OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 16, 2021

 समुद्रहत्याप्रकरणे दशकोटि- परिहारधनस्य विषये निर्णयः। नियमप्रक्रमाणां परिसमाप्तिः।

     नवदिल्ली> भारते समुद्रहत्याप्रकरणे प्रचाल्यमानाः सर्वे प्रक्रमाः सर्वोच्चन्यायालयेन समापिताः। इट्टलीराष्ट्रेण परिहारधनत्वेन दत्तानि दशकोटिरूप्यकाणि धीवरयोः कुटुम्बाभ्यां तथा नौकायाः स्वामिने च दातुं केरलस्य उच्चन्यायालयाय उत्तरदायित्वम् अदात्। इट्टलीदेशे प्रचाल्यमानेषु विचारणा प्रक्रमेषु केन्द्रसर्वकारस्य केरलसर्वकारस्य च परस्परसहकारित्वम् आवश्यकम् इत्यपि सर्वोच्चन्यायालयेन निगदितम्। २०१२ फेब्रुवरिमासस्य१५ तमे दिने द्वौ केरलीयधीवरौ इट्टलीदेशस्य नाविकसेनायाः गोलिकाप्रहरेण मारितौ। अस्मिन् प्रकरणे अनुवर्तमानाः न्यायालयप्रक्रमाः एव सर्वोच्चन्यायालयेन समापिताः। केन्द्रसर्वकारस्य प्रार्थनां परिगणय्य एव न्यायालयस्य आदेशः। प्रकरणस्य समाप्तये केरलसर्वकारः अपि अनुकूलयत्। नाविकानां गोलिकाप्रहरेण मृतस्य जलस्तिनस्य, अजेष् पिङ्केः च कुटुम्बाय प्रत्येकं चतुष्कोटिरूप्यकाणि तथा नौकायाः स्वामिने परिहारधनत्वेन द्विकोटिरूप्यकाणि च लप्स्यन्ते। सर्वोच्चन्यायालयस्य आदेशम् अनुसृत्य दिल्लीस्थे 'पाट्याल-गृहन्यायालये' संभूतानि सर्वाणि प्रकरणानि इदानीं समापितानि।

Tuesday, June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।

Monday, June 14, 2021

 तैलमूल्यवर्धनम् निर्दोषमिति केन्द्रमन्त्री।

 कोविड्व्यापनं प्रतिरोद्धुं राष्ट्रस्य क्षेमप्रवर्तनेभ्यश्च केन्द्र-राज्यप्रशासनानाम् अधिकायःआवश्यकः, तदायः पेट्रोल् डीसलादितैलानामुपरि समर्पितेन करेणैव अधिगम्यते इति केन्द्रपेट्रोलियम् मन्त्रिणा धर्मेन्द्रप्रधानेनोक्तम्। तैलेन्धनानां मूल्यवर्धनेन सामान्यजनाः पीड्यन्ते इति दुरवस्थां मन्त्री अङ्गीकरोति।

 साहचर्यप्रमाणानि चीनं विरुद्धय। वैराणुप्रसरणं  व्यूहान् जनपदात् एव- डो. मोनाली रहन्कारः।

  व्यूहान्-परीक्षणशालायां सञ्चित्य संरक्षितः सार्स् को वि २ वैराणुः  अप्रतीक्षतया प्रसार्य कोविड्-१९ आविर्भावस्य हेतुरभवत् इति  भारतीयवैज्ञानिका दृढीकृतवती। कोविडस्य उद्भवस्थानम् अधिकृत्य आगोलतले गवेषणपरीक्षणानि अनुवर्तमाने अवसरे अस्मिन् कोविड्वैराणुः प्रकृत्या जातः इति ऊहः अविश्वसनीयः इति पूनादेशस्य अघार्कर् रिसर्च इन्स्टिट्यूट् बयो एनर्जी संस्थायाः वैज्ञानिका डोक्टर् मोनाली रहन्कार् सूचयति। साहचर्यप्रमाणानि चीनस्य उत्तरदायित्वं दृढीकुर्वन्ति तदपि तेषां सकाशात् जातानि गुरुतराणि स्खालित्यानि  आच्छादयितुं चीनस्य राष्ट्राधिकारिणां सम्मर्दः अन्वेषणसंघाङ्गानां उपरि जायमानः आसीत् इत्यपि तया स्पष्टीकृतम्।  अस्मिन् विषये चीनेन लोकसमक्षं न्यायरहितानि बहूनि वादानि प्रस्तुतानि सन्ति इत्यपि सा अवोचत्। बहुनि साहचर्यप्रमाणानि सन्ति चेदपि वैराणोः आविर्भावः चीनस्य परीक्षणशालायाः वा न वा इति अन्वेषणसंघेन अतिचातुर्येण आच्छादितः इति लोकस्वास्थ्यसंघटनस्य आवेदने सुव्यक्तं दृश्यते इति मोनाल्या निगदितम्।

Saturday, June 12, 2021

 राष्ट्रस्तरे ऐ सि एम् आर् संस्था 'शून्यसमीक्षणं' विधास्यति। 

  नवदिल्ली> कोविड् व्यापनं भारते आकुञ्चतीति गतसप्ताहस्य अवस्थावृत्तान्तानालक्ष्य स्वास्थ्यमन्त्रालयेन निगदितम्। एप्रिल् ३०तः आरभ्य मेय् ६ पर्यन्तं वर्तिते सप्ताहे रोगस्पष्टतामानं [TPR] २१.६% इत्येतत् अधुना ५.१४% प्रति सप्ताहं इति आकुञ्चितम्। गतदिने ९१,७०२ नूतनानि कोविड्प्रकरणानि आवेदितानि। अनुस्यूततया चतुर्थं दिनं भवति यत्र प्रतिदिनरोगिणां संख्या ऊनलक्षं वर्तते। 

   रोगव्यापनं कियन्मात्रमभवदिति निर्णेतुं ऐ सि एम् आर् संस्थया देशीयस्तरे 'शून्यसमीक्षणं' चालयिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् उक्तवान्। राज्येष्वपि जनपद-प्रादेशिकस्तरेषु ईदृशं समीक्षणं करणीयम् - डो. पोल् वर्यः प्रावोचत्।

 ए टि एम्  परिपालनव्ययः  उपयोक्तृणां सकाशात् स्वीकर्तुम्  अनुज्ञा दत्ता।

ए. टि. एम्. (धनादानयन्त्रम्) सुविघापरिपालनव्यये वर्धिते अधिकव्ययः उपयोक्तृणां सकाशात् व्ययीकर्तुं रिज़र्ववित्तकोशेन अनुज्ञा दत्ता।

धनं प्रतिग्रहीतुं (withdrawal) शुल्कः पञ्चदश रूप्यतः सप्तदशरूप्यकाणि तथा आर्थिकेतरविनिमयाय पञ्चरूप्यतः षट्रूप्यकाणि इति क्रमेण वर्धयिष्यते। आगस्त् मासस्य प्रथमदिनादारभ्यैव नवीकृतमूल्यानि प्रबलं भविष्यति।  निशुल्कपरिधेः अतिरिच्य ए टि एम्  विनिमयस्यैव एषा वर्धना। स्वकीय वित्तकोशस्य धनादानयन्त्रद्वारा प्रतिमासं पञ्चवारं धनस्वीकरणं निश्शुल्कम् अनुवर्तते। अन्तर्वित्तकोशविनिमयाय विनिमयशुल्कः विंशति रूप्यकाभिः एकविंशति रूप्यकाणि भविष्यति।  २०२२ जनुवरिमासस्य प्रथमदिनाङ्कादारभ्य एतत् प्रबलं भविष्यति।

 भारत - बङ्लादेशसीमनि चीनस्य नागरिकः  संग्रहीतः।

      नवदिल्ली> सन्देहजनकसाहचर्येषु भारत-बङ्लादेशसमीपसीमनि  दृष्टः चीनस्य नागरिकः सुरक्षासेनया संग्रहीतः। पश्चिमवङ्गदेशसीमनि सन्देहजनकप्रवर्तनेषु व्यापृतः हान् जुन्वे एव संग्रहीतः इति भारत-सीमारक्षासेनया आवेदितम् ।

 बङ्लादेशस्य प्रवेशानुमतिपत्रसहितस्य तस्य सकाशात् चीनस्य पारपत्रम्, अङ्कसङ्गणकं, त्रीणि सिं पत्राणि इत्यादीनि सुरक्षासेनया संग्रहीतानि। गुरुवासरे प्रातः एषः संग्रहीतः इति आवेद्यते। तस्मै आङ्गलेयं न जानाति इत्यतः मान्डरिन् भाषायां प्रवीणं अधिकारिणं निमन्त्र्य परिप्रश्नं करोति। गुप्तान्वेषणविभागः अपि  परिप्रश्नं  कुर्वन्नस्ति।  अस्य बङ्लादेश-सन्दर्शनस्य उद्देश्यं किम् इति ज्ञातुम् अधिकारिणः प्रयत्नं कुर्वन्ति। विशदरीत्या परिप्रश्नं कृत्वा एव कार्याणि अवगन्तुं शक्यते इति अधिकारिणः वदन्ति। तेन साकं अन्यबड्लादेशजनाः अपि भारतीयसीमां उल्लङ्घयितुं प्रयत्नाः कृताः किं  इति सुरक्षासेना परिशोधयन् अस्ति।

 अद्य विश्व-बालविरुद्ध श्रमदिनम्।

 https://livesanskrit.com/Sansgreet

Friday, June 11, 2021

 कर्णाटके ११ जनपदेषु पिधानं दीर्घीकृतम्। 

बेंगलुरु> कर्णाटकराज्ये कोविड् व्यापनं तीव्रतया वर्तितेषु ११ जनपदेषु पिधानं जूण् २१तम दिनाङ्कं यावत् दीर्घीकृतम्। रोगदृढीकरणमानम् आकुञ्चितेषु बेंगलुरु अभिव्याप्तेषु २० जनपदेषु १४ तमादारभ्य पिधाने लाघवं भविष्यति। 

   मुख्यमन्त्रिणः बी एस् यदूरियप्पस्य नेतृत्वे कृते मन्त्रिणां अधिकारिणां च उपवेशने आसीदयं निर्णयः।

 केरले सर्वत्र अन्तर्जालसेवां सज्जीकर्तुं परियोजना - मुख्यमन्त्री।

   अनन्तपुरी> केरलानां सर्वेभ्यः छात्रेभ्यः 'ओण् लैन् शिक्षां' दृढीकर्तुं सर्वेषु प्रदेशेषु अन्तर्जालसुविधां लब्धुं समयानुरोधिनीं परियोजनाम् आविष्करिष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। एतदर्थं ऐ टि सचिवमुख्यस्य संयोजकत्वे टेलिकों सेवादातॄणाम् अनुबन्धविभागानां सचिवप्रमुखानां च समितिः रूपीकृता। चतुर्दिनाभ्यन्तरे प्रवर्तनरूपरेखा सज्जीकरणीया इति मुख्यमन्त्रिणा निर्दिष्टम्। 

  कोविडस्य तृतीयतरङ्गं प्रतीक्षमाणेSस्मिन्नवसरे ओण् लेन् शिक्षणमनुवर्तनीयम्। तदर्थं अन्तर्जालसुविधा तटस्थं विना संचालनीया। एतदनुयुक्ताः अभियोजनाः आविष्कर्तुं सेवादातारः अभ्यर्थिताः।

Thursday, June 10, 2021

 विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।

भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।

भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।

 केरले 'ट्रोलिंङ्' निरोधः समारब्धः।

कोच्ची> केरलस्य तीरसमुद्रे अद्य आरभ्य ट्रोलिंङ् नामकस्य यन्त्रवत्कृत-यानमुपयुज्य मत्स्यबन्धनस्य निरोधः विहितः। मण्सूण् वर्षाकालः मत्स्यानां प्रजननकालः इत्यतः समुद्रे मत्स्यसम्पत्ति-संरक्षणाय कालानुसृतमयं निरोधः अनुवर्तमानः अस्ति। जुलाई ३१ दिनाङ्कपर्यन्तं ५२ दिनानि यावत्ट्रोलिंङ् निरोधः विहितः।

Wednesday, June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।

 विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः। 


 नवदिल्ली>विस्तारस्य बोयिङ् ७३७ विमानम् एव व्योमावर्ते निपतितम्। मुम्बैनगरात्  कोलकत्ता नगरं प्रति प्रस्थितं विमानं भूमौ स्थगनात्पूर्वं बहुवारं व्योमावर्ते पतितम् अभवत्। १३ यात्रिकाः विमाने आसन्। भूतलावरोहणाय पञ्चदश निमेषात्पूर्वमेव विमानं व्योमावर्ते निपतितम् इति विस्तारस्य वक्तारम् उद्धृत्य भारतीयमुद्रणन्यासेन (प्रस् ट्रस्ट् ओफ् इन्ट्यया) आवेदितम्। विमानपत्तनस्थानां स्वास्थ्यप्रवर्तकानां  प्राथमिकपरिचर्यानन्तरं यात्रिकाः  आतुरालयं नीताः। 

Tuesday, June 8, 2021

निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्। 

 नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपर्युक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्। 

  राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः  क्रेतुम् शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।

Monday, June 7, 2021

 चीने त्र्यधिकवयस्कान् वाक्सिनीकर्तुम् अनुज्ञा। 

  बय्जिङ्> चीनराष्ट्रे त्रिभ्य आरभ्य सप्तदशवयःपर्यन्तं बालेभ्यः अपि 'कोरोणावाक्'नामकं वाक्सिनं दातुमनुज्ञा दत्ता। सर्वकारस्य स्वामित्वे वर्तमानेन ग्लोबल् टैम्स् माध्यमेन एवेयं वार्ता बहिः प्रसारिता। 

  मनुष्येषु वाक्सिनस्य प्रथम द्वितीयस्तरपरीक्षणानि पूर्णतां प्राप्तानि। १-१७ वयस्काः शतशः बालसन्नद्धप्रवर्तकाः परीक्षणस्यास्य अंशाः अभवन्। वाक्सिनं फलप्रदमिति सिनोवाक् वाक्सिननिर्माणसंस्थायाः अध्यक्षेण यिन् वेय्तोङ् इत्यनेनोक्तम्।

Sunday, June 6, 2021

 अनुसर अथवा प्रत्याघाताय सज्जा भव इति ट्विटर् प्रति भारतसर्वकारस्य अन्त्यशासनम्।

-उणिकृष्णन् कुशस्थली -


  नवदिल्ली> भारतसर्वकार-ट्विट्टर् संस्थयोः मिथः संघर्षः वर्धते। सामाजिकमाध्यमेभ्यः कृते नूतन - तरङ्गव्यवहारिसंबन्धिनः स्वनियमान् (Digital) निर्मातुं ट्विट्टर् माध्यमं प्रति केन्द्रसर्वकारः अन्त्यशासनं अदात्। 'नूतनसूचनाप्रौद्योगिकविद्यानीतिः' अनुसर अथवा अनन्तरफलानि स्वीकर्तुं सज्जा भव इत्यादिष्ठा। नियमानां पालनाय अन्तिमावसरः एव अयम्। न अनुसरति चेत् IT Act २०००, ७९ अनुच्छेदम् अनुसृत्य ट्विट्टर् संस्थायै अलभमान नियमसुरक्षा निवारयिष्यति। पुनः नूतन प्रौद्योगिकविद्यानीतय: तथा भारते विद्यमानाः अन्याः दण्डनीतयः च अनुसृत्य दण्डनीतिम् अभिमुखीकरणीयम् अस्ति इति केन्द्रसर्वकारः विशदयति। 

उपराष्ट्रपतिः वेङ्कयनायिडुवर्यस्य वैयक्तिक-ट्विट्टर् लेखात् (personal Account) ट्विट्टर् सत्यापनपदकं (twitter verification badge) अपाकृतम् आसीत्। अस्मिन् सन्दर्भे आसीत् सर्वकारस्य अतित्वरितं अन्त्यशासनम्। गतषण्मासपर्यन्तं प्रवेश: (Login) न कृतः इति कारणात् एव ट्विट्टर् द्वारा blue tick निर्मार्जितम्।

 स्पुटनिक् वाक्सिनस्य उत्पादनाय सीरं संस्थायै प्राथमिकानुज्ञा।

नवदिल्ली> रष्याराज्येन संपुष्टीकृतस्य स्पुटनिक् वि नाम कोविड्प्रतिरोधकवाक्सिनस्य भारते उत्पादनाय, भारतस्य औषधनियन्त्रणमुख्येन(Drugs Controller General Of India)  सीरं संस्थायै प्राथमिकानुज्ञा दत्ता। स्पुट्निक् वि वाक्सिनस्य उत्पादनाय अनुज्ञायै सीरं संस्थया पूर्वं सम्प्रार्थितम् आसीत्। परीक्षणविशकलनानन्तरं पूनादेशस्थे- उत्पादककेन्द्रे  एव स्पुट्निक्  उत्पादयिष्यति इति उन्नतकेन्द्रान् उद्धृत्य राष्ट्रियवार्तामाध्यमेन आवेदित: । अधुना भारते वितरीकृतस्य कोविषील्ड् तथा कोवाक्सिन् औषधापेक्षया  प्रतिशतं ९१.६ फलप्राप्तिः  स्पुट्निक् वि वाक्सिनस्य अस्ति इति विशेषज्ञाः अभिप्रयन्ति।