OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 7, 2021

 कोविड् पुनः वर्धते - ६ राज्येभ्यः दिल्ली-चण्डिगडाभ्यां च जाग्रतासूचना दत्ता। 

    नवदिल्ली> भारते कोविड्रोगिणां संख्या पुनरपि वर्धते। गत२४होराभ्यन्तरे १८,३२७ जनाः रोगबाधिताः अभवन्। जनु. २०दिनाङ्कानन्तरं प्रथममेव दिनैकस्य रोगिणां संख्या एतावत्पर्यन्तं प्राप्नोति। 

   हरियाणा आन्ध्रप्रदेशः ओडिशा गोवा हिमाचलप्रदेशः उत्तराखण्डः दिल्ली चण्डीगढः इत्येषां सर्वकाराणां कृते जाग्रत्तासूचना दत्ता अस्ति। उपर्युक्तस्थानानां ६३ जनपदेषु स्थितिः आशङ्काजनका वर्तते। एतेभ्यः जनपदेभ्यः प्रातिवेशिकराज्येषु रोगसंक्रमणसम्भाव्यता अस्तीति जाग्रत्तासूचना दत्ता ।

Saturday, March 6, 2021

 भूमौ प्राणवायोः परिमाणं न्यूनीभवति- प्राणवायोः स्थाने नूतनः निवेशनीयः।   

 वाषिङ्टण्>  ओक्सिजन् प्राणवायोः परिमाणं भूमौ न्यूनीभवति इत्यस्ति अध्ययनफलम्। Nature Geo Science इति पत्रिकायां भूमेः अन्तरिक्षप्राणवायोः भविष्यकालः इति उपन्यासे एव एवं अशङ्कां प्रकाशयति। २०० कोटि संवत्सरानन्तरं एवं त्वरितवेगेन भविष्यति इति उपन्यासे उच्यते।

Friday, March 5, 2021

 केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् मेलनं चेर्त्तल देशे

      आलप्पुष़> केरल-संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् उपवेशनम् मार्च् ५, ६ दिनाङ्कयोः  प्रचलिष्यति। चेर्त्तल एन् एस् एस् सभागृहे अद्य प्रतिनिधिसम्मेलनेन  समारभ्यमणस्य  उपवेशनस्य  कार्यक्रमाः अनुशासित  कोविड्  मानदण्डपालनेन भविष्यन्ति इति मुख्यकार्यकर्त्र्याकृष्णप्रियया उक्तम्  । ६ दिनङ्के आयोक्ष्यमाणं मेलनं चलनचित्रनटः देवः उद्घाटयिष्यति। प्रमुखः संस्कृतप्रचारकः आचार्यश्री विशाखं तिरुनाल् महोदयः समादरिष्यते च। 


Thursday, March 4, 2021

   2021- संवत्सरान्ते कोविड्19 वैराणुः नाशं यति इति विचिन्तनं बुद्धिहीनम् - विश्व स्वास्थ्य सङ्घटनम्। 

 जनीव> २०२१ संवत्सरान्ते केविड् वैराणुः नाशं याति इति विचिन्तनं मौढ्यम् अपक्वं च भवति इति विश्व स्वास्थ्य सङ्घटनेन उक्तम्। किन्तु कोविडं विरुद्ध्य वाक्सिनौषधानां प्रयोगः रोगव्यापनत्वं मरणसंख्या च न्यूनं कुरुतः इति त्वरितयोजनायाः निदेशकः मौकल् रयानः अवदत्। अणुसङ्क्रमणस्य न्यूनीकरणे अतीव श्रद्धालवः भवामः इति भवामः इत्यपि तेनोक्तम्।

Tuesday, March 2, 2021

 चीना राष्ट्रे दरिद्रा निर्माजनं सम्पूणम् अभवत् - षि जिन् पिङ्

 बेय्जिङ्> तीव्रदारिद्र्यं निर्माजनं कृतम् इति चीनस्य राष्ट्रपतिः षि जिन् पिङ्ः अवदत्। अल्पकालेन कोटिशान् जनान् दारिद्र्यात् निर्मुक्तं कर्तुम् अन्यराष्ट्राणि अशक्तानि इति तेन उक्तम्। बेय्जिङ् मध्ये कृते विशिष्टकार्यक्रमे भवति षी जिन्पिङ्स्य ख्यापनम्। इतिहासे लेख्यमानं आदर्शभूतं मनुष्याद्भुतं भवति इदम् इति तेनोक्तम्।

 कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्। 

 नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्। 

  षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये   उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।

Monday, March 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

   भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)

Sunday, February 28, 2021

 चतुर्षु राज्येषु पुतुच्चेर्यां च विधानसभानिर्वाचनानि प्रख्यापितानि। 

   नवदिल्ली> भारते असमः केरलं पश्चिमवंगः तमिल्नाट् इत्येतेषु राज्येषु पुदुच्चेरी नामककेन्द्रशासनप्रदेशे च विधानसभानिर्वाचनानि उद्घुष्टानि। मार्च् २७ दिनाङ्कतः निर्वाचनप्रक्रिया समारप्स्यते। मतगणना मेय् द्वितीयदिनाङ्के भविष्यति। 

   पश्चिमवंगे अष्टसोपानात्मकमतदानप्रक्रिया मार्च् २७ तमे अरभ्यते। अष्टमसोपानं एप्रिल् २९दिनाङ्के समाप्स्यते।  असमेSपि तद्दिने आरभ्यमाणे मतदानकार्यक्रमे त्रीणि सोपानानि सन्ति। अन्तिमसोपानम् एप्रिल् ६ दिनाङ्के भविष्यति। 

  केरलं तमिल् नाट् पुतुच्चेरी इत्येतेषु स्थानेषु एप्रिल् षष्ठदिनाङ्के मतदानं सम्पत्स्यते। कोविड् सुरक्षानियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्तीति मुख्यनिर्वाचनाधिकारी सुनिल् अरोरः वार्ताहरसम्मेलने उक्तवान्।

Thursday, February 25, 2021

 मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः वाक्सिनः निशुलकं दास्यते।

    नवदिल्ली> मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः तथा रोगबाधितेभ्यः ४५ वयस्केभ्यः च वाक्सिनः निशुलकं दास्यते इति भारत सर्वकारेण ज्ञापितम्।

१०,००० सर्वकारकेन्द्रेषु २०,००० निजीय केन्द्रेषु च वाक्सिनः निशुल्कं दास्यते इति केन्द्रमन्त्रिणा प्रकाश जावडेकरेण उक्तम्। निजीय आतुरालयात् वाक्सिनं स्वीकरोति चेत् शुल्कं दातव्यंम् अस्ति।

Sunday, February 21, 2021

 सप्तमासानां यत्रा, ३० कोटि मैल् दूरम्। सिवियरन्स् कुजग्रहं प्राप्तम्।

  वाषिङ्टण्> नास सङ्घटनस्य कुजदौत्यपेटकं पेर्सिवियरन्स् रोवरः कुजग्रहं प्राप्तम्। शुक्रवासरे भारतसमये २:२५ वादने रोवरः कुजमण्डलं प्राप्तम्। कुजान्तरीक्षे १९ ,५०० किलोमीट्टर् वेगेन सञ्चारं कृत्वा पारचूट् उयुज्य प्रतलम् अवतरिम्। कुजग्रहस्य पूर्वकालवातावरणं ग्रहशास्त्रं च ज्ञातव्यम् इत्यस्ति लक्ष्यम्। कुजस्य जीवस्पन्दम् अधिकृत्य अध्ययनमेव मुख्यलक्ष्यम्। गत सप्तमासाभ्यन्तरे ३० कोटि मैल् सञ्चारं कृत्वा एव कुजग्रहं प्राप्तम्।

Friday, February 19, 2021

 विद्युत् नास्ति, जलं नास्ति, शीतेन घनीभूतः टेक्सास् देशः। 

 


 वाषिङ्टण्> यु एस् राष्ट्राणां दक्षिणपूर्व राज्यानि अतिशैत्येन कम्पन्ते। जनानां जीवनं दुस्सहमभवत्। हिमपातेन अतिन्यून-तापमानेन च टेक्सास् प्रदेशस्य स्थितिः अतिकष्टेन अनुवर्तते। सर्वकारेण पूर्वसूचना प्रसारिता अस्ति। २.७ दशलक्षं गृहेषु वैद्युतिः स्थगिता अस्ति। गृहेषु तापवर्धनाय सहायकसुविधायाः प्रवर्तनाय वैद्युतिः अनिवार्या। जलवितरणनालिका भागिकतया स्थगिता वर्तते। २१ जनाः मृताः इति आवेद्यते।

Tuesday, February 16, 2021

 अनर्हेभ्यः दरिद्राणां कार्डपत्रम्। प्रक्रमाः स्वीकरिष्यन्ते इति कर्णाटकस्य सर्वकारः। 

बङ्गलूरु> पञ्च एकर् विस्तृतं भूमेः स्वामिनः द्विचक्रिका स्वामिनः च दरिद्रेभ्यः उद्दिष्टं कार्डपत्रं प्रत्यर्पणीयम्   इति कर्णाटक-सर्वकारेण आदिष्टाः। मार्च् ३१ दिनाङ्कतः पूर्वम्  आदेशं पालनीयम्। नो चेत् दण्ड प्रक्रमाः स्वीकरिष्यन्ते इति सर्वकारेण स्पष्टीकृतम्। सर्वजनिकवितरण-विभागस्य मन्त्रिणा उमेश खाट्टी वार्तामेलने वार्तामिमां प्रकाशयत् । १.२० लक्षं वार्षिकायः यस्मै अस्ति सोऽपि कार्डपत्रम् प्रत्यर्पणीयम्।

 प्ररोधौषधप्रयोगः त्वरितवेगन कृतः केन्द्रसर्वकारः। ८५ लक्षं जनाः औषधप्रयोगं स्वीकृतवन्तः।

   नवदेहली> कोरोण प्ररोधौषधप्रयोगस्य तृतीयश्रेणी आगमिमासे भविष्यति। ५० वर्षा देशीयनाम् अपि अस्मिन् सन्दर्भे औषधप्रयोगं भविष्यति इति स्वास्थ्यमन्त्रालयेन उक्तम्। वाक्सिन् प्रयोगः त्वरितवेगन कृतः केन्द्रसर्वकारेण। इतःपर्यन्तं ८५१६३८५ जनाः वाक्सिन् स्वीकृतवन्तः।

Monday, February 15, 2021

 जापाने भूचलनम् १५० जनाः क्षताः।

   फुकुषिम> जापानस्य उत्तरपूर्व प्रदेशेषु आपन्ने भूचलने १५० जनाः क्षताः। भूचलनस्य शक्तिःरिक्टर् मापिन्यां ७.३ इति अङ्किता भवति इति स्पुट्निकेन आवेदितम्। राष्ट्र राजधान्यां टोक्योमध्ये अपि प्रकम्पः अनुभूतः। भुचलन कारणेन विद्युत्रेल्- विद्युत्सेवाः च स्तगिताः आसन्। आगमि सप्ताहेषु अनुबन्ध चलनानि स्युः इति पूर्व सूचना प्रदत्ता अस्ति।

Sunday, February 14, 2021

 विश्वस्वास्थ्य सङ्घटनाय कोविडस्य प्राथमिकविवरणानि प्रदातुं चीनेन वैमुख्यं प्रकाशितम्।


बैजिङ्>  विश्वस्वास्थ्य सङ्घटनस्य नेतृत्वे कोविड् रोगाणोः प्रभवकेन्द्रम् अन्विष्यमाणेभ्यः सङ्घेभ्यः प्राथमिक-कोविड् बाधायाः विशदविवरणानि प्रदातुं चीनः विसम्मतं प्रकटितवन्तः। एवं चेत् महारोगः कथम् आरम्भः कृतः इति अवगन्तुं न शक्यते इति रोयिटेरस्  वार्तासंस्थां प्रति सङ्घः अवदत्।  प्रथमतया रोगग्रस्तानां १७४ जनानां विवरणानि एव सङ्घः अपृच्छत्। किन्तु चीनेन तेषां सङ्ग्रहः एव प्रदत्तः इति ओस्ट्रेलियायाः सङ्घाङ्गः डोमिनिक् डेयरः उक्तवान्। 

Saturday, February 13, 2021

 गूगिल् माप् इत्यस्य स्थानं इतःपरं माप् मै इन्टिया संवहति।

  नवदेहली>आत्मनिर्भर-योजनया सम्पुष्टम् ऐ एस् आर् ओ संस्थया निर्मितं भारतस्य 'माप् मै इन्ट्य' समागच्छति। गूगिल् माप् इत्यस्य स्थाने स्वराष्ट्रनिर्मितम् अनुप्रयोगः भवतु इति राष्ट्रप्रेमिणां चिरकालाभिलाषः भवति। विलम्बं विना अभिलाषकलिका विकासं यास्यति इति वार्ता सर्वेषां मोदाय भवति।

Friday, February 12, 2021

 'केन्ट्' कोरोणा वैराणुव्यापनं विश्वमखिलं स्यात्। वाक्सिन् निष्फलं भविष्यति इति वैज्ञानिकाः।

   लण्टन्> चीनराष्ट्रे पुनरपि कोरोणा वैराणुभीषया द्वे नगरे पिधानं कृतम्। केन्ट् मध्ये प्रत्यभिज्ञातः नूतनः कोरोणवैराणुः आविश्वं व्याप्स्यते इति वैज्ञानिकाः अभिप्रेन्ति। इदानीं दीयमानेन वाक्सिनेन लब्धं संरक्षणं दुर्बलं कर्तुं नूतनः वैराणुः सज्जः स्यात् इति यु के राष्ट्रस्य जनितक-निरीक्षणायोगस्य अधिपः षारोण् पीकोक् इत्याख्येन आवेद्यते। कोरोणा वैराणुना इतःपर्यन्तं २.३५ दशलक्षं जनाः मारिताः। कोटिशानां साधारणजनानां जीवनम् तिरश्चीनमभवन्। नूतनः वैराणुः औषधप्रतिरोधान् प्रतिकूलरीत्या बाधिष्यते इति च षारोण् पीकोक् अवदत्। ब्रिट्टणे व्याप्तः नूतनवैराणुः शक्ता भवति। विश्वहननाय क्षमतायुक्तः भवति एषः इत्यपि तेन उक्तम्।

Thursday, February 11, 2021

शान्तसमुद्रे भूचलनम्। ओस्ट्रेलिया न्युसिलान्ट् राष्ट्रयोः तीरयोः 'सुनामि' सूचना।

 दक्षिणपूर्व शान्तसमुद्रे अतिशक्तं भूचलनम् अभवत्। रिक्टर् मापिन्यां ७.७ इति अङ्गितेन भूचलनेन ओस्ट्रेलिया न्युसिलान्ट् फिजि राष्ट्राणां तीर प्रदेशाः 'सुनामि' भीत्यां वर्तन्ते। अमेरिक्कस्य 'सुनामि-पूर्वसूचनाकेन्द्रः' तथा ओस्ट्रेलियस्य वातावरणनिरीक्षण-विभागेन च सुनामि पूर्वसूचना प्रदत्ता अस्ति। अति शक्ता समुद्रतरङ्गः स्यात् इत्यनेन जनाः सुरक्षितस्थानं प्रेषयन्तः सन्ति।