OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 21, 2021

 क्रीडाक्षेत्रमिव बृहदाकारवान् छिन्नग्रहः जूलाय् मासे २४ तमे दिनाङ्के भूसमीपेन गमिष्यति इति नासा संस्था।

नवदिल्ली> २००८ जि ओ २० नाम छिन्नग्रहः जूलाय् मासस्य चतुर्विशतितमे दिनाङ्के भूसमीपेन गमिष्यति इति अमेरिक्कादेशस्य नासा संस्थया आवेदितम्। एतस्य छिन्नग्रहस्य एकस्य क्रीडाक्षेत्रस्य वा अथवा ताज्महलस्य त्रिगुणीकृतमितः वा तुल्यः बृहदाकारः भवति। होरायां १८००० किलोमीट्टर् वेगेन एषः भूसमीपमागच्छति इति नासा संस्थया आवेदितम्। अप्पोलो क्लास् विभागे अन्तर्गतं भवति छिन्नग्रहोऽयम्। अस्य सञ्चारपथमधिकृत्य आशङ्कायाः आवश्यकता नास्ति इति नासा संस्थया आवेदितम्। भूमेः अतिनिकटम् आगमिष्यति तथापि ०.०४ आस्ट्रोणमिक् एककं (३,७१८.२३२ मैल्) दूरे एव छिन्नग्रहः भविष्यति। भूमेः २,३८,६०६ मैल् परिमिते दूरे एव चन्द्रस्य स्थानम्।

 आमसोण् अध्यक्षःजेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति।

  वाषिङ्टण्> बाह्याकाशपर्यटनम् आलक्ष्य यात्रा न समाप्यते। शतकोटीश्वरः ब्रान्सण् महोदयः बाह्याकाशं गत्वा प्रत्यागमनानन्तरं आमसोण् अध्यक्षः जेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति। स्वस्य ब्लू ओरिजिन् नाम संघस्य आकाशबाणे सः अद्य बाह्याकाशपर्यटनं करिष्यति। चन्द्रे मनुष्यस्य प्रथमपदक्षेपस्य ५२ तमे वार्षिके एव जेफ् बेसोसः संघः च बाह्याकाशपर्यटनं करोति इति विशेषता च यात्रायाः अस्ति।१९६९ तमे वर्षे जूलाय् मासस्य  विंशतितमदिने एव मानवः प्रथमतया 

चन्द्रे पदक्षेपः कृतः। बाह्याकाश-पर्यटनसाध्यताः संवर्धनीयाः इत्येतदेव यात्रायाः लक्ष्यः। यूरि गगारिनः एव प्रथमतया बाह्याकाशं प्राप्तवान्। इदानीन्तनानि पर्यटनानि केवलं प्रतियोगितायै न। किन्तु भाविनि परम्परायाः बाह्याकाशयात्रां सुकरं कर्तुमेव इति जेफ् बेसोसेन प्रोक्तम्।

 कोविड् न्यूनीभूतम् - तमिलनाड् सामान्यस्थितिं प्राप्नोति। 

चेन्नै> तमिल्नाट् राज्ये कोविड्रोगव्यापनं न्यूनीभूतमित्यतः  राज्यस्य जनजीवनव्यवहारादिव्यवस्थाः पूर्वस्थितिं प्राप्नुवन्ति। पिधानानि लाघवं प्राप्तानि, रेल् यानानि लोकयानानि च समेत्य यात्रासुविधाः सुकराः भूताः च। किन्तु केरलान् प्रति यात्रासेवाः नारब्धाः। 

  विवाहादिषु आघोषेषु ५० पर्यन्तं, मरणकार्यक्रमेषु २० पर्यन्तं च जनानां भागभागित्वम् अनुमोदितम्। परिमितसंख्याकान् जनानुपयुज्य चलच्चित्र धारावाहिक चित्रीकरणानि प्रचालयितुं शक्यन्ते।

Tuesday, July 20, 2021

 उत्तराखण्डे मेघविस्फोटे त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्।

      दहरादूण्>  उत्तराखण्डे मेघविस्फोटेन जातेन अतिवर्षेण जलोपप्लवेन च त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्। उत्तरकाशीजिल्लायामेव दुरन्तः जातः। अतिवर्षेण माण्डो ग्रामे बहूनि भवनानि जले निमग्नानि। अप्रत्येक्षु द्वौ स्त्रियौ, एकः पुरुषः, एकः शिशुः च अन्तर्भवन्ति इति राज्य-आपदा-प्रतिक्रिया-सेनायाः (State Disaster Response Force) निरीक्षकेन जगदम्बा प्रसादेन प्रोक्तम्। अपघातप्रदेशे रक्षाप्रवर्तनानि अनुवर्तन्ते। उत्तरखण्डे जूलाय् २१ तमदिनपर्यन्तं अतिवृष्टिः भविष्यति इति पर्यावरणनिरीक्षककेन्द्रेण पूर्वसूचना दत्ता। पश्चिमतीरे जूलाय् २३ तमपर्यन्तं अतिवृष्टिः भविष्यति। गतसप्ताहे उत्तरकाश्यां अतिवृष्टिकारणेन जातस्य मृत्स्खलनेन राजमार्गे गमनागमनं रुद्धमासीत्।

Monday, July 19, 2021

पर्यावरणे व्यत्ययः - उत्तरध्रुवे असाधारणघटनारूपेण वातः सौदामिनी च।

     अलास्क> वैज्ञानिकान् अत्भुतपरतन्त्रान् कृत्वा उत्तरध्रुवे असाधारण-घटनारूपेण वातः सौदामिनी च। ईदृशीघटना इतः पूर्वं न आसीत् इति वैज्ञानिकैः उच्यते। प्रायेण उत्तरध्रुवे सैदामिन्याः वातस्य च सन्दर्भः नास्ति। पर्यावरणव्यत्ययेन अन्तरिक्षे तापः वर्धितः इत्यनेन भवति ईदशी दुर्घटना इति ते अभिप्रयन्ति। सेबीरियातः अलास्क पर्यन्तं दीर्घितम् उत्तरध्रुवं सामान्येन हिमावृतं भवति। तत्र सैदामिनेः साध्यतालेशोऽपि  नास्ति। किन्तु २०१० संवत्सरादारभ्य ग्रीष्मकाले सौदामिनिप्रभावः दृश्यते। इदानीम् अस्याः शक्तिः व्याप्तिः च वर्धिते स्तः। अन्तरिक्षे तापः वर्धितः इत्यनेन विद्युद्प्रवाहक्षमा अभवत् वायुः इति वैज्ञानिकाः वदन्ति। 
 वर्तमाने अस्मिन् संवत्सरे सैबीरियायां वनाग्निकारणेन ग्रीस् देशात् विस्तृतः भूप्रदेशः भस्मसात् अभूत्। सैबीरिया इदानीं पर्यावरण उष्णबिन्दुरूपेण परिवर्तते इति ग्रीन् 'पीस् रष्यया' आवेदितम्।

अफ्गाने पाकिस्थानीयतालिबानेन भारतीयचिह्नानां विनाशनम् आलक्ष्यते। 


    नवदिल्ली> अफ्गानिस्थाने भारतनिर्मितवस्तूनां नाशं लक्ष्यीकर्तुं तालिबाने सम्मिलितान् पाकिस्थानस्य योद्धृन् प्रति निर्देशः अदात्। पाकिस्थानस्य गुप्तचरसंघटनेन ऐ एस् ऐ ( inter services intelligence)दलेन निर्देशो दत्तः इत्यस्ति आवेदनम्। अफ्गानिस्थानदेशस्थस्य भारतीयचिह्नानां नाशनमेव लक्ष्यम् इति वार्ताप्रतिनिधिसंघेन आवेदितम्। गतद्विदशकाभ्यन्तरे भारतीयसर्वकारेण अफ्गानिस्थानस्य पुनर्निमाणाय त्रि अर्बुदं (बिल्यन् ) डोलर् धनं व्ययीकृतम् आसीत्। डेलारामस्थे सरञ्च् सल्म सेतोः च मिथः २१८ किलोमीट्टर् यानमार्गस्य कृते भारतेन निक्षेपः कृतः। २०१५ तमे वर्षे उद्घाटितं विधानसभागृहं अफ्गानजनतायाः कृते भारतस्य योगदानस्य अमूल्यप्रतीकं भवति।

Sunday, July 18, 2021

 शबरिगिरिमन्दिरे प्रतिदिनं १०००० भक्तेभ्यः भगवद्दर्शनाय अनुज्ञा।

पत्तनंतिट्टा/केरलम्> कर्कटक-मासपूजावेलायां शबरिगिरि-मन्दिरे प्रतिदिनं १०,००० भक्तेभ्यः प्रवेशाय अनुमतिः। मन्दिरद्वारोद्घाटनवेलायां जूलाय् २१ दिनपर्यन्तं प्रनिदिनं १०,००० भक्तेभ्यः भगवद्दर्शनाय अनुमतिः प्रदत्ता। Vertual queue booking द्वारा एव प्रवेशनम्। दर्शनाय आगताः भक्ताः ४८ होराभ्यन्तरे गृहीतं कोविड् आर् टि पि सि आर् रोगनिर्णयस्य अभावात्मक प्रमाणपत्रम् अथवा वाक्सिनस्य पूर्णमात्रास्वीकृतप्रमाणपत्रं वा नेतव्यमस्ति।

 मन्त्रणसभायाः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतस्य उभयोः मन्त्रणसभयोः -लोकसभाराज्यसभयोः वर्षाकालसम्मेलनं श्वः आरभ्यते। कोविडनुशीलनानि परिपाल्य आयोजिते सम्मेलने वार्तामाध्यमानां कृते विहितं नियन्त्रणमनुवर्तिष्यते। सन्दर्शकेभ्यः निरोधः अस्ति। 

   आगस्टमासस्य १३ तमदिनाङ्कपर्यन्तम् अनुवर्तमाने सम्मेलने प्राक्तनानि नूतनानि च समेत्य २७ विधेयकानि उत्तीर्णं गम्यमानानि सन्ति।

 'विकास' यन्त्रपरीक्षा विजयं प्राप्ता। ऐ एस् आर् ओ, इलोण् मस्केन अभिनन्दितम्।


नवदिल्ली> भारतीय बहिराकाश-अनुसन्धान-सङ्घटनायै इलोण् मस्कः अभिनन्दनं दत्तवान्। मानवं बाह्याकाशं नेतुम् अयोक्ष्यमानायां गगनयान परियोजनायै निर्मितं विकासयन्त्रस्य तृतीयपरीक्षा विजयपथं प्राप्तम् इति कारणेन भवति इलोण् मस्कस्य अभिनन्दनम्। अमेरिक्कायाः निजीयबाह्याकाश अनुसन्धानसंस्था इति प्रथितायाः स्पेस् एक्स् इत्यस्याः तथा याननिर्माण संस्थायाः टस्ले इत्यस्याः च अध्यक्षः भवति मस्कः। ट्विटर् माध्यमेन आसीत् तस्य अभिनन्दनम्। २०२१ डिसम्बर् मासे विक्षेपणयानस्य मनुष्यरहितपरीक्षा निर्वोढुम् भारतीय बहिराकाश-अनुसन्धान-सङ्घटनेन (ऐ एस् आर् ओ) निश्चिता।

Saturday, July 17, 2021

 कोविषील्ड् नाम प्रतिरोधौषधस्य अङ्गीकाराय प्रर्थनापत्रं न लब्धम् इति यूरोपीय -औषधप्रतिनिधिसंघेन आवेदितम्।


   नवदिल्ली> कोविषील्ड् प्रतिरोधौषधस्य यूरोपीय संयुक्तराष्ट्रस्य (European union) अङ्गीकाराय सीरम् इन्स्टिट्यूट् ओफ् इन्ट्या संस्थायाः प्रार्थनापत्रं इतःपर्यन्तं न लब्धम् इति यूरोपीय - ओषधप्रतिनिधिसंघेन वार्तामेलने (EMI ) आवेदितम्। यूरोपीय संयुक्तराष्ट्रस्य अङ्गीकाराय कोविषील्ड् उत्पादकैः यूरोपीय - औषधप्रतिनिधिसंघाय औद्योगिकरूपेण प्रार्थनापत्रं दातव्यमस्ति।। यूरोपीय अङ्गराष्ट्रेषु यात्रां कर्तुं फैसर्, मोडेण, अस्ट्रा सेनेक्का, जोण्सण् आन्ट् जोण्सण् इत्येते वाक्सिनः एव यूरोपीय - औषधप्रतिनिधिसंघेन अङ्गीकृताः।

 त्रयोदश-यात्रिकैः सहितम् उड्डीयमानं रष्यायाः विमानं सैबीरियादेशे अप्रत्यक्षमभवत्।

   मोस्को> रष्यायाः यात्राविमानम् उपरि उड्डीयमानानन्तरम् अप्रत्यक्षमभवत्। सैबीरियायाः प्रान्तप्रदेशे टोम्स्किल् देशे एव विमानम् अप्रत्यक्षमभवत्। अष्टाविंशति जनेभ्यः कृते यात्रासौकर्ययुक्ते विमाने वैमानिकं आहत्य त्रयोदश जनाः आसन् इत्येव सूचना। अप्रत्यक्षं विमानं विचेतुं परिश्रमः आरब्धः। विमाने सप्तदश जनाः आसन् इत्येव प्रादेशिकमाध्यमैः प्रथमम् आवेदितम्। दशदिनेभ्यः पूर्वं रष्यायां अष्टाविंशतिजनैः सहितं यात्राम् आरब्धं विमानं समुद्रे पतित्वा भग्नम् आसीत्। भूमौ अवरोहणात् दशकिलोमीट्टर् दूरे एव अन्टोनोव् ए एन् -२६ नाम विमानेन सह आशयविनिमयः विनष्टः अभवत्। अनन्तरं विमानं भग्नमभवत् इति विदितमभवत्।

 अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।

छात्राणां विभिन्नप्रस्तुतयः

Download Notification       Registration  

Notification No: INSD17/07/2021

अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रियते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।

संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।


. भागयोग्याः संस्कृतकार्यक्रमाः

1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनय, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)


. पञ्जीकरणम्

1. पञ्जीकरणाय अन्तिमतिथिः 2021 July 23 .

निशुल्क-पञ्जीकरणसूत्रम् ( Link https://forms.gle/7p47RvPwJbVDgNUP9)

2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्

(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते

Each School Can Submit only Three Entries

Each Sanskrit student can participate in one event only.


. वीडियोण्डस्य छायाग्रहणम्

1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।

2. चलदूरवाणीद्वारा संगृहीतं वीडियोण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )

3. वीडियोण्डः गुणेन प्रसारणाय योग्यभवेत्। ( High Quality )

4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्



. वीडियोघण्डस्य प्रेषणम्

1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29

2. छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।

(E-mail samprativartah@gmail.com Or

Telegram App No: +919400417084)

3. वीडियोण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।

___________________________________

Friday, July 16, 2021

 दक्षिणाफ्रिक्काराष्ट्रे भारतीयान् प्रति आक्रमणम्। भारतेन आशङ्का आवेदिता। 

  जोहानस्बर्ग> दक्षिणाफ्रिक्कादेशे भारतीयान् तथा भारतीयवंशजान् प्रति जायमानेषु आक्रमणेषु भारतसर्वकारेण आशङ्का आवेदिता। दक्षिणाफ्रिक्कायाः विदेशकार्य-मन्त्रिणा नलेदि पान्डोरेण सह भारतीयविदेशकार्यमन्त्री डो. जयशङकरः आशयविनिमयः कृतः।

   दक्षिणाफ्रिक्कायाः पूर्वराष्ट्रपतिः जेक्कब् सुमा कारागृहे बन्धितः अभवत्। अस्मिन् सन्दर्भे एव तस्य अनुयायिनः आक्रमणम् आरभत। सर्वकारेण शान्तिं पुनस्थापयितुं परिश्रमः आरब्धः इति दक्षिणाफ्रिक्काराष्ट्रस्य विदेशकार्यमन्त्रिणा उक्तम् इति जयशङ्करः अवदत्। न्यायालयालक्ष्यम् इति दोषं कृतवान् इत्यतः एव तस्मै पञ्चदशमासपर्यन्तं कारागारे बन्धनम् अलभत।

Thursday, July 15, 2021

 एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।

प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।

  जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं  चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।

 केरलेषु कोयिलाण्टिदेशे रेल्यानस्योपरि केरवृक्षः पतितः। गमनागमनं भागिकतया स्थगितम्।

  कोष़िक्कोट्> कोयिलाण्टिदेशसमीपं रेल्यानस्योपरि केरवृक्षः पतितः। सायंकाले पादोनषट्वादने एव घटना एषा संवृत्ता। कोयिलाण्टि-तिक्कोटिदेशयो: मध्ये एव अपघातः जातः। अनन्तपुर्याः मंगलापुरं प्रति गच्छतः नेत्रावती एक्स्प्रस् नाम रेल्यानस्योपरि एव केरवृक्षः पतितः। जनानाम् अपघातो वा जीवापायो वा न अभवत्। रेल्यानगमनागमनं भागिकतया स्थगितम्। यानयन्त्रस्य हानिः अभवत् इत्यतः कोषिक्कोट् नगरारात् नूतनं यन्त्रम् आनाय्य पुनः सन्निवेश्यानन्तरमेव यात्रां पुनरारब्धुं शक्यते इति रेल्-अधिकारिणा आवेदितम्। वैद्युतिबन्धं विच्छिद्य केरवृक्षं कर्तयितुं परिश्रमः अनुवर्तते।

Wednesday, July 14, 2021

 श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।

  नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च  चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः  प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।

 उत्तरभारते वृष्टिदुरन्तः - महानाशः, 70 मरणानि।

  नवदिल्ली> उत्तरभारते विविधेषु राज्येषु वृष्टिदुरन्तैः 70 अधिके जनाः मृत्युवशं गताः। सौदामिनीदुष्प्रभावात् उत्तरप्रदेशे 41, राजस्थाने 23, मध्यप्रदेशे 6 च जनाः मृताः। 

  हिमाचलप्रदेशः उत्तराखण्डः इत्यादिराज्येषु अतिवर्षेण भूस्खलनेन च महान् नाशः अभवत्।

Tuesday, July 13, 2021

इराक् राष्ट्रस्थे आतुरालये अग्निबाधया पञ्चाशदधिकजनाः हताः।

 बाग्दाद्> इराक् राष्ट्रस्थे आतुरालये कोविड्रोगिणां एकान्तवासकक्ष्यासु जातासु अग्निबाधासु  रोगिणः दग्धाः मारिताः च। दक्षिणनगरस्थे नासिरियादेशे अल्हुसैन् आतुरालये एव अग्निबाधा जाता। पञ्चाशदधिकजनाः मारिताः  इति आवेदनम् अस्ति। बहवः जनाः व्रणिताश्च। सोमवासरे रात्रौ एव अग्निः नियन्त्रणविधेयः अभवत् इति अधिकृतैः आवेदितम्। केचन रोगिणः अधुना अपि कक्षायां निबद्धाः अस्ति इति आवेदनमस्ति। अतिधूमः रक्षाप्रवर्तनाय विघातः अभवत्।

अग्निबाधायाः कारणम् अज्ञातमस्ति। प्राणवायुसंभरण्याः स्फोटनमिति प्राथमिकनिगमनम् अस्ति। घटनायाः पश्चात् इराक्कस्य प्रधानमन्त्रिणा मुस्तफा अल्कादिं महोदयेन उन्नतमन्त्रिभिः साकं चर्चा कृता।