OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 23, 2021

 हिमाचलप्रदेशे चतुर्विंशतिलक्ष-सङ्ख्यकानां कर्मकराणाम् अप्रैलमासस्य प्रथमदिनाङ्कतः पारिश्रमिकस्य वर्धनं भविता।

वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश: 

    हिमाचलप्रदेशे दैनिक-कार्यरतानां चतुर्विंशतिलक्षसङ्ख्यक-कर्मकराणां अप्रैलमासतः वेतने पञ्च-षण्मितानि रूप्यकाणि वर्धयिष्यन्ते। प्रदेशस्थेषु इतरजनजातीयक्षेत्रेषु तेषां दैनिकपारिश्रमिके पञ्चरुप्यकाणि प्रवर्ध्य २०३ रू० तथा जनजातीयक्षेत्रेषु षड्रुप्यकाणि प्रवृध्य च २५४ रु० भवितारः। तत्पारितोषिकवर्धनस्य अधिसूचना उद्घोषणं वा केन्द्रीयसर्वकारस्य राजपत्रे सुस्पष्टं प्रकाशितं वर्तते।

Monday, March 22, 2021

 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम् 

   समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना।  2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।

 हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः । 

वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।

  हिमाचलप्रदेशस्य ऊनाजनपदस्थे इन्दिराक्रीडाङ्गणे शनिवासरे सेनाप्रवेशपरीक्षाद्वारतो निष्काशनकारणतो भृशं क्षोभं प्रदर्शितवन्तः। धर्मशाला-दिल्ली-राजमार्गे पञ्चदशनिमेषं यावत् यानानि अवरुद्धानि कृतवन्तः। तद्यानानि पुनः प्रवर्तनाय आरक्षकैः बहुकष्टम् अनुभूतम्। अस्मिन् सन्दर्भे युवकानाम् आरक्षकाणां मध्ये सामान्यः सङ्घर्षोऽपि सङ्घटितः। यानानां प्रवर्तनानन्तरमपि क्षुब्धयुवकाः एन्.एच्. इत्यत्रैव घण्टां यावत् स्थितवन्तः। राजमार्गस्य उभयत्रापि एकिमिपर्यन्तं यानानां पङ्क्तिः अदृश्यत। युवकानाम् आरोपो यत् तेषां प्रत्येकम् युवदलत एक एव छात्रः सैनिकपदव्यर्थं चितः अभवदिति । प्रत्येकं शाखादले प्रायः चतुर्शतं तरुणाः धावनपरीक्षायां भागम् ऊढवन्तः आसन्। अपरत्र, सेनानिदेशकः कर्नल-संजीवकुमारो वदन् आसीत् यत् तरुणाः स्वदलं निर्माय सहैव धावमानाः आसन् चेदपि तत्पूर्णं कर्तुं न शक्तवन्त इति।

Sunday, March 21, 2021

 भारत-यू एस् सैनिकसहयोगः विपुलीक्रियते। 

  नवदिल्ली> फ्लोरिडा मध्ये वर्तमानेन 'यू एस् सेन्ट्रल् कमान्ड्' इत्यनेन, भारत-पसफिक् मण्डले आफ्रिक्कायां च वर्तमानेन यू एस् कमान्ड् इत्यनेन च सह प्रतिरोधसहयोगं बलवत्कर्तुं भारतेन निर्णीतम्। दिनत्रयसन्दर्शनार्थं गतदिने भारतं प्राप्तवता यू एस् राष्ट्रस्य प्रतिरोधसचिवेन लोय्ड् जयिंस् ओस्टिन्  इत्यनेन सह कृतायाः चर्चायाः परं भारतस्य रक्षामन्त्री राजनाथसिंहः एव विषयममुं निगदितवान्। 

  भारतेन सह अमेरिक्कायाः सैनिकसहयोगस्य प्रवर्धनमेव बैडनप्रशासनस्य प्रथमपरिगणनेति ओस्टिन्वर्येण चोक्तम्।

 कोविडस्य विनाशाय उन्नतावृत्तितशब्दतरङ्गेण शक्यते।

 बोस्टण्> उन्नतावृत्तितशब्दतरङ्गेन कोविड् वैराणुं नाशयितुं शक्यते इति अनुसन्धानस्य फलम्। यु एस् मासच्युसेट्स् संस्थायाः अनुसन्धाताः एव नूतनानुसन्धानस्य पृष्टतः। मनुष्याणां श्रवणागोचरान् उन्नतावृत्तिसहितान् शब्दतरङ्गान् प्रति कथं प्रतिकरोति इति अनुसन्धानं कृत्वा आसीत् नूतनं अध्ययनम्। चिकित्सायाम् उपयुज्यमानानाम् उन्नतावृत्ति-शाब्दतरङ्गाणां प्रकम्पनेन कोविडादि वैराणुनां नाशं भवति इति एतैः प्रत्यभिज्ञाताः। Mechanic's And Physics of Solid इति पत्रिकायाम् आवेदनमिदं प्रकाशितम् अस्ति।

 पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः। 

इस्लामबाद्> पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः कोविड्बाधितः अभवदिति सर्वकाराधिकारिभिः निगदितम्। गृहे निरीक्षणे वर्तमाने तस्मिन् ज्वरकासबाधा वर्तते इति स्वास्थ्यविभागस्य अधिकारिप्रमुखेन डो. फैसल् सुल्तान् इत्यनेन ट्वीटीकृतम्। 

   राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्। 

  पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।

Saturday, March 20, 2021

 कोविडस्य तृतीयतरङ्गः - यूरोपीयराज्येषु भागिकं पिधानम्। 

   पारीस्> कोविड् महामारेः तृतीयतरङ्गं नियन्त्रयितुं फ्रान्स् , पोलण्ट् इत्यादिषु राष्ट्रेषु भागिकपिधानं प्रख्यापितम्। पारीस् नगरमभिव्याप्य १६ नगरेषु शुक्रवासरादारभ्य नियन्त्रणानि विधत्तानीति तत्रत्यः प्रधानमन्त्री जीन् कास्टेक्स् इत्यनेन निगदितम्। 

  गतासु २४ होरासु ३५,००० नूतनानि प्रकरणानि आवेदितानि। १२०० रोगिणः राष्ट्रे अतितीव्रविभागे परिचर्यायां वर्तन्ते इति स्वास्थमन्त्रिणा उक्तम्। 

  पोलण्टे कोविडस्य तृतीयतरङ्गः अतितीव्रः जातः। अतः राष्ट्रे कर्कशं पिधानं विधास्यते इति अधिकृतैरुक्तम्। ह्यः २२,९९८ जनाः रोगबाधिताः अभवन्। 

 जर्मनी देशे अपि जनितकपरिवर्तितः कोविड्रोगः शीघ्रं व्याप्यते । तत्र १७,४८२ रोगप्रकरणानि २२६ मरणानि च आवेदितानि।

 जाग्रत्ताविषये अनवधानता - कोविड्बाधितानां संख्या वर्धते। 

    नवदिल्ली> भारते कोविड्रोगबाधितानां प्रतिदिनसंख्या वर्धते। गतदिने ३५,८७१ जनाः रोगबाधिताः अभवन्। डिसम्बर् ६ दिनाङ्कात्परम् उच्चतरा संख्या भवत्येषा। 

    महाराष्ट्रे एव रोगबाधिताः अनुदिनं वर्धते। गतदिने २३,००० अधिकं जनाः रोगबाधिताः जाताः। मरणान्यपि तत्रैव अधिकतरं दृश्यन्ते - १७२। पञ्चाबे ३५ जनाः कोविडेन मृत्युवशं गताः।

Friday, March 19, 2021

 बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः। 

   नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः। 

  ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।

Thursday, March 18, 2021

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

   हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।

 निर्वाचनप्रचारणं संस्कृतभाषायामपि 


 त्रिश्शिवपेरूर् - केरलम्> संस्कृतभाषायां भित्तिविज्ञप्तिं कृत्वा मतदानाभ्यर्थनां करोति केरले। तृश्शूर् जनपदे गुरुवायूर् नियोजकमण्डले एन् डि ए दलस्य स्थानाशिन्यै न्याय. निवेदितायै एव भारतस्य सांस्कृतिकभाषायां मतदानाभ्यर्थना क्रियते। 
  इदानीं विविधेषु अन्तर्जालीयमाध्यमेषु वार्तेयं तरङ्गायमाना वर्तते। (https://www.facebook.com/story.php?story_fbid=4125030650864288&id=100000721814441&scmts=scwspsd) संस्कृतस्य प्रचरणक्षेत्रे प्रसिद्धः प. नन्दकुमारः वार्तामिमां स्वस्य मुखपुटद्वारा प्रथमतया प्राकाशयत्। इदानीं ट्विटर् वाट्साप् आदि सामूहिकमाध्यमेषु इमां 'संस्कृतभित्ति-विज्ञप्तिम्' अधिकृत्य संवादाः प्रचलन्तः सन्ति।

Wednesday, March 17, 2021

 कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।

     नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।

अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।

Monday, March 15, 2021

 युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः। 

खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)  


 इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख्  अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।

 सुन्दरनगरमहाविद्यालयसाप्ताहिकमेला अभवत्।

वार्ताहरः श्रीवत्स देशराज शर्मा हिमाचलप्रदेशः मण्डी।

संस्कृतभारती-सुन्दरनगरमहाविद्यालयस्य साप्ताहिकमेलनमभूत्सा प्ताहिकमेलनेस्मिन् मुख्यातिथित्वेन संस्कृतमहाविद्यालयसुन्दरनगरस्य दर्शनाचार्यः डॉ. तिलकराजमहोदयः आसीत्, संस्कृतमहाविद्यालयसुन्दरनगरस्य आचार्यः संस्कृतभारती-हिमाचलप्रदेशस्य च प्रान्त सह मन्त्री डॉ. ज्ञानेश्वरमहोदयोsपि अस्मिन् साप्ताहिकमेलने आसीत्। अन्यकार्यकर्तृषु विवेकानन्दमहोदयः सञ्चालनं अकरोत् चान्दनी महोदया ज्योतिषांशान् अपाठयत्, हिमांशुमहोदयः सम्भाषणबिन्दूनपाठयत्, कविता भगिनिः प्रश्नमञ्चं चालितवती। छात्राः सोत्साहेन साप्ताहिकमेलने भागं अगृह्णन्।

Sunday, March 14, 2021

 कोरोण वैराणोः नूतन भेदेषु वाक्सिनः न फलप्रदः। 

 यु के. दक्षिणाफ्रिक्क ब्रसीलल् देशेषु दृष्टमानेषु कोरोण वैराणोः नूतनभेदेषु वाक्सिनः न फलप्रदः इति अध्ययनफलम्। फैसर् मोडेण वाक्सिनस्य प्रयोगात् सञ्जातम् 'आन्टि बोडि' कोरोण वैराणोः नूतनभेदेषु न फलप्रदः इति जेर्णल्  सेल् मध्ये प्रकाशिते अध्यने उच्यते।

Saturday, March 13, 2021

 पाकिस्थानस्य सेनट् हाल् मध्ये चीनस्य गुप्तचलनचित्रग्राही 

   इस्लामबादः> पाकिस्थानस्य उपरिसभायाम् अध्यक्षनिर्वाचनसन्दर्भे सङ्घर्षः। प्रक्रमाणां मध्ये चीनेन निर्मिता गुप्त-चलनचित्रग्राही दृष्टा इति भवति सङ्घर्षस्य कारणम् इति आवेद्यते। अन्तरं निर्वाचनं स्थगितम् इति लघुविवरणानि आगच्छति।

 सौद्यां यात्रानिरोधः पुनरपि दीर्घीकृतः। 

    रियादः> सौदी अरेबियाराष्ट्रे अन्ताराष्ट्रीयविमानसेवामुपरि विहितः यात्रानिरोधः मेय् १७तमपर्यन्तं दीर्घीकृतः। येषु राष्ट्रेषु कोविड्व्यापनस्य मानं न्यूनमस्ति तेभ्यः राष्ट्रेभ्यः आगतानां विमानानां यात्रानुमतिः दास्यति। 

  भारते रोगव्यापनम् अधिकतरं वर्तते इत्यतः यात्रानिरोधः अनुवर्तते। अधुनातनकाले सौदीपौराणां देशात् बहिः, विदेशीयानां देशान्तश्च सञ्चारनिरोधः विद्यते।

 विद्यालयानां निकटे तैलेन्धनोत्क्षेपणयन्त्राणि मा सन्त्विति बालाधिकारायोगः।

   अनन्तपुरी> केरले विद्यालयानां समीपे ५० मीटर् परिमितावधौ पेट्रोल्-डीसलादितैलेन्धनानाम् उत्क्षेपणयन्त्रेभ्यः प्रवर्तनानुज्ञा न दातव्या इति राज्यस्थेन बालकाधिकारायोगेन आदिष्टम्। छात्राणां सुरक्षामालक्ष्य एवायं प्रक्रमः। अनुज्ञादानात्पूर्वं तद्देशशासनसंस्थाभिः दूरसम्बन्धाः मानदण्डाः पालिताः इति दृढीकरणीयम्।