OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 4, 2021

 केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते। 

  कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते। 

  सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म। 

  १४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।

 तय्वाने रेल् यानदुर्घटना - ५१ मरणानि। 

  ताय्पेय्> तय्वानदेशस्य पूर्वभागे टोरोको प्रदेशे रेल् यानस्य पण्ययानेन सह घट्टनेन ५१ यात्रिकाः मृताः। १४६ आहताः। राष्ट्रे कतिपयदशकाभ्यन्तरे सञ्जाता बृहत्तरा दुर्घटना एव गतदिने दुरापन्ना इति सूच्यते। 

  ४८८ यात्रिकाः रेल्याने आसन् । याने कन्दरात् बहिरागते रेल् संस्थायाः स्वामित्वे वर्तमानं पण्ययानं गिरिश्रृङ्गस्थात् निर्माणस्थानात् अपगम्य लोहपथे पतितमासीत्। रेल् यानं पण्ययाने घट्टयित्वा तदाघातेन कन्दरस्य पार्श्वे अपि घट्टितम्। दुर्घटनामधिकृत्य अन्वीक्षणमारब्धमिति प्रधानमन्त्रिणा सू सेङ् चाङ् इत्यनेनोक्तम्।

Saturday, April 3, 2021

 कोविड्व्यापः तीव्रः - पूना  पिधीयते। 

  पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः। 

  पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव।  पिधीयते

 असमे वङ्गे च द्वितीयचरणे श्रेष्ठतरं मतदानम् - ७३.०३%, ८०.४३%।

    कोल्कोत्ता> वङ्गराज्यस्य ३० विधानसभामण्डलेषु, असमराज्यस्य ३९ मण्डलेषु च गतदिने सम्पन्ने विधानसभानिर्वाचनस्य  द्वितीयचरणे श्रेष्ठं मतदानं सम्पन्नम्। वंगे असमे च यथाक्रमं ८०.४३%, ७३.०३% च मतदानं सम्पन्नमिति प्राथमिकसूचना।

 रजनीकान्ताय फाल्के पुरस्कारः। 

  नवदिल्ली> भारतीयचलच्चित्रपुरस्कारेषु परमोन्नताय  दादा साहेब फाल्केपुरस्काराय दक्षिणभारतस्य अभिनेतृप्रवीणः  रजनीकान्तः चितः। २०१९तमवर्षस्य पुरस्कार एव रजनीकान्ताय लभते। १९९६ संवत्सरे शिवाजिगणेशस्य पुरस्कारलब्ध्यनन्तरं फाल्केपुरस्कारार्हः तमिलभिनेता भवति रजनीकान्तः। 

  मेय्मासस्य तृतीये दिने सम्पत्स्यमाने कार्यक्रमे पुरस्कारदानं भविष्यतीति वार्तावितरणविभागमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। तमिल्नाडे विधानसभानिर्वाचनवेलायामेव पुरस्कारप्रख्यापनमभवत् इत्यस्मिन् विषये कोण्ग्रसादिभिः विपक्षदलैः विप्रतिपत्तिः प्रकाशिता।

Friday, April 2, 2021

 औषधांशानां विपरिणामेन कोविड् वाक्सिनः विनष्टाः।   

   न्यूयोर्क्> जोण्सण् आन्ट् जोण्सण् संस्थायाः कोरोण प्रतिरोधौषधानाम् औषधगुणं विनष्टम्। औषधयोगक्रमस्य दोषत्वात् एव औषधस्यवीर्यं विनष्टम्। अत एव औषधस्य वितरणं अमेरिकेन स्थगितम्। अस्ट्रासेनेक- जोण्सण् आन्ट् जोण्सण् इत्ययोः सहकारितया इमिग्रन्ट् बयो सोलूषन् संस्थया एव वाक्सिनस्य निर्मणं करोति। उभयोः संस्थायोः औषध निर्माणम् एकस्मिन् शालायामेव भवति। औषधानां योगक्रमे अनवधानतया परस्पर व्यत्ययम् अभवत् इति कारणेन औषधं दुष्टम् अभवत्।

Thursday, April 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति।  सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

    भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान्  रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)

Wednesday, March 31, 2021

 कोविडस्य द्वितीयतरङ्गे रोगव्यापनमतिशीघ्रम्।

   नवदिल्ली> भारते कतिपयराज्येषु कोविड्-१९ महामारेः द्वितीयतरङ्गः अतिशीघ्रं व्याप्यते। मृत्युमानमपि प्रथममपेक्ष्य वर्धमानमस्ति। 

 गतासु २४ होरासु ६८,०२० जनाः रोगबाधिताः अभवन्। २९१ मरणानि जातानि। महाराष्ट्रे रोगबाधितानां संख्या गतदिने ४०,४०१४ अभवत्।

 म्यान्मरसेनां विरुध्य लोकराष्ट्राणि। नरहत्या समाप्यतामिति निदेशः। 

   याङ्कूण्> ये प्रतिषिध्यन्ति तान् निष्करुणं निहननं कुर्वन्तं म्यान्मरराष्ट्रस्य सैनिकशासनं विरुध्य लोकराष्ट्राणां तीव्रः प्रतिषेधः। सायुधसेनादिने शनिवासरे बालकानभिव्याप्य ११४ जनाः सैन्येन निहताः। इतःपर्यन्तं चतुश्शताधिकाः जनाः निहताः सन्ति।  

  गतदिने सैन्येन हतानामन्त्येष्टिकर्मणि अपि भुषुण्डिप्रयोगः कृतः। सैन्यस्य नरमृगयामपलपन्तः जापान पदक्षिणकोरिय-ब्रिट्टन-अमेरिक्क-आस्ट्रेलिय-कानड-डेन्मार्क- जर्मनि-ग्रीस्-नेतर्लान्ट्-न्यूसिलान्ट् इत्येतेषां राष्ट्राणां रक्षामन्त्रिण‌ संयुक्तप्रस्तावं कृतवन्तः।

Monday, March 29, 2021

 भारत-इंग्लैण्डयोः एकदिवसीया क्रिकेटशृङ्खला भारतेन विजिता

   पुणे नगरस्थे महाराष्ट्र-क्रिकेटसङ्घ-क्रीडाङ्गणे रविवारे भारत-इंग्लैण्डदलयोः मध्ये क्रीडिते तृतीयान्तिमायाम् एकदिवसीयायां स्पर्धायां भारतेन इंग्लैण्डवृन्दं पराजितम्। रोमाञ्चके द्वन्द्वे भारतेन सप्त धावनाङ्कैः विजयश्रीः अधिगता। अनेन सहैव भारतेन एतदिवसीया क्रिकेटशृङ्खला द्वे एकम् स्पर्धान्तरालेन स्वायत्तीकृता। इतः पूर्वं दलद्वयम् अन्तरा क्रीडिता विंशतिः प्रतिविंशतिः क्षेपचक्रीया शृङ्खला अथ च क्रिकेटनिकषशृङ्खला अपि भारतेनैव विजिते। 

    पणकं विजित्य इंग्लैण्डदलेन कन्दुकक्षपणं स्वीकृतम्। प्रथमं भारतेन नवविंशत्युत्तरत्रिशतं धावनाङ्कानां विजयलक्ष्यं स्थापितम्। लक्ष्यमनुसरता इंग्लैण्डदलेन निर्धारितेषु पञ्चाशत् क्षेपचक्रेषु नवक्रीडकाणां हानौ द्वाविंशत्युत्तरत्रिशतं धावनाङ्काः एव समर्जिताः। स्पर्धायां भव्यप्रदर्शनाय सैम-कुर्रन इत्यसौ स्पर्धापुरुषः चितः। शृङ्खलायां सर्वश्रेष्ठ-प्रदर्शनाय च जॉनी बेयरस्टो इत्यसौ श्रेष्ठक्रीडकत्वेन प्रचितः।

Sunday, March 28, 2021

 यू ट्यूब् वाहीन्या करः दातव्यः। 

सर्वकार्येषु यू ट्यूब् वाहिनीनां आरम्भः कुर्वन्तः सन्ति सर्वे। आबालवृद्धं जनाः यू ट्यूब् द्वारा धनसम्पादनाय प्रयत्नं कुर्वन्तः सन्ति। किन्तु विभवोत्पादकानां हस्ततः शुल्कं (करः) स्वीकर्तुं गूगिलेन निश्चितः अस्ति। १४% भवति कररूपेण दातव्यः अस्ति। अमेरिकस्य नियमानुसारं राष्ट्रात् बहिः विद्यमानानाम् उत्पादकानां पार्श्वतः एव शुल्कः स्वीकरिष्यति। विषयमिदम् अणुपैषद्वारा उत्पादकाः संवेदिताः। मार्च् ३१ तः पूर्वं Adsense सुविध्या गूगिलः न्यवेदनीयः नो चेत् करः व्यवस्था २४% इति भविष्यति।

 महाराष्ट्रे अद्य रात्रौ आरभ्य तीव्रनियन्त्रणं विहितम्।

 मुम्बै> कोविड् व्यापनस्य अधिक्यस्य कारणेन महाराष्ट्र राज्ये अद्य (रविवासरः) आरभ्य रात्रिसमय तीव्रनियन्त्रणं भविष्यति इति मुख्यमन्त्रिणः कार्यलयात् ज्ञापितम्। रात्रि ८ वादनात् प्रभाते ७ वादनपर्यन्तं विपणिः मा भवतु इति आदेशः प्रसारितः। एप्रिल् १५ दिनङ्कतः विवाहादिकं मास्तु इत्यपि आदिष्टः। 

Saturday, March 27, 2021

 वङ्गे असमे च विधानसभानिर्वाचनस्य प्रथमचरणं समाप्तम्। 

  कोल्कत्ता> पश्चिमवंगः असमः इत्येतयोः राज्ययोः विधानसभानिर्वाचनस्य प्रथमं चरणमद्य परिसमाप्तम्। वंगे ३० मण्डलेषु असमे ४७ मण्डलेषु च निर्वाचनं सम्पन्नम्। वङ्गे ८० प्रतिशतं , असमे ७० प्रतिशतं मतदानिनः स्वाभिमतं रेखितवन्तः इति सूच्यते।

 चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। सीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः गृहीताः। 

    ताय्पेय्> चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। समुद्रसीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः तय्वानेन गृहीताः। तय्वानस्य सुरक्षासेनया एव मत्स्यबन्धने निरताः गृहीताः। १३ धीवराः अपि बन्धनस्थाः सन्ति। चीनः बृहत्तमान् यन्त्रनौकान् उपयुज्य सीमानम् उल्लङ्ख्य मत्स्यबन्धनं कुर्वन् आसीत्। अन्ताराष्ट्रनियमान् उल्लङ्ख्य भवति चीनस्य प्रवृत्तिः इति तय्वानेन संसूचितः। तथापि प्रतिनिवर्तितुं चीनः न उद्युक्तः। अत एव रोधनप्रक्रमाय ताय्वानः निर्बधितः अभवत्।

Friday, March 26, 2021

 निसार्' सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति अमेरिकः। 


  अमेरिक्कस्य राज्यविभागेन उक्तं यत् निसार् (NASA+ISRO) सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति। विश्वतले भूमेः विभवानि संद्रष्टुं प्रकृतिदुरन्तसूचना यथाकालं प्रत्यभिज्ञातुं क्षमतायुक्तम् उपग्रहनिर्माणानि  विक्षेपः च लक्ष्यःI अनेन बाह्याकाशानुसन्धानरङ्गेषु उन्नतिः भविष्यति। एतदर्थम् आधुनिकोपकरणानि भारतेन अमेरिकं प्रति प्रेषितानि सन्ति। योजनेयं 'निसार्' इति नाम्नि सूत्रवत् ज्ञायते। भूमेः समग्रतया निरीक्षणमेव अनेन प्रकारेण भविष्यति।

Thursday, March 25, 2021

 भारतराट्रे कोविड् विषाणोः नूतनः ७७१ प्रकारभेदाः दृष्टाः। 

    नवदिल्ली>निखिलं राष्ट्रं कोविड् विषाणोः जनितकपरिणामभूतः नूतनः ७७१ प्रकारभेदः प्रकारभेदाः दृष्टाः इति 'इन्साकोग्' [Indian Sars Covi 2 Consortium of Genomics] इत्यनेन संस्थया निगदितम्। नूतनं रोगव्यापनात्मकः तरङ्गायमानः च 'एन् ४४०के' इति नामकृतः अयं प्रकारभेदः। 

 आभारतं ईदृशः प्रकारभेदः दृष्टः। केरलं आन्ध्रप्रदेशः, तेलङ्कानम् इत्यादिषु १८ राज्येषु दृष्टाः सन्ति।

Wednesday, March 24, 2021

 पुरातनन्निवृत्तिवेतनम्पुनःप्रारम्भार्थं सर्वकारस्य विरोधे आन्दोलनेऽतिष्ठत् डॉ सुशान्तसिंहः।


वार्ताहरः- श्रीवत्स देशराजशर्मा मण्डी हिमाचलप्रदेश:


  हिमाचल समूहस्य प्रदेशाध्यक्ष डॉ राजनसुशांत फतेहपुरे समर्थकैः सह अनुयायिभिःसहानिश्चतकालीनःसर्वकारस्य विरोधेऽतिष्ठत्।डॉ सुशान्तसिंहेन कथितं यद्यावत्प्रदेशस्य सर्वकारोऽस्माकङ्कथनानि नाङ्गीकरिष्यति तावत्तस्य सर्वकारम्प्रति रोषःएवमेव भविष्यति नात्र संशयः। अपि च डॉ महोदयेन कथितं यत् मार्चमासस्य त्रयोदशतारिकायाम्मुख्यमन्त्रिणःफतेहपुरागमनावसरे विभिन्नविषयैः सह पुरातनन्निवृत्तिवेतनस्यापि चर्चाऽभवत् तथा कार्यालये कार्यरतानां कर्मचारिणां वेतनस्यापि चर्चाऽभवत्।अस्यातिरिक्त अन्योऽपि जनहिताय ये ये विषया आसन् तेषामुपर्यपि चर्चाऽभवत्।एतेषां विषयानां पूर्णीकृते सप्ताहरिमाणसमयस्सर्वकारकृतैवासीत्परं मुख्यमन्त्रिण उपरि काऽपि प्रतिक्रिया नाऽभवत्।।

 रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः।

   रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः इति यु एन् सङ्घटनस्य अभयार्थि-विभागेन उक्तम्। ५६० जनाः व्रणिताः इत्यपि उक्तम्। ह्यः प्रातः दिक्षिण बङ्गलादेशस्य रोहिङ्ग्यानां अभयार्थिजनानां शिबिरे आसीत् अग्निबाधा। कोक्स् बसार् इत्यस्य बलुखालि शिबिरे आसीत् अग्निबाधयाः आरम्भः। तदनन्तरं समीपस्थेषु गृहेषु अपि अग्निबाधा अनुवर्तिता।