अफ्गानिस्थाने ८२ तालिबानभीकराः व्योमाक्रमणे निहताः।
काबूल्> अफ्गानिस्थानस्य काण्डहारप्रविश्यायां वर्तमाने कस्मिंश्चित् निगूढशिबिरे सैनिकैः कृतेन व्योमाक्रमणेन ८२ तालिबानीयभीकराः निहताः। तेषु भीकराणां कमान्डर् पदीयः सर्हादिनामकः अन्तर्भवतीति सूच्यते।
छत्तीसगढ़े मावोवाद्याक्रमणे हताः सैनिकाः २२ अभवन्।
नवदिल्ली> शनिवासरे सि आर् पि एफ् सैनिकान् प्रति दुरापन्ने मावोवादिनाम् आक्रमणे हतानां सैनिकानां संख्या २२ अभवन्। ५ सैनिकाः मृताः इत्यासीत् प्रथममावेदनम्। किन्तु मावोवादिभिः अपहृतेषु सैनिकेषु १७ पुरुषाणां मृतदेहाः बीजपुरं-सुक्म जनपदयोः सीमायां वनान्तर्भागे दृष्टाः आसन्। एकः अपि द्रष्टव्यः इति सैनिकाधिकारिभिः सूचितम्।
शनिवासरे पञ्चहोरापर्यन्तं दीर्घिते संघट्टने कञ्चित् महिलामभिव्याप्य ९ मावोवादिनः हताः। १५ मावोवादिनः मृत्युमुपगताः स्युरिति सि आर् पि एफ् सैनिकानामूहः। ३०० संख्याकं सैनिकव्यूहं ५०० संख्याकः मावोवादिसंघः आक्रमणं कुर्वन्नासीत्।
कोविडस्य द्वितीयतरङ्गः - महाराष्ट्रे कर्कशनियन्त्रणानि।
मुम्बई> महाराष्ट्रे कोविड्-१९ रोगस्य द्वितीयतरङ्गव्यापनम् अतितीव्रमित्यतः कर्कशानि नियन्त्रणानि विधातुं राज्यसर्वकारेण निश्चितम्। प्रतिशुक्रवासरं रात्रौ अष्टवादनादारभ्य सोमवासरे उदयात् परं सप्तवादनपर्यन्तं सम्पूर्णं पिधानं प्रख्यापितम्।
गतदिने राज्ये उपार्धलक्षं जनाः कोविड्बाधिताः अभवन्। मुम्बई नगरे अपि रोगबाधितानां प्रतिदिनसंख्या दशसहस्रपर्यन्तम् जाता। भारतस्य प्रतिदिननूतनरोगिषु ६०% महाराष्ट्रे एव।
केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते।
कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते।
सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म।
१४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।
तय्वाने रेल् यानदुर्घटना - ५१ मरणानि।
ताय्पेय्> तय्वानदेशस्य पूर्वभागे टोरोको प्रदेशे रेल् यानस्य पण्ययानेन सह घट्टनेन ५१ यात्रिकाः मृताः। १४६ आहताः। राष्ट्रे कतिपयदशकाभ्यन्तरे सञ्जाता बृहत्तरा दुर्घटना एव गतदिने दुरापन्ना इति सूच्यते।
४८८ यात्रिकाः रेल्याने आसन् । याने कन्दरात् बहिरागते रेल् संस्थायाः स्वामित्वे वर्तमानं पण्ययानं गिरिश्रृङ्गस्थात् निर्माणस्थानात् अपगम्य लोहपथे पतितमासीत्। रेल् यानं पण्ययाने घट्टयित्वा तदाघातेन कन्दरस्य पार्श्वे अपि घट्टितम्। दुर्घटनामधिकृत्य अन्वीक्षणमारब्धमिति प्रधानमन्त्रिणा सू सेङ् चाङ् इत्यनेनोक्तम्।
कोविड्व्यापः तीव्रः - पूना पिधीयते।
पूना> महाराष्ट्रे कोविड्रोगः तीव्रेण व्याप्यते। पूनाजनपदे पिधानं प्रख्यापितम्। भोजनशालाः, विपणयः, मदिरालयाः, चलच्चित्रशालाः, 'माल्'नामकविक्रयणालयाः, आराधनालयाः इत्यादयः सप्ताहं यावत् पिधास्यन्ति। सर्वकारीयबस् यानसेवामभिव्याप्य सामान्यगमनागमनसुविधाः अपि सप्तदिनानि यावत्पिधास्यन्ते। सायं षड्वादनादारभ्य प्रभाते षड्वादनपर्यन्तं 'कर्फ्यू'नामकनिरोधः विधत्तः।
पूनाजनपदे गतदिने ६५ जना अपि कोविड्बाधया मृताः। आहत्य मृतानां संख्या १०,०३९ जाता। महाराष्ट्रस्य कोविड्मरणेषु १८% पूनाजनपदे एव। पिधीयते
रजनीकान्ताय फाल्के पुरस्कारः।
नवदिल्ली> भारतीयचलच्चित्रपुरस्कारेषु परमोन्नताय दादा साहेब फाल्केपुरस्काराय दक्षिणभारतस्य अभिनेतृप्रवीणः रजनीकान्तः चितः। २०१९तमवर्षस्य पुरस्कार एव रजनीकान्ताय लभते। १९९६ संवत्सरे शिवाजिगणेशस्य पुरस्कारलब्ध्यनन्तरं फाल्केपुरस्कारार्हः तमिलभिनेता भवति रजनीकान्तः।
मेय्मासस्य तृतीये दिने सम्पत्स्यमाने कार्यक्रमे पुरस्कारदानं भविष्यतीति वार्तावितरणविभागमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। तमिल्नाडे विधानसभानिर्वाचनवेलायामेव पुरस्कारप्रख्यापनमभवत् इत्यस्मिन् विषये कोण्ग्रसादिभिः विपक्षदलैः विप्रतिपत्तिः प्रकाशिता।
औषधांशानां विपरिणामेन कोविड् वाक्सिनः विनष्टाः।
न्यूयोर्क्> जोण्सण् आन्ट् जोण्सण् संस्थायाः कोरोण प्रतिरोधौषधानाम् औषधगुणं विनष्टम्। औषधयोगक्रमस्य दोषत्वात् एव औषधस्यवीर्यं विनष्टम्। अत एव औषधस्य वितरणं अमेरिकेन स्थगितम्। अस्ट्रासेनेक- जोण्सण् आन्ट् जोण्सण् इत्ययोः सहकारितया इमिग्रन्ट् बयो सोलूषन् संस्थया एव वाक्सिनस्य निर्मणं करोति। उभयोः संस्थायोः औषध निर्माणम् एकस्मिन् शालायामेव भवति। औषधानां योगक्रमे अनवधानतया परस्पर व्यत्ययम् अभवत् इति कारणेन औषधं दुष्टम् अभवत्।
भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता।
भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)म्यान्मरसेनां विरुध्य लोकराष्ट्राणि। नरहत्या समाप्यतामिति निदेशः।
याङ्कूण्> ये प्रतिषिध्यन्ति तान् निष्करुणं निहननं कुर्वन्तं म्यान्मरराष्ट्रस्य सैनिकशासनं विरुध्य लोकराष्ट्राणां तीव्रः प्रतिषेधः। सायुधसेनादिने शनिवासरे बालकानभिव्याप्य ११४ जनाः सैन्येन निहताः। इतःपर्यन्तं चतुश्शताधिकाः जनाः निहताः सन्ति।
गतदिने सैन्येन हतानामन्त्येष्टिकर्मणि अपि भुषुण्डिप्रयोगः कृतः। सैन्यस्य नरमृगयामपलपन्तः जापान पदक्षिणकोरिय-ब्रिट्टन-अमेरिक्क-आस्ट्रेलिय-कानड-डेन्मार्क- जर्मनि-ग्रीस्-नेतर्लान्ट्-न्यूसिलान्ट् इत्येतेषां राष्ट्राणां रक्षामन्त्रिण संयुक्तप्रस्तावं कृतवन्तः।
भारत-इंग्लैण्डयोः एकदिवसीया क्रिकेटशृङ्खला भारतेन विजिता
पुणे नगरस्थे महाराष्ट्र-क्रिकेटसङ्घ-क्रीडाङ्गणे रविवारे भारत-इंग्लैण्डदलयोः मध्ये क्रीडिते तृतीयान्तिमायाम् एकदिवसीयायां स्पर्धायां भारतेन इंग्लैण्डवृन्दं पराजितम्। रोमाञ्चके द्वन्द्वे भारतेन सप्त धावनाङ्कैः विजयश्रीः अधिगता। अनेन सहैव भारतेन एतदिवसीया क्रिकेटशृङ्खला द्वे एकम् स्पर्धान्तरालेन स्वायत्तीकृता। इतः पूर्वं दलद्वयम् अन्तरा क्रीडिता विंशतिः प्रतिविंशतिः क्षेपचक्रीया शृङ्खला अथ च क्रिकेटनिकषशृङ्खला अपि भारतेनैव विजिते।
पणकं विजित्य इंग्लैण्डदलेन कन्दुकक्षपणं स्वीकृतम्। प्रथमं भारतेन नवविंशत्युत्तरत्रिशतं धावनाङ्कानां विजयलक्ष्यं स्थापितम्। लक्ष्यमनुसरता इंग्लैण्डदलेन निर्धारितेषु पञ्चाशत् क्षेपचक्रेषु नवक्रीडकाणां हानौ द्वाविंशत्युत्तरत्रिशतं धावनाङ्काः एव समर्जिताः। स्पर्धायां भव्यप्रदर्शनाय सैम-कुर्रन इत्यसौ स्पर्धापुरुषः चितः। शृङ्खलायां सर्वश्रेष्ठ-प्रदर्शनाय च जॉनी बेयरस्टो इत्यसौ श्रेष्ठक्रीडकत्वेन प्रचितः।
यू ट्यूब् वाहीन्या करः दातव्यः।
सर्वकार्येषु यू ट्यूब् वाहिनीनां आरम्भः कुर्वन्तः सन्ति सर्वे। आबालवृद्धं जनाः यू ट्यूब् द्वारा धनसम्पादनाय प्रयत्नं कुर्वन्तः सन्ति। किन्तु विभवोत्पादकानां हस्ततः शुल्कं (करः) स्वीकर्तुं गूगिलेन निश्चितः अस्ति। १४% भवति कररूपेण दातव्यः अस्ति। अमेरिकस्य नियमानुसारं राष्ट्रात् बहिः विद्यमानानाम् उत्पादकानां पार्श्वतः एव शुल्कः स्वीकरिष्यति। विषयमिदम् अणुपैषद्वारा उत्पादकाः संवेदिताः। मार्च् ३१ तः पूर्वं Adsense सुविध्या गूगिलः न्यवेदनीयः नो चेत् करः व्यवस्था २४% इति भविष्यति।
महाराष्ट्रे अद्य रात्रौ आरभ्य तीव्रनियन्त्रणं विहितम्।
मुम्बै> कोविड् व्यापनस्य अधिक्यस्य कारणेन महाराष्ट्र राज्ये अद्य (रविवासरः) आरभ्य रात्रिसमय तीव्रनियन्त्रणं भविष्यति इति मुख्यमन्त्रिणः कार्यलयात् ज्ञापितम्। रात्रि ८ वादनात् प्रभाते ७ वादनपर्यन्तं विपणिः मा भवतु इति आदेशः प्रसारितः। एप्रिल् १५ दिनङ्कतः विवाहादिकं मास्तु इत्यपि आदिष्टः।चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। सीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः गृहीताः।
ताय्पेय्> चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। समुद्रसीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः तय्वानेन गृहीताः। तय्वानस्य सुरक्षासेनया एव मत्स्यबन्धने निरताः गृहीताः। १३ धीवराः अपि बन्धनस्थाः सन्ति। चीनः बृहत्तमान् यन्त्रनौकान् उपयुज्य सीमानम् उल्लङ्ख्य मत्स्यबन्धनं कुर्वन् आसीत्। अन्ताराष्ट्रनियमान् उल्लङ्ख्य भवति चीनस्य प्रवृत्तिः इति तय्वानेन संसूचितः। तथापि प्रतिनिवर्तितुं चीनः न उद्युक्तः। अत एव रोधनप्रक्रमाय ताय्वानः निर्बधितः अभवत्।
निसार्' सख्यं प्रकृतिविभवसंरक्षणाय साहायकम् इति अमेरिकः।