OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 12, 2021

 तृतीयतरङ्गः झटित्येव भविष्यति। नियन्त्रणेषु अवधानता भवतु। विनोदयात्रागमनं तीर्थाटनं च इदानीं मास्तु -भारतीयभैषज्यदलस्य पूर्वसूचना।

   नवदिल्ली> राष्ट्रम् कोविडस्य तृतीयतरङ्गम् अभिमुखीकर्तुं सज्जमाने अस्मिन् सन्दर्भे केन्द्र-राज्यसर्वकाराः कोविडस्य प्रतिरोधप्रवर्तनेषु अनवधानता न करणीया इति भारतीयभैषज्यदलेन (IMA) निर्दैशो दत्तः। रोगव्यापनस्य निर्णायकसन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र अधिकारिणः नागरिकाः च कोविडस्य प्रतिरोधनियमपालनविषये प्रदर्शितेषु अनवधानतासु भारतीयभैषज्यदलेन आशङ्का प्रकाशिता। आगोलतलेषु लभ्यमानानि प्रमाणानि तथा पूर्वकालचरितं च आलोकयति चेत् यस्याः कस्याः अपि वा भवतु महामार्याः  तृतीयतरङ्गः सुनिश्चितः भवति। राष्ट्रस्य विविधभागेषु सर्वकाराः नागरिकाः च कोविडस्य प्रतिरोधनियमान् लङ्घयित्वा परस्परमेलनं कुर्वन्ति। तत् आपत्करं भवति इति भारतीयभैषज्यदलेन पूर्वसूचना दत्ता।

Sunday, July 11, 2021

 अफ्गान् देशे तालिबानस्य अधिनिवेशः। भारतेन ५० नयतन्त्रकार्यकर्तारः प्रत्यानीताः।

   नवदिल्ली> अफ्गानिस्थाने काण्डहारे दूतावासतः ५० भारतीय-नयतन्त्रज्ञाः सुरक्षाकार्यकर्तारः च प्रत्यानीताः। व्योमसेनायाः विमानेषु एव ते प्रत्यानीताः॥ काण्डहारदेशं परितो विद्यमानाः प्रदेशाः च तालिबानेन स्वायत्तीकृतस्य पश्चात् एव भारतस्य प्रक्रमः। काबूलदेशस्थं नयतन्त्रकार्यालयं तथा काण्डहारं, सोल् ई षेरीफ् इत्यादि देशस्थान् दूतावासान् च पिधातुम् उद्देशः नास्ति इति चतुर्भ्यः दिनेभ्यः पूर्वं भारतेन निगदितम् आसीत्। ततः पश्चात् शनिवासरे एव नयतन्त्रज्ञान् प्रत्यानीतवन्तः। अफ्गानिस्थाने सर्वत्र प्रसरितेन आतङ्कप्रवर्तनेन सञ्जाताम् अरक्षितावस्थां भारतं ससूक्ष्मं निरीक्ष्यमाणम् अस्ति। तत्रस्थानां भारतीयकर्मकराणां तथा भारतीयनागरिकाणां च संरक्षणार्थं प्रक्रमाः स्वीकृताः इति अधिकारिणः वदन्ति। नयतन्त्रज्ञान् तथा अन्यकर्मकरान् सुरक्षाकार्यकर्तॄन् च नवदिल्लीं प्रत्यानीते दूतावासाः अनिश्चित-कालपर्यन्तं पिहिताः।

 कोप्पा चषकः अर्जन्टीनायै।

   मारक्काना (ब्रसील्)> कोप्पा अमेरिक्का पादकन्दुक-क्रीडापरम्परायाः स्वप्नसमानान्त्य-क्रीडायां चरित्र-परिसमाप्तिः। ब्रसीलदलम् अप्रतिरुद्धेनैकेन लक्ष्यकन्दुकेन पराजित्य लयणल् मेसि नामकस्य नायकस्य नेतृत्वे विद्यमानः अर्जन्टीनादलः विजयीभूतः। एय्जल् डि मरिया नामकः लक्ष्यकन्दुकं प्राप्तवान्। 28 संवत्सराणामन्तरालानन्तरमेव  अर्जन्टीनादलस्य कश्चन किरीटप्राप्तिः इत्येतत् कोप्पा अमेरिक्का पादकन्दुकक्रीडापरम्परायाः चरित्रपरिसमाप्तिः।

Saturday, July 10, 2021

वैद्यकुलपतिः डो. पि के. वार्यर् महाभागः दिवङ्गतः।

   कोट्टक्कल्>  आयुर्वेदशास्त्रस्य वैद्यकुलपतिः तथा कोट्टक्कल् आर्यवैद्यशालायाः प्रबन्धन्यासधारी अङ्गः डो. पि के वार्यर् महाभागः (१००) दिवङ्गतः। शनिवासरे मध्याह्ने स्वभवने कैलासमन्दिरे एव अन्त्यः अभवत्। जूण् मासस्य अष्टमे दिने तस्य शततमजन्मदिनमासीत्।

१९९९ तमे वर्षे पद्मश्री पुरस्कारेण तथा २००१ तमे वर्षे पद्मभूषणपुरस्कारेण च एषः समादृतः आसीत्। आयुर्वेदः न केवलं रोगचिकित्सारीतिः किन्तु तस्मिन् जीवनस्य प्रकाशः अप्यस्ति इत्यासीत् कर्मयोगिनः अस्य विश्वासः। विश्वमानवोऽयम् आयुर्वेदशास्त्रे मानविकतायाः रूपं परिकल्पयन् आविश्वं शास्त्रमिदं प्रचारयामास। 

मलप्पुरं जिल्लायां कोट्टक्कल् ग्रामे मध्यवर्तीकुटुम्बे १९२१ तमे वर्षे जूण् मासस्य पञ्चमे दिने एव पन्यंपिल्लि कृष्णन्कुट्टिवार्यरः जनिमलभत। तस्य पिता श्रीधरन् नम्पूतिरिः, माता कुञ्ञिवारस्यारः च आस्ताम्। कोट्टक्कल् राजास् उच्चविद्यालये एव सः अध्ययनं कृतवान्। वैद्यरत्नं पि एस् वार्यर्  आयुर्वेदकलालयात् वैद्यवेदम् अधीतवान्। एषः कलालयः एव आर्यवैद्यपाठशाला इति नाम्ना विख्यातः अभवत्। १९४२ तमे वर्षे एषः महाभागः स्वातन्त्र्यसंग्रामेषु आकृष्टः सन् तस्य भागमभवत्। तस्य स्मृतिपर्वं नाम आत्मकथायै केरलसाहित्य-अक्कादमीपुरस्कारः च लब्धः। तस्य प्रवर्तनानि पुरस्कृत्य  वैद्यरत्नम् इति पदवीं अपि दत्वा सः समादृतः।

 राष्ट्रे प्राणवायोः दौर्लभ्यपरिहाराय १५०० नूतन -प्राणवायुरुत्पादक-केन्द्राणि स्थाप्यन्ते - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदेहली> राष्ट्रे कोविडस्य स्थितिम् अवलोकयितुं प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरयोग: समभवत्। तृतीयतरङ्गसाध्यतां परिगणय्य कोविडस्य इदानीन्तनीया अवस्था, तथा औषधीयप्राणवायो: लभ्यता च योगे चर्चिता। प्रधानमन्त्रिणः रक्षाधनसाहाय्येन राष्ट्रे सर्वत्र १५०० पि एस् ए प्राणवायुरुत्पादककेन्द्राणि सज्जीकरिष्यमाणा सन्ति इति योगे कार्यकर्तारः प्रधानमन्त्रिणं प्रति आवेदितवन्तः। एतस्मात् उत्पादककेन्द्रात् ४००००० प्राणवायुतल्पस्य कृते आवश्यकः प्राणवायुं वितरितुं शक्यते। शीघ्रातिशीघ्रं पि एस् ए प्राणवायुरत्पादककेन्द्राणि प्रवर्तनयोग्यानि करणीयानि इति प्रधानमन्त्रिणा कार्यकर्तारं प्रति निर्देशो दत्तः।

Friday, July 9, 2021

 अगाधप्लवनवापी दुबाय् देशे उद्घाटिता।

दुबाय् > विगाहनार्थं विश्वे डीप् डैव् नामिका (अगाधनिमज्जनं) प्रथमा अगाधप्लवनवापी दुबाय् देशे उद्घाटिता। दुबाय् अधिकारी शैख् हंदान् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुं महोदयेन डीप् डैव् नामकस्य अगाधप्लवनवाप्याः उद्घाटनकर्म निरवहत्। दुबाय् माध्यमसंस्थायाः अध्यक्षः अहम्मद् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुम् अपि कार्यक्रमे उपस्थितः आसीत्। नाद् अल् षेबा परिसरे स्थिता डीप् डैव् वाप्यां ६० मीट्टर् अधिकतया अगाधे अवगाहनं कर्तुं शक्यते। १.४ कोटि लिट्टर् मितं जलं संभृतं वर्तते अस्मिन्। षट् ओलिम्पिक् वाप्याः तुल्यं भवति डीप् डैव्। नूतन साङ्केतिक-विद्यायुक्त-सुविधा अपि वाप्याम् आविष्कृता अस्ति।

Thursday, July 8, 2021

 दुबाय् राष्ट्रे जबल् अलि नौकाश्रयः अग्निना बाधितः।

 दुबाय्> दुबाय् राष्टे जबल् अलि नौकाश्रये अतिरूक्षा अग्निबाधा सञ्जाता। नौकाश्रये स्थगितायां महानौकायाम् एव अग्निः बादितः।    अर्धरात्रौ द्वादशवादने आसीत्  एषा घटना। सिविल् डिफेन्स् संघः आगत्य अग्निं निर्वापयत्। कस्यापि जनस्य अपघातः न अभवत् इति दुबाय् माध्यमकार्यालयेन आवेदितम्।

 संस्कृतकक्ष्यायाः प्रसारणम् अपि भवतु -छात्रैः प्रार्थना प्रकाशिता।

 (चित्रम् - आलप्पुष़ जनपदात्)
 आलप्पुष़/केरलम्> अन्तर्जालद्वारा-तत्कालीन कक्ष्यायां संस्कृतपाठाः अपि प्रसारणीया इति छात्राः सर्वकारं प्रार्थितवन्तः। प्राथमिककक्ष्याः आरभ्य उच्चतर-कक्ष्यापर्यन्तं अन्यविषयवत् तुल्यप्राधान्येन संस्कृतकक्ष्यायाः प्रसारणमपि आवश्यकम् इति ते उक्तवन्तः। KiteVicters इति शैक्षिकप्रसारण-वाहिनीद्वारा आयोज्यमानासु कक्ष्यासु क्रमानुगतरीत्या संस्कृतकक्ष्या नास्ति। केरलसर्वकारस्य शैक्षिकविभागेन अस्मिन् अध्ययनकार्यक्रमाणां आयोजनं कुर्वन्ति। संस्कृतं प्रति अनादरः भवति तत्रत्यानाम् इति एषां अध्ययनकार्याक्रमाणां प्रसारणतः सुव्यक्तं भवति। अनेन कारणेन बुधवासरे आकेरलं केरलसंस्कृत-अध्यापक-परिषदेन (KSTF) विप्रतिषेधसमराः आयोजिताः। अध्यापकानाम् आशयेन प्रभाविताः छात्राः अपि आकेरलं गृहेषु एव तिष्ठन्तः सन् स्फोरकपत्रे स्वाशयान् विलिख्य कक्ष्यायाः प्रसारणाय प्रार्थितवन्तः अभवन्।

Wednesday, July 7, 2021

 सुरक्षाभीषा- अफ्गानतः भारतस्य सर्वकारीयकर्मकराणं प्रतिनिवृत्तिः भविष्यति।

  काबूल्> अफ्गानिस्थानतः भरतस्य उन्नतोद्योगस्थान् भरतनागरिकान् च प्रत्यानेतुं भरतसर्वकारेण प्रक्रमाः समारब्धाः। अफ्गानिस्थानस्य सुरक्षाकार्येषु अवधानता नास्ति तत्रत्यस्य सर्वकारस्य इत्यनेन भवति भरतस्य अयं निश्चयः। काबूल्, गान्धारः (काण्डहार) मसर इ षरीफ् इत्येतस्थे प्रदेशो वर्तमानाः उद्योगस्थाः एव आनीयष्यन्ते। तालिबानस्य आक्रमणात् भीताः अफगानिस्थानस्य उद्योगिनः अपि ततः पलायनम् अरब्धवन्तः। 

Tuesday, July 6, 2021

 कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति -एस् बि ऐ

  कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति इति एस् बि ऐ अनुसन्धानेन आवेद्यते। सेप्तम्बर् मासे तृतीयतरङ्गः उच्चावस्थां प्राप्नोति इति सोमवासरे प्रकाशिते आवेदने सूचयति। द्वितीयतरङ्गस्य समापनात् पूर्वं तृतीयतरङ्गः आगस्त् मासे समारभ्यते इत्येव प्रवचनम्। वाक्सिनीकरणमेव रक्षणोपायः इति आवेदनं सूचयति। भारतीयजनसंख्यायाः प्रतिशतं २०.८ जनाः भागिकतया वाक्सिनीकृताः। प्रतिशतं ४.६ जनाः पूर्णतया वक्सिनीकृताः। अन्यराष्ट्रापेक्षया एषा गणना अतीव न्यूना भवति। अमेरिक्कादेशे प्रतिशतं ४७.१ , यु के देशे प्रतिशतं ४८.७, इस्येल् देशे प्रतिशतं ५९.८, स्पेयिन् देशे प्रतिशतं ३८.५, फ्रान्स् देशे प्रतिशतं ३१.२ जनाःच पूर्णतया वाक्सिनीकृताः।

 वैदिकः स्टीन् स्वामी आरक्षकाधीने निर्यातः। 

मुम्बई> 'भीमा कोरेगाव्' प्रकरणे उपधां प्रतीक्ष्यमाणः वैदिकः स्टान् स्वीमीति प्रसिद्धः मानवाधिकारप्रवर्तकः आरक्षकावेक्षणे मृतः। ८४ वयस्कः आसीत्। तस्य स्वास्थ्यसम्बन्धविषयान् आलक्ष्य समर्पितायाः प्रातिभाव्ययाचिकायाः वादश्रवणवेलायामेव अन्त्यमभवत्। कोविड्बाधितः सः बान्द्रस्थे निजीयातुरालये उपचर्यायामासीत्। 

    वनवासिनाम् अधिकारसंरक्षणाय समर्पितजीवितः जस्यूट् पुरोहितः सः मावोवादिसंबन्धारोपणेन ओक्टोबर्मासे राञ्चीतः देशीयान्वीक्षणविभागेन [ऐ एन् ए] निगृहीतः आसीत्। यू ए पि ए अपराधमारोप्य तं कारागारं प्राविशत् च। 

   स्वामिनः आकस्मिकमरणे संक्षोभं शोकं च प्रकटितवान् नीतिपीठः अन्तरपदक्षेपान् स्वीकृत्य मृतदेहं स्वामिनः सहप्रवर्तकेभ्यः प्रदातुं निरदिशत्।

Monday, July 5, 2021

 कालिफोर्णियादेशे दावाग्निः व्याप्यते। ४०००० एक्कर् अधिकभूमिः अग्निसादभवत्।

  लोस् आञ्जलोस् > कालिफोर्णियादेशे दावाग्निः अतिरूक्षतया व्याप्यते। एतदभ्यन्तरे दक्षिणकालिफोर्णियेषु ४०००० एक्कर् अधिकभूमौ दावाग्निः व्याप्तः इति आवेदनम् अस्ति। मुख्यतया त्रिविधाः दावग्नयः एव व्याप्यन्ते इति आवेदनानि सूचयन्ति।

सिस्कियु कौण्डी प्रदेशे जून् मासस्य २४ दिने समारब्धे आग्नेयोद्धारे ( Lava fire)२४,४६० एक्कर् अधिकभूमिः अग्निसादभवत् इति सिन्हुवा वार्तासंस्थया आवेदितम्।  अग्निव्यापनहेतुना अधिकारिभिः सहस्राधिकजनाः अन्यत्र नीताः।

 षार्जाराष्ट्रे गर्जूरफलमहोत्सवः

  षार्जा> षार्जादेशे गर्जूरफलमहोत्सवस्य समारम्भः। अल्जुबैल् विपण्यां एव बहुविधगर्जूरफलानां प्रदर्शनं तथा विक्रयणं च प्रचलति। गर्जूरफलोत्पादनस्य विक्रयणस्य च प्रोत्साहनाय एव एषःमहोत्सवः समायोजितः। प्रतिसंवत्सरं प्रचलतः गर्जूरफलविक्रयणमेलां द्रष्टुं भागं स्वीकर्तुं च विविधदेशेभ्यः बहवः सन्दर्शकाः आगच्छन्ति। सविशेषगुणयुक्ताः गर्जूरभेदा: मेलायां प्रदर्शयन्ति। खलास्, खनी सि, शिशि, बर्हि, अर्सिसास्, नगाल्, बामिल्, बुमान् सुल्तान् इत्यादयः विभागाः षार्जाराष्ट्रे लप्स्यते ।

 रंकेला, अम्रपाली, लांग्र, लख्नौ, सफेद आदयाः एकस्मिन्नेव आम्रवृक्षे १२१ जातिविशेषाणि आम्रफलानि फलन्ति। 

  उत्तरप्रदेशः> एकस्मिन्नेवआम्रवृक्षे १२१ विशेषभेदयुक्तानि आम्रफलानि फलन्ति। उत्तरप्रदेशे सहारन्पुरे एव बहुविधाम्रफलयुक्तः एषः आम्रवृक्षः वर्तते। नूतनरुचिभेदयुक्तानाम् आम्रफलानाम् उत्पादनार्थं गवेषकैः कृतानां परिश्रमाणां फलमेव पञ्चदशवयोयुक्तः एषः अद्भुतवृक्षः।

आम्रफलानां नाम्नि बहुकालात् पूर्व विख्यातं प्रदेशं भवति सहारन्पुरम्। पञ्चसंवत्सरात् पूर्वमेव नूतनानि आम्रभेदानि उत्पादयितुं परिश्रमाणि समारब्धाणि इति सहान्पूर् होर्टिकल्चर् आन्ट् ट्रेयिनिङ् सेन्टर् संस्थायाः उपनिर्देशकेन भानुप्रकाशरामेण उक्तम्। पञ्चवर्षात् पूर्वं तदानींतन उपनिर्देशकेण राजेश् प्रसादेन एव १२१ विविधभेदयुक्ताः आम्रशाखाः एकस्मिन् आम्रवृक्षे सन्निवेश्य संयोजितः। सामान्यजनानामपि एतादृशरीत्या आम्रवृक्षान् संवर्धयितुं शक्यते इति भानुप्रकाशेन उक्तम्। रांकेल, आम्रपाली, लांग्र ,लख्नौ, सफेद, सहारन्पूर् अरुण्, सहारन्पूर् वरुण्, सहारन्पूर् राजीव्, सहारन्पुर् सौरभ् इत्यादीनि प्रसिद्धानि आम्रफलविशेषाणि आम्रवृक्षे सञ्जायमानानि सन्ति।

 शङ्करः गजनियमान् पठितवान्। अद्य गजावासात् बहिर्गमिष्यति।

  ऊट्टी/तमिल्नाडु> ऊट्टीदेशे गुडल्लूर् तथा पन्तल्लूर् भागेषु भीतिं जनयन् अटन्तः शङ्करनामकःगजः इदानीं नियमाभ्यासेन सुशीलः जातः। मुतुमलायां अभयारण्ये प्रत्येकं सज्जीकृते गजावासे वसन्तः सः अद्य बहिरागतः। पन्तल्लूर् देशे एकस्मिन् कुटुम्बे मातापितरौ पुत्रं च हत्वा पराक्रमं कृतः शङ्करः बहुदिनस्य प्रयत्नेनैव उन्मादसूचीप्रयोगेण पातयित्वा संगृहीतः। प्रशिक्षितगजानां साहाय्येन गजावासे बन्धितं तं गजसङ्केतस्थाः भिषग्वराः तथा कर्मकराः च सविशेषश्रद्धां दत्वा अपालयत्। मारि नामकस्य गजपालकस्य नेतृत्वे गजनियमाः  तम् अपाठयत् च।

Sunday, July 4, 2021

 सुतार्यतायाः बृहत्पदक्षेपः। मुखपुस्तिका, गूगिल् इत्यादि सामूहिकमाध्यमान् अभिनन्दयन् केन्द्रमन्त्री।

 नवदेहली>सर्वकारस्य नूतन-सूचना -प्रौद्योगिक-विद्या-नियमानां प्रबलानन्तरं गूगिल्, मुखपुस्तिका, इनस्टग्राम् इत्यादिषु सामूहिकमाध्यमेषु निन्दारुपेण प्रसारितानां सन्देशानां निर्मार्जनं सुतार्यतायाः पदक्षेपः इति केन्द्रमन्त्रिणा रविशङ्कर् प्रसादेन निगदितम्। गूगिल्, मुखपुस्तिका, इन्स्टग्राम् इत्यादीनि माध्यमानि स्वपुटात् निन्दारूपेण प्रसारिताः सन्देशाः निर्मार्जिते सन्दर्भे एव प्रसादेन एवम् उक्तम्। तैः प्रकाशितानि प्रकोपनपराणि सन्देशानि नूतन -सूचनाप्रौद्योगिक-विद्यानियममनुसृत्य निर्मार्जनं सुतार्यतायाः पदक्षेपः भवति इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन ट्वीट् कृतम् ।

 कोवाक्सिनं ७७.८% फलप्रदमिति निर्मातारः। 

  हैदराबादः> कोविडं प्रति कोवाक्सिनं नामकं प्रत्यौषधं ७७.८% फलप्राप्तिं प्रदास्यतीति भारतबयोटेक् नामकनिर्माणसंस्थायाः अधिकारिभिः स्पष्टीकृतम्। इदानीं बहुव्याप्यमानं 'डेल्टा'प्रभेदं विरुध्य कोवाक्सिनं ६५.२% संरक्षणं दास्यति। तीवल्रक्षणयुक्तं कोविडं विरुध्य प्रतिशतं ९३.४ च संरक्षणदायकं वर्तते। 

   कोवाक्सिनस्य तृतीयस्तरवैद्यकीयपरीक्षणानाम् [Clinical Experiments] आधारेणैव अयमधिकारवादः। किन्तु एतत्परीक्षणफलं समानमण्डलस्थैः इतरगवेषकैः अङंगीकर्तव्यं वर्तते। 

  राष्ट्रेषु २५ आतुरालयेषु २५,८०० रुग्णेषु नवम्बर् १६ -जनवरि ७ दिनाङ्काभ्यन्तरे आसन् तृतीयस्तरपरीक्षणानि विधत्तानि। कोवाक्सिननिर्माणाधिकारिभिः स्पष्टीकृतं यत्  केवलं १२ जनेष्वेव पार्श्वफलानि दृष्टानि।

Saturday, July 3, 2021

 पञ्च भीकराः सुरक्षासेनया हताः। एकः सैनिकः वीरमृत्युं प्राप्तवान्। 

श्रीनगरम्> जम्मु काश्मीरे पुल्वामा जनपदे शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे पञ्च लष्कर् ई तोय्बा भीकराः सुरक्षाभटैः हताः। कश्चन भटः वीरस्वर्गं गतवान् च। 

  जनपदस्थे हन्जिन् नामकग्रामे भीकराणां सान्निध्यमस्तीति सूचनया प्रदेशं प्राप्तं सैनिकयूथं प्रति निलीयमानाः भीकराः भुषुण्डिप्रयोगं कृतवन्तः आसन्। आक्रमणे तीव्रेण व्रणितः सैनिकः आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। अधिकाः भटाः प्रदेशं प्राप्य कृते प्रत्याक्रमणे ५ भीकराः मृताः। 

     लष्कर् ई तोय्बा संघटनस्य जनपदाधिकारी निषास् लोण् इत्याख्यः मृतेषु अन्तर्भवति। अन्यः कश्चन पाकिस्थानीयः इति सूच्यते।