OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 26, 2021

 इराखस्थे आतुरालये अग्निबाधा - ८२ हताः। 

    बाग्दाद् > इराखस्थे कोविडातुरालये शनिवासरे अर्धरात्रौ दुरापन्नायाम् अग्निबाधायां ८२ जनानां दारुणान्त्यम्। ११० जनाः आहताः। रोगिणः तेषामुपकारकाश्च मृतेषु भूरिशः। 

  दियाला ब्रिड्ज् प्रविश्यायां इब्न् अल् -खादिब् नामके आतुरालये एवेयं दुर्घटना। तीव्रपरिचरणविभागस्थं प्राणवायुसम्भरणीद्वयं विस्फोट्य एव अग्निबाधा जाता। राष्ट्रे साप्ताहिकं दुःखाचरणं प्रख्यापितम्।

Sunday, April 25, 2021

 उत्तरभारते प्राणवायोः दुर्लभता - ५६ मरणानि। 

    नवदिल्ली> उत्तरभारते बहुत्र आतुरालयेषु प्राणवायोः दुर्लभतया ५६ कोविड्रोगिणः गतदिनद्वये मृत्युमुपगताः। राजधानीनगरस्थे गङ्गारामातुरालये शुक्रवासरे २५ रोगिणः अवश्यानुसारं प्राणवायुमलब्ध्वा मृताः। ६० रोगिणः सङ्कटावस्थायां वर्तन्ते इति सूच्यते।

  दक्षिणपश्चिमदिल्यां जय्पुरं गोल्डण् आतुरालये गतदिने २५ रोगिणः प्राणवायोरभावेन कालगतिं प्राप्ताः। पञ्चाबे अमृतसरे नील् कान्तातुरालये ६ जनाश्च मृताः। 

  दिल्ल्यां बहुषु आतुरालयेषु प्राणवायोः अलभ्यता तीव्रं वर्तते। सरोज्, बत्रा, विंहान्स् इत्यादिषु आतुरालयेषु प्राणवायोः दुर्बभिक्षेण कोविड्रोगिणः प्रवेश अपि निरूद्धः। केषुचिदातुरालयेषु टाङ्कर् भारवाहनेन प्राणवायुः आनीतः इति आश्वासकरं भवति।

 १८ वयोपर्युतानां वाक्सिनं - बुधवासरादारभ्य पञ्जीकरणम्। 

   अनन्तपुरी> केरलेषु १८ वयोपरि वर्तितानां कृते कोविड्प्रत्यौषधलाभाय पञ्जीकरणं बुधवासरे आरप्स्यते। 

वर्तमाने 'कोविन्' अन्तर्जालके पञ्जीकर्तुं शक्यते। मेय्मासस्य प्रथमदिनाङ्कादारभ्य वाक्सिनीकरणम् आरप्स्यते इति स्वास्थ्यविभागेन निगदितम्।

Saturday, April 24, 2021

 मेय् जूण् मासद्वये मूल्यमुक्तं भक्ष्यधान्यम्। 

   नवदिल्ली> निर्धनानां कृते मेय् जूण् मासयोः 'प्रधानमन्त्री गरीब् कल्याणान्नयोजना' इत्यभियोजनाप्रकारेण केन्द्रसर्वकारः मूल्यमुक्तं भोज्यधान्यं प्रदास्यति। प्रतिपुरुषं पञ्चकिलोपरिमितं धान्यमेव लभते। एतदर्थं सर्वकारः २६,००० कोटिरूप्यकाणि व्ययं करिष्यतीति केन्द्रशासनस्य भक्ष्य सामान्यवितरणविभागस्य कार्यदर्शिना सुधांशु पाण्डे इत्यनेन उक्तम्। 

  ८०कोटिजनाः अस्याः अभियोजनायाः गुणभोक्तारः भविष्यन्ति। राष्ट्रे कोविडस्य द्वितीयतरङ्गे अभिमुखीक्रियमाणे दरिद्राः पोषकाहारलब्धाः भवितव्या इति तेन सूचितम्।

प्राणवायोः आनयनाय रेल्वे व्योमसेना च।

ऐकमत्यं भवति चेत् विभवदौर्लभ्यं न भविष्यतीति प्रधानमन्त्री।

    नवदिल्ली> राष्ट्रस्य विविधस्थानेषु कोविड्रोगिणां कृते प्राणवायोः आनयनाय रेल्वेसंस्था व्योमसेना च निर्दिष्टे इति प्रधानमन्त्रिणा नरेद्रमोदिना निगदितम्। तीव्रकोविडानां ११ राज्यानां केन्द्रशासनप्रदेशानां मुख्यमन्त्रिभिः सह सम्पन्ने अवलोकनमेलने भाषमाणः आसीत् प्रधानमन्त्री। 

  कोविडस्य वैराणुबाधा भारतस्य बहुषु महानगरेषु तीव्रं वर्तते। सर्वेभ्यः राज्येभ्यः केन्द्रसर्वकारस्य साहाय्यं सर्वथा लप्स्यते। वयमैकमत्येन वर्तते चेत् विभवदौर्लभ्यं न भविष्यति - प्रधानमन्त्री उदबोधयत्।

Friday, April 23, 2021

 सौदि अरेब्या राष्ट्रे रामायणं महाभारतं च पाठ्यविषयः भविष्यति।

   रियाद्> भारतस्य इतिहासौ सौदि अरेब्यराष्ट्रस्य शिक्षा प्रणाल्याम् अन्तर्भविष्यति। राजकुमारस्य मुहम्मद् बिन् सल्मानस्य नूतन-शिक्षायोजनया संबध्य भवति अयं निर्णयः।  Vision 2030 इत्यस्ति योजनायाः नाम। विविधराष्ट्रान् , राष्ट्राणां चरितं संस्कृतिं च अधिकृत्य नूतनानां नागरिकाणां ज्ञानवर्धनम् उद्दिश्य भवति अयं योजना। योगः आयुर्वेदः च पाठ्यक्रमे भविष्यतः इति अनुमीयते। सौदीजनाः निर्णयमङ्गीकृत्य तेषां तोषः प्रकाशितवन्तः अस्ति।

संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः।


 संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः। महाराष्ट्रे सोलापूरनगरे पुत्रस्य गृहे आसीत् सः।

   आजीवनं सः संस्कृतसंवर्धनाय प्रयत्नरतः आसीत्। एतदर्थम् सर्वत्र देशे तस्य भ्रमणम् आसीत्। बहूनि पुस्तकानि सः रचितवान्। महाराष्ट्रे सर्वकारीयरचनायां संस्कृतसंघटकरूपेण सः कार्यं कृतवान्, पाठ्यपुस्तकमण्डल्याम् अध्यक्षत्वेन तेन महत्कार्यं कृतम्।  विश्वसंस्कृतप्रतिष्ठाने स महामन्त्री रुपेण कार्यं कृतवान्। प्रतिष्ठाने संस्कृतकार्ये सर्वदा तस्य मार्गदर्शनं प्रोत्साहनं च आसीत्। तस्य निर्गमनेन संस्कृतजगतः महती हानिः जाता अस्ति।

तस्य कुटुम्बे पुत्रः बदिउज्जमा बिराजदार, कन्याद्वयं, पौत्रादयाः च सन्ति। अद्य अन्त्ययष्टिः भविष्यति।

Thursday, April 22, 2021

 

"माता भूमि: पुत्रोऽहं पृथिव्या:"


 लेखः-दीपकवात्स्यः www.samprativartah.in/sanskrit literature

Wednesday, April 21, 2021

 भारते प्रतिदिनकोविड्रोगिणः त्रिलक्षसमीपं प्राप्तम्। 

नवदिल्ली> भारते कोविड्रोगिणः प्रतिदिनसंख्या भीतिदा संवर्धते। गतदिने २,९५,०४१ जनाः कोविड्बाधिताः अभवन्। अनेन आहत्य १,५६,१६,१३० जनाः कोविड्बाधिताः इति सर्वकारगणनातः स्पष्टीक्रियते। 

     ह्यः एव २०२३ जनाः कोविड्बाधया मृत्युपुरिं प्राप्ताः। आहत्य १,८२,५५३ जनाः अनेन रोगेण कालवशं गताः। इदानीं २१,५७,८३८ रोगिणः परिचर्यायां वर्तन्ते। ह्यः १,६७,४५७ जनाः रोगमुक्ताः जाताः। १३ कोट्यधिकाः वाक्सिनीकृताः इति सर्वकारप्रस्तावे सूच्यते।

 वाक्सिनस्य निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां साहाय्यं निश्चितम्। 

  नवदिल्ली> राष्ट्रस्य वाक्सिन् निर्माण संस्थाभ्यां ४५०० कोटि रूप्यकाणां धनसाहाय्यं प्रदातुं केन्द्रसर्वकारेण निश्चितम्। सीरं इन्स्टिट्यूट् भारतबयोटक् इत्याख्ये संस्थे च  औषधनिर्माणं कुर्वत:। पूर्वधनराशिरूपेण  सीरं इन्स्टिट्यूट् संस्थायै ३००० कोटि रूप्यकाणि लप्स्यन्ते भारतबयोटक् संस्थायै  १५६७ कोटि रूप्यकाणि च लप्स्यन्ते। आहत्य  ४५०० कोटि रूप्यकाणां साहाय्यं भविष्यति। मेय् मासस्य प्रथम दिनाङ्कतः अष्टादश वयस्कादारभ्य सर्वेभ्यः नागरिकेभ्यः वाक्सिनौषधं दास्यति इति ख्यापनानन्तरम् आसीत् धनसाहाय्यम्  अधिकृत्य विज्ञापनम्।

Tuesday, April 20, 2021

 संस्कृतनगरपदमाप्तुं वाराणसी ।

  लख्नौ> प्रधानमन्त्रिणः मण्डले अन्तर्भूतं वाराणसीनगरं भारतस्य प्रथमं संस्कृतनगरम् इति पदप्राप्त्यर्थं उत्तरप्रदेशसर्वकारेण प्रयत्नमारभ्यते। अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते। 

  संस्कृतभाषाप्रवृद्ध्यर्थं सविशेषं निदेशकस्थानं [Directorate] स्थापयिष्यति। वार्तालेखाः संस्कृते प्रकाशयितुमारब्धाः। मुख्यमन्त्री योगी आदित्यनाथः स्वकीयट्वीट्सन्देशान् संस्कृते कर्तुमारब्धवान्।

  उत्तरप्रदेशस्य 'सेकन्टरि संस्कृत शिक्षासमित्याः' अधीने ११६४ संस्कृतविद्यालयाः सन्ति। तेषु ९७,०००अधिकाः छात्राः अध्ययनं कुर्वन्ति च।

 १८ वयोपर्यन्तेभ्यः अपि वाक्सिनम्। 

   नवदिल्ली> भारते १८ वयोपरि ४५ वयस्केभ्यः युवकेभ्य अपि कोविड्वाक्सिनसुविधां निर्णीय केन्द्रसर्वकारेण स्वीयवाक्सिननये समग्रं परिष्करणं कृतम्। गतदिने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे समायोजिते उपवेशने एवायं निर्णयः कृतः। मेय्मासस्य प्रथमदिनादारभ्य युवकेभ्यः वाक्सिनीकरणसुविधा लप्स्यते। 

  परिष्कृतमार्गनियमान् अनुसृत्य सामान्यविपण्यामपि वोक्सिनौषधं लप्स्यते। मूल्यविषये निर्णयः करणीयः। उत्पाद्यमानानाम्  औषधानामर्धभागः  केन्द्रसर्वकाराय राज्यसर्वकारेभ्यश्च वितरणं करणीयम्।

Monday, April 19, 2021

 कुजग्रहे उदग्रयानम् अटयत्। 'नास' संस्थायै प्रयत्नसाफल्यम्


नास> पेर्सिवियरन्स् रोवर् यानेन सह नास संस्थया विक्षिप्तम् इन्जे न्यूयिट्टि मार्स् उदग्रयानस्य प्रथम डयनं विजयम् अभवत्। अन्यग्रहेषु डयमानं मनुष्यनिर्मितं प्रथमं यानम् इति ख्यातिः इन्जे न्यूयिट्टि यानाय लब्धम्। सौरोर्जमुपयुज्य प्रवर्तमानम् उदग्रयानं (Helicopter) ३ मीट्टर् उन्नत्यां डयनं कृतम्। ३० निमेषपर्यन्तं डयनं कृत्वा अधः सुरक्षितया अवतरितं च।

 आविश्वं कोविड्बाधिताः १४.१४कोटिः। 

   वाषिङ्टण्> रविवासरस्य गणनामनुसृत्य आविश्वं कोविड्बाधितानां संख्या १४कोट्यधिक १४लक्षमतीता। रोगबाधया मृतानां संख्या ३० लक्षमतीताः। १२कोट्यधिकाः रोगमुक्तिं प्राप्ताः च। 

  त्रिकोट्यधिक२१लक्षाधिकेषु जनेषु रोगदृढीकृतं यू एस् राष्ट्रमेव रोगव्यापने अग्रस्थं भवति। भारतं, ब्रसील्, फ्रान्स्, रूस्, ब्रिट्टन्, तुर्की, इट्टली, स्पेयीन्, जर्मनी इत्येतेषु राष्ट्रेषु अत्यधिकाः रोगिणः वर्तन्ते। 

 ८७कोटि वाक्सिनं स्वीकृताः - आविश्वं कोविडस्य प्रत्यौषधं स्वीकृतवन्तः जनाः ८७ कोट्यतीताः। शनिवासरपर्यन्त-गणनामनुसृत्य १६५ राष्ट्रेषु ८७ कोट्यधिक८०लक्षं जनाः स्वीकृतवाक्सिनाः सन्ति। किन्तु केषुचन राष्ट्रेषु वाक्सिनवितरणं मन्दगत्यामेव प्रचलति।

 ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति।

   नवदिल्ली> राष्ट्रे ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति। तेषु राष्ट्रस्य मुख्य औषध निर्माणसंस्थायाः औषधान्यपि अन्तर्भवन्ति। वेदनासंहारिणः, अन्टीबयोटिक्, अलर्जी, कासादि रोगेषु उपयुज्यमानानि विंशत्यधिकत्रिशतात्परं औषधसंयुक्तानि (३२०+) निरोधनाय निर्णीतेषु औषधसंयुक्तानां पट्टिकायां सन्ति। औषधानां फलप्राप्तिम् अधिकृत्य विशेषसमितेः शङ्कानिवारणाय उपवेशनं भविष्यति। तदनन्तरमेव विषयेस्मिन् अन्तिमनिर्णयः स्वीकरिष्यति। ४०८ संयुक्तौषधानि एवं पूर्वं निरोधितानि सन्ति।

Sunday, April 18, 2021

 पश्चिमवंगः - पञ्चमसोपाने मतदानं ७८.३६%।

कोल्कोत्ता> पश्चिमवंग-विधानसभा-निर्वाचनस्य गतदिने सम्पन्ने पञ्चमचरणे ७८.३६% सम्मतिदायकाः स्वाभिमतं ज्ञापितवन्त इति प्रथमविश्लेषणे सूच्यते। ४५ मण्डलेषु मतदानं सम्पन्नम्। तत्र तत्र संघट्टनानि जातानीति सूच्यते।

 केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः। 

   अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति। 

  गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

हरिद्वारं> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति  अखाडसंस्थया  निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।