OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 5, 2021

 केरलीयजलाशयसंरक्षकः एन्.एस् राजप्पः अन्ताराष्ट्रपुरस्कारेण समादृतः।


कोट्टयम्> उपजीवनेन सह जलाशयसंरक्षणे निरतः राजप्पः ताय्वानराष्ट्रेण पुरस्कृतः। कोट्टयम् आर्पूक्करा मञ्चाटिक्करदेशीयः एषः "तायवान् सुप्रिं मास्टर् चिङ् हाय् इन्टर्नाषणल् वेल्ड् प्रोट्टक्षन्" पुरस्कारेण एव समादृतः। आहत्य १०,००० यु एस् टोलर् धनेन (७,३०,०८१ रूप्यकाणि) तथा प्रशंसापत्रेण च सम्मानितः। शरीरस्य श्रोणीभागतः अधोभागपर्यन्तं चलनरहितः सः नौकायां सञ्चरन् जलाशये परित्यक्ताः पलास्तिककूप्यः सञ्चित्य तेषां विक्रयणेनैव उपजीवनं करोति स्म। प्रशसनीयं परिस्थितिसंरक्षणप्रवर्तनमेव राजप्पः कुर्वन् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना 'मन् की बात्' मध्ये सूचितम्। प्रतिकूलसाहचर्याणि विगणय्य राजप्पेन क्रियमाणं परिस्थितिसेवनं सर्वेषां मार्गदर्शकं भवति। जलाशयसंरक्षणेन पृथिव्याः संरक्षणमेव सः करोति इति ताय्वान् प्रशंसापत्रे उल्लिखितम् अस्ति।

Friday, June 4, 2021

 कोविडे १७४२ बालकाः अनाथाः अभवन्। 

   नवदिल्ली> कोविड् महामार्याम् अद्यावधि १७४२ पोताः पित्रोः वियोगेन अनाथाः जाताः इति राष्ट्रियबालाधिकारायोगेन स्पष्टीकृतम्। मार्च्मासादनन्तरं आराष्ट्रं नवसहस्राधिकाः बालकाः कोविड्महामार्याः बलिनः अभवन्। 

   मातापित्रोः अन्यतमस्य मरणेन ७४६४ बालकाः संरक्षणार्हाः भवन्ति। १४० बालकाः परित्यक्ताः। 'बालस्वराज् पोर्टल्' मध्ये मेय् २९ दिनाङ्कपर्यन्तं लब्धान् वृत्तान्तान् आधारीकृत्य आयोगेन सर्वोच्चन्यायालये समर्पिते शपथपत्रे एव एते वृत्तान्ताः।

   एतमावेदनपत्रमनुसृत्य पित्रोः मरणेन अनाथीभूतेषु अधिकतमाः बालाः मध्यप्रदेशे एव [३१८]। ततःपश्चात् बीहारः [२९२]। केरले ४९ बालकाः एवंप्रकारेण अनाथीभूताः। 

   संरक्ष्याणां बालकानां गणने उत्तरप्रदेशः अग्रे तिष्ठति। द्वितीयस्थाने बिहारः। तत्र १३२७ बालकाः संरक्षणीयाः सन्ति। तृतीयस्थाने स्थीयमाने केरले ९५२ बालकाः संरक्षणीयाः सन्ति। 

  अनाथानां तथा संरक्षणीयानां बालकानां कृते 'पि एम् केयेर्स्' निधिद्वारा विविधाः साहाय्यायोजनाः परिकल्पिताः इति शपथपत्रे स्पष्टीकृतमस्ति।

 अमेरिक्कावाक्सिनानि भारताय लभन्ते।

 नवदिल्ली> 'फैसर्', 'मोडेणा' इत्येनम् अमेरिक्कया निर्मितं वाक्सिनद्वयं भारते उपयोक्तुम् अनुज्ञा लप्स्यते। विदेशवाक्सिनानामुपयोगं परिशोधनं च सम्बध्य वर्तमानाः व्यवस्थाः लघूकृताः। 

   विश्वस्वास्थ्यसंघटनेन अनेकैः राष्ट्रैश्च अङ्गीकृतं तथा च कोटिशैः जनैः उपयुक्तमस्तीमं वाक्सिनद्वयम्। अनेन भारते अनुभूयमानस्य वाक्सिनदुर्भिक्षस्य 

परिहारः च भविष्यति।

Thursday, June 3, 2021

 राष्ट्रे  कोविड्रोगस्य द्वितीयतरङ्गस्य  अतितीव्रकालः समाप्त : इति केन्द्रः ।

नवदिल्ली> भारतस्य अर्धाधिकप्रदेशेषु कोविडस्य रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः एव। १४५ जिल्लासु प्रतिशतं पञ्च आरभ्य प्रतिशतं दश आभ्यन्तरे एव भवति। अतिरिक्तेषु २३९ जिल्लासु प्रतिशतं दश उपरि एव रोगस्थिरीकरणमानम् इति  ऐ सि एम् आर्  ( Director general) निदेशकमुख्येन डो.बलरामभार्गवेण  उक्तम् ।  लोकस्वास्थ्यसंघटनस्य निर्देशमनुसृत्य एकस्मिन् प्रदेशे अनस्यूततया द्विसप्ताहपर्यन्तं रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः चेत् कोविड्व्यापनं सुस्थिरं भवति इति वक्तुं शक्यते।

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति

 श्रीलङ्कातीरे दग्धा महानौका निमज्जमाना वर्तते। 

  कोलम्बो> श्रीलङ्कायाः समुद्रतीरे अग्निप्रकाण्डेन दग्धा पण्यमहानौका शीघ्रं निमज्जमाना वर्तते इति सूच्यते। सिंहपुरस्य स्वामित्वे विद्यमानायाः 'एम् वि एक्स्प्रस् पेल्' नामिकायाः महानौकायाः पश्चादंशः एव निमज्जति। अनेन महानौकां ततः अपनेतुं क्रियमाणानि प्रवर्तनानि स्थगितप्रायाणि जातानि। 

   मेय् मासस्य २० दिनाङ्के आसीत् महानौकायाम् अग्निप्रकाण्डः सञ्जातः। १३ दिनानां रक्षाप्रवर्तनानन्तरं मङ्गलवासरे अग्निशमनमभवत्। महानौकायामवशिष्टानि २८० टण् परिमितानि इन्धनानि ५० टण् परिमितानि वातकेन्धनानि च समुद्रं मिश्रयन्ति चेत् महद्दुर्घटनाय भविष्यतीति अधिकारिणः आकुलयन्ति।

Wednesday, June 2, 2021

 केरलेषु अन्तर्जालद्वारा  तत्समयसुविधया अध्ययनवर्षस्य समारम्भः। 

उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।

     प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः  न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति   विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि।  नूतनलोकः  छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति  सः छात्रान् अस्मारयत्।

Tuesday, June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।

 कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चयितव्य:।

 नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासं दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्तानां आर्थिकसमाश्वासं दातुं व्यवस्था अस्ति।तत्समानमेव राष्ट्रियदुरन्तनिवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि  अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारिरपि प्रकृतिदुरन्तत्वेन प्रख्यापितः अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टः।

Monday, May 31, 2021

 भारते कोविड्रोगिणः आकुञ्चन्ति। 

नवदिल्ली> राष्ट्रे कोविड्बाधितानां  प्रतिदिनसंख्या आकुञ्चतीति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने समाप्तासु २४ होरासु रोगबाधिताः १,६५,५५३ आसन्। ४६ दिनान्यनन्तरं भूयमाना न्यूनातिन्यूना संख्या एषा। 

   प्रतिदिनरोगस्थिरीकरणमितिस्तु ८.०२ प्रतिशतमिति कुञ्चितम्।अनुस्यूततया पञ्चदिनेषु १०प्रतिशतस्य अधः दृढीकरणमितिः वर्तते। ह्यः ३४६० जनाः मृत्युमुपगताः। आहत्य मृत्युसंख्या ३,२५,९७२ जाता।

 वियन्नाराष्ट्रे अतिविनाशकारी नूतनकोविड्विभेदः आवेदितः।

 एषः वायुद्वारा शीघ्रं प्रसरिष्यति।

 हनोय्> वियन्नाराष्ट्रे अतिविनाशकारी शीघ्रव्यापनकोविड्विभेदः आवेदितः। प्रथमदृष्ट्या द्वयोः विभेदयोः सङ्करविभागः एव आवेदितः। वियन्ना राष्ट्रे अधुना रोगबाधितानां संख्या प्रतिक्षणं वर्धमाना दृश्यते। कोविड्वैराणोः भारतस्य तथा यू .के भेदस्य सङ्करविभागः एव नूतनतया प्रसरति इति वियन्नस्य स्वास्थ्यमन्त्रिणा गुयन् तङ् लोङेन निगदितम्। अतिशीघ्रव्यापनशाली नूतनविभेदः वायुद्वारा शीघ्रं प्रसरिष्यति इति तेन पूर्वसूचना दत्ता।

इतः पर्यन्तं वियन्नाराष्ट्रे केवलं ६८५६ जनाः एव रोगबाधिताः। ४७ जनाः हताः च। गतवर्षापेक्षया नूतनरोगबाधितानां संख्या अनुक्षणं वर्धते।

Sunday, May 30, 2021

 संस्कृताध्यापकसंघटनस्य राज्यसचिवमुख्यः कोविड्बाधया मृतः।

कोल्लम्> 'केरलसंस्कृताध्यापकफेडरेषन्' (KSTF) इति शिक्षकसेवासंघटनस्य राज्यसचिवमुख्यः [General Secretary] पि जि अजित् प्रसादः [४९] कोविड्रोगबाधया मृतः। सप्ताहैकं यावत् कोल्लं नगरस्थे निजीयातुरालये परिचर्यायामासीत्। कोल्लं जनपदे एष़ुकोण् प्रदेशीयः सः कुलत्तूप्पुष़ा सर्वकारीयोच्चतर-विद्यालये अध्यापकः अस्ति। 

संघटनमण्डले विशिष्टतरः व्यक्तिविशेषः

   शिक्षकसेवासंघटनमण्डले श्रेष्ठतरं व्यक्तित्वमासीत् मृत्युमुपगतः अजित्प्रसादः। द्वादशसंवत्सराधिकेन कालेन सः KSTF संघटने अध्यक्ष - सचिवमुख्यरूपेण अध्यापकवृन्दस्य योगक्षेमाय अश्रान्तपरिश्रमं कुर्वन्नासीत्। भारते प्रप्रथमतया केरलराज्ये अस्ति प्रथमकक्ष्यातः संस्कृताध्ययनमारब्धम्। तदर्थम् आयोजितेषु आन्दोलनेषु ऊर्जप्रदाता अग्रगामी वीरयोद्धा आसीत् अजितप्रसादः। केरलस्य संस्कृतशिक्षकाणां सेवासम्बन्धसमस्याः एतस्य पदन्यासेनैव परिहृताः जाताः। केरले प्रवर्तमानस्य भाषा अध्यापक ऐक्यवेदी इत्यस्य संयोजकः अप्यस्त्येषः। 

   अजितप्रसादस्य पुत्री समीक्षा नामिका बालिका 'प्रथमकक्ष्यातः संस्कृताध्ययनम्' इति प्रकरणे बालाधिकारायोगात् अनुकूलविधिं सम्पाद्य जनप्रीतिं लब्धवती च।

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रधानमन्त्रिणः साहाय्यम् 

  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।

Saturday, May 29, 2021

 कोविडौषधस्य मूल्यं निश्चितम् - ९९० ₹। 

   नवदिल्ली> डि आर् डि ओ संस्थया आविष्कृतस्य कोविड् चिकित्सायामुपयुज्यमानस्य २-डि जि नामकौषधस्य मूल्यं भाण्डाय ९९० रूप्यकाणीति निश्चितमस्ति। केन्द्र-राज्यसर्वकारेभ्यः न्यूनितमूल्येन दास्यतीति डि आर् डि ओ संस्थया निगदितम्।

   जले विलय्य सेव्यमानं चूर्णरूपमिदमौषधम् आपत्कालीनोपयोगाय दातुं अस्य मासस्य आरम्भे भारतीय औषथनियन्त्रणाधिकारिणा अनुज्ञा लब्धा आसीत्।

Friday, May 28, 2021

 नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये वाट्स् आप् माध्यमाय भारतसर्वकारेण प्रतिवचनं दत्तम्। 

   नवदिल्ली> नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये जातस्य नियमस्पर्धायां वाट्स् आप् माध्यमाय प्रतिवचनं दत्वा केन्द्रसर्वकारः। पौराणां गोप्यतासंरक्षणाय सर्वकारः शपथबद्धः भवति। अपि च राष्ट्रे नियमव्यवस्थां पालयित्वा देशसुरक्षापालनमपि सर्वकारस्य उत्तरदायित्वमेव इति केन्द्रसूचनाप्रौद्योगिकविद्यायाः मन्त्रिणा रविशङ्करप्रसादेन उक्तम्। राष्ट्रस्य नियमव्यवस्थानुसारं गोप्यतासंरक्षणा धिकारः केवलं कोऽपि मौलिकावकाशः न। तत् न्यायानुसारं नियन्त्रणविधेयः भवति इति सः न्यवेदयत्। राष्ट्रसुरक्षा, सामान्यनियमाः, तथा विदेशराष्ट्रयोः मिथः सौहृदं इत्यादिषु बाधायुक्तान् विषयान् प्रतिरोद्धुं, बहिरानेतुं कृतापराधीन् दण्डयितुं च सन्देशस्य उद्भवस्थानं प्रकाशयितव्यमस्ति। स्त्रीणां बालकानां च सुरक्षा अस्मिन् अन्तर्भवति। तत् गोप्यतायाः उल्लङ्घनं न भवति इति भारतसर्वकारः स्वाभिमतं प्राकाशयत्।

   भारतसर्वकारस्य मार्गनिर्देशः शासननियमविरुद्धम् तथा उपभोक्तृणां गोपनीयताधिकारशलङ्घनं च भवति इति 'वाट्स् आप् ' सूचयति।

 लडाक् मध्ये इस्रयेलीय- उदग्रछायाग्राही-विन्यासाय भारतम् सज्जम् अभवत्।  चीनायाः सरणं निरीक्ष्यते।

   नवदिल्ली> लडाक् मध्ये यथार्थनियन्त्रणरेखायां इस्रयेलीय हेरोन् उदग्रछायाग्राहीविन्यासाय

 भारतं सज्जमभवत्।  भारतीयसेनायाः निरीक्षणक्षमतायाःशक्तीकरणाय एव उदग्रछायाग्राहिणः सेनायै प्रदास्यन्ते। इत्थं लडाक् मध्ये तथा चीनेन सह येषु प्रदेशेषु सीमां सीमां विभजते तेषु मण्डलेषु अपि चीनस्य प्रवर्तनानि कार्यक्षमतया निरीक्षितुम् भारतस्य अवसरोऽपि लभ्यते। कोविड्१९ महामार्याः कारणेन कालविलम्बो जातः तथापि भारतीयतीरसेनायै विलम्बं विना उदग्रछायाग्राह्यः लप्स्यन्ते इति सर्वकारवृन्दैः निगदितम्। नूतनस्य उदग्रछायाग्राहिणः   प्रतिलोमसम्मर्दक्षमता पुरातनापेक्षया अधिकतया अस्ति।

Wednesday, May 26, 2021

 सुबोधकुमार् जयस्वालः सि बी ऐ अधिकारी।


  नवदिल्ली> सि बि ऐ संस्थायाः मुख्यनिदेशकरूपेण 'महाराष्ट्र केडर्' ऐ पि एस् अधिकारी सुबोधकुमार जयस्वालः नियुक्तः। महाराष्ट्रस्य डि जी पि रूपेण सेवां कृतवान् सः इदानीं सि ऐ एस् एफ् इत्यस्य निदेशकप्रमुखरूपेण कार्यं करोति। 

 प्रधानमन्त्री, सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः, विपक्षनेता इत्येते निर्णायकाः। तैः अन्तर्भूयमानया समित्या अङ्गीकृतायाम् त्र्यङ्गयुतायां अन्तिमनामावल्यां वरिष्ठः भवति श्रीमान् जयस्वालः।

Tuesday, May 25, 2021

 श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः। 


लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादीनि एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति।