OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 9, 2021

 केरलस्य मुख्यमन्त्री भूतपूर्वमुख्यमन्त्री च कोविड्बाधितौ। 

    कोच्ची> केरले निर्वाचनसमाप्त्यनन्तरं कोविड्व्यापनं तीव्रं वर्तते। मुख्यमन्त्री पिणरायि विजयः, भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टिः च कोविड्बाधितौ अभवताम्। पिणरायि विजयः कोष़िक्कोट् सर्वकारीयातुरकलालये उम्मन् चाण्टिः अनन्तपुर्यां निजीयातुरालये च प्रवेशितौ। उभयोरपि स्वास्थ्यावस्था शोभना वर्तते।   ये जनाः एताभ्यां सह सम्पर्के वर्तिताः तैः एकान्तवासं प्रवेष्टव्याः इति उभे नेतारौ अभ्यर्थितवन्तौ।

 भारते द्विवारं कोविड् वैराणोः अति व्यापनम्। पिधानं न भविष्यतीति प्रधानमन्त्री।

राष्ट्रे कोविड् वैराणोः द्विवारव्यापनम् तीव्रतरम् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। किन्तु आराष्ट्रं पिधानं न भविष्यति इति प्रधानमन्त्रिणा संसूचितम्| प्रथमचरणस्य व्यापनत्वापेक्षया तीव्रतरम् भवति इदानीन्तन वैराणुव्यापनम्; अतः अवधानता सुरक्षाप्रक्रमाः पालनीयाः इति तेन उक्तम्।

Thursday, April 8, 2021

 SSLC , +2 परीक्षाः अद्य प्रारभन्ते। 

    अनन्तपुरी>  केरले दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाश्च [SSLC, +2] वर्षान्तसामान्यपरीक्षाः अद्य आरभन्ते। श्वः आरप्स्यमाणां VHSE परीक्षामभिव्याप्य त्रिष्वपि विभागेषु नवलक्षं छात्राः परीक्षार्थिरूपेण सन्ति। 

  SSLC परीक्षाः एप्रिल् मासस्य २९तमे, VHSE परीक्षाः २६ तमे च दिनाङ्के समाप्यते। SSLC परीक्षार्थं २९४७ केन्द्रेषु ४,२२,२२६ छात्राः सन्ति। गल्फ् राष्ट्रेषु ९ केन्द्राणि, ५७३ छात्राः, लक्षद्वीपे ९ केन्द्राणि ६२७ छात्राश्च परीक्षामभिमुखीकुर्वन्ति।

Wednesday, April 7, 2021

 केरले मतदानं प्रतिशतं ७४.०२। 

  अनन्तपुरी> केरलस्य पञ्चदशतमे विधानसभानिर्वाचने ७४.०२ % मतदायकाः गतदिने स्वाभिमतं ज्ञापितवन्तः। प्रचारणे राजनैतिकदलैः प्रकाशितस्य उत्साहानुसारं मतदानप्रकाशनं नाभवदिति सूच्यते। 

  उन्नततमं मतदानं कोष़िक्कोट् जनपदे ज्ञापितम् - ७८.३१%। न्यूनातिन्यूनं पत्तनंतिट्टा जनपदे दृष्टम् - ६८.१८%। मतगणना मेय् मासस्य द्वितीयदिने भविष्यति।

Tuesday, April 6, 2021

 इन्डोनेष्या पूर्वटिमोर देशयोः अतिवृष्ट्या १६१ मरणानि। 

    जक्कार्ता>  इन्डोनेष्या पूर्वटिमोर् देशयोः दिनद्वयात्पूर्वमारब्धायाः अतिवृष्ट्या‌ अंशतया जातेन मृत्प्रपातेन जलोपप्लवेन च १६१ जनाः मृत्युमुपगताः। अनेके अदृष्टाश्चाभवन्। 

  'फ्लोर्' द्वीपसमूहे आरब्धा अतिवृष्टिः पूर्वटिमोरदेशस्य राजधानीं दिलीतिस्थानं व्याप्ता जाता। पङ्कसङ्कुलः प्रतिकूलपर्यावरणञ्च रक्षाप्रवर्तनाय विघातं वर्तते इति सूच्यते।

 तमिल्नाटे पुतुच्चेर्यां च अद्य विधानसभानिर्वाचनम्। 

    चेन्नै> तमिल्नाट् राज्ये पुतुच्चेरी केन्द्रशासनप्रदेशे च अद्य विधानसभानिर्वाचनं प्रचलति। तमिल्नाट् विधानसभायाः २३४ मण्डलेषु पुतुच्चेर्याः ३० मण्डलेषु च एकेनैव चरणेन मतदानं विधास्यति। कन्याकुमारी लोकसभामण्डले चाद्य निर्वाचनं प्रचलति। 

   तमिलनाडु राज्ये ६.२९कोटि मतदायकाः स्वाधिकारं विनियोक्ष्यन्ति। ३९९८ स्थानाशिनः सदस्याभिलाषिणः सन्तः स्पर्धामञ्चे सन्ति। डि एम् के - कोण्ग्रस् सख्यं तथा ए ऐ ए डि एम् के - भाजपा संख्यं च प्रधानप्रतियोगिनौ वर्तेते। अभिनेतुः कमलहासस्य नेतृत्वे वर्तमानं 'मक्कल् नीतिमय्य'मिति राजनैतिकदलं च १४४ मण्डलेषु स्वशक्तिपरीक्षणं करोति।

 जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्। 


एरणाकुलम्> संस्कृतभाषाप्रचरणस्य अंशतया माध्यमिकस्तराः छात्राः संस्कृतभाषायामेव मतदानस्य प्राधान्यमालक्ष्य निर्वाचनावबोधप्रवर्तनं कृतवन्तः। केरले एरणाकुलं जनपदस्थे 'सौत् चिट्टुर्  सेन्ट् मेरीस् यू पि विद्यालयछात्राः एव ईदृशं सविशेषं प्रवर्तनं कृतवन्तः। 

 राष्ट्रस्य शोभनभविष्यत्कालकांक्षिणः जनाः सयुक्तिकं स्वकीयं मतदानाधिकारं कुर्वन्तु इत्यभ्यर्थयन्ति स्फोरकपत्रप्रकाशनेन छात्राः। राज्यस्य राष्ट्रस्य वा विकासप्रवर्तनैः सह आर्षभारतसंस्कृतेः उन्नमनाय तथा संस्कृतभाषायाः प्रचारणाय च स्वकीयशेषीविनियोगं साधयितुं प्रत्येकं स्थानाशिनं भाविनं शिक्षामन्त्रिणं च  अभ्यर्थयन्ति च छात्राः। अस्य विद्यालयस्य संस्कृताध्यापकः अभिलाष् टि प्रतापः अस्मिन्नायोजने नेतृत्वमावहत्।

Monday, April 5, 2021

 भारते कोविड्प्रकरणानि अनुदिनं प्रवर्धते। प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरोपवेशनं सम्पन्नम्। 

  नवदिल्ली> भारते कोविड्रोगिणां संख्या अनुदिनं वर्धते। गतदिने नूतनानां कोविड्रोगिणां संख्या ९३,२४९ अभवत्। गतसेप्तम्बरमासानन्तरं विद्यमाना उच्चतरसंख्येयम्। 

  ह्यः प्रधानमन्त्रिणः नेतृत्वे राज्यानाम् उन्नतताधिकारिणाम् उपवेशमायोजिम्। कोविड्प्रकरणानि नियन्त्रयितुं अवश्यान् पदक्षेपान् स्वीकर्तुं निर्णयः अभवत्। हस्तशुचित्वं, सामाजिकदूरपालनं, मुखावरणधारणम् इत्यादीनां पालनाय अवबोधः कार्यः। 

  महाराष्ट्रं पञ्चाबः, छत्तीसगड्, केरलमित्यादिषु राज्येषु कोविड्रोगः क्रमातीतेन वर्धते।

 अफ्गानिस्थाने ८२ तालिबानभीकराः व्योमाक्रमणे निहताः। 

  काबूल्> अफ्गानिस्थानस्य काण्डहारप्रविश्यायां वर्तमाने कस्मिंश्चित् निगूढशिबिरे सैनिकैः कृतेन व्योमाक्रमणेन ८२ तालिबानीयभीकराः निहताः। तेषु भीकराणां कमान्डर् पदीयः सर्हादिनामकः अन्तर्भवतीति सूच्यते।

 छत्तीसगढ़े मावोवाद्याक्रमणे हताः सैनिकाः २२ अभवन्। 

    नवदिल्ली> शनिवासरे  सि आर् पि एफ् सैनिकान् प्रति दुरापन्ने मावोवादिनाम् आक्रमणे हतानां सैनिकानां संख्या २२ अभवन्। ५ सैनिकाः मृताः इत्यासीत् प्रथममावेदनम्। किन्तु मावोवादिभिः अपहृतेषु सैनिकेषु १७ पुरुषाणां मृतदेहाः बीजपुरं-सुक्म जनपदयोः सीमायां वनान्तर्भागे दृष्टाः आसन्। एकः अपि द्रष्टव्यः इति सैनिकाधिकारिभिः सूचितम्। 

  शनिवासरे पञ्चहोरापर्यन्तं दीर्घिते संघट्टने कञ्चित् महिलामभिव्याप्य ९ मावोवादिनः हताः। १५ मावोवादिनः मृत्युमुपगताः स्युरिति सि आर् पि एफ् सैनिकानामूहः। ३०० संख्याकं सैनिकव्यूहं ५०० संख्याकः मावोवादिसंघः आक्रमणं कुर्वन्नासीत्।

 कोविडस्य द्वितीयतरङ्गः - महाराष्ट्रे कर्कशनियन्त्रणानि। 

  मुम्बई> महाराष्ट्रे कोविड्-१९ रोगस्य द्वितीयतरङ्गव्यापनम् अतितीव्रमित्यतः कर्कशानि नियन्त्रणानि विधातुं राज्यसर्वकारेण निश्चितम्। प्रतिशुक्रवासरं रात्रौ अष्टवादनादारभ्य सोमवासरे उदयात् परं सप्तवादनपर्यन्तं सम्पूर्णं पिधानं प्रख्यापितम्। 

  गतदिने राज्ये उपार्धलक्षं जनाः कोविड्बाधिताः अभवन्। मुम्बई नगरे अपि रोगबाधितानां प्रतिदिनसंख्या दशसहस्रपर्यन्तम् जाता। भारतस्य प्रतिदिननूतनरोगिषु ६०% महाराष्ट्रे एव।

Sunday, April 4, 2021

 केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते। 

  कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते। 

  सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म। 

  १४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।

 तय्वाने रेल् यानदुर्घटना - ५१ मरणानि। 

  ताय्पेय्> तय्वानदेशस्य पूर्वभागे टोरोको प्रदेशे रेल् यानस्य पण्ययानेन सह घट्टनेन ५१ यात्रिकाः मृताः। १४६ आहताः। राष्ट्रे कतिपयदशकाभ्यन्तरे सञ्जाता बृहत्तरा दुर्घटना एव गतदिने दुरापन्ना इति सूच्यते। 

  ४८८ यात्रिकाः रेल्याने आसन् । याने कन्दरात् बहिरागते रेल् संस्थायाः स्वामित्वे वर्तमानं पण्ययानं गिरिश्रृङ्गस्थात् निर्माणस्थानात् अपगम्य लोहपथे पतितमासीत्। रेल् यानं पण्ययाने घट्टयित्वा तदाघातेन कन्दरस्य पार्श्वे अपि घट्टितम्। दुर्घटनामधिकृत्य अन्वीक्षणमारब्धमिति प्रधानमन्त्रिणा सू सेङ् चाङ् इत्यनेनोक्तम्।

Saturday, April 3, 2021

 कोविड्व्यापः तीव्रः - पूना  पिधीयते। 

  पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः। 

  पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव।  पिधीयते

 असमे वङ्गे च द्वितीयचरणे श्रेष्ठतरं मतदानम् - ७३.०३%, ८०.४३%।

    कोल्कोत्ता> वङ्गराज्यस्य ३० विधानसभामण्डलेषु, असमराज्यस्य ३९ मण्डलेषु च गतदिने सम्पन्ने विधानसभानिर्वाचनस्य  द्वितीयचरणे श्रेष्ठं मतदानं सम्पन्नम्। वंगे असमे च यथाक्रमं ८०.४३%, ७३.०३% च मतदानं सम्पन्नमिति प्राथमिकसूचना।

 रजनीकान्ताय फाल्के पुरस्कारः। 

  नवदिल्ली> भारतीयचलच्चित्रपुरस्कारेषु परमोन्नताय  दादा साहेब फाल्केपुरस्काराय दक्षिणभारतस्य अभिनेतृप्रवीणः  रजनीकान्तः चितः। २०१९तमवर्षस्य पुरस्कार एव रजनीकान्ताय लभते। १९९६ संवत्सरे शिवाजिगणेशस्य पुरस्कारलब्ध्यनन्तरं फाल्केपुरस्कारार्हः तमिलभिनेता भवति रजनीकान्तः। 

  मेय्मासस्य तृतीये दिने सम्पत्स्यमाने कार्यक्रमे पुरस्कारदानं भविष्यतीति वार्तावितरणविभागमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। तमिल्नाडे विधानसभानिर्वाचनवेलायामेव पुरस्कारप्रख्यापनमभवत् इत्यस्मिन् विषये कोण्ग्रसादिभिः विपक्षदलैः विप्रतिपत्तिः प्रकाशिता।

Friday, April 2, 2021

 औषधांशानां विपरिणामेन कोविड् वाक्सिनः विनष्टाः।   

   न्यूयोर्क्> जोण्सण् आन्ट् जोण्सण् संस्थायाः कोरोण प्रतिरोधौषधानाम् औषधगुणं विनष्टम्। औषधयोगक्रमस्य दोषत्वात् एव औषधस्यवीर्यं विनष्टम्। अत एव औषधस्य वितरणं अमेरिकेन स्थगितम्। अस्ट्रासेनेक- जोण्सण् आन्ट् जोण्सण् इत्ययोः सहकारितया इमिग्रन्ट् बयो सोलूषन् संस्थया एव वाक्सिनस्य निर्मणं करोति। उभयोः संस्थायोः औषध निर्माणम् एकस्मिन् शालायामेव भवति। औषधानां योगक्रमे अनवधानतया परस्पर व्यत्ययम् अभवत् इति कारणेन औषधं दुष्टम् अभवत्।

Thursday, April 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति।  सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

    भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान्  रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)