OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 2, 2021

 ओलिम्पिक्स् मध्ये भारतस्य 'अभिमामसिन्धुः'। 


 टोक्यो> ओलिम्पिक्स् क्रीडासु ह्यः भारतस्य आभिमानदिनम्। महिलानां पिच्छकन्दुकक्रीडायां भारतस्य पि वि सिन्धू कांस्यपदकं प्राप्तवती। तृतीयस्थानाय सम्पन्नायां स्पर्धायां चीनराष्ट्रस्य हे बिङ् जियावो नामिकां २१-१३, २१-१५ इति अङ्कक्रमेण पराजित्य एव पि वि सिन्धू भारतस्य अभिमानसिन्धुरभवत्। 

   २०१६ तमस्य 'रियो ओलिम्पिक्स्' मध्ये सिन्धू अस्मिन्नेवाधिकरणे रजतपदकं प्राप्तवती आसीत्। अनुस्यूततया द्वितीये ओलिम्पिक्स् महोत्सवे च पदकप्राप्ता प्रथमा महिला भवति पि वि सिन्धू।

मध्यप्रदेशे अतिवृष्टिः। गृहाणि भूमिसात् अभवत्। षट् जनाः मृताः।

 भोपालः> भारतस्य उत्तरभागे वृष्ट्यां अनुवर्तितायां सत्यां मध्यप्रदेशे द्वे गृहे  अधः पतिते  षट् जनाः मृताः च। रेवा जनपदे एकस्य कुटुम्बस्य चत्वारः जनाः गृहपतनेन मृताः। द्वे शिशू तयोः पिता पितामही च मृताः। सिङ्गोली जनपदे एकस्य कुटुम्बस्य द्वे शिशू अपि मृतेषु अन्तर्भूतौ। अतिवृष्टिः रक्षाप्रवर्तनान् बाधते। भोपाल्, रेवा, सिद्धि, साह, सत्नादिषु जनपदेषु जाग्रतानिर्देशः ख्यापितः अस्ति। राजस्थानस्य जोधपुर रेल् विभागस्य यानपथ: जल प्रवाहे निष्कासितः। मार्गाः अपि भग्नाः। पश्चिमवंगः जम्मु-काश्मीरं जार्खण्डः इत्यादिषु  प्रदेशेषु वृष्टिः इदानीमपि अनुवर्तते।

Sunday, August 1, 2021

 कोविड् वैराणोः नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनम् अत्यन्तापेक्षितमिति विश्वस्वास्थ्यसंस्था। 

     जनीव> इतःपरं नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनाय पूर्वसूचना एव डेल्टा विभेदः इति विश्वस्वास्थ्यसंस्थया प्रतिवेदितम्। वाक्सिनस्वीकरणमेव कोविडं नाशयितुम् उपायमिति विश्वस्वास्थ्यसंस्थायाः आपत्कालीन विभागस्य निदेशकेन मैक्किल् रयानेन प्रोक्तम्। डेल्टा विभेदः अनेकेषु राष्ट्रेषु रोगव्यापनाय हेतुरभवत्। सामूहिकदूरपालनं, मुखावरणधारणं, हस्तशुचीकरणम् इत्यादयः प्रतिरोधमार्गाः नूतन विभेदाय अधुनापि फलप्रदा भवन्ति। गतचतुस्सप्ताहाभ्यन्तरे रोगव्यापनं वर्धितं दृश्यते इति विश्व-स्वास्थ्यसंस्थायाः अधिपेन टेड्रोस् अथनोम् गेब्रियेससेन निगदितम्। रोगव्यापनम् अनुवर्तते चेत् अतिमारकवैराणुविभेदाः जायन्ते। सामूहिकदूरपालनं विना सम्मिलितान् तथा अन्यप्रतिरोधमार्गपालनविमुखान् च डेल्टा विभेदः अधिकतया बाधते इति प्रमाणानि द्योतयन्ति।

Saturday, July 31, 2021

 प्रतिगृहम् एकैकः सैनिकः इति क्रमेण  टिबट्ट् युवकान्  सैनिकपरिशीलनाय प्रेषयितुं चीनेन आदेशो दत्तः।

 बेय्जिङ्> टिबेट्ट् देशीयाः स्वकुटुम्बात् एकैकं युवकं निश्चयेन पीप्पिल्स् लिबरल् सेनायां (पि एल् ए) सेवां कर्तुं  प्रेषणीयम् इति चीनेन  आदिष्टम् । भारतस्य यथार्थ नियन्त्रणरेखायां सेनाविन्यासं सुशक्तं कर्तुमेव अयं प्रक्रमः।  टिबट्ट् देशीयानां युवकानां चीनं प्रति सहकारित्वं परीक्षणनिरीक्षणेन दृढीकृत्यैव सेनायां निवेशनमिति इन्ट्या टुडे वार्तामाध्यमेन आवेदितम्। यथार्थ नियन्त्रणरेखासु सैनिकसानिध्यं संवर्धयितुं प्रतिकुटुम्बात् एकैकं युवानं सैन्ये निवेशयितुं चीनेषु परियोजना समारब्धा इत्येव प्रतिवेदनम्। भारतस्य यथार्थनियन्त्रणरेखायामेव स्थिररूपेण तेषां विन्यासः। तेषां कृते दीयमानं सैनिकशिक्षणमपि अस्यां प्रविश्यायां सीमारक्षणम् आधारीकृत्यैव भविष्यति इत्यपि प्रतिवेद्यते।

Friday, July 30, 2021

 पलास्तिक-मालिन्यानि उपयुज्य भारतेन ७०३ कि. मी दूरं राष्ट्रियमार्गः निर्मितः

नवदिल्ली> पलास्तिकमालिन्यानि उपयुज्य भारते ७०३ कि. मी दुरं राजकीयमार्गः निर्मितः। केन्द्र-यातायात-राजकीयमार्ग-विभागस्य मन्त्रिणा निधिन गड्गरिणा मन्त्रिसभायां प्रतिवेदितमिदम्।

   राजकीयमार्गस्य निर्माणे 'टार्' संयुक्तेन सह पलास्तिकमालिन्यान्यपि उपयोक्तव्यानि इति सर्वकारेण आदेशः प्रदत्तः अस्ति इति गड्करिणा उक्तवान्। पञ्चलक्षाधिका जनसंख्या यस्मिन् नगरे विद्यते तस्मिन् प्रदेशे ५० किलो मीट्टर् परिमितौ वृत्तपरिधौ पलास्तिकमालिन्यानि विशालमार्गनिर्माणाय उपयोक्तव्यानि इति मार्गनिर्माणनिर्देशे अस्ति इत्यपि तेनोक्तम्। २०१६ तम संवात्सरात् आरभ्य अयं निर्देशः प्रबलतया अस्ति। टार् संयुक्ते ६% तः ८% पर्यन्तं भागाःपलास्तिकस्य   भवन्ति। अनेन पलास्तिकेन जातान् दोषान् न्यूनीकर्तुं शक्यते। इदानीं ११ राज्येषु मार्गनिर्माणाय पलास्तिकमालिन्यानि उपयुज्यन्ते।

Thursday, July 29, 2021

 विलम्बो न भविष्यति। आगामिनि संवत्सरे चन्द्रयान् ३ विक्षेप्तुं ऐ एस् आर् ओ संस्थया योजना आविष्कृता। 

नवदिल्ली> कोविड् १९ रोगव्यापनहेतुना विलम्बायितं चन्द्रयान् ३ दौत्यं पूर्तीकर्तुं ऐ एस् आर् ओ संस्था सुसज्जा अभवत् ।२०२२ संवत्सरस्य तृतीयपादे विक्षेपणं कर्तुमेव ऐ एस् आर् ओ संस्थायाः लक्ष्यम् । ऐ एस् आर् ओ दौत्याय प्रक्रमाः प्रगतिं आप्नुवन्ति इति नूतन समयक्रमं प्रकाशयन् वैज्ञानिकप्रौद्योगिकमन्त्रिणा डो जितेन्द्रसिंहेन उक्तम्। चन्द्रयान् ३ अस्मिन् संवत्सरे विक्षेप्तुमेव पूर्वं निश्चितम्। अप्रतीक्षिततया जातेन कोविड् १९ व्यापनेन तथा पिधानेन एव चन्द्रयान् ३ विक्षेपणं विलम्बायितम् ।

 जम्मूकाश्मीरेषु हिमाचलप्रदेशेषु च मेघविस्फोटे षोडशजनाः मारिताः। बहवः जनाः व्रणिताश्च।

श्रीनगरम्> जम्मूकाश्मीरेषु किष्त्वार् तथा हिमाचलप्रदेशे लाहोल् - स्पिति प्रदेशे च जातेषु मेघस्फोटेषु षोडश  जनाः मारिताः विंशति जनाः व्रणिताश्च। अतिवृष्ट्यां होन्सार् ग्रामे षट् संख्याकानि गृहाणि च निपतिताः। रक्षाप्रवर्तनाय भारतीय सैन्यान् तथा दुरन्तनिवारणसेनाः च विन्यस्ताः। अवशिष्टाभ्यः सप्त मृतशरीराणि च  प्रत्यग्रहीताः । द्वादश जनाः अवशिष्टेषु अप्रत्यक्षाः जाताः इति सन्देहः अस्ति। प्रभाते जलाशयेषु जलोपप्लवः अभवत्। ग्रामजनाः सर्वे निद्रायां निमग्नाः आसन्। अत एव मरणसंख्या अधिका जाता। प्लावितगृहाणि सर्वाणि जलाशयसमीपवर्तिन्यः आसन्।

 कर्णाटके नूतनः मुख्यमन्त्री - बसवराजबोम्मे पदं प्राप्तवान्। 

 बेङ्गलुरु> कर्णाटकराज्यस्य २६तममुख्यमन्त्रिरूपेण भाजपादलनेता बसवराजबोम्मे इत्याख्यः शपथवाचनं कृत्वा पदं प्राप्तवान्। राजभवनस्य 'ग्लास् हौस्' मध्ये आयोजिते कार्यक्रमे राज्यपालः तावर्चन्द् गहलोटः शपथवाचनं कारितवान्। 

   २०१९तमे  मुख्यमन्त्रिपदं प्राप्तवान्  यद्यूरप्पः शासनदले सञ्जातेन कलहेन गतदिने त्यागपत्रं समर्पितवानासीत्।

Wednesday, July 28, 2021

 कोविड्व्यापनं २२ जनपदेषु अतितीव्रं भवति। 

  नवदिल्ली> केरलं समेत्य भारतस्य विविधराज्यानां २२ जनपदेषु कोविड्व्यापनम् अतितीव्रं वर्तते इति नीतिआयोगस्य सदस्यः डो.वि के पोल् वर्यः न्यवेदयत्। तीव्रव्यापनजनपदेषु सप्त केरले वर्तन्ते। अन्ये १५ जनपदाः उत्तरपूर्वीयराज्येषु भवन्ति। 

    केरलस्य कोविड्व्यापने नूतनतरङ्गस्य काचित् सूचना शङ्कत इति डो. पोलवर्येण उक्तम्। तत्र एकस्मात् कोविड्रोगिणः १.२ पुरुषं विषाणुः व्याप्यते। विषाणोः व्यापनमानमपि केरले अधिकाधिकमिति तेनोक्तम्।

Tuesday, July 27, 2021

 अर्जन्टीनेषु तटाकस्य वर्णः  पाटलः अभवत्। जनाः आशङ्काकुलाः जाताः।

   ट्रेल्यू /अर्जन्टीना> अर्जन्टीनेषु दक्षिणपाट्टगोणिया प्रविश्यस्थः एकः तटाकः पूर्णतया पाटलवर्णमभवत्। एषा काचित् आपत्सूचना इति वैज्ञानिकाः अभिप्रयन्ति। गङ्गाटोपस्य (Prawn नाम मत्स्यविशेषः) विदेशान् प्रति प्रेषणसमये कपूयता अथवा शीर्णता न स्यात् इति उद्दिश्य उपयुज्यते किंचित् रासवस्तु। तस्य प्रभावेण मलिनीकरणमिदम् अभवत् इति वैज्ञानिकाः तथा परिस्थितिसंरक्षण-प्रवर्तकाः च वदन्ति। मत्स्यसंस्करणशालासु उपयुज्यमानस्य सोडियं सल्फैट्ट् नाम लवणस्य सान्निध्येनैव तटाकजलं पाटलायितमिति ऊह्यते। कोर्फो तटाकः तथा प्रदेशे विद्यमाना नि अन्यानि जलस्रोतांसि च  स्वस्य जलप्रवाहेन सम्पुष्टीक्रियते चुबट्ट् नदिना। अनया नद्या द्वारा सर्वत्र मालिन्यस्य प्लावनम् अभवत्। एतदेव अस्य तटाकस्य एतादृश्याः अवस्थायाः कारणत्वेन परिस्थितिसंरक्षकाः वदन्ति।

Monday, July 26, 2021

 प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। 

 प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान्  एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक  मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्'  इति नाम्ना आकाशवाण्या कृत-प्रतिमासिक-प्रभाषणपरम्परायाम् एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन्  नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।

 अतिवृष्टिदुष्प्रभावः - महाराष्ट्रे मरणानि १३८। 

मुम्बई> चतुर्दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या ततः उपपन्नेन जलोपप्लवेन च महाराष्ट्रे १३८ जनाः मृत्युमुपगताः। ५३ जनाः अदृष्टाः अभवन्। 

   वृष्टिदुष्प्रभावेण राज्ये गतदिवसेषु पञ्चसु स्थानेषु मृत्स्खलनमभवत्। उपपञ्चाशत् भवनानि विनाशितानि। ततः ८९ मृतशरीराणि दुरन्तनिवारणसेनया अधिगतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, July 25, 2021

 बालकानां कृते कोवाक्सिनं - परीक्षणफलं सेप्टम्बरमासे। 

नवदिल्ली> बालकेभ्यः भारतबयोटेक् संस्थया सज्जीक्रियमाणस्य कोवाक्सिनं प्रत्यौषधस्य परीक्षणफलानि सेप्टम्बरमासे लप्स्यन्ते इति 'एयिंस्'संस्थायाः निदेशकः डो. रणदीपगुलेरियः न्यवेदयत्। 

  परीक्षणानि पुरोगम्यन्ते। अधिकारिभिः अङ्गीक्रियन्ते चेत् सोपानत्रयमालक्ष्य १२-१८, ६-१२, २-६ वयस्केभ्यः बालकेभ्यः वाक्सिनवितरणं सम्पत्स्यतीति सः अवदत्। भारतबयोटेकं विना १२-१८वयस्केभ्यः वाक्सिनवितरणाय 'सैडस् काडिला' नामिका संस्थापि अनुमतिं प्रतीक्षमाणा वर्तते इति डो. रणदीपेनोक्तम्।

 वयोधिकेषु कोविड् प्रतिरोधक्षमतायुक्तांशः न्यूनः इति अध्ययनफलम्।


वाषिङ्टण्> वयोधिकेषु जनेषु कोविड् १९  वैराणुं प्रतिरोद्धुं क्षमतायुक्तांशः न्यूनः इति 'ओरिगण् हेल्त् आन्ट् सयन्स्' विश्वविद्यालयस्य वैज्ञानिकैः कृताध्ययनात् अवगम्यते। प्रतिरोधसूच्यौषधं स्वीकृते अपि तेषां वृद्धानां स्थितिः न सुरक्षिता इति एते अभिप्रयन्ति। अमेरिकायाः वैद्यसंघातस्य पत्रिकायाम्  प्रतिवेदनमिदं प्रकाशितं वर्तते। फैसर् वाक्सिनस्य द्वितीयमात्रां स्वीकृत्य सप्ताहद्वयम् अतीतेषु ५० जनेषु  आसीत् अध्यनम्। जना वयोभेदानुसारं श्रेणीकृत्य एव अध्ययनं प्रचालितम्। 

  वृद्धानपेक्षया युवकेषु सप्तगुणितः प्रतिरोधक्षमतांशः अस्ति इति अध्ययनप्रतिवेदनेन  स्फुटीक्रियते। तथापि सर्वेभ्यः रोगतीव्रतायां न्यूनत्वं दातुं प्रतिरोधौषधं शक्तं भवति इति प्रतिवेदने दृढीकृतं वर्तते। 

Saturday, July 24, 2021

चीनराष्ट्रे जातः प्रलयः भारताय मार्गदर्शकः भवेत् इति वैज्ञानिकाः।


देहरादूण्> प्रकृतिदुरन्तान् निवारयितुं भारतेन ऊर्जोत्पादकनयेषु परिवर्तनानि आनेतव्यानि इति वैज्ञानिकैः निगदितम्। चीनदेशे जातः प्रलयः भारताय जाग्रतासूचना एवेति वैज्ञानिकाः अभिप्रयन्ति। गतसहस्रसंवत्सराभ्यन्तरे जातासु अतिवृष्टिषु अतिविपुला भवति इयम्।  चीनादेशे सेण्ट्रल् हेन्नान् प्रविश्यायां भवति  घटनेयम्।  अतिवृष्ट्या जातेन प्रलयेन बहूनां जनानां जीवापायः अभवत्। सहस्रशः जनाः अन्यत्र नीतवन्तः च। बहवः सेतवः जलसंभरण्यः च जलसंभरणक्षमतां अतिक्रान्ताः।  जलाप्लावितनदीभ्यः जलं प्रवाहमार्गेषु व्यत्ययं कृत्वा  जलोपप्लवं नियन्त्रणाधीनं कर्तुं सैनिकाः प्रयतन्ते।

Friday, July 23, 2021

भारतसर्वकारेण एयर् इन्ड्यायाः सर्वकारस्वामित्वं त्यक्त्तुं प्रक्रमाः त्वरितवेगेन स्वीकृताः। 

  नवदिल्ली> एयर् इन्ट्यायाः सम्पूर्णतया  निजीयवत्करणप्रक्रमाः अतिवेगेन प्रवृत्तिपथमानेष्यति इति सिविल् एवियेषन् सहमन्त्रिणा विजयकुमारसिंहेन विधानसभायाम् आवेदितम्। सेप्तंबर् मासस्य पञ्चदशतमदिनाम्यन्तरे  अंशभागानां सघोषणविक्रयणं संपूर्णं करिष्यति इत्येव केन्द्रसर्वकारस्य विचारः। एयर् इन्ड्यायाः तथा एयर् एक्प्रसस्य च प्रतिशतं १०० अंशभागस्य तथा संयुक्तसंरभकस्य ए ऐ एस् ए टि एस् संस्थायाः च प्रतिशतं ४० अंशभागस्य च विक्रयं करिष्यति। अंशभागविक्रयं आकर्षकं कर्तुं विमान-संस्था-संबन्धिनां षोडश वस्तूनां संरक्षितधनेषु प्रतिशतं दश इति न्यूनीकृत्य समाश्वास रूपेण दास्यति इत्यपि मन्त्रिणा प्रोक्तम्। एतेषां सघोषविक्रयणं (auction) पूर्वं पराजिते सन्दर्भे एव एषः प्रक्रमः।

Thursday, July 22, 2021

 डि आर् डि ओ संस्थया सम्पुष्टीकृतस्य स्वदेशीयस्य 'टाङ्क्' वेध अग्निसायकस्य प्रयोगपरीक्षणं विजयप्रदम् अभवत्।

नवदिल्ली> भारतीयप्रतिरोधमन्त्रालयस्य स्वाधीने वर्तमानस्य रक्षा अनुसन्धानम् एवं विकास सङ्गठनस्य (डि आर् डि ओ) स्वदेशीयरूपेण सम्पुष्टीकृतस्य 'टाङ्क्' वेध -मार्गदर्शकाग्निसायकस्य ( ए टि जि एम् ) प्रयोगपरीक्षणं विजयप्रदम् अभवत्। एतत् भारतीयसैन्यस्य आत्मविश्वासं संवर्धयितुं सहायकमभवत् इति डि आर् डि ओ संस्थया आवेदितम्। स्वयं लक्ष्यप्रापण-प्रौद्योगिकविद्या, तथा मितभारत्वम् इत्यादि विशेषतायुक्तम् अग्निसायकमेव विक्षिप्तम् इति डि आर् डि ओ संस्थाम् उद्धृत्य ए एन् ऐ वार्तासंघेन आवेदितम्। टाङ्क्'वेध अग्निसायकम् अयथार्थ टाङ्क् मध्ये सूक्ष्मतया पातयित्वा तत् विनाशयत् इति डि आर् डि ओ संस्थया प्रोक्तम्।

 'टोक्यो ओलिम्पिक्स्' आरब्धम् ; उद्घाटनकार्यक्रमः अद्य। 

टोक्यो> कोविड्कारणात् गतसंवत्सरे परिवर्तितः ३२ तमः ओलिम्क्स् कायिकक्रीडामहामहः ह्यः जापानदेशे आरब्धः। जापानं विना आस्ट्रेलिया अपि आतिथेयत्वमावहति। प्रेक्षकाणां प्रवेशः नास्ति। उद्घाटनकार्यक्रमे चितानां सहस्रं विशिष्टजनानां प्रवेशः विहितः। 

   टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रथमस्पर्था जापान-आस्ट्रेलिययोः मिथः संवृत्ता मृदुकन्दुकक्रीडा आसीत्। ८ - १ लक्ष्यक्रमेण जापानदेशः विजयं प्राप्तवान्।