OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 15, 2021

 जापाने भूचलनम् १५० जनाः क्षताः।

   फुकुषिम> जापानस्य उत्तरपूर्व प्रदेशेषु आपन्ने भूचलने १५० जनाः क्षताः। भूचलनस्य शक्तिःरिक्टर् मापिन्यां ७.३ इति अङ्किता भवति इति स्पुट्निकेन आवेदितम्। राष्ट्र राजधान्यां टोक्योमध्ये अपि प्रकम्पः अनुभूतः। भुचलन कारणेन विद्युत्रेल्- विद्युत्सेवाः च स्तगिताः आसन्। आगमि सप्ताहेषु अनुबन्ध चलनानि स्युः इति पूर्व सूचना प्रदत्ता अस्ति।

Sunday, February 14, 2021

 विश्वस्वास्थ्य सङ्घटनाय कोविडस्य प्राथमिकविवरणानि प्रदातुं चीनेन वैमुख्यं प्रकाशितम्।


बैजिङ्>  विश्वस्वास्थ्य सङ्घटनस्य नेतृत्वे कोविड् रोगाणोः प्रभवकेन्द्रम् अन्विष्यमाणेभ्यः सङ्घेभ्यः प्राथमिक-कोविड् बाधायाः विशदविवरणानि प्रदातुं चीनः विसम्मतं प्रकटितवन्तः। एवं चेत् महारोगः कथम् आरम्भः कृतः इति अवगन्तुं न शक्यते इति रोयिटेरस्  वार्तासंस्थां प्रति सङ्घः अवदत्।  प्रथमतया रोगग्रस्तानां १७४ जनानां विवरणानि एव सङ्घः अपृच्छत्। किन्तु चीनेन तेषां सङ्ग्रहः एव प्रदत्तः इति ओस्ट्रेलियायाः सङ्घाङ्गः डोमिनिक् डेयरः उक्तवान्। 

Saturday, February 13, 2021

 गूगिल् माप् इत्यस्य स्थानं इतःपरं माप् मै इन्टिया संवहति।

  नवदेहली>आत्मनिर्भर-योजनया सम्पुष्टम् ऐ एस् आर् ओ संस्थया निर्मितं भारतस्य 'माप् मै इन्ट्य' समागच्छति। गूगिल् माप् इत्यस्य स्थाने स्वराष्ट्रनिर्मितम् अनुप्रयोगः भवतु इति राष्ट्रप्रेमिणां चिरकालाभिलाषः भवति। विलम्बं विना अभिलाषकलिका विकासं यास्यति इति वार्ता सर्वेषां मोदाय भवति।

Friday, February 12, 2021

 'केन्ट्' कोरोणा वैराणुव्यापनं विश्वमखिलं स्यात्। वाक्सिन् निष्फलं भविष्यति इति वैज्ञानिकाः।

   लण्टन्> चीनराष्ट्रे पुनरपि कोरोणा वैराणुभीषया द्वे नगरे पिधानं कृतम्। केन्ट् मध्ये प्रत्यभिज्ञातः नूतनः कोरोणवैराणुः आविश्वं व्याप्स्यते इति वैज्ञानिकाः अभिप्रेन्ति। इदानीं दीयमानेन वाक्सिनेन लब्धं संरक्षणं दुर्बलं कर्तुं नूतनः वैराणुः सज्जः स्यात् इति यु के राष्ट्रस्य जनितक-निरीक्षणायोगस्य अधिपः षारोण् पीकोक् इत्याख्येन आवेद्यते। कोरोणा वैराणुना इतःपर्यन्तं २.३५ दशलक्षं जनाः मारिताः। कोटिशानां साधारणजनानां जीवनम् तिरश्चीनमभवन्। नूतनः वैराणुः औषधप्रतिरोधान् प्रतिकूलरीत्या बाधिष्यते इति च षारोण् पीकोक् अवदत्। ब्रिट्टणे व्याप्तः नूतनवैराणुः शक्ता भवति। विश्वहननाय क्षमतायुक्तः भवति एषः इत्यपि तेन उक्तम्।

Thursday, February 11, 2021

शान्तसमुद्रे भूचलनम्। ओस्ट्रेलिया न्युसिलान्ट् राष्ट्रयोः तीरयोः 'सुनामि' सूचना।

 दक्षिणपूर्व शान्तसमुद्रे अतिशक्तं भूचलनम् अभवत्। रिक्टर् मापिन्यां ७.७ इति अङ्गितेन भूचलनेन ओस्ट्रेलिया न्युसिलान्ट् फिजि राष्ट्राणां तीर प्रदेशाः 'सुनामि' भीत्यां वर्तन्ते। अमेरिक्कस्य 'सुनामि-पूर्वसूचनाकेन्द्रः' तथा ओस्ट्रेलियस्य वातावरणनिरीक्षण-विभागेन च सुनामि पूर्वसूचना प्रदत्ता अस्ति। अति शक्ता समुद्रतरङ्गः स्यात् इत्यनेन जनाः सुरक्षितस्थानं प्रेषयन्तः सन्ति।

Wednesday, February 10, 2021

 यु ए इ राष्ट्रस्य कुजयोजना सर्थका अभवत्। होप् प्रोब् भ्रमणपथं प्राप्तम्।

   दुबाय्> अरब् देशस्य प्रथम कुजयोजना विजयपथं प्राप्ता।  यू ए ई राष्ट्रेण विक्षिप्तं होप् प्रोब् बाह्याकाश पेटकं कुजस्य भ्रमणपथं प्राप्तम्। अरब् प्रदेशमखिलम् उत्सवसमानम्  अन्तरिक्षं वर्तते। कुजस्य जल-धूली सान्निध्यम् अधिकृत्य आवेक्षणमेव होप् प्रोब् पेटकेन क्रियते। २१२० संवत्सरे कुजग्रहे मनुष्वाससंस्थापनम् भवति लक्ष्यम्। गतसंवत्सरे जुलाई मासे  होप् प्रोब् बाह्याकाशवाहनं भ्रमणपथं प्राप्तम् आसीत्।

 उत्तराघण्ड दुरन्ते २६ जनाः मृताः १९७ जनाः अप्रत्यक्षाः। 

 देह्रादूण्> उत्तराघण्डस्य चमोलि जनपदे आपन्नेन हिमपातेन मृतानां २६ जनानां मृतशरीराः लब्धाः। रुद्रप्रयाग प्रदेशतः एव एते लब्धाः। ३२ जनाः ततः रक्षिताः। १७१ जनाः अप्रत्यक्षाः इति आरक्षकैः उच्चते।

Monday, February 8, 2021

 भारत-नेप्पालसंबन्धमार्गः उद्घाटितः। 

  काठ्मण्डु> भारतसीमां नेप्पालराष्ट्रस्य विविधाशान् प्रदेशान् सम्बध्यमानः नूतनः मार्गः उभाभ्यां राष्ट्राभ्यां संयुक्ततया उद्घाटितः। भारतसीमायां लक्ष्मीपुरस्थात् बलारातः नेप्पालस्य सरलाहिजनपदस्थं गथय्यां सम्बध्नाति अयं मार्गः। 

  १०८ कि.मी परिमितदूरयुक्तस्य अस्य मार्गस्य निर्माणाय भारतेन ४.४४कोटि रूप्यकाणि दत्तानि। नूतना वीथी उभयोरपि राष्ट्रयोः जनानां कृते नितरां प्रयोजकीभविष्यतीति भारतीयनयतन्त्रकार्यालयेन प्रस्तुतम्।

 उत्तरघण्डे हिमश्रृङ्गः अधःपतितः। १५० जनाः अप्रत्यक्षाः। अलकनन्दासेतुः भग्नः।

 देह्रादूण्> उत्तरघण्डे चमोलिजनपदे जोषिमठे हिमश्रृङ्गः अधःपतितः। अलकनन्दा नद्याम् आपन्नायां जलोपप्लवे १५० जनाः अप्रत्यक्षाः। अलकनन्दासेतुः भग्नः च। ऋषिकेश्, हरिद्वार प्रदेशेषु अतिजाग्रता निर्देशः प्रदत्तः। जोषिमठस्य समीपप्रदेशस्थ तपोवन-रैनि इति स्थाने आसीत् हिमशैलपातः। अनेन आसीत् अलकनन्द-नद्यां जलोपप्लवः।  सहस्रशः जनाः सुरक्षितस्थानां प्रविष्टाः। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, February 7, 2021

पञ्चाशद्वयस्कातीतेभ्यः कोविड्वाक्सिनं मार्च् मासे।

    नवदिल्ली> भारते पञ्चाशदतीत वयस्केभ्यः आगामिमासादारभ्य कोविड्वाक्सिनवितरणम् आरप्स्यते इति स्वास्थ्यमन्त्रिणा हर्षवर्धनेन निगदितम्। 

  गतदिनं यावत् ५३ लक्षं जनेषु वाक्सिनीकरणं कृतम्। स्वास्थ्यप्रवर्तकानाम् इतरेषां सेनामुखे वर्तमानानां च कृते एव आभारतं प्रथमद्वितीयसोपाने वाक्सिनीकरणं प्रदत्तम्। तृतीयसोपानतया एव ५० अतीतानां कृते वाक्सिनीकरणम्।

१११ सामाजिकविद्यालयाः अपि श्रेष्ठाः अभवन्। 

    अनन्तपुरी> केरले १११ सामाजिकविद्यालयाः अपि गतदिने श्रेष्ठताकेन्द्राणि अभवन्। सामाजिक शिक्षणविभागस्य भौतिकसुविधाविकासाभियोजनायाः अंशतया 'किफ्बि'नामकधननिधिमुपयुज्य निर्मितानां १११ विद्यालयानां समुद्घाटनं मुख्यमन्त्रिणा पिणरायि विजयेन दृश्यश्रव्यमाध्यमद्वारा [Video Conference] कृतम्। 

  राज्यस्य विप्रकृष्टग्रामेषु वर्तमानेभ्यः छात्रेभ्यः अपि अन्ताराष्ट्रस्तरीया श्रेष्ठा शैक्षिकसुविधा लभते इत्येव अस्याः अभियोजनायाः लक्ष्य इति मुख्यमन्त्रिणा उक्तम्। 

  शिक्षामन्त्री प्रोफ. सि रवीन्द्रनाथस्य आद्ध्यक्षे आयोजिते मेलने वित्तमन्त्री डो. टि एम् तोमस् ऐसकः मुख्यभाषणमकरोत्। प्रतिविद्यालयेषु अपि प्रादेशिकस्तरे उद्घाटनसभाः आयोजिताश्च।

Saturday, February 6, 2021

 नूतनं संयुक्तराष्ट्राध्यक्षं चेतुं प्रक्रमः समारब्धः। 

 युणैट्टड् नेषन्स्>  संयुक्तराष्ट्रसभायाः नूतनाध्यक्षपदे वनिता भवतु इति विचिन्त्य प्रक्रमाः समारब्धाः। इदानीन्तनाध्यक्षः अन्टोणियो गुट्टरस् स्थानाशी भूत्वा पुनरपि स्पर्धिष्यते इति उक्तवान्। पोर्चुगीस् राष्ट्रस्य प्राक्तनः प्रधानमन्त्री भवति एषः। यू एन् सर्वजनिकसभायां सुरक्षासभायां च तस्मै सभाङ्गानां सहयोगः अस्ति। यू एन् अङ्गाः यू एस् रष्य चीन फ्रान्स् राष्ट्राणां  सहयोगः तस्मै अस्ति इति आवेद्यते। अस्मिन् वारे अध्यक्षस्थाने वनिताभवतु इति आवश्यं पत्रद्वारा होण्डूरासस्य राजदूतः संयुक्तराष्ट्रसभां न्यवेदयत्।

Thursday, February 4, 2021

 वाहन-पञ्जीकरणाय अनुज्ञापत्राय च आधार पत्रम् अनिवार्यम्। 

   कोच्ची> वाहनानां पञ्जीकरणाय यान-चालकानुज्ञापत्राय च आधार पत्रम् अनिवार्य-प्रमाणपत्रत्वेन अङ्गीकरिष्यति। ओण् लैन् सेवा सुरक्षितरीत्या प्रवर्तयिंतुम् उद्दिश्य केन्द्रसर्वेकारेण नियमः नवीकृतः। विनामेषु (Binami) वाहन-पञ्जीकरणं व्याज-प्रमाणपत्रानुपयुज्य वाहन-चालकानुज्ञापत्र-प्राप्तिः च रोद्धुमेव अयं प्रक्रमः। अस्मिन् मासे एव विज्ञापनं बहिर्गमिष्यति इति आवेद्यते।

Monday, February 1, 2021

 म्यान्मर् देशे सैनिकाधिपत्यंम् 

सूची बन्धने।

   रङ्कूण्> म्यान्मर् देशे पुनरपि शासने सैनिकाधिनिवेशः अभवत्। शासनदलः नाषणल् लीग् फोर् डेमोक्रसि ( N L D ) इत्यस्य नेतृणी आङ् सान् सूचि राष्ट्रपति विन् मिन्टः अन्ये नेतारः च बन्धिताः। सैनिक नेतारः राष्ट्रे त्वरितप्रक्रमकालः ख्यापितवन्तः। अद्य उषसि एव नेतारः बन्धिताः अभवन्। नूतनतया निर्वचने विजयं प्राप्तवताः श्वः शासनं स्वीकर्तुं सज्जाः असन्। तदानीमेव आसीत् ईशृशी घटना। राष्ट्रस्य टी वी, रेडियो प्रवर्तनानि स्तगायितम्। प्रधाननगराणि सर्वाणि सैनिकाधीनम् अभवन्। राजधान्यां नैपितो इत्यत्र दूरभाषा-अन्तर्जालादि सेवाः निराकृताः। अतः तस्मिन् किं प्रचलति इति विस्तरेणज्ञातुं वार्ताहराः प्रयत्नं कुर्वन्तः सन्ति।

 भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि विशालं भवति - प्रधानमत्री नरेन्द्रमोदी।

  नवदिल्ली> भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि अतिविशालं भवति इतिप्रधानमत्री नरेन्द्रमोदी अवदत्। भारतम् अधिकृत्य ये जानन्ति तेभ्यः सा सत्ता अवगम्यते। स्वामिविवेकानन्देन समारब्धं #'प्रबुद्धभारत' इति पत्रिकायाः १२५ तम संवत्सरीय समारोहे भाषमाणः आसीत् सः। भारतस्य आत्मा का इति उद्बोधयितुम् उद्दिश्य पत्रिकायैः प्रबुद्धभारत इति तेन नामकरणं कृतम्। उद्बुद्धभारतस्य सर्जनमेव विवेकानन्देन अभिलषितम्। येभिः भारतं प्रत्यभिज्ञातम् तेभ्यः भारतम् राष्ट्रादपि भूप्रदेशादपि विशालं इति सुव्यक्तं भविष्ति, नरेन्द्रमोदिना उक्तम्।

Sunday, January 31, 2021

 वाहननियमलङ्घनं - फेब्रुवरि १ आरभ्य कर्कशपरिशोधना भविष्यति।      

   अनन्तपुरी>राष्ट्रियवीथीसुरक्षामासाचरणस्य अंशतया केरले यन्त्रवाहनविभागेन आरक्षकसेनया च वाहनपरिशोधना कर्कशा विधत्ता।  फेब्रुवरि प्रथमदिनादारभ्य ६ दिनाङ्कपर्यन्तं शिरस्त्राण-आसनपरिवेष्ट्रस्य च परिशोधनायाः प्राधान्यं भविष्यति। १० - १३ दिनाङ्कपर्यन्तम् अतिशीघ्रगतियुक्तानां वाहनानि विरुध्य पदक्षेपाः करिष्यन्ते। ७- १७ दिनाङ्केषु मदिरां पीत्वा वाहनचालनं, चालनसमये दूरवाणीविनियोगः, सूचनालङ्घनम्, अनधिकृतस्थगनम् इत्यादिषु प्रकरणेषु पदक्षेपाः स्वीकरिष्यन्ते।

 दिल्लीस्फोटनं - उत्तरदायित्वं 'जय्षे उल् हिन्द्'ना स्वीकृतम्। 


   नवदिल्ली> इस्रायेल् एम्बसीकार्यालयस्य समीपे शुक्रवासरे सायं सञ्जातस्य स्फोटनस्य उत्तरदायित्वं स्वीकृत्य 'जय्षे उल् हिन्द्' नामकस्य आतङ्कवादसंघटनस्य टेलिग्रामसन्देशः प्रचरन्नस्ति। किन्तु अन्वीक्षणसंस्थायाः एतदास्पदं सुव्यक्तं किमपि प्रमाणं नालभत। 

  स्फोटनस्य नातिचिरात्प्राक् एम्बसीकार्यालयस्य समीपेन किमपि यानं सन्देहास्पदे साहचर्ये प्राचलदिति समीपस्थेषु सि सि टि वि दृश्येषु वर्तते। प्रकरणमिदं एन् ऐ ए संस्थया स्वीक्रियते इति श्रूयते।

 अतितापः ध्रुवप्रवेशे हिमाद्रता वर्धते। भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति। 

 आगोलपर्यावरणावस्थाम् अधिकृत्य विचिन्तनं कर्तुं नेत र्लन्ट् देशे आयोजिते विश्व नेतृ.णाम् उपवेशने भूमेः पर्यावरणस्य तापवर्धनं अतिचर्चितम्। एवं तपमानं नियन्त्रणं विना वर्धते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशने सर्वे अभिप्रेन्ति। २०३०तः पूर्वं इमाम् अवस्थां परिहर्तुं न शक्यते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशनेन पूर्व सूचना प्रदत्ता अस्ति। ध्रुवप्रवेशे हिमाद्रतायाः वेगः ५७% अधिकम् अभवत् इत्यस्ति अध्ययन फलम् ।