2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम्
समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना। 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Monday, March 22, 2021
हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः ।
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।
Sunday, March 21, 2021
भारत-यू एस् सैनिकसहयोगः विपुलीक्रियते।
नवदिल्ली> फ्लोरिडा मध्ये वर्तमानेन 'यू एस् सेन्ट्रल् कमान्ड्' इत्यनेन, भारत-पसफिक् मण्डले आफ्रिक्कायां च वर्तमानेन यू एस् कमान्ड् इत्यनेन च सह प्रतिरोधसहयोगं बलवत्कर्तुं भारतेन निर्णीतम्। दिनत्रयसन्दर्शनार्थं गतदिने भारतं प्राप्तवता यू एस् राष्ट्रस्य प्रतिरोधसचिवेन लोय्ड् जयिंस् ओस्टिन् इत्यनेन सह कृतायाः चर्चायाः परं भारतस्य रक्षामन्त्री राजनाथसिंहः एव विषयममुं निगदितवान्।
भारतेन सह अमेरिक्कायाः सैनिकसहयोगस्य प्रवर्धनमेव बैडनप्रशासनस्य प्रथमपरिगणनेति ओस्टिन्वर्येण चोक्तम्।
कोविडस्य विनाशाय उन्नतावृत्तितशब्दतरङ्गेण शक्यते।
बोस्टण्> उन्नतावृत्तितशब्दतरङ्गेन कोविड् वैराणुं नाशयितुं शक्यते इति अनुसन्धानस्य फलम्। यु एस् मासच्युसेट्स् संस्थायाः अनुसन्धाताः एव नूतनानुसन्धानस्य पृष्टतः। मनुष्याणां श्रवणागोचरान् उन्नतावृत्तिसहितान् शब्दतरङ्गान् प्रति कथं प्रतिकरोति इति अनुसन्धानं कृत्वा आसीत् नूतनं अध्ययनम्। चिकित्सायाम् उपयुज्यमानानाम् उन्नतावृत्ति-शाब्दतरङ्गाणां प्रकम्पनेन कोविडादि वैराणुनां नाशं भवति इति एतैः प्रत्यभिज्ञाताः। Mechanic's And Physics of Solid इति पत्रिकायाम् आवेदनमिदं प्रकाशितम् अस्ति।पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः।
राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्।
पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।
Saturday, March 20, 2021
कोविडस्य तृतीयतरङ्गः - यूरोपीयराज्येषु भागिकं पिधानम्।
पारीस्> कोविड् महामारेः तृतीयतरङ्गं नियन्त्रयितुं फ्रान्स् , पोलण्ट् इत्यादिषु राष्ट्रेषु भागिकपिधानं प्रख्यापितम्। पारीस् नगरमभिव्याप्य १६ नगरेषु शुक्रवासरादारभ्य नियन्त्रणानि विधत्तानीति तत्रत्यः प्रधानमन्त्री जीन् कास्टेक्स् इत्यनेन निगदितम्।
गतासु २४ होरासु ३५,००० नूतनानि प्रकरणानि आवेदितानि। १२०० रोगिणः राष्ट्रे अतितीव्रविभागे परिचर्यायां वर्तन्ते इति स्वास्थमन्त्रिणा उक्तम्।
पोलण्टे कोविडस्य तृतीयतरङ्गः अतितीव्रः जातः। अतः राष्ट्रे कर्कशं पिधानं विधास्यते इति अधिकृतैरुक्तम्। ह्यः २२,९९८ जनाः रोगबाधिताः अभवन्।
जर्मनी देशे अपि जनितकपरिवर्तितः कोविड्रोगः शीघ्रं व्याप्यते । तत्र १७,४८२ रोगप्रकरणानि २२६ मरणानि च आवेदितानि।
जाग्रत्ताविषये अनवधानता - कोविड्बाधितानां संख्या वर्धते।
नवदिल्ली> भारते कोविड्रोगबाधितानां प्रतिदिनसंख्या वर्धते। गतदिने ३५,८७१ जनाः रोगबाधिताः अभवन्। डिसम्बर् ६ दिनाङ्कात्परम् उच्चतरा संख्या भवत्येषा।
महाराष्ट्रे एव रोगबाधिताः अनुदिनं वर्धते। गतदिने २३,००० अधिकं जनाः रोगबाधिताः जाताः। मरणान्यपि तत्रैव अधिकतरं दृश्यन्ते - १७२। पञ्चाबे ३५ जनाः कोविडेन मृत्युवशं गताः।
Friday, March 19, 2021
बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः।
नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः।
ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।
Thursday, March 18, 2021
त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता।
हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।
रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।
निर्वाचनप्रचारणं संस्कृतभाषायामपि
Wednesday, March 17, 2021
कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।
नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।
अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।
Monday, March 15, 2021
युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः।
खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख् अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।
सुन्दरनगरमहाविद्यालयसाप्ताहि
संस्कृतभारती-सुन्दरनगरमहाविद्
Sunday, March 14, 2021
Saturday, March 13, 2021
सौद्यां यात्रानिरोधः पुनरपि दीर्घीकृतः।
रियादः> सौदी अरेबियाराष्ट्रे अन्ताराष्ट्रीयविमानसेवामुपरि विहितः यात्रानिरोधः मेय् १७तमपर्यन्तं दीर्घीकृतः। येषु राष्ट्रेषु कोविड्व्यापनस्य मानं न्यूनमस्ति तेभ्यः राष्ट्रेभ्यः आगतानां विमानानां यात्रानुमतिः दास्यति।
भारते रोगव्यापनम् अधिकतरं वर्तते इत्यतः यात्रानिरोधः अनुवर्तते। अधुनातनकाले सौदीपौराणां देशात् बहिः, विदेशीयानां देशान्तश्च सञ्चारनिरोधः विद्यते।
विद्यालयानां निकटे तैलेन्धनोत्क्षेपणयन्त्राणि मा सन्त्विति बालाधिकारायोगः।
अनन्तपुरी> केरले विद्यालयानां समीपे ५० मीटर् परिमितावधौ पेट्रोल्-डीसलादितैलेन्धनानाम् उत्क्षेपणयन्त्रेभ्यः प्रवर्तनानुज्ञा न दातव्या इति राज्यस्थेन बालकाधिकारायोगेन आदिष्टम्। छात्राणां सुरक्षामालक्ष्य एवायं प्रक्रमः। अनुज्ञादानात्पूर्वं तद्देशशासनसंस्थाभिः दूरसम्बन्धाः मानदण्डाः पालिताः इति दृढीकरणीयम्।
Friday, March 12, 2021
एस् एस् एल् सि, प्लस् २ परीक्षाः परिवर्तिताः।
अनन्तपुरी> केरले एस् एस् एल् सि, प्लस् २, वि एछ् एस् ई कक्ष्याणां वार्षिकपरीक्षाः परिवर्तिताः। मार्च् १७ तमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं प्रचालयितुं निश्चिताः इमाः परीक्षाः निर्वाचनविज्ञप्तेः आधारत्वेन परिवर्तयितव्याः इति सर्वकारेण केन्द्रनिर्वाचनायोगः अपेक्षितः आसीत्। सर्वकारस्य आवेदनं निर्वाचनायोगेन अङ्गीकृतमित्यतः एप्रिल् मासस्य ८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रचालयितुं सर्वकारेण पुनर्निश्चितम्।