OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 13, 2021

 आरबसमुद्रे चक्रवातः; केरले अतिजाग्रता आवश्यकी। 

   अनन्तपुरी> आरबसमुद्रे लक्षद्वीपसमीपं शुक्रवासरे  न्यूनमर्दः रूपीक्रियमाणः अस्तीति पर्यावरणविभागेन निगदितम्। शनिवासरे अयं अतितीव्रः भविष्यति। रविवासरे अयं  चक्रवातरूपेण रूपान्तरं प्राप्य उत्तर-उत्तरपश्चिमदिशं प्रति गमिष्यति। 

  टौट्टे इति कृतनामधेयस्य अस्य चक्रवातस्य प्रभावेण केरलतीरे ८० कि मी परिमितशीघ्रेण झंझावातः अतिवृष्टिश्च भविष्यति। टौट्टेप्रभावं प्रतिरोद्धुं जाग्रतानिर्देशाः कृताः इति केरलस्य मुख्यमन्त्रिणा पिणरायिविजयेन प्रोक्तम्। मेय्मासस्य १४,१५, १६ दिनाङ्केषु विविधजनपदेभ्यः तीव्र - अतितीव्रजाग्रतासूचनाः प्रदत्ताः। केरलतटे अद्य आरभ्य मत्स्यबन्धनं निरुद्धम्।

 राष्टस्य भूरिजनपदेभ्यः षट् तः अष्टसप्ताहपर्यन्तं पिधानम् आवश्यकम्।

यदि नवदिल्ली उद्घाट्यते चेत् दुरन्तस्य आघातः द्विगुणीभविष्यति। 

कोविड् तीव्रव्यापनं - कर्णाटकेषु आगामिनि चतुर्दशदिनानि यावत् सम्पूर्णं पिधानं     प्रख्यापितम्।

लेखिका- रमा टि. के.

  नवदिल्ली> राष्ट्रे यत्र यत्र  जनपदेषु कोविड्  अतिव्यापनम् अभवत् तत्र तत्र षष्ठ सप्ताहात् आरभ्य अष्टसप्ताहपर्यन्तं  सम्पूर्णपिधानम् आवश्यकम् इति Indian council of medical research इत्यस्य अधिपेन डो. बलरामभार्गवेण उक्तम्। अनया रीत्या एव रोगव्यापनं प्रतिरोद्धुं शक्यते इति तेन उक्तम्। रोगव्यापन क्रमः प्रतिशतं दश  (१०% ) इत्यतः अधिकं चेत् नियन्त्रणानि अनुवर्तनीयानि। व्यापनं ५ -१० % इति न्यूनं भविष्यति चेत् उद्घाटनं करणीयम् इति तेन अभिप्रेतम्। इदानीं राष्ट्रस्य ७१८ जनपदेषु ७५ % जनपदेषु  रोगपरीक्षामानः १०% तः अधिकं वर्तते।

Wednesday, May 12, 2021

 इस्रयेल-पलस्तीनयोः सङ्घर्षे यू एस् राष्ट्रेण आशङ्का प्रकाशिता।

 गासा आक्रमणस्य पश्चात् इस्रयेलेन व्योमाक्रमणम् अनुवर्तते। पलस्तीनं प्रति इस्रयेलस्य आक्रमणे यू एस् राष्ट्रेण आशङ्का प्रकाशिता। सङ्घर्षे अनुवर्तिते सति द्वयोः राष्ट्रयोः मध्ये समस्यापरिहाराय साहाय्यं दास्यते इति वैट् हऊस् पत्रकार्यसचिवेन (press secretary) जेन् साकिमहाभागया वार्तामेलने उक्तम्। इस्रयेल-पलस्तीनाः स्वतन्त्रतायै अर्हाः भवन्ति इत्यपि तया उक्तम्। अन्यराष्ट्राणां नेतारः आक्रमणे अनिष्टं प्रकाशितवन्तः। आक्रमणे मृतानां संख्या वर्धते। इतः पर्यन्तं सप्तशताधिकाः ( ७०० ) जनाः व्रणिताश्च।

Tuesday, May 11, 2021

 चीनस्य अग्निबाणावशिष्टः भारतीयमहासमुद्रे पतितः। 

   बेय्जिङ्> दिनानि यावत् अनुवर्तितं भीतिं  समाप्य चीनेन विक्षिप्तस्य 'लोङ् मार्च् बी' नामकस्य अग्निबाणस्य अवशिष्टः भारतीयमहासमुद्रे गतदिने न्यपतत्। १८ टण् परिमितभारयुक्तः इत्यूह्यमानः अग्निबाणावशिष्टः भूमौ कुत्र पतित्वा नाशनष्टकारणं भवेदिति आशङ्कायामासीत् लोकः। 

  एप्रिल् २९ दिनाङ्के आसीत् चीनस्य टियाङोङ् निलयात् पूर्वोक्ताग्निबाणः भ्रमणपथं प्राप्तः। तस्य प्रत्यागमनवेलायां अग्निबाणस्य नियन्त्रणं विनष्टमिति मेय्मासस्य चतुर्थदिनाङ्के दृढीकरणमलभत। विनष्टनियन्त्रणः क्षेपणी प्रतिहोरं  २५,४९० कि मी शीघ्रतया क्ष्मां प्रति समागत्य समुद्रे अपतत्। भूरिशः अंशः भस्मीकृतः इति चीनस्य ज्ञापनम्। अन्ते, गते रविवासरे मालिद्वीपसमीपे समुद्रे विनष्टनियन्त्रणः क्षिप्तांशः पतितः।

 अफ्गानिस्थाने स्फोटनम् - १५ मरणानि। 

  काबूल्> अफ्गानिस्थाने रविवासरे रात्रौ सोमवासरे प्रभाते च दुरापन्ने विभिन्ने स्फोटनद्वये १५ जनाः हताः ; ४६ आहताश्च। काबूलस्थे पर्वान् प्रविश्यायां साबूलनामकस्थाने रविवासरे रात्रौ वीथीपार्श्वे स्थापितः बोम्ब् इति स्फोटकः स्फोटितः आसीत् । तत्र १३ जनाः मृताः,३७ व्रणिताश्च।

Monday, May 10, 2021

 भारते द्वितीयदिनेSपि कोविड्मरणानि चतुस्सहस्राधिकानि।

   नवदिल्ली> गतदिने भारते ४०९२ जनाः कोविड्बाधया मृत्युमुपगताः। अनुस्यूततया द्वितीयदिनमेव मरणसंख्या चतुस्सहस्रमतीयते।  रोगबाधितानां संख्या ह्यः ४,०३,७३८ अभवत्। अनुस्यूततया चतूर्थदिनं भवति प्रतिदिनरोगबाधा लक्षचतुष्कमतीयते। 

  ३७,३६,६४८ रोगिणः परिचर्यायां वर्तन्ते। ह्यस्तनमृत्युसंख्या अधिकतया वर्तमानानि राज्यानि- महाराष्ट्रं [८६४], कर्णाटकं [४८२], दिल्ली [३३२], यू पि [२९७], तमिलनाट् [२४१], छत्तीसगढं [२२३] । इतःपर्यन्तं १६, ९४, ३९,६६३ जनाः वाक्सिनीकृताः इति स्वास्थ्यमन्त्रालयेन सूच्यते।

 हिमन्द बिश्वशर्मा असममुख्यमन्त्री - अद्य शपथारोहणम्। 


    नवदिल्ली> असमराज्यस्य नूतनमुख्यमन्त्रिरूपेण भा ज पा नेता हिमन्द बिश्वशर्मा अद्य सत्यशपथं करोति। गतदिने गुहावत्यामायोजिते भा ज पा दलस्य विधानसभासदस्यानामुपवेशने सः नेतृरूपेण चितः। 

  इदानींतनमुख्यमन्त्री सर्बानन्दसोनोवालः उपवेशने हिमन्दस्य नाम निरदिशत्।

Sunday, May 9, 2021

 डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय अनुज्ञा लब्धा। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणकेन्द्रेण डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय 2-डि जि [2 de Oxi -D- Glucose] नामकाय आकस्मिकवेलायाम् उपयोक्तुम् 'ड्रग्स् कण्ट्रोलर् ओफ् इन्डिया' संस्थया  अनुज्ञा लब्धा। 

  ग्लूकोस् अस्त्यस्यौषधस्य प्रधानांशः। अतः इदमौषधं राष्ट्रे भूरिशः निर्मातुं वितरीतुं च शक्यत इति डि आर् डि ओ संस्थया निगदितम्। कोविड्रोगिषु कृते परीक्षणे अनुकूलं फलमजायत इत्यनेनैव अनुज्ञा लब्धा। डि आर् डि ओ संस्थायाः Institute of Nuclear Medicine and Allied Science lab तथा हैदराबादस्था Dr. Reddi's Laboratory इति संस्थया च सहयौगिकतया आविष्कृतमौषधं भवत्येतत्।

Saturday, May 8, 2021

 तमिलनाडे एम् के स्टालिनः शपथं कृतवान्। पुतुश्शेर्यां रङ्गस्वामी च। 


 चेन्नै>तमिलनाट् राज्ये डि एम् के दलस्याध्यक्षः एम् के स्टालिनः मुख्यमन्त्रिरूपेण शपथारोहणं कृतवान्। १५ नूतनमुखाः अभिव्याप्य ३३ मन्त्रिणश्च स्टालिनेन सह शपथवाचनमकुर्वन्। राजभवने सम्पन्ने कार्यक्रमे राज्यपालः बन्वारिलाल् पुरोहितः शपथवाक्यं कारितवान्। 

  पुतुश्शेरी केन्द्रशासनप्रदेशे मुख्यमन्त्रिरूपेण एन् अर् कोण्ग्रस् नेता एन् रङ्गस्वामी शपथारोहणमकरोत्। राजनिवासे सम्पन्ने ललितकार्यक्रमे लफ्. राज्यपालः तमिष़िसै सौन्दर्यराजः शपथवाक्यं कारितवान्। मन्त्रिणः विषये निर्णयः नाभवत्।

 केरले सम्पूर्णं पिधानम् आरब्धम्। 

   अनन्तपुरी> कोविड्महामार्याः नियन्त्रणस्य अंशतया केरलराज्ये अद्य आरभ्य मेय् १६ दिनाङ्कपर्यन्तं सम्पूर्णं पिधानं विहितम्। नव दिनानि सर्वे स्वस्वगृहे एव भवन्तु इति मुख्यमन्त्रिणा पिणरायि विजयेन निर्दिष्टम्। 

  तीक्ष्णानि नियन्त्रणानि विहितानि। पथगमनागमनं निरुद्धम्। सर्वकार-कार्यालयाः पिहिताः। सर्वविधसंघीकरणानि निरुद्धानि। नित्योपयोगवस्तुलभ्यानि आपणानि सायं सार्धसप्तदशवादनपर्यन्तं प्रवर्तयितुं शक्यन्ते। 

  केरले गतासु २४ होरासु ३८,४६० जनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं २६.६४ प्रतिशतमभवत्।

Friday, May 7, 2021

 नियन्त्रणातीतः चीनस्य अकाशबाणः शनिवासरे भूमौ पतिष्यति। 

चीनस्य नियन्त्रणातीतः  आकाशबाणः भूमौ पतिष्यति इति अमेरिक्केन पूर्वसूचना प्रदत्ता। शनिवासरे पतनं भविष्यति इति ज्ञात्वा विश्वराष्ट्रणि  आशङ्कायां वर्तन्ति। लोङ्ग् मार्च् ५ बि इति आकाशबाणः एव पतितुमारब्धःI एप्रिल्मासस्य २९ दिनाङ्कतः नियन्त्रकः नष्टः अभवत्।

Thursday, May 6, 2021

 भारते कोरोणवैराणोः तृतीया लहरी अपि भविष्यति। 'एयिंस्' अध्यक्षः।

    नवदिली> भारतेकोरोण वैराणोः तृतीया लहरी अपि भविष्यति इति 'एयिंस्' अध्यक्षेण रणदीप गुलेरिय इत्याख्येन पूर्वसूचना प्रदत्ता। राष्ट्रे कोरोणायाः अतिव्यापनम् एवम् अनुवर्तते चेत् भारतं तृतीयं कोरोणा लहरीं सम्मुखीकर्तुं वयं निर्बन्धिताः भवेयुः। किन्तु वाक्सिनीकरणं स्यात् तर्हि तृतीयां कोरोणालहरीं नियन्त्रणविधेया भविष्यति इति तेनोक्तम्।

Wednesday, May 5, 2021

 न्यायालय-व्यवहारप्रकाशनं निरोद्धुं न शक्यते- सर्वोच्चन्यायालयः। 

नवदिल्ली> न्यायालयान्तर्गतव्यवहाराणां बहिः प्रकाशनात् वार्तामाध्यमान् निरोद्धुं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठेन उक्तम्। स्वतन्त्रचर्चाभ्यः प्रश्नप्रतिवचनेभ्यः च उच्चन्यायालयान् नियन्त्रयित्वा तेषामात्मधैर्यं शमयितुमुद्देश्यः नास्तीति न्याय. डि वै चन्द्रचूडस्य नेतृत्वे विद्यमानः नीतिपीठः स्पष्टीचकार। 

  मद्रास् उच्चन्यायालयेन राष्ट्रिय निर्वाचनायोगं विरुध्य कृतं 'हत्यापराध'निरीक्षणे निर्वाचनायोगेन समर्पितायाः अभियाचिकायाः परिगणनावेलायामासीत् सर्वोच्चनीतिपीठस्यायं परामर्शः।

Tuesday, May 4, 2021

 प्राणवायुदुर्भिक्षः - कर्णाटके २४ कोविड्रोगिणः मृताः। 

  मैसुरु> कर्णाटकराज्ये चामराजनगरस्थे 'चामराजनगर् इन्स्टिट्यूट् ओफ् मेडिकल् सयन्स्' नामके सर्वकारातुरालये प्राणवायोः दौर्लभ्यतया २३ कोविड्रोगिणः अन्यस्मिन् निजीयातुरालये एकः रोगी अपि गतदिने मृत्युमुपगताः। कृत्रिमश्वसनसहाय्यां [Ventilator] प्रवेशिताः रोगिणः एव मृताः। 

   सर्वकारातुरालये सोमवासरे उषस्येव प्राणवायोरभावः स्यादिति वार्ता बहिरागता आसीत्। अतः मैसुरु वैद्यककलालयात् ५० गोलकानि प्रेषितानि। किन्तु तानि अपर्याप्तानि जातानि।

Monday, May 3, 2021

 केरले 'विजयतरङ्गः'।


    कोच्ची> केरले विधानसभानिर्वाचने मुख्यमन्त्रिणः पिणरायि विजयस्य व्यक्तिप्रभावेण सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यः तस्य शासनस्यानुवर्तनं दृढीचकार। १४० स्थानेषु ९९ स्थानानि वामसख्येन प्राप्तानि। मुख्यविपक्षदलं कोण्ग्रस् नेतृत्वे विद्यमानः ऐक्यजनाधिपत्यसख्यः अवशिष्टानि ४१ स्थानानि प्राप। स्वप्रभावं प्रकाशयितुम् भाजपानेतृत्वे विद्यमानेन एन् डि ए सख्येन अत्युत्साहेन कृतः भगीरथप्रयत्नः विफलः जातः। किञ्च हस्तागतं स्थानमेकं विनष्टं जातं च।

 तमिल्नाडे डि एम् के सख्यः विजयीभूतः। 


  चेन्नै> संवत्सरदशकस्यानन्तरं तमिलनाट् राज्ये एं के स्टालिनेन नीयमानस्य डि एम् के दलस्यनेतृत्वे विद्यमानाय सख्याय राज्यशासनं प्रत्यागच्छति। २३४ स्थानेषु १५६ अधिकानि स्थानानि डि एम् के सख्याय लब्धानि। विद्यमानशासनपक्षेण ए ऐ ए डि एम् के सख्येन ७८ स्थानानि प्राप्तानि। 

   नूतनराजनैतिकदलं रूपीकृत्य १८० अधिकेषु स्थानेषु स्पर्धितवते चलच्चित्राभिनेतुः कमलहासस्य 'मक्कल् नीतिमय्यं' दलाय च शून्यं स्थानमलभत। कमलहासः अपि कोयम्पत्तूर् मण्डले पराजितः।

Sunday, May 2, 2021

 संस्कृतपण्डितश्रेष्ठः प्रोफ. आर् वासुदेवन् पोट्टिः दिवंगतः। 


   अनन्तपुरी> भारतस्य संस्कृतपण्डितेषु अग्रगण्यः राष्ट्रपतिपुरस्कारजेता महामहोपाध्यायः आर्. वासुदेवन् पोट्टिवर्यः [९२] अद्य अनन्तपुर्यां दिवं प्राप्तः। 

  संस्कृतव्याकरण-वेदान्त-साहित्यादिविषयेषु लब्धावगाहः 'पोट्टिवर्यः' हिन्दीमलयालभाषयोरपि पण्डित आसीत्। कर्णाटकराज्यस्य दक्षिणकन्नडजनपदे लब्धजन्मनः तस्य विद्याभ्यासादिकं केरले एव सम्पन्नम्। अनन्तपुर्यामुषित्वा शिक्षामण्डले उन्नतबिरुदान् सम्पादितवान्। संस्कृतव्याकरणे महोपाध्याया इति बिरुदं, न केवलं तत्, ततःपरं वेदन्ते साहित्ये च आचार्यः इति बिरुदे, ततः मलयालभाषायां साहित्यविशारदं हिन्दीभाषायामाचार्यपदं च सः सम्पादितवान्। 

  केरलस्य विविधकलालयेषु वेदान्तविभागे प्राचार्यः, श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये वेदान्तविभागस्य 'डीन्', 'केरल भाषा इन्स्टिट्यूट्' मध्ये मलयालशब्दकोशस्य सहसम्पादकः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठं नामकमानितविश्वविद्यालये प्रयुक्तिपुरुषमुख्यः इत्यादिरूपेण सः स्वस्य कर्ममण्डले व्यराजत। सेवानिवृत्यनन्तरं दीर्घकालं सः केरलसर्वकारस्य संस्कृतपाठपुस्तकसमित्याः अध्यक्षो भूत्वा संस्कृतशैक्षिकक्षेत्रं सम्पन्नं कारितवान्। तथाच केन्द्रसाहित्य-अक्कादम्यां संस्कृतोपदेशसमित्यङ्गः , एन् सि ई आर् टि संस्थायाः पाठपुस्तकसमित्यङ्गः , केरलस्य विभिन्नकलाशालासु परीक्षा-प्रश्नपत्रसमित्यङ्गः, सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् मध्ये 'ओणररि प्रोफसर्' इत्यादिरूपेण स्वस्य वैज्ञानिकधिषणां बहुधा प्रकाशितवान्। 

 वरदराजाचार्यस्य लघुसिद्धान्तकौमुदी, केरलवर्मणः गुरुपुरेशस्तवं, बल्लालसेनस्य भोजप्रबन्धः, शङ्कराचार्यस्य आत्मानात्मविवेकः इत्यादीनां शास्त्रग्रन्थानां कैरल्यां संस्कृते च अनुवादव्याख्यानानि तस्य मुख्यकृतिषु अन्यतमाः विराजन्ते। 

   बहुविधैः पुरस्कारैः वासुदेवन् पोट्टिमहोदयः बहुवारं पुरस्कृतः आसीत्। तृप्पूणित्तुरा विद्वत्सभातः वेदान्तसुवर्णमुद्रा, पट्टाम्पी श्रीनीलकण्ठविद्वत्सभायाः शास्त्ररत्नसुवर्णमुद्रा, विश्वसंस्कृतप्रतिष्ठानस्य पण्डितरत्न-एम् एछ् शास्रीपुरस्कारौ, उडुप्पी तुलु ब्राह्मणसमाजात् श्रीराघवेन्द्रसाहित्यपुरस्कारः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठात् महामहोपाध्यायपदं, राष्ट्रपतेः बहुमतिपत्रं च तेन लब्धेषु पुरस्कारेषु कतिपयाः भवन्ति। 

  संस्कृतमातुः प्रियपुत्रस्य देहवियोगः संस्कृतवाङ्मये महतीं शून्यतां जनयति इति तदीयाः सहस्रशः शिष्याः गणयन्ति। पोट्टिमहोदयस्य अन्त्येष्टिः पुत्तन्कोट्टा रुद्रभूमौ सम्पन्ना।

 निर्वाचनफलम् अद्य। 

   नवदिल्ली> असमः, केरलं, तमिल् नाड् , पश्चिमवंगः इत्येतेषु राज्येषु तथा पोण्टिच्चेरि केन्द्रशासनप्रदेशे च सम्पन्नानां विधानसभानिर्वाचनानां मतगणना अद्य प्रातः अष्टवादने समारभ्यते। नववादनादारभ्य प्रथमफलसूचनाः लप्स्यन्ते। सायं सम्पूर्णं फलं प्रतीक्षते। 

   कोविड्मार्गनिर्देशान् कर्कशं परिपाल्य एव मतगणनाकार्यक्रमाः प्रचलन्ति। संघीभूय आह्लादप्रकाशनानि निर्वाचनायोगेन निरुद्धानि सन्ति।