OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 28, 2021

 जम्मूकाश्मीरे बृहत्स्फोटनाय अभियोजनायोजनम्। उदग्रछायाग्राही आक्रमणस्य पश्चात् षट् किलोपरिमितं स्फोटकवस्तु च संगृहीतम्।

  श्रीनगरः> जम्मूकाश्मीरेषु व्योमसेनापत्तनं लक्ष्यीकृत्य उदग्रछायाग्राही स्फोटनस्य पश्चात् षट्किलोपरिमितं स्फोटकवस्तु अपि संगृहीतम् । घटनायां अस्मिन् एक: लष्कर् इ तोयिबावादी संगृहीतः। जम्मूकाश्मीरस्य आरक्षकाधिपेन दिल्बाग्सिंहेन एव कार्यमिदम् आवेदितम्। नगरे व्यस्तप्रदेशे स्थापयितुं निश्चितं स्फोटकवस्तु एव आरक्षकेण संगृहीतम्। अनेन बृहत्स्फोटनाभियोजना एव जम्मोः आरक्षकैः विफलीकृता। घटना एषा आतङ्काक्रमणम् इति दृढीकृतम्।

अन्वेषणमपि विपुलीकृतम्। संग्रहीतेन सह परिप्रश्नम् अनुवर्तते। घटनायां अन्यान् अपि संग्रहीतुं साध्यता अस्ति इति जम्मूकाश्मीरस्य उप-आरक्षकेन आवेदितम्।

 चीने अटनार्थं प्रस्थितं गजयूथं  दक्षिणदिशं लक्ष्यीकृत्य गच्छदस्ति।


  बेय्जिङ्> चीने अटनम् आरब्धं गजयूथं समीपकाले यात्रायाः विरामं कर्तुं न उत्सुकम् इव दृश्यते। युनान् प्रविश्यातः वर्षात्पूर्वं यात्रां समारब्धम् एष्यायाः गजयूथम् इदानीं दक्षिणदिशं लक्ष्यीकृत्य गच्छन्नस्ति। सिष्वाङ्बेन्ना दाय् राष्ट्रियोद्यानतः एव यात्रा समारब्धा। प्रविश्यायां यु सि मध्ये इषान्कौण्डेः समीपे आहत्य दश गजाः सन्ति। गतचत्वारिदिनानि यावत् अनस्यूतं  दक्षिणदिशं लक्ष्यीकृत्यैव अटनं कुर्वन्तः सन्ति। विंशतिदिनात्पूर्वं यूथात् एकः गजः कुन्मिङ्देशस्थं जिन्निङ् जिल्लातः ३२.५ किलोमीट्टर् व्यतिचलित्वा सञ्चरति । विशेषसुरक्षायुक्तस्य गजयूथस्य अटनं सुगमं कर्तुम् उपत्रिसहस्रं जनाः  गजानां सञ्चारपथात् अन्यत्र नीतवन्तः। सञ्चारपथे तत्र तत्र गजयूथस्य कृते खाद्यानि सज्जीकृतानि। इषान्कौण्डि प्रदेशे इदानीं प्रचलिता अतिवृष्टि:  निरीक्षणाय विघातं सृजति। सिष्यान्बेन् उद्यानतः ५०० किलोमीट्टर् अतिक्रम्य एव गजसंघः कुन्मिङ् प्रदेशे आगतः। प्रायेण एष्यागजेषु दीर्घपलायनविशेषस्वभावः नास्ति। अतः वैज्ञानिकसङ्घै: इदानीं गजयूथाटनम् अधिकृत्य अध्ययनं क्रियते।

 अयोध्या सर्वेषां भारतीयानां नगरी - प्रधानमन्त्री नरेन्द्रमोदी।

  नवदिल्ली>  भारतीयपरम्परायाः महत्वं तथा विकसनपरिवर्तनानां नैपुणी च अयोध्यायां फलरूपेण भवितव्यम् इति प्रधानमन्त्रिणा उदीरितम्। अयोध्यामन्दिरनगरस्य विकसनयोजनायाः अवलोकनयोगे उत्तरप्रदेशस्य मुख्यमन्त्रिणा साकं कृते आध्यासिके (vertual) अभिमुखभाषणे भाषमाणः आसीत् सः। योगे अयोध्यायाः विकासाय उत्तरप्रदेशस्य सर्वकारेण आविष्कृता: विकसनयोजनाः योगी आदित्यनाथेन प्रस्तुताः। यानमार्ग:, अवश्यसुविधायाः विकसनं, रेल् याननिस्थानकं, विमानपत्तनम् इत्यादीनां निर्माणं तथा तेषां विकसनयोजनाः च  उत्तरप्रदेशस्य सर्वकारेण मन्दिरनगरे कर्तुमुद्दिश्यते। अयोध्या भारतीयानां सांस्कृतिके बोद्धमण्डले उल्लिखिता नगरी भवति इति नरेन्द्रमोदिना अभिप्रैतम्। आध्यात्मिकं प्रौढं च भवति अयोध्यानगरम्। अयोध्या एकैकेषां भारतीयानां नगरं भविष्यति इति नरेन्द्रमोदिना निगदितम्।

Sunday, June 27, 2021

 दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यम् इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्।


  धनिकराष्ट्राणि दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यं इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्। दरिद्रराष्ट्रेषु वाक्सिनस्य मात्रायाः क्षामः अनुभूयते। अतः तेभ्यः वाक्सिनस्य लब्ध्यर्थं धनिकराष्ट्रैः साहाय्यम्  अवश्यं क्रियताम् इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अधनोम् ग्रब्रियोसस् अभ्यर्थयत्। 

डेल्ट विभेदः आविश्वं व्याप्यते इत्यनेन अफ्रिक्कस्य स्थितिः दयनीया एव भवति। नूतनानि अणुसङ्क्रमणानि मरणानि च गतसप्ताहापेक्षया प्रतिशतं ४० इति वर्धितानि इत्यपि सः अवदत्।

Saturday, June 26, 2021

 काश्मीरविषये केन्द्रसर्वकारस्य शुभपदक्षेपाः। 

    नवदिल्ली> जम्मुकाश्मीरे विधानसभानिर्वाचनं विधातुं अनुयुक्ते समये राज्यपदं प्रदातुं च स्वेन प्रतिज्ञाबद्धः इति केन्द्रसर्वकारः। प्रविश्यायाः भविष्यत्कार्यक्रमान्  अधिकृत्य चर्चितुं गतदिने प्रधानमन्त्रिणा आयोजिते सर्वदलोपवेशने प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्रिणा अमित् शाहेन सह वृत्तान्तोSयं स्पष्टीकृतवान्। सर्वेष्वपि मण्डलेषु जनाधिपत्यप्रक्रियाः प्रवृद्धिश्च लभेयुरिति मोदी अवोचत्। 

प्रथमतया निर्वाचनाय एव प्राधान्यं कल्पते। किन्तु काश्मीराय सम्पूर्णं राज्यपदं प्रथमं दातव्यमिति विपक्षदलैः निर्दिष्टम्।

 कोविडस्य द्वितीयतरङ्गः भारते न समाप्तः - ऐ सि एम् आर्। 

  नवदिल्ली> राष्ट्रे कोविड्रोगस्य द्वितीयतरङ्गस्य समाप्तिर्नाभवदिति भारतीय चिकित्सा गवेषण समित्या [ऐ सि एम् आर्] निवेदितम्। रोगव्यापनं [टि पि आर्] १०% अधिकतया विद्यमानाः ७५ जनपदाः सन्ति। पञ्च-दशयोर्मध्ये रोगव्यापनमानं विद्यमानाः ९१ जनपदाश्च राष्ट्रे वर्तन्ते। यत्र यत्र रोगव्यपनमितिः प्रतिशतं पञ्चाधिकमस्ति तेषु जनपदेषु निरीक्षणं नियन्त्रणं च अनुवर्तनीयमिति ऐ सि एम् आर् निदेशकप्रमुखः डो. जि एस् भार्गवः प्रोक्तवान्।

 प्रकोपनम् अनुवर्तते चेत् ब्रिट्टणस्य युद्धनौकाः अग्निबाणेन विदारयिष्यति इति रष्यस्य पूर्वसूचना।

   मोस्को> ब्रिट्टणस्य नाविकसेनासकाशात् प्रकोपनपराणि प्रवर्तनानि भविष्यन्ति चेत् श्यामसमुद्रे आसीनां ब्रिट्टणस्य युद्धनौकाम् अग्निबाणेन विदारयिष्यति इति रष्येण पूर्वसूचना दत्ता। ब्रिट्टणस्य नाविकसेनानौकाः तेषां समुद्रसीमां उल्लङ्घितवत्यः इति संसूच्य रष्यस्थं ब्रिट्टणस्य स्थानपतिं आहूय रष्येण प्रतिषेधः प्रकाशितः। परन्तु सेनानौकाः युक्रैन् समुद्रसीमनि एव न तु रष्यासीमनि इति ब्रिट्टणेन तथा अन्यराष्ट्रैः च ईरिताः। ब्रिट्टणस्य एच् एम् एस् डिफन्टर् इत्याख्यायाः नाविकनौकायाः सञ्चारपथं रोद्धुं रष्येण परिश्रमः कृतः इति ब्रिट्टणेन आवेदितः। विंशत्यधिकविमानानि द्वे तीरसंरक्षण-सेनानौके च डिफन्टरं लक्षीकृत्य आगत्य नौकायां अग्निबाणं पातयिष्यति इति भीषाम् अकरोत् इति ब्रिट्टणस्य नाविकसेनया उक्तम्।

 अमेरिक्कादेशे द्वादशतलाट्टगृहं भग्नं जातम्।  ९९ जनाः अप्रत्यक्षाः जाताः। १०२ जनाः रक्षिताः।

अमेरिक्कादेशे मियामिनगरसमीपस्थं अट्टगृहम् एव भग्नं जातम्। त्रयः जनाः अपघाते मारिताः इति अन्तिमावेदनम्। ९९ जनाः अप्रत्यक्षीभूता: इति आरक्षकैः आवेदितम्। तेषां कृते अन्वेषणम् अनुवर्तते। इतः पर्यन्तं १०२ जनाः रक्षिताः। तेषु दश जनाः व्रणिताश्च। द्वादशतलाट्टगृहं भागिकतया भग्नमभवत्। अट्टगृहस्य अर्धभागः पूर्णतया भग्नं जातम्। अपघातस्य कारणम् अव्यक्तम् अस्ति।१३० यावत् भवनानि अट्टगृहे आसन्। रक्षां प्राप्तेषु स्त्रियः बालकाः च सन्ति। रक्षाप्रवर्तनं सुगमं कर्तुं प्रदेशे आपत्कालीनावस्था प्रख्यापिता। यावच्छक्यं साहाय्यं कर्तु सदा सन्नद्धोऽस्ति इति अमेरिक्कादेशस्य राष्ट्रपतिना जो बैडन् महोदयेन प्रोक्तम्।

Friday, June 25, 2021

 डेल्टा विभेदः ४५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनम्।

जनीव> अतितीव्रव्यापनक्षमस्य कोविड्वैराणोः 'डेल्टा विभेदः' लोके ८५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनेन उक्तम्। तेषु एकादशराष्ट्रेषु गतसप्ताहाभ्यन्तरे एव एषः विभेदः दृढीकृतः। आल्फ, बीट्टा, गाम, डेल्टा इत्यादि वैराणुविभेदान् ससूक्ष्मं निरीक्ष्यमाणः अस्ति इति लोकस्वास्थ्यसंघटनेन प्रकाशिते कोविड् १९ वीक्लि एप्पिडमियोलजिक्कल् अप्डेट् मध्ये सूचितमस्ति। डेल्टाविभेदरोगबाधिताः अन्यविभेद -बाधितापेक्षया अधिकतया प्राणवायुम् अपेक्षते। अतः मरणसंख्या अपि अधिका एव इति सिंहपुरे कृताध्ययने प्रोक्तमस्ति। जप्पाने कृताध्ययने अपि आल्फा विभेदापेक्षया डेल्टाविभेदः शीघ्रतया व्यापनक्षमतायुक्तः इति च संसूचितमस्ति।

 भारते नूतनाः ५४,०६९ कोविड्रोगिणः। 

    नवदिल्ली> राष्ट्रे गतदिने ५४,०६९ जनेषु अपि कोविड्रोगः दृढीकृतः। प्रतिदिन-रोगदृढीकरणमितिः २.९१  प्रतिशतं भवति। इदानीं ६,२७,०५२ रोगिणः उपचर्यायां वर्तन्ते। ह्यः १,३२१ जनाः कोविड्बाधया मृताः। आहत्य मरणानि ३,९१,९८१ अभवन्।

 भारतीया विमानवाहिनिमहानौका सागरस्पर्शाय सिद्धा। 

  कोच्ची> भारतस्य स्वदेशनिर्मिता प्रथमा विमानवाहिनिमहानौका  सागरस्पर्शाय सिद्धा भवति। राष्ट्रस्य महान् स्वप्न एव अनेन पुष्पितप्रायः अस्ति। महानौकायाः निर्माणप्रगतिम् अवलोकयितुं राष्ट्ररक्षामन्त्री राजनाथसिंहः शुक्रवासरे कोच्ची महानौकाशालां प्राप्नोति। रूसियं साङ्केतिकविज्ञानमाधारीकृत्य एव महानौकायाः Integrated Platform Management System नामकं संविधानं सज्जीकृतम्। 

  २००९ तमे वर्षे अस्याः विमानवाहिनिमहानौकायाः निर्माणं प्रारब्धम्। २०१३ तमे औद्योगिगं 'लोञ्चिंङ्' कृतम्। २०२० नवम्बरमासे प्राथमिकपरीक्षणेन विधत्तम्।

 परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखाः निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतम् ।

   नवदिल्ली> परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखा: निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतसर्वकारः निर्देशः अदात्। मुखपुस्तिका, ट्विट्टर् , इन्स्टग्राम्, युट्यूब् इत्यादि सामाजिकमाध्यमानां प्रति भवति निर्देशः। भारतस्य नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् अनुसृत्यैव भवति एषः निर्देशः।

यस्यकस्यापि व्यक्तेः नाम्नि व्याजलेखा अस्ति इति परिदेवनं लप्स्यते चेत् २४ होराभ्यन्तरे तत् निर्मार्जनीयम्। निर्देशो अवश्यं पालनीयः इत्यस्ति केन्द्रनूतनसूचनाप्रौद्योगिकमन्त्रालयेन सामूहिकमाध्यमान् प्रति प्रदत्तः आदेशः।

प्रमुखव्यक्तीनां नाम्नि व्याजलेखं निर्माय तेन दुष्टाशयानां प्रसारणं स्यात्। तद्वत् सामान्यजनानां नाम्नि व्याजलेखां निर्माय आर्थिकचौर्यमपि कर्तुं साहचर्यं वर्तते इत्यादीन् गणयित्वा एव भारतस्य नूतनसूचना-प्रद्यौगिक-विद्यामन्त्रालयस्य  नूतनाचरणनियमः।

Thursday, June 24, 2021

 विजयमल्यः, नीरवमोदी, मेहुल् चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सर्वस्वहरणं कृतम्।

  मुम्बई> आर्थिकापराधिरूपेण प्रख्यापितानां मदिराराजः विजयमल्यः, वज्रव्यापारिणौ नीरवमोदी, मेहुल चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सम्पदः 'इ डि' संस्थया सर्वस्वाहरणं कृतम्। तासु सम्पत्सु ९,३७१ कोटिरूप्यकाणां द्रव्यं सामान्यमण्डलवित्तकोशेभ्यः संक्रमितं च। वित्तकोशैः विनष्टीभूतानां २२,५८५कोटिरूप्यकाणां ८०.४५% भवत्येतत्। 

   २०१६ मार्च् मासे भारतं त्यक्तवान् विजयमल्यः वर्तमाने ब्रिट्टनमधिवसति। तमुपधार्थं भारतमानेतुं प्रक्रमाः अन्तिमस्तरे सन्ति। पञ्चाब् नाषणल् बाङ्कात् नीरवमोदी मेहुल् चोक्सी च १३,०००कोटि रूप्यकाणि अपहृत्य २०१८ जनवरिमासे राष्ट्रं त्यक्तवन्तौ। नीरवः इदानीं दक्षिणपश्चिमलण्टनस्थे 'वान्स् वर्त्' कारागृहे बद्धः अस्ति। आन्टिग्वादेशं प्राप्तः मेहुलः समीपकाले डोमिनिक्काप्रदेशे ग्रहीतः वर्तते। तौ द्वावपि भारतमानेतुं पदक्षेपाः अनुवर्तन्ते।

 कोविड् वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्यः यात्राचीटिकाशुल्के प्रतिशतं दश इति न्यूनीकृत्य  इन्डिगो ।

 नवदिल्ली> कोविड्वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्य: इन्डिगो एयर्लैन्स् संस्थया यात्राचीटिकाशुल्कं  न्यूनीकृतम्।  वाक्सिनस्य प्रथममात्राम् अथवा द्वितीयमात्रां स्वीकृतेभ्यः यात्रिकेभ्यः अद्य आरभ्य यात्राशुल्के समाश्वासः लभते इति एयर्लैन्स् संस्थया आवेदितम्।

अष्टादशोपरिवयस्कानां यात्रिकाणामेव न्यूनीकृत-चीटिकाशुल्कं लप्स्यते। चीटिका स्वीकरणसमये  वासः भारते भवितव्यं तथा वाक्सिनस्य स्वीकारः कृतं स्यात् इत्यादयः भवन्ति अर्हतायाः मानदण्डः। अर्हाः यात्रिकाः स्वास्थ्यमन्त्रालयेन दत्तं कोविड्वासनीकरणप्रमाणपत्रं यात्रावेलायां प्रदातव्यम् अस्ति।

Wednesday, June 23, 2021

 जेट् एयर्वेस् पुनः डयिष्यते। कम्पनी न्यायाधिकरणस्य अङ्गीकारः।

  मुम्बै> जेट् एयर्वेस् संस्थायाः उत्तरदायित्व योजनायै राष्ट्रिय-न्यायाधिकरणस्य अनुज्ञा लब्धा। यु के राष्ट्रस्य काल्रोक् क्यापिट्टलेन तथा यु ए इ राष्ट्रस्य संरम्भकै:  मुरारिलाल् जलानेन च समर्पितायै योजनायै एव अङ्गीकारो लब्धः। 

१३७५ कोटिरूप्यकाणि एव संस्थाद्वयेन व्ययीकर्तुं निश्चितः। कम्पनी न्यायाधिकरणस्य अङ्गीकारलब्ध्यनन्तरं षण्मासाभ्यन्तरे प्रवर्तनम् आरब्धुम्  निश्चितः। प्रथमस्तरे ३० विमानानि  सेवां करिष्यन्ति।

१९९३ तमे वर्षे नरेष् गोयलेन स्थापितस्य जेट् एयर्वेस् संस्थायाः  प्रवर्तनं गतएप्रिल्  मासस्य सप्तदश दिनाङ्के स्थगितम् अभवत्। १२४ विमानानि एतस्याः संस्थायाः स्वाधीने आसन्। अनन्तरकाले आर्थिकक्लेशेन अधिकतया ऋणं वर्धितम् अभवत्।

 सङ्गीतज्ञा पारश्शाला पोन्नम्माल्, गानरचयिता पूवच्चल् खादरश्च दिवंगतौ। 


अनन्तपुरी> केरलसङ्गीतमण्डल ह्यः नष्टद्वयम् अभवत्। प्रसिद्धा कर्णाटकसङ्गीतज्ञा पारश्शाला पोन्नम्माल् [९६] वार्धक्यसहजतया अस्वस्थतया ह्यः अनन्तपुर्यां वलियशाला ग्रामस्थे स्वभवने दिवंगता। 

  ९४ वयःपर्यन्तं पोन्नम्माल् वर्या विविधस्थानेषु सङ्गीतालापकार्यक्रमान् अवतारितवती। कोट्टक्ककं नवरात्रिमण्डपे प्रथमतया सङ्गीतकार्यक्रमम् अवतारितवती महिला इति बहुमतिः तस्याः नाम्नि वर्तते। २०१७ तमे पद्मश्री, २००९ तमे स्वातिपुरस्कारः, केन्द्र-संगीत-नाटक-अक्कादमी-पुरस्कारः, इत्यादिभिः बहुभिः पुरस्कारैः समादृता आसीत्। 

 पूवच्चल् खादरः।

अपारे काव्य संसारे कविरेव प्रजापतिः।
   शतशः आर्द्रमधुरगानानां रचनया केरलचलच्चित्रमञ्चे स्थिरप्रतिष्ठामवाप्तः पूवच्चल् खादरः हृद्रोगेण परलोकं प्राप्तवान्। कोविड्बाधितः सः अनन्तपुरी चिकित्साकलालये  परिचर्यायामासीत्। कोविड्मार्गनिर्देशान् परिपाल्य औद्योगिकबहुमानैः अन्त्येष्टिक्रियाः सम्पन्नाः।

Tuesday, June 22, 2021

 केरलेषु कोविडस्य नूतनविभेदः डेल्टा प्लस् दृढीकृत:।

   अनन्तपुरी> केरलेषु कोविड्१९ इत्यस्य नूतनविभेदः डेल्टा प्लस् वैराणोः सान्निध्यं स् दृढीकृतम्। पत्तनंतिट्टेषु एकस्य, पालक्काटे द्वयोः च रोगबाधा स्थिरीकृता। नवदेहल्यां सि एस् ऐ आर् ऐ जि ऐ बि संस्थया कृतायां परिशोधनायाम् एव दृढीकरणम् । पत्तनंतिट्ट कटप्प पञ्चायत् निवासिने पञ्च वयस्कबालकस्यैव रोगबाधा दृढीकृता। स्रवकणिकाम् उपयुज्य कृतेषु   (स्रवांशस्य ) जनितकाध्ययने एव नूतनविभेदस्य सान्निध्यं  दृढीकृतम्।

 'मोल्डोवा'देशःसामान्यजीवनं प्रत्यागच्छत्। 

     कोच्ची> आविश्वं सर्वेषु  राष्ट्रेषु  कोविड्भीतिषु आमग्नितेषु मोल्डोवा नामकः यूरोपीयदेशः साधारणजीवितं प्रत्यागच्छत्। कदाचिदपि सम्पूर्णं पिधानं तत्र न विहितम्। कर्कशेैः नियन्त्रणैः कोविड्रोगः पराजितः। एप्रिल् २८ तमे दिनाङ्के एव कोविड् निरोधाय नियन्त्रणानि तत्र दूरीकृतानि। मई २७तमे दिनाङ्के सामाजिकस्थानेषु मुखावरणं न उपयोक्तव्यमिति आदेशः कृतः। कक्ष्यासु प्रकोष्ठाध्ययनम् अचिरेणैव पुनरारप्स्यते 

  चिकित्साशिक्षणे प्रसिद्धे अस्मिन् राष्ट्रे उपसहस्रं भारतीयछात्राः अध्ययनं कुर्वन्ति।