OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 16, 2021

 दक्षिणाफ्रिक्काराष्ट्रे भारतीयान् प्रति आक्रमणम्। भारतेन आशङ्का आवेदिता। 

  जोहानस्बर्ग> दक्षिणाफ्रिक्कादेशे भारतीयान् तथा भारतीयवंशजान् प्रति जायमानेषु आक्रमणेषु भारतसर्वकारेण आशङ्का आवेदिता। दक्षिणाफ्रिक्कायाः विदेशकार्य-मन्त्रिणा नलेदि पान्डोरेण सह भारतीयविदेशकार्यमन्त्री डो. जयशङकरः आशयविनिमयः कृतः।

   दक्षिणाफ्रिक्कायाः पूर्वराष्ट्रपतिः जेक्कब् सुमा कारागृहे बन्धितः अभवत्। अस्मिन् सन्दर्भे एव तस्य अनुयायिनः आक्रमणम् आरभत। सर्वकारेण शान्तिं पुनस्थापयितुं परिश्रमः आरब्धः इति दक्षिणाफ्रिक्काराष्ट्रस्य विदेशकार्यमन्त्रिणा उक्तम् इति जयशङ्करः अवदत्। न्यायालयालक्ष्यम् इति दोषं कृतवान् इत्यतः एव तस्मै पञ्चदशमासपर्यन्तं कारागारे बन्धनम् अलभत।

Thursday, July 15, 2021

 एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।

प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।

  जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं  चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।

 केरलेषु कोयिलाण्टिदेशे रेल्यानस्योपरि केरवृक्षः पतितः। गमनागमनं भागिकतया स्थगितम्।

  कोष़िक्कोट्> कोयिलाण्टिदेशसमीपं रेल्यानस्योपरि केरवृक्षः पतितः। सायंकाले पादोनषट्वादने एव घटना एषा संवृत्ता। कोयिलाण्टि-तिक्कोटिदेशयो: मध्ये एव अपघातः जातः। अनन्तपुर्याः मंगलापुरं प्रति गच्छतः नेत्रावती एक्स्प्रस् नाम रेल्यानस्योपरि एव केरवृक्षः पतितः। जनानाम् अपघातो वा जीवापायो वा न अभवत्। रेल्यानगमनागमनं भागिकतया स्थगितम्। यानयन्त्रस्य हानिः अभवत् इत्यतः कोषिक्कोट् नगरारात् नूतनं यन्त्रम् आनाय्य पुनः सन्निवेश्यानन्तरमेव यात्रां पुनरारब्धुं शक्यते इति रेल्-अधिकारिणा आवेदितम्। वैद्युतिबन्धं विच्छिद्य केरवृक्षं कर्तयितुं परिश्रमः अनुवर्तते।

Wednesday, July 14, 2021

 श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।

  नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च  चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः  प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।

 उत्तरभारते वृष्टिदुरन्तः - महानाशः, 70 मरणानि।

  नवदिल्ली> उत्तरभारते विविधेषु राज्येषु वृष्टिदुरन्तैः 70 अधिके जनाः मृत्युवशं गताः। सौदामिनीदुष्प्रभावात् उत्तरप्रदेशे 41, राजस्थाने 23, मध्यप्रदेशे 6 च जनाः मृताः। 

  हिमाचलप्रदेशः उत्तराखण्डः इत्यादिराज्येषु अतिवर्षेण भूस्खलनेन च महान् नाशः अभवत्।

Tuesday, July 13, 2021

इराक् राष्ट्रस्थे आतुरालये अग्निबाधया पञ्चाशदधिकजनाः हताः।

 बाग्दाद्> इराक् राष्ट्रस्थे आतुरालये कोविड्रोगिणां एकान्तवासकक्ष्यासु जातासु अग्निबाधासु  रोगिणः दग्धाः मारिताः च। दक्षिणनगरस्थे नासिरियादेशे अल्हुसैन् आतुरालये एव अग्निबाधा जाता। पञ्चाशदधिकजनाः मारिताः  इति आवेदनम् अस्ति। बहवः जनाः व्रणिताश्च। सोमवासरे रात्रौ एव अग्निः नियन्त्रणविधेयः अभवत् इति अधिकृतैः आवेदितम्। केचन रोगिणः अधुना अपि कक्षायां निबद्धाः अस्ति इति आवेदनमस्ति। अतिधूमः रक्षाप्रवर्तनाय विघातः अभवत्।

अग्निबाधायाः कारणम् अज्ञातमस्ति। प्राणवायुसंभरण्याः स्फोटनमिति प्राथमिकनिगमनम् अस्ति। घटनायाः पश्चात् इराक्कस्य प्रधानमन्त्रिणा मुस्तफा अल्कादिं महोदयेन उन्नतमन्त्रिभिः साकं चर्चा कृता।

Monday, July 12, 2021

 तृतीयतरङ्गः झटित्येव भविष्यति। नियन्त्रणेषु अवधानता भवतु। विनोदयात्रागमनं तीर्थाटनं च इदानीं मास्तु -भारतीयभैषज्यदलस्य पूर्वसूचना।

   नवदिल्ली> राष्ट्रम् कोविडस्य तृतीयतरङ्गम् अभिमुखीकर्तुं सज्जमाने अस्मिन् सन्दर्भे केन्द्र-राज्यसर्वकाराः कोविडस्य प्रतिरोधप्रवर्तनेषु अनवधानता न करणीया इति भारतीयभैषज्यदलेन (IMA) निर्दैशो दत्तः। रोगव्यापनस्य निर्णायकसन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र अधिकारिणः नागरिकाः च कोविडस्य प्रतिरोधनियमपालनविषये प्रदर्शितेषु अनवधानतासु भारतीयभैषज्यदलेन आशङ्का प्रकाशिता। आगोलतलेषु लभ्यमानानि प्रमाणानि तथा पूर्वकालचरितं च आलोकयति चेत् यस्याः कस्याः अपि वा भवतु महामार्याः  तृतीयतरङ्गः सुनिश्चितः भवति। राष्ट्रस्य विविधभागेषु सर्वकाराः नागरिकाः च कोविडस्य प्रतिरोधनियमान् लङ्घयित्वा परस्परमेलनं कुर्वन्ति। तत् आपत्करं भवति इति भारतीयभैषज्यदलेन पूर्वसूचना दत्ता।

Sunday, July 11, 2021

 अफ्गान् देशे तालिबानस्य अधिनिवेशः। भारतेन ५० नयतन्त्रकार्यकर्तारः प्रत्यानीताः।

   नवदिल्ली> अफ्गानिस्थाने काण्डहारे दूतावासतः ५० भारतीय-नयतन्त्रज्ञाः सुरक्षाकार्यकर्तारः च प्रत्यानीताः। व्योमसेनायाः विमानेषु एव ते प्रत्यानीताः॥ काण्डहारदेशं परितो विद्यमानाः प्रदेशाः च तालिबानेन स्वायत्तीकृतस्य पश्चात् एव भारतस्य प्रक्रमः। काबूलदेशस्थं नयतन्त्रकार्यालयं तथा काण्डहारं, सोल् ई षेरीफ् इत्यादि देशस्थान् दूतावासान् च पिधातुम् उद्देशः नास्ति इति चतुर्भ्यः दिनेभ्यः पूर्वं भारतेन निगदितम् आसीत्। ततः पश्चात् शनिवासरे एव नयतन्त्रज्ञान् प्रत्यानीतवन्तः। अफ्गानिस्थाने सर्वत्र प्रसरितेन आतङ्कप्रवर्तनेन सञ्जाताम् अरक्षितावस्थां भारतं ससूक्ष्मं निरीक्ष्यमाणम् अस्ति। तत्रस्थानां भारतीयकर्मकराणां तथा भारतीयनागरिकाणां च संरक्षणार्थं प्रक्रमाः स्वीकृताः इति अधिकारिणः वदन्ति। नयतन्त्रज्ञान् तथा अन्यकर्मकरान् सुरक्षाकार्यकर्तॄन् च नवदिल्लीं प्रत्यानीते दूतावासाः अनिश्चित-कालपर्यन्तं पिहिताः।

 कोप्पा चषकः अर्जन्टीनायै।

   मारक्काना (ब्रसील्)> कोप्पा अमेरिक्का पादकन्दुक-क्रीडापरम्परायाः स्वप्नसमानान्त्य-क्रीडायां चरित्र-परिसमाप्तिः। ब्रसीलदलम् अप्रतिरुद्धेनैकेन लक्ष्यकन्दुकेन पराजित्य लयणल् मेसि नामकस्य नायकस्य नेतृत्वे विद्यमानः अर्जन्टीनादलः विजयीभूतः। एय्जल् डि मरिया नामकः लक्ष्यकन्दुकं प्राप्तवान्। 28 संवत्सराणामन्तरालानन्तरमेव  अर्जन्टीनादलस्य कश्चन किरीटप्राप्तिः इत्येतत् कोप्पा अमेरिक्का पादकन्दुकक्रीडापरम्परायाः चरित्रपरिसमाप्तिः।

Saturday, July 10, 2021

वैद्यकुलपतिः डो. पि के. वार्यर् महाभागः दिवङ्गतः।

   कोट्टक्कल्>  आयुर्वेदशास्त्रस्य वैद्यकुलपतिः तथा कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धन्यासधारी अङ्गः डो. पि के वार्यर् महाभागः (१००) दिवङ्गतः। शनिवासरे मध्याह्ने स्वभवने कैलासमन्दिरे एव अन्त्यः अभवत्। जूण् मासस्य अष्टमे दिने तस्य शततमजन्मदिनमासीत्।

१९९९ तमे वर्षे पद्मश्री पुरस्कारेण तथा २००१ तमे वर्षे पद्मभूषणपुरस्कारेण च एषः समादृतः आसीत्। आयुर्वेदः न केवलं रोगचिकित्सारीतिः किन्तु तस्मिन् जीवनस्य प्रकाशः अप्यस्ति इत्यासीत् कर्मयोगिनः अस्य विश्वासः। विश्वमानवोऽयम् आयुर्वेदशास्त्रे मानविकतायाः रूपं परिकल्पयन् आविश्वं शास्त्रमिदं प्रचारयामास। 

मलप्पुरं जिल्लायां कोट्टक्कल् ग्रामे मध्यवर्तीकुटुम्बे १९२१ तमे वर्षे जूण् मासस्य पञ्चमे दिने एव पन्यंपिल्लि कृष्णन्कुट्टिवार्यरः जनिमलभत। तस्य पिता श्रीधरन् नम्पूतिरिः, माता कुञ्ञिवारस्यारः च आस्ताम्। कोट्टक्कल् राजास् उच्चविद्यालये एव सः अध्ययनं कृतवान्। वैद्यरत्नं पि एस् वार्यर्  आयुर्वेदकलालयात् वैद्यवेदम् अधीतवान्। एषः कलालयः एव आर्यवैद्यपाठशाला इति नाम्ना विख्यातः अभवत्। १९४२ तमे वर्षे एषः महाभागः स्वातन्त्र्यसंग्रामेषु आकृष्टः सन् तस्य भागमभवत्। तस्य स्मृतिपर्वं नाम आत्मकथायै केरलसाहित्य-अक्कादमीपुरस्कारः च लब्धः। तस्य प्रवर्तनानि पुरस्कृत्य  वैद्यरत्नम् इति पदवीं अपि दत्वा सः समादृतः।

 राष्ट्रे प्राणवायोः दौर्लभ्यपरिहाराय १५०० नूतन -प्राणवायुरुत्पादक-केन्द्राणि स्थाप्यन्ते - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदेहली> राष्ट्रे कोविडस्य स्थितिम् अवलोकयितुं प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरयोग: समभवत्। तृतीयतरङ्गसाध्यतां परिगणय्य कोविडस्य इदानीन्तनीया अवस्था, तथा औषधीयप्राणवायो: लभ्यता च योगे चर्चिता। प्रधानमन्त्रिणः रक्षाधनसाहाय्येन राष्ट्रे सर्वत्र १५०० पि एस् ए प्राणवायुरुत्पादककेन्द्राणि सज्जीकरिष्यमाणा सन्ति इति योगे कार्यकर्तारः प्रधानमन्त्रिणं प्रति आवेदितवन्तः। एतस्मात् उत्पादककेन्द्रात् ४००००० प्राणवायुतल्पस्य कृते आवश्यकः प्राणवायुं वितरितुं शक्यते। शीघ्रातिशीघ्रं पि एस् ए प्राणवायुरत्पादककेन्द्राणि प्रवर्तनयोग्यानि करणीयानि इति प्रधानमन्त्रिणा कार्यकर्तारं प्रति निर्देशो दत्तः।

Friday, July 9, 2021

 अगाधप्लवनवापी दुबाय् देशे उद्घाटिता।

दुबाय् > विगाहनार्थं विश्वे डीप् डैव् नामिका (अगाधनिमज्जनं) प्रथमा अगाधप्लवनवापी दुबाय् देशे उद्घाटिता। दुबाय् अधिकारी शैख् हंदान् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुं महोदयेन डीप् डैव् नामकस्य अगाधप्लवनवाप्याः उद्घाटनकर्म निरवहत्। दुबाय् माध्यमसंस्थायाः अध्यक्षः अहम्मद् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुम् अपि कार्यक्रमे उपस्थितः आसीत्। नाद् अल् षेबा परिसरे स्थिता डीप् डैव् वाप्यां ६० मीट्टर् अधिकतया अगाधे अवगाहनं कर्तुं शक्यते। १.४ कोटि लिट्टर् मितं जलं संभृतं वर्तते अस्मिन्। षट् ओलिम्पिक् वाप्याः तुल्यं भवति डीप् डैव्। नूतन साङ्केतिक-विद्यायुक्त-सुविधा अपि वाप्याम् आविष्कृता अस्ति।

Thursday, July 8, 2021

 दुबाय् राष्ट्रे जबल् अलि नौकाश्रयः अग्निना बाधितः।

 दुबाय्> दुबाय् राष्टे जबल् अलि नौकाश्रये अतिरूक्षा अग्निबाधा सञ्जाता। नौकाश्रये स्थगितायां महानौकायाम् एव अग्निः बादितः।    अर्धरात्रौ द्वादशवादने आसीत्  एषा घटना। सिविल् डिफेन्स् संघः आगत्य अग्निं निर्वापयत्। कस्यापि जनस्य अपघातः न अभवत् इति दुबाय् माध्यमकार्यालयेन आवेदितम्।

 संस्कृतकक्ष्यायाः प्रसारणम् अपि भवतु -छात्रैः प्रार्थना प्रकाशिता।

 (चित्रम् - आलप्पुष़ जनपदात्)
 आलप्पुष़/केरलम्> अन्तर्जालद्वारा-तत्कालीन कक्ष्यायां संस्कृतपाठाः अपि प्रसारणीया इति छात्राः सर्वकारं प्रार्थितवन्तः। प्राथमिककक्ष्याः आरभ्य उच्चतर-कक्ष्यापर्यन्तं अन्यविषयवत् तुल्यप्राधान्येन संस्कृतकक्ष्यायाः प्रसारणमपि आवश्यकम् इति ते उक्तवन्तः। KiteVicters इति शैक्षिकप्रसारण-वाहिनीद्वारा आयोज्यमानासु कक्ष्यासु क्रमानुगतरीत्या संस्कृतकक्ष्या नास्ति। केरलसर्वकारस्य शैक्षिकविभागेन अस्मिन् अध्ययनकार्यक्रमाणां आयोजनं कुर्वन्ति। संस्कृतं प्रति अनादरः भवति तत्रत्यानाम् इति एषां अध्ययनकार्याक्रमाणां प्रसारणतः सुव्यक्तं भवति। अनेन कारणेन बुधवासरे आकेरलं केरलसंस्कृत-अध्यापक-परिषदेन (KSTF) विप्रतिषेधसमराः आयोजिताः। अध्यापकानाम् आशयेन प्रभाविताः छात्राः अपि आकेरलं गृहेषु एव तिष्ठन्तः सन् स्फोरकपत्रे स्वाशयान् विलिख्य कक्ष्यायाः प्रसारणाय प्रार्थितवन्तः अभवन्।

Wednesday, July 7, 2021

 सुरक्षाभीषा- अफ्गानतः भारतस्य सर्वकारीयकर्मकराणं प्रतिनिवृत्तिः भविष्यति।

  काबूल्> अफ्गानिस्थानतः भरतस्य उन्नतोद्योगस्थान् भरतनागरिकान् च प्रत्यानेतुं भरतसर्वकारेण प्रक्रमाः समारब्धाः। अफ्गानिस्थानस्य सुरक्षाकार्येषु अवधानता नास्ति तत्रत्यस्य सर्वकारस्य इत्यनेन भवति भरतस्य अयं निश्चयः। काबूल्, गान्धारः (काण्डहार) मसर इ षरीफ् इत्येतस्थे प्रदेशो वर्तमानाः उद्योगस्थाः एव आनीयष्यन्ते। तालिबानस्य आक्रमणात् भीताः अफगानिस्थानस्य उद्योगिनः अपि ततः पलायनम् अरब्धवन्तः। 

Tuesday, July 6, 2021

 कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति -एस् बि ऐ

  कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति इति एस् बि ऐ अनुसन्धानेन आवेद्यते। सेप्तम्बर् मासे तृतीयतरङ्गः उच्चावस्थां प्राप्नोति इति सोमवासरे प्रकाशिते आवेदने सूचयति। द्वितीयतरङ्गस्य समापनात् पूर्वं तृतीयतरङ्गः आगस्त् मासे समारभ्यते इत्येव प्रवचनम्। वाक्सिनीकरणमेव रक्षणोपायः इति आवेदनं सूचयति। भारतीयजनसंख्यायाः प्रतिशतं २०.८ जनाः भागिकतया वाक्सिनीकृताः। प्रतिशतं ४.६ जनाः पूर्णतया वक्सिनीकृताः। अन्यराष्ट्रापेक्षया एषा गणना अतीव न्यूना भवति। अमेरिक्कादेशे प्रतिशतं ४७.१ , यु के देशे प्रतिशतं ४८.७, इस्येल् देशे प्रतिशतं ५९.८, स्पेयिन् देशे प्रतिशतं ३८.५, फ्रान्स् देशे प्रतिशतं ३१.२ जनाःच पूर्णतया वाक्सिनीकृताः।

 वैदिकः स्टीन् स्वामी आरक्षकाधीने निर्यातः। 

मुम्बई> 'भीमा कोरेगाव्' प्रकरणे उपधां प्रतीक्ष्यमाणः वैदिकः स्टान् स्वीमीति प्रसिद्धः मानवाधिकारप्रवर्तकः आरक्षकावेक्षणे मृतः। ८४ वयस्कः आसीत्। तस्य स्वास्थ्यसम्बन्धविषयान् आलक्ष्य समर्पितायाः प्रातिभाव्ययाचिकायाः वादश्रवणवेलायामेव अन्त्यमभवत्। कोविड्बाधितः सः बान्द्रस्थे निजीयातुरालये उपचर्यायामासीत्। 

    वनवासिनाम् अधिकारसंरक्षणाय समर्पितजीवितः जस्यूट् पुरोहितः सः मावोवादिसंबन्धारोपणेन ओक्टोबर्मासे राञ्चीतः देशीयान्वीक्षणविभागेन [ऐ एन् ए] निगृहीतः आसीत्। यू ए पि ए अपराधमारोप्य तं कारागारं प्राविशत् च। 

   स्वामिनः आकस्मिकमरणे संक्षोभं शोकं च प्रकटितवान् नीतिपीठः अन्तरपदक्षेपान् स्वीकृत्य मृतदेहं स्वामिनः सहप्रवर्तकेभ्यः प्रदातुं निरदिशत्।

Monday, July 5, 2021

 कालिफोर्णियादेशे दावाग्निः व्याप्यते। ४०००० एक्कर् अधिकभूमिः अग्निसादभवत्।

  लोस् आञ्जलोस् > कालिफोर्णियादेशे दावाग्निः अतिरूक्षतया व्याप्यते। एतदभ्यन्तरे दक्षिणकालिफोर्णियेषु ४०००० एक्कर् अधिकभूमौ दावाग्निः व्याप्तः इति आवेदनम् अस्ति। मुख्यतया त्रिविधाः दावग्नयः एव व्याप्यन्ते इति आवेदनानि सूचयन्ति।

सिस्कियु कौण्डी प्रदेशे जून् मासस्य २४ दिने समारब्धे आग्नेयोद्धारे ( Lava fire)२४,४६० एक्कर् अधिकभूमिः अग्निसादभवत् इति सिन्हुवा वार्तासंस्थया आवेदितम्।  अग्निव्यापनहेतुना अधिकारिभिः सहस्राधिकजनाः अन्यत्र नीताः।