OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 26, 2021

 प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। 

 प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान्  एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक  मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्'  इति नाम्ना आकाशवाण्या कृत-प्रतिमासिक-प्रभाषणपरम्परायाम् एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन्  नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।

 अतिवृष्टिदुष्प्रभावः - महाराष्ट्रे मरणानि १३८। 

मुम्बई> चतुर्दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या ततः उपपन्नेन जलोपप्लवेन च महाराष्ट्रे १३८ जनाः मृत्युमुपगताः। ५३ जनाः अदृष्टाः अभवन्। 

   वृष्टिदुष्प्रभावेण राज्ये गतदिवसेषु पञ्चसु स्थानेषु मृत्स्खलनमभवत्। उपपञ्चाशत् भवनानि विनाशितानि। ततः ८९ मृतशरीराणि दुरन्तनिवारणसेनया अधिगतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, July 25, 2021

 बालकानां कृते कोवाक्सिनं - परीक्षणफलं सेप्टम्बरमासे। 

नवदिल्ली> बालकेभ्यः भारतबयोटेक् संस्थया सज्जीक्रियमाणस्य कोवाक्सिनं प्रत्यौषधस्य परीक्षणफलानि सेप्टम्बरमासे लप्स्यन्ते इति 'एयिंस्'संस्थायाः निदेशकः डो. रणदीपगुलेरियः न्यवेदयत्। 

  परीक्षणानि पुरोगम्यन्ते। अधिकारिभिः अङ्गीक्रियन्ते चेत् सोपानत्रयमालक्ष्य १२-१८, ६-१२, २-६ वयस्केभ्यः बालकेभ्यः वाक्सिनवितरणं सम्पत्स्यतीति सः अवदत्। भारतबयोटेकं विना १२-१८वयस्केभ्यः वाक्सिनवितरणाय 'सैडस् काडिला' नामिका संस्थापि अनुमतिं प्रतीक्षमाणा वर्तते इति डो. रणदीपेनोक्तम्।

 वयोधिकेषु कोविड् प्रतिरोधक्षमतायुक्तांशः न्यूनः इति अध्ययनफलम्।


वाषिङ्टण्> वयोधिकेषु जनेषु कोविड् १९  वैराणुं प्रतिरोद्धुं क्षमतायुक्तांशः न्यूनः इति 'ओरिगण् हेल्त् आन्ट् सयन्स्' विश्वविद्यालयस्य वैज्ञानिकैः कृताध्ययनात् अवगम्यते। प्रतिरोधसूच्यौषधं स्वीकृते अपि तेषां वृद्धानां स्थितिः न सुरक्षिता इति एते अभिप्रयन्ति। अमेरिकायाः वैद्यसंघातस्य पत्रिकायाम्  प्रतिवेदनमिदं प्रकाशितं वर्तते। फैसर् वाक्सिनस्य द्वितीयमात्रां स्वीकृत्य सप्ताहद्वयम् अतीतेषु ५० जनेषु  आसीत् अध्यनम्। जना वयोभेदानुसारं श्रेणीकृत्य एव अध्ययनं प्रचालितम्। 

  वृद्धानपेक्षया युवकेषु सप्तगुणितः प्रतिरोधक्षमतांशः अस्ति इति अध्ययनप्रतिवेदनेन  स्फुटीक्रियते। तथापि सर्वेभ्यः रोगतीव्रतायां न्यूनत्वं दातुं प्रतिरोधौषधं शक्तं भवति इति प्रतिवेदने दृढीकृतं वर्तते। 

Saturday, July 24, 2021

चीनराष्ट्रे जातः प्रलयः भारताय मार्गदर्शकः भवेत् इति वैज्ञानिकाः।


देहरादूण्> प्रकृतिदुरन्तान् निवारयितुं भारतेन ऊर्जोत्पादकनयेषु परिवर्तनानि आनेतव्यानि इति वैज्ञानिकैः निगदितम्। चीनदेशे जातः प्रलयः भारताय जाग्रतासूचना एवेति वैज्ञानिकाः अभिप्रयन्ति। गतसहस्रसंवत्सराभ्यन्तरे जातासु अतिवृष्टिषु अतिविपुला भवति इयम्।  चीनादेशे सेण्ट्रल् हेन्नान् प्रविश्यायां भवति  घटनेयम्।  अतिवृष्ट्या जातेन प्रलयेन बहूनां जनानां जीवापायः अभवत्। सहस्रशः जनाः अन्यत्र नीतवन्तः च। बहवः सेतवः जलसंभरण्यः च जलसंभरणक्षमतां अतिक्रान्ताः।  जलाप्लावितनदीभ्यः जलं प्रवाहमार्गेषु व्यत्ययं कृत्वा  जलोपप्लवं नियन्त्रणाधीनं कर्तुं सैनिकाः प्रयतन्ते।

Friday, July 23, 2021

भारतसर्वकारेण एयर् इन्ड्यायाः सर्वकारस्वामित्वं त्यक्त्तुं प्रक्रमाः त्वरितवेगेन स्वीकृताः। 

  नवदिल्ली> एयर् इन्ट्यायाः सम्पूर्णतया  निजीयवत्करणप्रक्रमाः अतिवेगेन प्रवृत्तिपथमानेष्यति इति सिविल् एवियेषन् सहमन्त्रिणा विजयकुमारसिंहेन विधानसभायाम् आवेदितम्। सेप्तंबर् मासस्य पञ्चदशतमदिनाम्यन्तरे  अंशभागानां सघोषणविक्रयणं संपूर्णं करिष्यति इत्येव केन्द्रसर्वकारस्य विचारः। एयर् इन्ड्यायाः तथा एयर् एक्प्रसस्य च प्रतिशतं १०० अंशभागस्य तथा संयुक्तसंरभकस्य ए ऐ एस् ए टि एस् संस्थायाः च प्रतिशतं ४० अंशभागस्य च विक्रयं करिष्यति। अंशभागविक्रयं आकर्षकं कर्तुं विमान-संस्था-संबन्धिनां षोडश वस्तूनां संरक्षितधनेषु प्रतिशतं दश इति न्यूनीकृत्य समाश्वास रूपेण दास्यति इत्यपि मन्त्रिणा प्रोक्तम्। एतेषां सघोषविक्रयणं (auction) पूर्वं पराजिते सन्दर्भे एव एषः प्रक्रमः।

Thursday, July 22, 2021

 डि आर् डि ओ संस्थया सम्पुष्टीकृतस्य स्वदेशीयस्य 'टाङ्क्' वेध अग्निसायकस्य प्रयोगपरीक्षणं विजयप्रदम् अभवत्।

नवदिल्ली> भारतीयप्रतिरोधमन्त्रालयस्य स्वाधीने वर्तमानस्य रक्षा अनुसन्धानम् एवं विकास सङ्गठनस्य (डि आर् डि ओ) स्वदेशीयरूपेण सम्पुष्टीकृतस्य 'टाङ्क्' वेध -मार्गदर्शकाग्निसायकस्य ( ए टि जि एम् ) प्रयोगपरीक्षणं विजयप्रदम् अभवत्। एतत् भारतीयसैन्यस्य आत्मविश्वासं संवर्धयितुं सहायकमभवत् इति डि आर् डि ओ संस्थया आवेदितम्। स्वयं लक्ष्यप्रापण-प्रौद्योगिकविद्या, तथा मितभारत्वम् इत्यादि विशेषतायुक्तम् अग्निसायकमेव विक्षिप्तम् इति डि आर् डि ओ संस्थाम् उद्धृत्य ए एन् ऐ वार्तासंघेन आवेदितम्। टाङ्क्'वेध अग्निसायकम् अयथार्थ टाङ्क् मध्ये सूक्ष्मतया पातयित्वा तत् विनाशयत् इति डि आर् डि ओ संस्थया प्रोक्तम्।

 'टोक्यो ओलिम्पिक्स्' आरब्धम् ; उद्घाटनकार्यक्रमः अद्य। 

टोक्यो> कोविड्कारणात् गतसंवत्सरे परिवर्तितः ३२ तमः ओलिम्क्स् कायिकक्रीडामहामहः ह्यः जापानदेशे आरब्धः। जापानं विना आस्ट्रेलिया अपि आतिथेयत्वमावहति। प्रेक्षकाणां प्रवेशः नास्ति। उद्घाटनकार्यक्रमे चितानां सहस्रं विशिष्टजनानां प्रवेशः विहितः। 

   टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रथमस्पर्था जापान-आस्ट्रेलिययोः मिथः संवृत्ता मृदुकन्दुकक्रीडा आसीत्। ८ - १ लक्ष्यक्रमेण जापानदेशः विजयं प्राप्तवान्।

Wednesday, July 21, 2021

 क्रीडाक्षेत्रमिव बृहदाकारवान् छिन्नग्रहः जूलाय् मासे २४ तमे दिनाङ्के भूसमीपेन गमिष्यति इति नासा संस्था।

नवदिल्ली> २००८ जि ओ २० नाम छिन्नग्रहः जूलाय् मासस्य चतुर्विशतितमे दिनाङ्के भूसमीपेन गमिष्यति इति अमेरिक्कादेशस्य नासा संस्थया आवेदितम्। एतस्य छिन्नग्रहस्य एकस्य क्रीडाक्षेत्रस्य वा अथवा ताज्महलस्य त्रिगुणीकृतमितः वा तुल्यः बृहदाकारः भवति। होरायां १८००० किलोमीट्टर् वेगेन एषः भूसमीपमागच्छति इति नासा संस्थया आवेदितम्। अप्पोलो क्लास् विभागे अन्तर्गतं भवति छिन्नग्रहोऽयम्। अस्य सञ्चारपथमधिकृत्य आशङ्कायाः आवश्यकता नास्ति इति नासा संस्थया आवेदितम्। भूमेः अतिनिकटम् आगमिष्यति तथापि ०.०४ आस्ट्रोणमिक् एककं (३,७१८.२३२ मैल्) दूरे एव छिन्नग्रहः भविष्यति। भूमेः २,३८,६०६ मैल् परिमिते दूरे एव चन्द्रस्य स्थानम्।

 आमसोण् अध्यक्षःजेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति।

  वाषिङ्टण्> बाह्याकाशपर्यटनम् आलक्ष्य यात्रा न समाप्यते। शतकोटीश्वरः ब्रान्सण् महोदयः बाह्याकाशं गत्वा प्रत्यागमनानन्तरं आमसोण् अध्यक्षः जेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति। स्वस्य ब्लू ओरिजिन् नाम संघस्य आकाशबाणे सः अद्य बाह्याकाशपर्यटनं करिष्यति। चन्द्रे मनुष्यस्य प्रथमपदक्षेपस्य ५२ तमे वार्षिके एव जेफ् बेसोसः संघः च बाह्याकाशपर्यटनं करोति इति विशेषता च यात्रायाः अस्ति।१९६९ तमे वर्षे जूलाय् मासस्य  विंशतितमदिने एव मानवः प्रथमतया 

चन्द्रे पदक्षेपः कृतः। बाह्याकाश-पर्यटनसाध्यताः संवर्धनीयाः इत्येतदेव यात्रायाः लक्ष्यः। यूरि गगारिनः एव प्रथमतया बाह्याकाशं प्राप्तवान्। इदानीन्तनानि पर्यटनानि केवलं प्रतियोगितायै न। किन्तु भाविनि परम्परायाः बाह्याकाशयात्रां सुकरं कर्तुमेव इति जेफ् बेसोसेन प्रोक्तम्।

 कोविड् न्यूनीभूतम् - तमिलनाड् सामान्यस्थितिं प्राप्नोति। 

चेन्नै> तमिल्नाट् राज्ये कोविड्रोगव्यापनं न्यूनीभूतमित्यतः  राज्यस्य जनजीवनव्यवहारादिव्यवस्थाः पूर्वस्थितिं प्राप्नुवन्ति। पिधानानि लाघवं प्राप्तानि, रेल् यानानि लोकयानानि च समेत्य यात्रासुविधाः सुकराः भूताः च। किन्तु केरलान् प्रति यात्रासेवाः नारब्धाः। 

  विवाहादिषु आघोषेषु ५० पर्यन्तं, मरणकार्यक्रमेषु २० पर्यन्तं च जनानां भागभागित्वम् अनुमोदितम्। परिमितसंख्याकान् जनानुपयुज्य चलच्चित्र धारावाहिक चित्रीकरणानि प्रचालयितुं शक्यन्ते।

Tuesday, July 20, 2021

 उत्तराखण्डे मेघविस्फोटे त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्।

      दहरादूण्>  उत्तराखण्डे मेघविस्फोटेन जातेन अतिवर्षेण जलोपप्लवेन च त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्। उत्तरकाशीजिल्लायामेव दुरन्तः जातः। अतिवर्षेण माण्डो ग्रामे बहूनि भवनानि जले निमग्नानि। अप्रत्येक्षु द्वौ स्त्रियौ, एकः पुरुषः, एकः शिशुः च अन्तर्भवन्ति इति राज्य-आपदा-प्रतिक्रिया-सेनायाः (State Disaster Response Force) निरीक्षकेन जगदम्बा प्रसादेन प्रोक्तम्। अपघातप्रदेशे रक्षाप्रवर्तनानि अनुवर्तन्ते। उत्तरखण्डे जूलाय् २१ तमदिनपर्यन्तं अतिवृष्टिः भविष्यति इति पर्यावरणनिरीक्षककेन्द्रेण पूर्वसूचना दत्ता। पश्चिमतीरे जूलाय् २३ तमपर्यन्तं अतिवृष्टिः भविष्यति। गतसप्ताहे उत्तरकाश्यां अतिवृष्टिकारणेन जातस्य मृत्स्खलनेन राजमार्गे गमनागमनं रुद्धमासीत्।

Monday, July 19, 2021

पर्यावरणे व्यत्ययः - उत्तरध्रुवे असाधारणघटनारूपेण वातः सौदामिनी च।

     अलास्क> वैज्ञानिकान् अत्भुतपरतन्त्रान् कृत्वा उत्तरध्रुवे असाधारण-घटनारूपेण वातः सौदामिनी च। ईदृशीघटना इतः पूर्वं न आसीत् इति वैज्ञानिकैः उच्यते। प्रायेण उत्तरध्रुवे सैदामिन्याः वातस्य च सन्दर्भः नास्ति। पर्यावरणव्यत्ययेन अन्तरिक्षे तापः वर्धितः इत्यनेन भवति ईदशी दुर्घटना इति ते अभिप्रयन्ति। सेबीरियातः अलास्क पर्यन्तं दीर्घितम् उत्तरध्रुवं सामान्येन हिमावृतं भवति। तत्र सैदामिनेः साध्यतालेशोऽपि  नास्ति। किन्तु २०१० संवत्सरादारभ्य ग्रीष्मकाले सौदामिनिप्रभावः दृश्यते। इदानीम् अस्याः शक्तिः व्याप्तिः च वर्धिते स्तः। अन्तरिक्षे तापः वर्धितः इत्यनेन विद्युद्प्रवाहक्षमा अभवत् वायुः इति वैज्ञानिकाः वदन्ति। 
 वर्तमाने अस्मिन् संवत्सरे सैबीरियायां वनाग्निकारणेन ग्रीस् देशात् विस्तृतः भूप्रदेशः भस्मसात् अभूत्। सैबीरिया इदानीं पर्यावरण उष्णबिन्दुरूपेण परिवर्तते इति ग्रीन् 'पीस् रष्यया' आवेदितम्।

अफ्गाने पाकिस्थानीयतालिबानेन भारतीयचिह्नानां विनाशनम् आलक्ष्यते। 


    नवदिल्ली> अफ्गानिस्थाने भारतनिर्मितवस्तूनां नाशं लक्ष्यीकर्तुं तालिबाने सम्मिलितान् पाकिस्थानस्य योद्धृन् प्रति निर्देशः अदात्। पाकिस्थानस्य गुप्तचरसंघटनेन ऐ एस् ऐ ( inter services intelligence)दलेन निर्देशो दत्तः इत्यस्ति आवेदनम्। अफ्गानिस्थानदेशस्थस्य भारतीयचिह्नानां नाशनमेव लक्ष्यम् इति वार्ताप्रतिनिधिसंघेन आवेदितम्। गतद्विदशकाभ्यन्तरे भारतीयसर्वकारेण अफ्गानिस्थानस्य पुनर्निमाणाय त्रि अर्बुदं (बिल्यन् ) डोलर् धनं व्ययीकृतम् आसीत्। डेलारामस्थे सरञ्च् सल्म सेतोः च मिथः २१८ किलोमीट्टर् यानमार्गस्य कृते भारतेन निक्षेपः कृतः। २०१५ तमे वर्षे उद्घाटितं विधानसभागृहं अफ्गानजनतायाः कृते भारतस्य योगदानस्य अमूल्यप्रतीकं भवति।

Sunday, July 18, 2021

 शबरिगिरिमन्दिरे प्रतिदिनं १०००० भक्तेभ्यः भगवद्दर्शनाय अनुज्ञा।

पत्तनंतिट्टा/केरलम्> कर्कटक-मासपूजावेलायां शबरिगिरि-मन्दिरे प्रतिदिनं १०,००० भक्तेभ्यः प्रवेशाय अनुमतिः। मन्दिरद्वारोद्घाटनवेलायां जूलाय् २१ दिनपर्यन्तं प्रनिदिनं १०,००० भक्तेभ्यः भगवद्दर्शनाय अनुमतिः प्रदत्ता। Vertual queue booking द्वारा एव प्रवेशनम्। दर्शनाय आगताः भक्ताः ४८ होराभ्यन्तरे गृहीतं कोविड् आर् टि पि सि आर् रोगनिर्णयस्य अभावात्मक प्रमाणपत्रम् अथवा वाक्सिनस्य पूर्णमात्रास्वीकृतप्रमाणपत्रं वा नेतव्यमस्ति।

 मन्त्रणसभायाः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतस्य उभयोः मन्त्रणसभयोः -लोकसभाराज्यसभयोः वर्षाकालसम्मेलनं श्वः आरभ्यते। कोविडनुशीलनानि परिपाल्य आयोजिते सम्मेलने वार्तामाध्यमानां कृते विहितं नियन्त्रणमनुवर्तिष्यते। सन्दर्शकेभ्यः निरोधः अस्ति। 

   आगस्टमासस्य १३ तमदिनाङ्कपर्यन्तम् अनुवर्तमाने सम्मेलने प्राक्तनानि नूतनानि च समेत्य २७ विधेयकानि उत्तीर्णं गम्यमानानि सन्ति।

 'विकास' यन्त्रपरीक्षा विजयं प्राप्ता। ऐ एस् आर् ओ, इलोण् मस्केन अभिनन्दितम्।


नवदिल्ली> भारतीय बहिराकाश-अनुसन्धान-सङ्घटनायै इलोण् मस्कः अभिनन्दनं दत्तवान्। मानवं बाह्याकाशं नेतुम् अयोक्ष्यमानायां गगनयान परियोजनायै निर्मितं विकासयन्त्रस्य तृतीयपरीक्षा विजयपथं प्राप्तम् इति कारणेन भवति इलोण् मस्कस्य अभिनन्दनम्। अमेरिक्कायाः निजीयबाह्याकाश अनुसन्धानसंस्था इति प्रथितायाः स्पेस् एक्स् इत्यस्याः तथा याननिर्माण संस्थायाः टस्ले इत्यस्याः च अध्यक्षः भवति मस्कः। ट्विटर् माध्यमेन आसीत् तस्य अभिनन्दनम्। २०२१ डिसम्बर् मासे विक्षेपणयानस्य मनुष्यरहितपरीक्षा निर्वोढुम् भारतीय बहिराकाश-अनुसन्धान-सङ्घटनेन (ऐ एस् आर् ओ) निश्चिता।

Saturday, July 17, 2021

 कोविषील्ड् नाम प्रतिरोधौषधस्य अङ्गीकाराय प्रर्थनापत्रं न लब्धम् इति यूरोपीय -औषधप्रतिनिधिसंघेन आवेदितम्।


   नवदिल्ली> कोविषील्ड् प्रतिरोधौषधस्य यूरोपीय संयुक्तराष्ट्रस्य (European union) अङ्गीकाराय सीरम् इन्स्टिट्यूट् ओफ् इन्ट्या संस्थायाः प्रार्थनापत्रं इतःपर्यन्तं न लब्धम् इति यूरोपीय - ओषधप्रतिनिधिसंघेन वार्तामेलने (EMI ) आवेदितम्। यूरोपीय संयुक्तराष्ट्रस्य अङ्गीकाराय कोविषील्ड् उत्पादकैः यूरोपीय - औषधप्रतिनिधिसंघाय औद्योगिकरूपेण प्रार्थनापत्रं दातव्यमस्ति।। यूरोपीय अङ्गराष्ट्रेषु यात्रां कर्तुं फैसर्, मोडेण, अस्ट्रा सेनेक्का, जोण्सण् आन्ट् जोण्सण् इत्येते वाक्सिनः एव यूरोपीय - औषधप्रतिनिधिसंघेन अङ्गीकृताः।