OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 17, 2021

 भारते प्रतिदिनकोविड्बाधिताः लक्षद्वयमतीताः। 

नवदिल्ली> कोविड् महामारेः द्वितीयतरङ्गे रोगबाधितानां प्रतिदिनसंख्या अनुस्यूततया द्वितीयदिनेSपि लक्षद्वयमतीताः। शुक्रवासरस्य प्रभाते समाप्तासु २४ होरासु २,१७,३५३ जनाः कोविड्बाधिताः अभवन्। १,१८५ मरणान्यपि गतदिने अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। राष्ट्रे आहत्य १,४२,९१,९१७ जनाः कोविड्बाधिताः अभवन्। 

 दशसु राज्येषु रोगव्यापनं तीक्ष्णं वर्तते। महाराष्ट्रं, केरलं, कर्णाटकं, तमिल्नाट्, आन्ध्रप्रदेशः, दिल्ली, उत्तरप्रदेशः,पश्चिमवंगः,छत्तीसगढः, राजस्थानम् इत्येतेषु राज्येषु रोगिणां प्रतिदिनसंख्या अत्यधिका जायमाना अस्ति। सर्वेषु राज्येषु रोगनियन्त्रणाय कठोराः पदक्षेपाः स्वीकृताः सन्ति।

Friday, April 16, 2021

 ब्रसीले कोरोणा P1 अतिशक्तः। युवानम् अपि बाधते।

   ब्रसीलिय> लाटिन् अमेरिक्क राष्ट्रेषु कोविड्- अतिव्यापनकारणं ब्रसीले विद्यमानः P१ श्रेणीस्थः वैराणुः इति आवेदनम्। 'आन्टी बोडी'तः रक्षां प्राप्तुं क्षमतायुक्तः भवति नूतनः वैराणुः इति वैज्ञानिकाः वदन्ति। पूर्विकानपेक्षया नूतनाय २.५ गुणिता प्यापनक्षमता अस्ति इति अध्ययनफले प्रतिपादयति। वैराणुव्यापनं प्रतिरोद्धुं ब्रसीलतः विमानसेवा स्थगायिता अस्ति। इयं P१ श्रेणी वैराणुः अतिवेगेन ब्रसीले व्याप्तमासीत्। युवानः अतिवेगेन अणुसङ्क्रमणेन बाधिताः भवन्ति इति अपघातस्यतीव्रतां संवर्धयति।

Thursday, April 15, 2021

 फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते।


   टोकियो> प्रातिवेशिकानां राष्ट्राणाम् अभिमतान् विगणय्य फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते। सागरसीमायां विद्यमानानि राष्ट्राणि मत्स्यबन्धन सङ्घटनाः च विषयेस्मिन् तेषां विप्रतिपत्तिं प्रकाशितवन्तः। २०११ तमे संवत्सरे दुरापन्ने सुनामि नामक जलोपप्लवे १.२५ मिल्यण् टण् मितं जलम् आणवनिलये बन्धितमासीत्। जलस्य निष्कासनम् अनिवार्यं कार्यमिति जापानस्य प्रधानमन्त्रिणा योषिहिडेसुखा मन्त्रिमण्डले अवदत् ।


 कोरानानिर्देशानां ये पालनं न कुर्वन्ति तेभ्यः प्रदेशसर्वकारस्य कठोरादेशः।

वार्ताहरः वत्स देशराज शर्मा।

     हरियाणा सर्वकारादेशस्य उल्लङ्घकाः ये ये निजीयविद्यालयानामध्यक्षाःवर्तन्ते तैःसह सर्वकारःकठोरतायाःपालनं करिष्यति। अप्रैलमासस्य त्रिंशतद्दिनाङ्कपर्यन्तं ये ये सञ्चालकाः विद्यालयसञ्चालनं करिष्यन्ति तदा सर्वकारःतेषां मान्यता विषये विचारं करिष्यति। परन्तु सर्वकारस्यैषःनिर्देशोऽपि विद्यालयानामुपरि प्रतिबन्धकरणेऽसमर्थः। शिक्षामन्त्री श्रीकंवरपालगुर्जरेण कथितं यत् विद्यालयानाम्परीक्षाऽपि ओनलाईनरूपेण भविष्यति यतोहि विद्यालयानां निर्वाहकत्वं अथवा अनिर्वाहकत्वं वा भवतु सर्वं सर्वकारस्याधिकारक्षेत्रे वर्तते। शिक्षामन्त्रिणा कथितं यत् ओण् लैन् परीक्षोपरि शीघ्रं कोऽपि निर्णय आगमिष्यति। यावत् कोऽपि निर्णयो न भविष्यति तावद्विद्यालयानां सञ्चालनमवरुद्धो भविष्यति । ये ये विद्यालयेषु एतदादेशस्य पालनं न करिष्यन्ति तेषां मान्यताऽपि निरस्ता भवितुं अर्हति।

Wednesday, April 14, 2021

 कोविड् कालनियमलङ्घनम्, प्रधानमन्त्रिणे दण्डशुल्कं विहितम्।

  ओस्लो>कोविड् कालनियमलङ्घनं कृतवान् इत्यनेन नोर्वे राष्ट्रस्य प्रधानमन्त्रिणे सोल्बगिने दण्डशुल्कं विहितम्। एषः स्वस्य जन्मदिनोत्सवे सामूहिकदूरं कोविड् प्रतिरोध मार्गान् च न परिपालितवान्। २००० नोर्वेधनम् दण्डरूपेण तस्मै विहितम्। स्वस्व दुष्ट प्रवृत्तिषु मन्त्री क्षमां प्रार्थितवान्।

 महाराष्ट्रे नियन्त्रणानि प्रबलानि अभवन्। अद्य 58,952 जनाः कोविड् रोगिणः अभवन्।

   मुम्बै> कोविड् रोगस्य अति व्यापनस्य कारणतः महाराष्ट्र सर्वकारेण अधिकनियन्त्रणानि उद्घोषितानि। १५ दिनेभ्यः भवति इयं नियन्त्रणानि। अवश्यसेवायै एव अनुज्ञा भवति। अद्य 58,952 जनाः कोविड् रोगबाधिताः अभवन्। 278 जनाः मृताः च। आहत्य 35,78,160 जनाः इत:पर्यन्तं रोगबाधिताः अभवन्। 

Monday, April 12, 2021

 नूतनशिक्षानीतिः - शिक्षामण्डले क्लेशान् दूरीकरिष्यति

वार्ताहरः -वत्स देशराज शर्मा


 कैथलम्> हरियाणा-ज्ञानविज्ञानसमितिः  कैथलहरियाणयोः विद्यालयाध्यापक-संघः कैथलः नूतनशिक्षानीतिः विंशत्युत्तर -द्विसहस्रतमे कन्वेंशनस्य आयोजनं कृतम्। राजबीरपाशरः महोदयः अवदत् यत् एषा नीतिः विद्यार्थिनः शिक्षणे क्लेशं दूरीकरिष्यति। झटिति शिक्षायां गुरुहोशियारसिंहः निजं विचारं प्रकटीकृतवान्। शिक्षायाः रूपरेखायां जयप्रकाशास्त्री स्वविचारम् अवदत्। प्रमोदवर्यः शिक्षाधिकारे उक्तवान्। ज्ञानविज्ञानसमिति-कैथलस्य उपाध्यक्षः विपिनकालड़ा महोदयः व्यवसायगतशिक्षाविषये विस्तृतरूपेण ज्ञापितवान्। जनरैलसिंहः सागवानः, पूर्वशिक्षकनेता शिक्षानीतेः सर्वविषयेषु स्वमतं प्रस्तुतम् अकरोत्।

 विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च 

-वार्ताहरः वत्स देशराज शर्मा।


 विद्यालयान् त्रयोविंशति अप्रैलपर्यन्तं पिधातुं निर्णीते निजिविद्यालयप्रबन्धकाः अभिभावकाः च दृढविरोधं कृतवन्तः। मण्ड्याः  हमीरपुरस्य च विद्यालयप्रबन्धकाः एकस्वरेण उक्तवन्तः यत् कोरोनाविषाणुं भयावहम् उक्त्वा विद्यालयपिधानस्य क्रमं प्रचलति। परन्तु निर्वाचनेषु कोरोणा पलायते वा इति ते पृच्छन्ति ...!

Sunday, April 11, 2021

 बंगाले निर्वाचनसन्दर्भे तृणमूल-भाजपायोः मध्ये सङ्घर्षः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः मृताः।

    कोल्कत्त> पश्चिमवंगे चतुर्थ श्रेण्यां निर्वाचनप्रसङ्गे तृणमूल-भाजपायोः मध्ये सङ्घर्षः जातः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः जनाः मृताः। कूच् बेहारप्रदेशे आसीत् सङ्घर्षः। घटनामधिकृत्य निर्वाचनायोगेन आवेदनम् आदिष्टम्। अष्टभिः चरणैः आयोजिताभिः निर्वाचनेषु चतुर्थश्रेण्याः प्रक्रमः आसीत् इदानीम्। मेय्मासस्य द्वितीय दिनङ्के मतदानगणना भविष्यति।

Friday, April 9, 2021

 तिरोभूतस्य सैनिकस्य चित्रं सामाजिकमाध्यमेषु - मावोवादिभिः सम्प्रेषितम्?

     विजपुरं> छत्तीसगढस्य बस्तर प्रविश्यायां गतदिने मावोवादिभिः सह दुरापन्ने संघट्टने तिरोभूतः 'कोब्रा'सैनिकः राकेश्वरसिंह मन्हासः इत्यस्य छायाचित्रं मावोवादिभिः सामाजिकमाध्यमद्वारा प्रसारयति। मावोवादिभिः बन्धिरूपेण गृहीतः इति सन्दिह्यमान सन्दिह्यमानस्य अस्यछायाचित्रं तैरेव बहिः प्रकाशितमिति सूच्यते। कस्यचन कुटीरस्य पुरतः उपविष्टरूपेणैव चित्रं दृश्यते। मन्हासस्य विमोचनाय मध्यस्थमार्गमन्विष्य कस्यचन प्रादेशिकमाध्यमप्रवर्तकमुपयाति स्म इति श्रूयते। किन्तु अस्य प्रस्तावस्य आधिकारिकतां निरीक्ष्यते इति सर्वकारेण स्पष्टीकृतम्।

 केरलस्य मुख्यमन्त्री भूतपूर्वमुख्यमन्त्री च कोविड्बाधितौ। 

    कोच्ची> केरले निर्वाचनसमाप्त्यनन्तरं कोविड्व्यापनं तीव्रं वर्तते। मुख्यमन्त्री पिणरायि विजयः, भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टिः च कोविड्बाधितौ अभवताम्। पिणरायि विजयः कोष़िक्कोट् सर्वकारीयातुरकलालये उम्मन् चाण्टिः अनन्तपुर्यां निजीयातुरालये च प्रवेशितौ। उभयोरपि स्वास्थ्यावस्था शोभना वर्तते।   ये जनाः एताभ्यां सह सम्पर्के वर्तिताः तैः एकान्तवासं प्रवेष्टव्याः इति उभे नेतारौ अभ्यर्थितवन्तौ।

 भारते द्विवारं कोविड् वैराणोः अति व्यापनम्। पिधानं न भविष्यतीति प्रधानमन्त्री।

राष्ट्रे कोविड् वैराणोः द्विवारव्यापनम् तीव्रतरम् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। किन्तु आराष्ट्रं पिधानं न भविष्यति इति प्रधानमन्त्रिणा संसूचितम्| प्रथमचरणस्य व्यापनत्वापेक्षया तीव्रतरम् भवति इदानीन्तन वैराणुव्यापनम्; अतः अवधानता सुरक्षाप्रक्रमाः पालनीयाः इति तेन उक्तम्।

Thursday, April 8, 2021

 SSLC , +2 परीक्षाः अद्य प्रारभन्ते। 

    अनन्तपुरी>  केरले दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाश्च [SSLC, +2] वर्षान्तसामान्यपरीक्षाः अद्य आरभन्ते। श्वः आरप्स्यमाणां VHSE परीक्षामभिव्याप्य त्रिष्वपि विभागेषु नवलक्षं छात्राः परीक्षार्थिरूपेण सन्ति। 

  SSLC परीक्षाः एप्रिल् मासस्य २९तमे, VHSE परीक्षाः २६ तमे च दिनाङ्के समाप्यते। SSLC परीक्षार्थं २९४७ केन्द्रेषु ४,२२,२२६ छात्राः सन्ति। गल्फ् राष्ट्रेषु ९ केन्द्राणि, ५७३ छात्राः, लक्षद्वीपे ९ केन्द्राणि ६२७ छात्राश्च परीक्षामभिमुखीकुर्वन्ति।

Wednesday, April 7, 2021

 केरले मतदानं प्रतिशतं ७४.०२। 

  अनन्तपुरी> केरलस्य पञ्चदशतमे विधानसभानिर्वाचने ७४.०२ % मतदायकाः गतदिने स्वाभिमतं ज्ञापितवन्तः। प्रचारणे राजनैतिकदलैः प्रकाशितस्य उत्साहानुसारं मतदानप्रकाशनं नाभवदिति सूच्यते। 

  उन्नततमं मतदानं कोष़िक्कोट् जनपदे ज्ञापितम् - ७८.३१%। न्यूनातिन्यूनं पत्तनंतिट्टा जनपदे दृष्टम् - ६८.१८%। मतगणना मेय् मासस्य द्वितीयदिने भविष्यति।

Tuesday, April 6, 2021

 इन्डोनेष्या पूर्वटिमोर देशयोः अतिवृष्ट्या १६१ मरणानि। 

    जक्कार्ता>  इन्डोनेष्या पूर्वटिमोर् देशयोः दिनद्वयात्पूर्वमारब्धायाः अतिवृष्ट्या‌ अंशतया जातेन मृत्प्रपातेन जलोपप्लवेन च १६१ जनाः मृत्युमुपगताः। अनेके अदृष्टाश्चाभवन्। 

  'फ्लोर्' द्वीपसमूहे आरब्धा अतिवृष्टिः पूर्वटिमोरदेशस्य राजधानीं दिलीतिस्थानं व्याप्ता जाता। पङ्कसङ्कुलः प्रतिकूलपर्यावरणञ्च रक्षाप्रवर्तनाय विघातं वर्तते इति सूच्यते।

 तमिल्नाटे पुतुच्चेर्यां च अद्य विधानसभानिर्वाचनम्। 

    चेन्नै> तमिल्नाट् राज्ये पुतुच्चेरी केन्द्रशासनप्रदेशे च अद्य विधानसभानिर्वाचनं प्रचलति। तमिल्नाट् विधानसभायाः २३४ मण्डलेषु पुतुच्चेर्याः ३० मण्डलेषु च एकेनैव चरणेन मतदानं विधास्यति। कन्याकुमारी लोकसभामण्डले चाद्य निर्वाचनं प्रचलति। 

   तमिलनाडु राज्ये ६.२९कोटि मतदायकाः स्वाधिकारं विनियोक्ष्यन्ति। ३९९८ स्थानाशिनः सदस्याभिलाषिणः सन्तः स्पर्धामञ्चे सन्ति। डि एम् के - कोण्ग्रस् सख्यं तथा ए ऐ ए डि एम् के - भाजपा संख्यं च प्रधानप्रतियोगिनौ वर्तेते। अभिनेतुः कमलहासस्य नेतृत्वे वर्तमानं 'मक्कल् नीतिमय्य'मिति राजनैतिकदलं च १४४ मण्डलेषु स्वशक्तिपरीक्षणं करोति।

 जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्। 


एरणाकुलम्> संस्कृतभाषाप्रचरणस्य अंशतया माध्यमिकस्तराः छात्राः संस्कृतभाषायामेव मतदानस्य प्राधान्यमालक्ष्य निर्वाचनावबोधप्रवर्तनं कृतवन्तः। केरले एरणाकुलं जनपदस्थे 'सौत् चिट्टुर्  सेन्ट् मेरीस् यू पि विद्यालयछात्राः एव ईदृशं सविशेषं प्रवर्तनं कृतवन्तः। 

 राष्ट्रस्य शोभनभविष्यत्कालकांक्षिणः जनाः सयुक्तिकं स्वकीयं मतदानाधिकारं कुर्वन्तु इत्यभ्यर्थयन्ति स्फोरकपत्रप्रकाशनेन छात्राः। राज्यस्य राष्ट्रस्य वा विकासप्रवर्तनैः सह आर्षभारतसंस्कृतेः उन्नमनाय तथा संस्कृतभाषायाः प्रचारणाय च स्वकीयशेषीविनियोगं साधयितुं प्रत्येकं स्थानाशिनं भाविनं शिक्षामन्त्रिणं च  अभ्यर्थयन्ति च छात्राः। अस्य विद्यालयस्य संस्कृताध्यापकः अभिलाष् टि प्रतापः अस्मिन्नायोजने नेतृत्वमावहत्।

Monday, April 5, 2021

 भारते कोविड्प्रकरणानि अनुदिनं प्रवर्धते। प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरोपवेशनं सम्पन्नम्। 

  नवदिल्ली> भारते कोविड्रोगिणां संख्या अनुदिनं वर्धते। गतदिने नूतनानां कोविड्रोगिणां संख्या ९३,२४९ अभवत्। गतसेप्तम्बरमासानन्तरं विद्यमाना उच्चतरसंख्येयम्। 

  ह्यः प्रधानमन्त्रिणः नेतृत्वे राज्यानाम् उन्नतताधिकारिणाम् उपवेशमायोजिम्। कोविड्प्रकरणानि नियन्त्रयितुं अवश्यान् पदक्षेपान् स्वीकर्तुं निर्णयः अभवत्। हस्तशुचित्वं, सामाजिकदूरपालनं, मुखावरणधारणम् इत्यादीनां पालनाय अवबोधः कार्यः। 

  महाराष्ट्रं पञ्चाबः, छत्तीसगड्, केरलमित्यादिषु राज्येषु कोविड्रोगः क्रमातीतेन वर्धते।