विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः-भारतस्य अभिमन्युः नूतनं प्रमाणं व्यरचयत्।
न्यूयोर्क्> विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः इति पदं भारतस्य बालकः प्राप्तवान्। द्वादशवयस्कः अभिमन्यु मिश्रः भवति एषः बालकः। हङ्गरिराष्ट्रस्य बुडापेस्ट नगरे आयोजिते चतुरङ्ग स्पर्धायामेव अस्य प्रामाणिको विजयः। १५ वयस्कं प्रति द्वन्दिं लियोण् लूक् मेन्डोण्के इत्याख्यं विजित्य भवति अस्य प्रामाणिको विजयः।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Friday, July 2, 2021
Thursday, July 1, 2021
अद्य राष्ट्रिय वैद्यदिनम्।
कोविड् द्वितीयतरङ्गे आराष्ट्रं मृताः वैद्याः ७९८।
नवदिल्ली> भारते कोविड् महामार्याः द्वितीयतरङ्गे विनष्टप्राणानां वैद्यानां संख्या ७९८ इति भारतीय वैद्यक संघटनेन [ऐ एम् ए] प्रोक्तम्। दिल्लीमध्ये एव अधिकाधिकं वैद्याः मृताः -१२८ । अन्येषु राज्येषु एवम् - बिहारः [११५], यू पि [७९], महाराष्ट्रं [२३], केरलं [२४], पश्चिमवंगः [६२], राजस्थानं [४४], झार्खण्डः [३९],आन्ध्रप्रदेशः [४०] ।
कोविडं विरुद्ध युद्धे अग्रिमस्थानमावहन्तः वैद्याः अनुमोदनमर्हन्तीति प्रधानमन्त्री नरेन्द्रमोदी प्राशंसयत्।
वै. अनिलकान्तः केरलस्य आरक्षकाधिकारी।
अनन्तपुरी> राज्यस्य ३४तम आरक्षकाधिकारिरूपेण [डि जि पि] दिल्ली प्रदेशीयः १९८८ विभागस्थ ऐ पि एस् अधिकारी च वै अनिलकान्तः पदं स्वीकृतवान्। केरलस्य मार्ग सुरक्षा कम्मीषणर् स्थाने वर्तमानः सः लोकनाथ बेह्रस्य सेवानिवृत्त्या जाते स्थाने एव नियुक्तः।
गतदिने आरक्षकास्थाने सम्पन्ने कार्यक्रमे लोकनाथ बह्रातः अधिकारदण्डं स्वीकृत्य नूतनपदं समारोहयत्।
विनोदसञ्चारिणः स्पृहयन् अट्टपाटिदेशस्य सूर्यकान्तिकेदारः।
कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चेतव्य:।
Wednesday, June 30, 2021
सुधर्मा पत्रिकायाः सम्पादक: के.वी.सम्पत्कुमारः दिवङ्गतः।
संस्कृत-चलनचित्र गानानि यू ट्यूब् द्वारा प्रकाशितानि।
अनन्तपुरी> संस्कृतभाषायां प्रप्रथमतया निर्मितस्य शिशुकेन्द्रीकृत-चलन-चित्रस्य गीतानि यूट्यूब् द्वारा ( https://youtu.be/E_y787RowWM ) प्रकाशितानि। मधुरस्मितम् इति चलन-चित्रस्य मधुरगीतानि एव एते।
अस्य चलनचित्रस्य निदेशकः सुरेष् गायत्री भवति। गीतानां रचयितारः बिजिला किशेरः सुरेष् विट्टियरं डा. कुमार् च भवन्ति। राजेष् नारायणेन गीतानि संङ्गीतनिर्देशेन पुष्टी कृतानि। रुग्मा, ऐफुननुजुं, आर्या एं नायर्, अपर्णा श्रीकुमार्, अद्वैत् प्रभृतिभिः गीतानि श्रवणसुभगतया आलपितानि। चलनचित्रस्य चित्रस्य प्रदर्शनकाले बहवः विद्यालयछात्राः चलनगृहं गत्वा चित्रं दृष्टवन्तः सन्ति।
तापमानं ४९.५° सेल्ष्यस्। कानडे अपूर्वाधिकतापमानं रेखाङ्कितम्।
वान्कूवर्> उष्णतरङ्गस्य पश्चात् कानड राष्ट्रे मङ्गलवासरे अन्तरिक्षतापमानं ४९.५° (डिग्रि सेल्ष्यस्) इति रेखाङ्कितम्। ब्रिट्टीष् कोलम्बियायां लिट्टन् प्रदेशे एव राष्ट्रस्य अपूर्वाधिकतापमानं रेखाङ्कितम्। अनस्यूततया तृतीये दिने अधिकतापमानम् अनुवर्तते। प्रतिदिनतापमानं पूर्वकालप्रमाणान् विभिद्य १२१° डिग्रि फारन् हीट्ट् इति 'एन्वयोण्मेण्ड् आन्ट् क्लैमट् चेन्ज्' संघेन ट्विट्टर् मध्ये उक्तम्। जाग्रतां पालयितुं तथा पूर्वसज्जीकरणानि कर्तुं च जनेभ्यः निर्देशो दत्तः।
'मोडेणा'वाक्सिनाय अनुमतिः दत्ता।
नवदिल्ली> अमेरिक्कया निर्मितं कोविड्वाक्सिनं मोडेणा नामकं भारतम् देशान्तरानयनं कृत्वा उपयोक्तुम् औषधीयगुणविज्ञानसंस्थायाः अनुमतिः लब्धा। प्रमुखं औषधवितरणमाध्यमं मुम्बयीस्थं 'सिप्ला' इत्यनेन एव देशान्तरानयनं कृत्वा वितरणं करिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् प्रोक्तवान्।
वाक्सिनान्तरमिव मोडेणा अपि मात्राद्वयस्य सूचीकरणमपेक्षते। सप्ताहचतुष्टयस्य अन्तरालकालः निर्दिष्टः।
ड्रोण् आक्रमणं - भारतेन यु एन् मध्ये आशङ्का निवेदिता।
न्यूयोर्क्> यू एन् संस्थायाः भीकरविरुद्धकार्यकर्तॄणाम् उपवेशने भारतं जम्मुकाश्मीरे जातं ड्रोण् यन्त्राक्रमणमधिकृत्य आशङ्कां न्यवेदयत्।
वृत्तान्त- आशयविनिमयपारिभाषिकविद्या आतङ्कप्रवर्तनेभ्यः दुरुपयोगः क्रियते इति रक्षामन्त्रालये सुरक्षाविभागस्य सविशेषसचिवया वि एस् के कौमुद्या उक्तम्। आयुधघटितड्रोणुपकरणैः यत्र कुत्रापि आक्रमणानि भवेयुरिति भारतं यू एन् राष्ट्रेभ्यः जाग्रतासूचनामदात्।
गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रुप्यकाणि लब्धानि।
आन्ध्रा प्रदेशः> गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रूप्यकाणि लब्धानि। ७० से .मि आयतं तथा १८ किलो परिमितं भारयुक्तं सैरिङ्स् अरुवानस् इत्याख्यः एषः लोके आकारे बृहत्तमस्य शम्बूकविभेदे अन्तर्भवति । ओस्ट्रेलियन् ट्रंपट्ट् अथवा फाल्स् ट्रंपट्ट् इति नाम्ना सामान्यतया विख्यात: एषः मांसभोजी भवति। आभरणनिर्माणार्थं अस्य बाह्यकवचं अधिकतया उपयुज्यते इत्यतः एषः विभेदः वंशनाशभीषां अभिमुखीकरोति। अत्याकर्षकं केसरवर्णयुक्तं भवति अस्य बाह्यशुक्तिका-कवचम्।
Tuesday, June 29, 2021
ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय भारतसर्वकारः।
नवदिल्ली> नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।
औद्योगिकदृढीकरणमभवत्। २०-२० विश्वचषकं यु ए इ राष्ट्रे भविष्यति।
मुम्बै> अस्मिन् संवत्सरस्य ट्वन्टि- ट्वन्टि विश्वचषकक्रीडायाः आतिथेयः यु यू ए ई भविष्यति। बि सि सि ऐ संस्थायाः अध्यक्षेण सौरव् गाङ्गुलिना एव अस्मिन् विषये औद्योगिकदृढीकरणं दत्तम्। यु ए इ आतिथेयः भविष्यति इति पूर्वसूचना आसीत् तथापि औद्योगिकतया न दृढीकृतमासीत्। भारते कोविड् महामारी न नियन्त्रणविधेयः तथा वैराणोः तृतीयतरङ्गस्य साध्यता अपि अस्ति इत्यतः एव वेदिका परिवर्तिता। कार्यमिदम् औद्योगिकतया ऐ सि सि संस्थायै आवेदितमस्ति। ओक्टोबर् नवम्बर् मासयोः क्रिकट् प्रतियोगिताः प्रचलिष्यन्ति इति गाङगुलिना प्रोक्तम्।
Monday, June 28, 2021
जम्मूकाश्मीरे बृहत्स्फोटनाय अभियोजनायोजनम्। उदग्रछायाग्राही आक्रमणस्य पश्चात् षट् किलोपरिमितं स्फोटकवस्तु च संगृहीतम्।
श्रीनगरः> जम्मूकाश्मीरेषु व्योमसेनापत्तनं लक्ष्यीकृत्य उदग्रछायाग्राही स्फोटनस्य पश्चात् षट्किलोपरिमितं स्फोटकवस्तु अपि संगृहीतम् । घटनायां अस्मिन् एक: लष्कर् इ तोयिबावादी संगृहीतः। जम्मूकाश्मीरस्य आरक्षकाधिपेन दिल्बाग्सिंहेन एव कार्यमिदम् आवेदितम्। नगरे व्यस्तप्रदेशे स्थापयितुं निश्चितं स्फोटकवस्तु एव आरक्षकेण संगृहीतम्। अनेन बृहत्स्फोटनाभियोजना एव जम्मोः आरक्षकैः विफलीकृता। घटना एषा आतङ्काक्रमणम् इति दृढीकृतम्।
अन्वेषणमपि विपुलीकृतम्। संग्रहीतेन सह परिप्रश्नम् अनुवर्तते। घटनायां अन्यान् अपि संग्रहीतुं साध्यता अस्ति इति जम्मूकाश्मीरस्य उप-आरक्षकेन आवेदितम्।
चीने अटनार्थं प्रस्थितं गजयूथं दक्षिणदिशं लक्ष्यीकृत्य गच्छदस्ति।
अयोध्या सर्वेषां भारतीयानां नगरी - प्रधानमन्त्री नरेन्द्रमोदी।
नवदिल्ली> भारतीयपरम्परायाः महत्वं तथा विकसनपरिवर्तनानां नैपुणी च अयोध्यायां फलरूपेण भवितव्यम् इति प्रधानमन्त्रिणा उदीरितम्। अयोध्यामन्दिरनगरस्य विकसनयोजनायाः अवलोकनयोगे उत्तरप्रदेशस्य मुख्यमन्त्रिणा साकं कृते आध्यासिके (vertual) अभिमुखभाषणे भाषमाणः आसीत् सः। योगे अयोध्यायाः विकासाय उत्तरप्रदेशस्य सर्वकारेण आविष्कृता: विकसनयोजनाः योगी आदित्यनाथेन प्रस्तुताः। यानमार्ग:, अवश्यसुविधायाः विकसनं, रेल् याननिस्थानकं, विमानपत्तनम् इत्यादीनां निर्माणं तथा तेषां विकसनयोजनाः च उत्तरप्रदेशस्य सर्वकारेण मन्दिरनगरे कर्तुमुद्दिश्यते। अयोध्या भारतीयानां सांस्कृतिके बोद्धमण्डले उल्लिखिता नगरी भवति इति नरेन्द्रमोदिना अभिप्रैतम्। आध्यात्मिकं प्रौढं च भवति अयोध्यानगरम्। अयोध्या एकैकेषां भारतीयानां नगरं भविष्यति इति नरेन्द्रमोदिना निगदितम्।
Sunday, June 27, 2021
दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यम् इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्।
धनिकराष्ट्राणि दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यं इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्। दरिद्रराष्ट्रेषु वाक्सिनस्य मात्रायाः क्षामः अनुभूयते। अतः तेभ्यः वाक्सिनस्य लब्ध्यर्थं धनिकराष्ट्रैः साहाय्यम् अवश्यं क्रियताम् इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अधनोम् ग्रब्रियोसस् अभ्यर्थयत्।
डेल्ट विभेदः आविश्वं व्याप्यते इत्यनेन अफ्रिक्कस्य स्थितिः दयनीया एव भवति। नूतनानि अणुसङ्क्रमणानि मरणानि च गतसप्ताहापेक्षया प्रतिशतं ४० इति वर्धितानि इत्यपि सः अवदत्।
Saturday, June 26, 2021
काश्मीरविषये केन्द्रसर्वकारस्य शुभपदक्षेपाः।
नवदिल्ली> जम्मुकाश्मीरे विधानसभानिर्वाचनं विधातुं अनुयुक्ते समये राज्यपदं प्रदातुं च स्वेन प्रतिज्ञाबद्धः इति केन्द्रसर्वकारः। प्रविश्यायाः भविष्यत्कार्यक्रमान् अधिकृत्य चर्चितुं गतदिने प्रधानमन्त्रिणा आयोजिते सर्वदलोपवेशने प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्रिणा अमित् शाहेन सह वृत्तान्तोSयं स्पष्टीकृतवान्। सर्वेष्वपि मण्डलेषु जनाधिपत्यप्रक्रियाः प्रवृद्धिश्च लभेयुरिति मोदी अवोचत्।
प्रथमतया निर्वाचनाय एव प्राधान्यं कल्पते। किन्तु काश्मीराय सम्पूर्णं राज्यपदं प्रथमं दातव्यमिति विपक्षदलैः निर्दिष्टम्।