्य चत्वारः जनाः गृहपतनेन मृताः। द्वे शिशू तयोः पिता पितामही च मृताः। सिङ्गोली जनपदे एकस्य कुटुम्बस्य द्वे शिशू अपि मृतेषु अन्तर्भूतौ। अतिवृष्टिः रक्षाप्रवर्तनान् बाधते। भोपाल्, रेवा, सिद्धि, साह, सत्नादिषु जनपदेषु जाग्रतानिर्देशः ख्यापितः अस्ति। राजस्थानस्य जोधपुर रेल् विभागस्य यानपथ: जल प्रवाहे निष्कासितः। मार्गाः अपि भग्नाः। पश्चिमवंगः जम्मु-काश्मीरं जार्खण्डः इत्यादिषु  प्रदेशेषु वृष्टिः इदानीमपि अनुवर्तते।

Sunday, August 1, 2021

 कोविड् वैराणोः नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनम् अत्यन्तापेक्षितमिति विश्वस्वास्थ्यसंस्था। 

     जनीव> इतःपरं नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनाय पूर्वसूचना एव डेल्टा विभेदः इति विश्वस्वास्थ्यसंस्थया प्रतिवेदितम्। वाक्सिनस्वीकरणमेव कोविडं नाशयितुम् उपायमिति विश्वस्वास्थ्यसंस्थायाः आपत्कालीन विभागस्य निदेशकेन मैक्किल् रयानेन प्रोक्तम्। डेल्टा विभेदः अनेकेषु राष्ट्रेषु रोगव्यापनाय हेतुरभवत्। सामूहिकदूरपालनं, मुखावरणधारणं, हस्तशुचीकरणम् इत्यादयः प्रतिरोधमार्गाः नूतन विभेदाय अधुनापि फलप्रदा भवन्ति। गतचतुस्सप्ताहाभ्यन्तरे रोगव्यापनं वर्धितं दृश्यते इति विश्व-स्वास्थ्यसंस्थायाः अधिपेन टेड्रोस् अथनोम् गेब्रियेससेन निगदितम्। रोगव्यापनम् अनुवर्तते चेत् अतिमारकवैराणुविभेदाः जायन्ते। सामूहिकदूरपालनं विना सम्मिलितान् तथा अन्यप्रतिरोधमार्गपालनविमुखान् च डेल्टा विभेदः अधिकतया बाधते इति प्रमाणानि द्योतयन्ति।