OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 24, 2021

 विजयमल्यः, नीरवमोदी, मेहुल् चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सर्वस्वहरणं कृतम्।

  मुम्बई> आर्थिकापराधिरूपेण प्रख्यापितानां मदिराराजः विजयमल्यः, वज्रव्यापारिणौ नीरवमोदी, मेहुल चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सम्पदः 'इ डि' संस्थया सर्वस्वाहरणं कृतम्। तासु सम्पत्सु ९,३७१ कोटिरूप्यकाणां द्रव्यं सामान्यमण्डलवित्तकोशेभ्यः संक्रमितं च। वित्तकोशैः विनष्टीभूतानां २२,५८५कोटिरूप्यकाणां ८०.४५% भवत्येतत्। 

   २०१६ मार्च् मासे भारतं त्यक्तवान् विजयमल्यः वर्तमाने ब्रिट्टनमधिवसति। तमुपधार्थं भारतमानेतुं प्रक्रमाः अन्तिमस्तरे सन्ति। पञ्चाब् नाषणल् बाङ्कात् नीरवमोदी मेहुल् चोक्सी च १३,०००कोटि रूप्यकाणि अपहृत्य २०१८ जनवरिमासे राष्ट्रं त्यक्तवन्तौ। नीरवः इदानीं दक्षिणपश्चिमलण्टनस्थे 'वान्स् वर्त्' कारागृहे बद्धः अस्ति। आन्टिग्वादेशं प्राप्तः मेहुलः समीपकाले डोमिनिक्काप्रदेशे ग्रहीतः वर्तते। तौ द्वावपि भारतमानेतुं पदक्षेपाः अनुवर्तन्ते।

 कोविड् वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्यः यात्राचीटिकाशुल्के प्रतिशतं दश इति न्यूनीकृत्य  इन्डिगो ।

 नवदिल्ली> कोविड्वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्य: इन्डिगो एयर्लैन्स् संस्थया यात्राचीटिकाशुल्कं  न्यूनीकृतम्।  वाक्सिनस्य प्रथममात्राम् अथवा द्वितीयमात्रां स्वीकृतेभ्यः यात्रिकेभ्यः अद्य आरभ्य यात्राशुल्के समाश्वासः लभते इति एयर्लैन्स् संस्थया आवेदितम्।

अष्टादशोपरिवयस्कानां यात्रिकाणामेव न्यूनीकृत-चीटिकाशुल्कं लप्स्यते। चीटिका स्वीकरणसमये  वासः भारते भवितव्यं तथा वाक्सिनस्य स्वीकारः कृतं स्यात् इत्यादयः भवन्ति अर्हतायाः मानदण्डः। अर्हाः यात्रिकाः स्वास्थ्यमन्त्रालयेन दत्तं कोविड्वासनीकरणप्रमाणपत्रं यात्रावेलायां प्रदातव्यम् अस्ति।

Wednesday, June 23, 2021

 जेट् एयर्वेस् पुनः डयिष्यते। कम्पनी न्यायाधिकरणस्य अङ्गीकारः।

  मुम्बै> जेट् एयर्वेस् संस्थायाः उत्तरदायित्व योजनायै राष्ट्रिय-न्यायाधिकरणस्य अनुज्ञा लब्धा। यु के राष्ट्रस्य काल्रोक् क्यापिट्टलेन तथा यु ए इ राष्ट्रस्य संरम्भकै:  मुरारिलाल् जलानेन च समर्पितायै योजनायै एव अङ्गीकारो लब्धः। 

१३७५ कोटिरूप्यकाणि एव संस्थाद्वयेन व्ययीकर्तुं निश्चितः। कम्पनी न्यायाधिकरणस्य अङ्गीकारलब्ध्यनन्तरं षण्मासाभ्यन्तरे प्रवर्तनम् आरब्धुम्  निश्चितः। प्रथमस्तरे ३० विमानानि  सेवां करिष्यन्ति।

१९९३ तमे वर्षे नरेष् गोयलेन स्थापितस्य जेट् एयर्वेस् संस्थायाः  प्रवर्तनं गतएप्रिल्  मासस्य सप्तदश दिनाङ्के स्थगितम् अभवत्। १२४ विमानानि एतस्याः संस्थायाः स्वाधीने आसन्। अनन्तरकाले आर्थिकक्लेशेन अधिकतया ऋणं वर्धितम् अभवत्।

 सङ्गीतज्ञा पारश्शाला पोन्नम्माल्, गानरचयिता पूवच्चल् खादरश्च दिवंगतौ। 


अनन्तपुरी> केरलसङ्गीतमण्डल ह्यः नष्टद्वयम् अभवत्। प्रसिद्धा कर्णाटकसङ्गीतज्ञा पारश्शाला पोन्नम्माल् [९६] वार्धक्यसहजतया अस्वस्थतया ह्यः अनन्तपुर्यां वलियशाला ग्रामस्थे स्वभवने दिवंगता। 

  ९४ वयःपर्यन्तं पोन्नम्माल् वर्या विविधस्थानेषु सङ्गीतालापकार्यक्रमान् अवतारितवती। कोट्टक्ककं नवरात्रिमण्डपे प्रथमतया सङ्गीतकार्यक्रमम् अवतारितवती महिला इति बहुमतिः तस्याः नाम्नि वर्तते। २०१७ तमे पद्मश्री, २००९ तमे स्वातिपुरस्कारः, केन्द्र-संगीत-नाटक-अक्कादमी-पुरस्कारः, इत्यादिभिः बहुभिः पुरस्कारैः समादृता आसीत्। 

 पूवच्चल् खादरः।

अपारे काव्य संसारे कविरेव प्रजापतिः।
   शतशः आर्द्रमधुरगानानां रचनया केरलचलच्चित्रमञ्चे स्थिरप्रतिष्ठामवाप्तः पूवच्चल् खादरः हृद्रोगेण परलोकं प्राप्तवान्। कोविड्बाधितः सः अनन्तपुरी चिकित्साकलालये  परिचर्यायामासीत्। कोविड्मार्गनिर्देशान् परिपाल्य औद्योगिकबहुमानैः अन्त्येष्टिक्रियाः सम्पन्नाः।

Tuesday, June 22, 2021

 केरलेषु कोविडस्य नूतनविभेदः डेल्टा प्लस् दृढीकृत:।

   अनन्तपुरी> केरलेषु कोविड्१९ इत्यस्य नूतनविभेदः डेल्टा प्लस् वैराणोः सान्निध्यं स् दृढीकृतम्। पत्तनंतिट्टेषु एकस्य, पालक्काटे द्वयोः च रोगबाधा स्थिरीकृता। नवदेहल्यां सि एस् ऐ आर् ऐ जि ऐ बि संस्थया कृतायां परिशोधनायाम् एव दृढीकरणम् । पत्तनंतिट्ट कटप्प पञ्चायत् निवासिने पञ्च वयस्कबालकस्यैव रोगबाधा दृढीकृता। स्रवकणिकाम् उपयुज्य कृतेषु   (स्रवांशस्य ) जनितकाध्ययने एव नूतनविभेदस्य सान्निध्यं  दृढीकृतम्।

 'मोल्डोवा'देशःसामान्यजीवनं प्रत्यागच्छत्। 

     कोच्ची> आविश्वं सर्वेषु  राष्ट्रेषु  कोविड्भीतिषु आमग्नितेषु मोल्डोवा नामकः यूरोपीयदेशः साधारणजीवितं प्रत्यागच्छत्। कदाचिदपि सम्पूर्णं पिधानं तत्र न विहितम्। कर्कशेैः नियन्त्रणैः कोविड्रोगः पराजितः। एप्रिल् २८ तमे दिनाङ्के एव कोविड् निरोधाय नियन्त्रणानि तत्र दूरीकृतानि। मई २७तमे दिनाङ्के सामाजिकस्थानेषु मुखावरणं न उपयोक्तव्यमिति आदेशः कृतः। कक्ष्यासु प्रकोष्ठाध्ययनम् अचिरेणैव पुनरारप्स्यते 

  चिकित्साशिक्षणे प्रसिद्धे अस्मिन् राष्ट्रे उपसहस्रं भारतीयछात्राः अध्ययनं कुर्वन्ति।

 तमिलनाडे पिधानं दीर्धीकृतम्। 

   चेन्नई> यत्र यत्र कोविड्व्यापनम् अवकुञ्चितं तत्र तत्र नियन्त्रणेषु लाघवं विधाय तमिलनाट् राज्ये पिधानं मेय्मासस्य २८ दिनाङ्कपर्यन्तं दीर्घीकृतम्। चेन्नई मध्ये समीपजनपदेषु च सामान्यगमनागमनम् अनुमोदितम्। कोविडस्य व्यापनमानमनुसृत्य जनपदान् विभागत्रयं वर्गीकृत्य एव लाघवं प्रदत्तम्।

Monday, June 21, 2021

 ब्रसीले कोविड्मरणानि पञ्चलक्षमतीतानि; निस्संगतया सर्वकारः। 

   रियो डि जनैरो> रोगव्यापने तीव्रे, वाक्सिनीकरणे मन्दे च ब्रसीलराष्ट्रे कोविड्बाधया मृतानां संख्या ५लक्षमतीता। यू एस् राष्ट्रस्यानन्तरं विश्वे अधिकाधिकं कोविड्मरणानि जायमानं राष्ट्रमस्ति ब्रसीलः। 

   उपगम्यमाने शिशिरकाले रोगव्यापनमतितीव्रं भविष्यतीति स्वास्थ्यविचक्षणाः पूर्वसूचनां दत्तवन्तः तथापि शारीरिकदूरपालनमभिव्याप्य कोविड्मार्गनिर्देशान् प्रवृत्तिपथमानेतुं राष्ट्रस्य जैर् बोल्सनारो सर्वकारः निस्संगत्वं भजते इति वृत्तान्तः अस्ति। विषयेSस्मिन् जनाः शनिवासरे प्रतिषेधमकुर्वन् च।

  ब्रसीले २१.३कोटिषु जनेषु केवलं १२ प्रतिशतं जना एव वाक्सिनीकृताः।

 शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन नवपदं प्राप्तम्।

  बेय्जिङ्> शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन वक्सिनीकरणप्रक्रियायां सुप्रधानस्थानं सम्पादितम्। शनिवासरपर्यन्तं चीनेषु कोविड्वाक्सिनस्य १,०१,०४,८९,००० मात्रामितानि सूच्यौषधानि अदात् इति राष्ट्रियस्वास्थ्यायोगेन (एन् एच् सि) आवेदितम्।

   लोके सर्वत्र इतः पर्यन्तं कोविड्वाक्सिनस्य २५० कोटिमितः वाक्सिनः एव प्रदत्तः। तेषु प्रतिशतं चत्वारिंशत् मितं सूच्यौषधं चीनेषु एव दत्तम्। तेषु शतकोटिमितस्य सूच्यौषधस्य प्रयोगः शनिवासरात्पूर्वं पञ्चदिवसाभ्यन्तरे एव पूर्तीकृतः इति राष्ट्रियस्वास्थ्यायोगम् उद्धृत्य सिन्हुवा वार्तासंस्थया आवेदितम्।

Sunday, June 20, 2021

 कवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। 

      केरलीयानां प्रियकवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। कोविद्रोगग्रस्तः सः विगते जनुवरि मासे दिवङ्गतोभवत्। तस्मै जनप्रियकवये समादरमादायागच्छति आक्कुलं केन्द्रीयविद्यालयस्य संस्कृतशिक्षकः श्री षिबुकुमारः। अनिल् पनच्चूरान् वर्यस्य चोर वीण मण्णिल् निन्नुम् इति विश्वप्रसिद्धस्य मलयाळगीतस्य संस्कृतानुवादं कृत्वैव प्रियकवये समादरो विहितः। अनिल् पनच्चूरान् वर्यस्य मृतिदिने (3.1.21) एव षिबुकुमारः अस्य संस्कृतानुवादम् अकरोत्। अडूर् केन्द्रीयविद्यालयस्य संगीतशिक्षिका श्रीमती जया एस् एवास्यालापनम् अकरोत्। ह्यः वाचनदिनस्य शुभावसरे दक्षिणभारतस्य विख्यातः संगीतनिदेशकः श्री बिजिबाल् वर्यः तथा नियमसभासामाजिकः श्री वि.के प्रशान्तवर्यः चस्य गीतस्य प्रकाशनमकुरुताम्। shibus Sanskrit इति युट्यूब् चानल् मध्ये एवेदं गानं प्रकाशितं वर्तते। षिबुकुमारः पूर्वमपि इतरभाषाणामनेकेषां गीतानां संस्कृतानुवादमकरोत्। तेषु समीपभूते किम् किम् किम् इति गीतं प्रचुरप्रचारमवाप्नोत। मनोहरम् इदं गीतं युट्यूब् चानल् मध्ये श्रूयताम् -

https://youtu.be/BrnREc8wwYI

 कोविडस्य तृतीयतरङ्गः बालकान् अधिकतया न बाधिष्यते इति एयिम्स् संस्था- अन्ताराष्ट्रिय स्वास्थ्यसंघटनं च ।

  नवदिल्ली> कोविडस्य तृतीयतरङ्गः बालकान् तीव्रतया न बाधिष्यते इति अध्ययनफलम्। अन्ताराष्ट्रियस्वास्थ्यसंघटनं तथा एयिम्स् संस्था च  संयुज्य कृते अनुसन्धाने एव एतत् निगमनम् । बालकेषु शून्य-भावात्मकमानः प्रौढजनापेक्षया अधिकतया न भवति इति अभिज्ञैः उक्तम्।  प्रायेण बालकाः रोगबाधिधाः अपि ते न अजानन् । अध्ययनार्थं विविधेभ्यः राज्येभ्यः अयुतम् अंशाः सञ्चिताः । भारते चतुर्राज्येषु ४५००  आदर्शांशाः स्वीकृताः। अधिकतया विवरणसञ्चयनं अनुवर्तमानम् अस्ति। द्वितीयतरङ्गानन्तरं नवदेहल्ल्यां प्रान्तप्रदेशेषु च शून्यभावात्मकमानम् अधिकोऽभवत् इत्यतः आगमिष्यमाणां तृतीयतरङ्गं प्रतिरोद्धुं सक्षमं भवति इति डो. पुनीत् मिश्रेण प्रोक्तम्।

Saturday, June 19, 2021

 अन्टोणियो गुट्टरसः पुनरपि यू एन् सचिवमुख्यः।

 न्यूयोर्क्> संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अन्टोणियो गुट्टरसः द्वितीयवारमपि पदं स्वीकृतवान्। गतदिने रक्षासमित्याः उपवेशने ऐककण्ठ्येन आसीत्तस्य चयनम्। 

  पोर्चुगलराष्ट्रस्य प्रधानमन्त्रिपदे विराजितः गुट्टरसः २००५ तः २०१५ पर्यन्तं यू एन् अभयार्थिक्षेमसंस्थायाः अधिकारी आसीत्। तदनन्तरं सः संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अवरोधितः। बृहद् वा लघु वा भवतु सर्वेषां राष्ट्राणां मध्ये मिथः विश्वासं सौहृदं च संवर्धयितुम् सर्वं करिष्यामीति द्वतीयवारस्थानलब्ध्यनन्तरं तेन प्रोक्तम्।

Friday, June 18, 2021

 केरले पिधानस्य लाघवं विहितम्। 

  अनन्तपुरी> केरले अद्य आरभ्य सम्पूर्णपिधानस्य नियन्त्रितरीत्या लाघवानि प्रख्यापितानि। कोविड्रोगव्यापनस्य आधारेण तद्देशीयशासनसंस्थाः विभिन्नरीत्या वर्गीकृत्य लाघवानि अनुमोदितानीति मुख्यमन्त्रिणा निगदितम्। किन्तु शनि रवि वासरयोः सर्वत्र सम्पूर्णं पिधानं विधास्यति। 

  रोगव्यापनस्य मापः [टि पि आर्] यत्र अष्ट प्रतिशतं नातिरिच्यते तादृशासु प्रादेशिकशासनसंस्थासु नियन्त्रणेन अधिकतया सामान्यप्रवर्तनानि विधास्यन्ते। ८- २०%, २० - ३०%, त्रिंशदधिकम् इति क्रमेण लाघवे नियन्त्रणानि कठोरीभविष्यन्ति।

 बयोलजिक्कल् इ संस्थायाः भारतीयनिर्मितवाक्सिन: प्रतिशतं नवतिमितं प्रभावशाली इति कल्पते।

नवदेहल्ली> बयोलजिक्कल् इ संस्थायाः 'मेय्ड् इन् इन्ट्या वाक्सिनाय' कोविडस्य प्रतिरोधाय प्रतिशतं नवतिमितं प्रभावशालित्वं प्रतीक्षते इति केन्द्रसर्वकारस्य उपदेशकदलाङ्गेन डो. एन् . के. अरोरामहाशयेन उक्तम्। कोविड् महामार्याः प्रतिरोधाय कृतेषु आयोधनेषु एषः वाक्सिनः 'गेयिम् चेञ्चर्' भविष्यति इति तेन निगदितम्। 

इदानीं वाक्सिनस्य तृतीयस्तरपरीक्षणं प्रचलन्नस्ति। ओक्टोबर् मासाभ्यन्तरे वाक्सिनः लप्स्यते इत्यपि अरोरामहाशयेन उक्तम्। कोर्बिवाक्स् इति नामधेय: एषः वाक्सिन: नोवावाक्स् इति वाक्सिनसमानः भवति इत्यपि तेन प्रोक्तम्। ओक्स्फोर्ड् आस्ट्रासेनक्कस्य कोविषील्ड् उत्पादकः सीरम् इन्स्टिट्यूट् एव भारते नोवावाक्सस्य  उत्पादकः। उन्नत-फलप्राप्तिः तथा न्यूनमूल्यं च अस्य वाक्सिनस्य विशेषता भवति । वक्सिनस्य मात्राद्वयं केवलम् २५० रूप्यकेण दातुं शक्यते इत्यस्ति तेषां प्रतीक्षा।

Thursday, June 17, 2021

 कोविडस्य द्वितीयतरङ्गेन भारते ७१९ वैद्याः मृताः।

   नवदिल्ली> कोविडस्य द्वितीयतरङ्गेण भारते ७१९ वैद्याः मृताः इति भारत-औषधीय- सङ्घः ( ऐ. एम्. ए)। बिहार राज्ये भवन्ति मृतेषु अधिकाः (१११)वैद्याः। दिल्यां (१०७) उत्तरप्रदेशे (७९) पश्चिम वंङ्गे (६३) राजस्थाने (४३) केरले (२४) च भवन्ति। बीहारे अधिकं मृत्युमानां कथम् अभवत् इति जातुं ऐ एम्. ए द्वारा अन्वेषणं समारब्धमासीत्। कोविड् वैराणोः प्रथम तरङ्गे ७४८ वैद्याः मृताः आसन्। बहवः अनुवैद्याः अपि मृताः सन्ति इति पूर्ववृत्तान्तः स्मर्तव्यः एव।

Wednesday, June 16, 2021

 समुद्रहत्याप्रकरणे दशकोटि- परिहारधनस्य विषये निर्णयः। नियमप्रक्रमाणां परिसमाप्तिः।

     नवदिल्ली> भारते समुद्रहत्याप्रकरणे प्रचाल्यमानाः सर्वे प्रक्रमाः सर्वोच्चन्यायालयेन समापिताः। इट्टलीराष्ट्रेण परिहारधनत्वेन दत्तानि दशकोटिरूप्यकाणि धीवरयोः कुटुम्बाभ्यां तथा नौकायाः स्वामिने च दातुं केरलस्य उच्चन्यायालयाय उत्तरदायित्वम् अदात्। इट्टलीदेशे प्रचाल्यमानेषु विचारणा प्रक्रमेषु केन्द्रसर्वकारस्य केरलसर्वकारस्य च परस्परसहकारित्वम् आवश्यकम् इत्यपि सर्वोच्चन्यायालयेन निगदितम्। २०१२ फेब्रुवरिमासस्य१५ तमे दिने द्वौ केरलीयधीवरौ इट्टलीदेशस्य नाविकसेनायाः गोलिकाप्रहरेण मारितौ। अस्मिन् प्रकरणे अनुवर्तमानाः न्यायालयप्रक्रमाः एव सर्वोच्चन्यायालयेन समापिताः। केन्द्रसर्वकारस्य प्रार्थनां परिगणय्य एव न्यायालयस्य आदेशः। प्रकरणस्य समाप्तये केरलसर्वकारः अपि अनुकूलयत्। नाविकानां गोलिकाप्रहरेण मृतस्य जलस्तिनस्य, अजेष् पिङ्केः च कुटुम्बाय प्रत्येकं चतुष्कोटिरूप्यकाणि तथा नौकायाः स्वामिने परिहारधनत्वेन द्विकोटिरूप्यकाणि च लप्स्यन्ते। सर्वोच्चन्यायालयस्य आदेशम् अनुसृत्य दिल्लीस्थे 'पाट्याल-गृहन्यायालये' संभूतानि सर्वाणि प्रकरणानि इदानीं समापितानि।

Tuesday, June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।

Monday, June 14, 2021

 तैलमूल्यवर्धनम् निर्दोषमिति केन्द्रमन्त्री।

 कोविड्व्यापनं प्रतिरोद्धुं राष्ट्रस्य क्षेमप्रवर्तनेभ्यश्च केन्द्र-राज्यप्रशासनानाम् अधिकायःआवश्यकः, तदायः पेट्रोल् डीसलादितैलानामुपरि समर्पितेन करेणैव अधिगम्यते इति केन्द्रपेट्रोलियम् मन्त्रिणा धर्मेन्द्रप्रधानेनोक्तम्। तैलेन्धनानां मूल्यवर्धनेन सामान्यजनाः पीड्यन्ते इति दुरवस्थां मन्त्री अङ्गीकरोति।