OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 25, 2021

 उल्लङ्ख्य निवेशनाय चीनेन कृतः श्रमः भारतेन पराजितः। २० चीनस्य सैनिकाः क्षताः।

  नवदिल्ली> भारत-चीनयोः सैनिकाः सिक्किमस्य नकुलप्रदेशे युद्धम् अभवत्। दिनत्रयात् पूर्वम् आसीत् घटना। २० चीनसैनिकाः ४ भारतसैनिकाः च घटनायां क्षताः। चीनस्य निरीक्षक-संघाः नियन्त्रण-रेखाम् उल्लङ्ख्य आगताःइति भवति संघट्टनस्य कारणम् भारतसैनिकैः चीनसैनिकाः परं चूर्णायिताः। प्रदेशे भारतेन सुरक्षा शक्तीकृता। समुद्रतलात् १९००० पादोन्नत्यां भवति 'नकुल'प्रदेशः।

 सम्यक् सङ्घटनस्य संस्कृतमेधा पुरस्कारेण पुरस्कृतः बलदेवानन्दसागरः।

   बेंगळूरु> अस्ति कर्णाटके बेंगळूरु-नगरे 'सम्यक्'-नाम्नी संस्कृत-शिक्षकाणां संस्था। एषा प्रतिवर्षं संस्कृतस्य मेधाविच्छात्रान् पुरस्करोति, संस्कृतोत्सवम् आयोजयति, अन्यतमं कञ्चन संस्कृत-सेवाव्रतिनञ्च कर्णाटकशैल्या हूवीन्हार-पगडीति पुष्पमाला-शिरोष्णाभ्यां सह एकादशसहस्ररूप्यकाणां प्रदानपुरस्सरं सम्मानयति। अनेके प्रतिभाशालिन्यः बालिकाः बालाश्चात्र प्रोत्साहिताः, संस्कृतसेवकः बलदेवानन्दसागरश्च सम्मानितः। 

वर्धतां समेधताञ्च शिक्षकाणां समुत्साहः।

Sunday, January 24, 2021

 संस्कृतशिक्षकाणाम् अन्तर्जालीयमुपवेशनम्

    उत्तराखण्डस्य शासकीयेषु शासनेतरेषु च विद्यालयेषु कार्यरतानां संस्कृतविषयाध्यापकाणाम् अन्तरजालीयम् उपवेशने रविवासरे आयोजितम्। अस्मिन् उपवेशने प्रदेशस्य द्वितीयराजभाषात्वेन घोषिते सत्यपि विद्यालयेषु शिक्षकाणां नैयून्यं सविशेषं परिचर्चितम्। विषयेस्मिन् शासकीयौदार्यम् अपाकर्तुं सम्मर्षाः समागताः।

राज्ये संस्कृतविषयस्य प्रवक्तृणां सहायकशिक्षकाणां चोपवेशने माध्यमिक-विद्यालयेषु उच्चतरमाध्यमिक-विद्यालयेषु च संस्कृतशिक्षकाणां सृजितपदेषु अधिकांशपदेषु रिक्तता कारणेन छात्रेभ्यः गुणवत्तापूर्ण-शिक्षा नैव प्रदीयते। अत्रावसरे शिक्षकैः प्रोक्तं यत् विद्यालयेषु अन्यविषयाणां शिक्षकाः वैकल्पिक-व्यवस्थाम् अनुसरन् संस्कृतं पाठयितुं बाध्याः सन्ति। निगदितं च यत् प्रशासनेन उत्तराखण्डस्य द्वितीया राज्यभाषा तु प्रतिपादिता परं धरातले तदैव मूर्तत्वं गच्छति यदा अस्याः संवर्धनाय समुन्नयनाय परिवर्धनाय छात्रहिताय गुणवत्तापूर्णशिक्षायै च नीतिपूर्णा कार्ययोजना निर्मास्यते ।

उपवेशने द्वितीयराजभाषां समुन्नेतुं नैके सम्मर्दाः समुपस्थापिताः। माध्यमिक-स्तरे अनिवार्यविषयत्वेन संस्कृतशिक्षणम् उच्चतरमाध्यमिक-स्तरे च द्वितीयभाषात्वेन संस्कृतशिक्षणम् संस्कृतविषयस्य सहायकशिक्षकाणां प्रवक्तृणां च रिक्तपदेषु नियुक्तिः शासकीय-साहाय्य-प्राप्त-विद्यालयेषु शासनेतर-विद्यालयेषु च संस्कृत-शिक्षकाणां पदसृजनम् अथ च स्थायि-नियुक्तिं यावत् अतिथि-शिक्षकाणां नियुक्तिः इत्येतादृशाः विषयाः प्रमुखाः अवर्तन्त।

 कोविड् वाक्सिनवितरणं - भारताय कृतज्ञताम् समर्प्य विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> विश्वस्मै कोविड्प्रतिरोधप्रवर्तनेषु भारतस्य योगदानं पुरस्कृत्य राष्ट्राय प्रधानमन्त्रिणे च विश्वस्वास्थ्यसंघटनस्य अध्यक्षः ट्रेट्रोस् अथनों गब्रियेसुसः कृतज्ञतां व्याहरत्। भारते वाक्सिनवितरणानन्तरं 'प्रातिवेशिकाः प्रथमम्' इति राष्ट्रस्य नीतिक्रममनुसृत्य भारते निर्मितं कोविड्वाक्सिनं श्रीलङ्का  ,भूट्टानं, बङ्गलादेशः, नेप्पालं, म्यान्मरं, सीषेल्स्, अफ्गानिस्थानं , मौरीष्यस् इत्येतेभ्यः राष्ट्रेभ्यः निश्शुल्केन वितीरतुं निश्चयः कृतः आसीत्। 

   भूट्टानाय सार्धशतं मात्राः मालिद्वीपाय लक्षैकं मात्राः, बङ्गलादेशाय २० लक्षं, नेप्पालाय १० लक्षं , म्यान्मराय १ लक्षं, मौरीष्यसे १ लक्षं च मात्राः गतदिनेषु नीताः। अस्मिन्ननवसरे आसीत् अथनोंवर्यस्य कृतज्ञता अभिनन्दनं च ट्विटर्द्वारा प्रकाशितम्।

Saturday, January 23, 2021

 ९२ राष्ट्रान् प्रति भारतस्य कोविड् प्रतिरोधौषधः। 

 नव दिल्ली> भरतात् ९२ राष्ट्राणि कोविड् प्रतिरोधौषधं स्वीकुर्वन्ति। वाक्सिनस्य वितरणं समारभ्य कतिपय दिनाभ्यन्तरे भारतस्य वाक्सि नस्य निमाणक्षमतायाः ख्यातिः राष्ट्रान्तरं व्याप्यते इति वैदिशिक-वार्तामाध्यमैः आवेद्यते। स्वस्य आवश्यकताम् अतिरिच्य अधिकम् औषधं निर्मातुं सक्षमं सज्जं च भवति भारतम् इति आवेदने दृश्यते। बुधवासरादारभ्य बग्लादेश - नेपाल -भूट्टान्-मालद्वीप्राष्ट्रेभ्यः ३२ लक्षं मात्रात्मकं वाक्सिनः भारतेन प्रदत्तः अस्ति।

 अष्टानां विषयाणां टैटपरीक्षायाः परिणामविषये सूचना

वार्ताहरः श्रीवत्स देशराजशर्मा हिमाचलप्रदेशः।
   
हिमाचलप्रदेश-विद्यालयशिक्षाबोर्ड्, फरवरी मासस्य प्रथमसप्ताहे अध्यापकपा-त्रतापरिक्षायाः परिणामः शीघ्रमेव दातुं शक्यते।विद्यालय -शिक्षाबोर्डमाध्यमेन परीक्षापरिणाम-संबंधितानि कार्याणि सम्पूर्णानि जातानि।बोर्डमाध्यमेन निष्कासितोत्तराणां सूच्यां प्राप्तोत्तराणां सम्बन्धे, प्राप्तापत्तिसु विश्लेषणं सम्पूर्णं जातमेषा सूचना बोर्डाध्यक्षेन डॉ. सुरेशकुमारसोनी महोदयेन प्रदत्ता। तैः कथितः फरवरी मासस्य प्रथमसप्ताहे अध्यापकपात्रतापरिक्षायाःपरिणामो निष्कासयितुं विषये सबंधितशेषाणि कार्याणि सम्पूर्णानि जातानि। बोर्डेन उत्तरसूच्यां प्रदत्तोत्तराणां सम्बन्धे प्राप्तापत्तिस्वपि विश्लेषणं कार्यं जातम्। 

Friday, January 22, 2021

 पुणे 'सिरं' संस्थायाः अग्निबाधया पञ्चानां मृत्युः अभवत्। 

     मुम्बै> पुणे सिरं नाम संस्थायां जाताग्निबाधया पञ्चजनाः मारिताः। गुरुवासरे अपराह्ने २:४५ वादने आसीत् अपघातः। प्रथम 'टेर्मिनल्' इति भागे नवनिर्माणगृहे चत्वार-पञ्च अट्टे एव अग्निबाधा आसीत्। चत्वारः जनाः रक्षिताः। कोरोण-प्रतिरोधौषध-निर्माणगृहं दूरे आसीत् इति कारणेन औषधनिर्माणस्य स्थगनं न अभवत्। अन्वेषणाय आदेशः दत्तः इति महाराष्ट्रस्य उपमुख्य-मन्त्री अजित् पवारः अवदत्।

Thursday, January 21, 2021

 अमेरिक्कायां बैडन्युगः।

जो बैडनः राष्ट्रपतिरूपेण शपथग्रहणं कृतवान्। 

   वाषिङ्टण्> अमेरिक्कायाः ४६तमराष्ट्रपतिरूपेण ७८वयस्कः जोसफ् आर् बैडनः शपथग्रहणं कृतवान्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः जोण् रोबर्ट्सः शपथवाचनं कारितवान्। 

  उपराष्ट्रपतिरूपेण कमलाहारिसः शपथग्रहणं कृतवती। यू एस् राष्ट्रस्य चरित्रे प्रप्रथमः वनिताउपराष्ट्रपतिः भवति ५६वयस्का तथा च भारतीयवंशजा कमलाहारिसः।

Wednesday, January 20, 2021

 अमेरिक्कस्य ४६ तमः राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति।

     वाषिङ्टण्> निर्वाचनसमस्यां परिहृत्य अमेरिक्कस्य षट्चत्वारिंशतमः (४६) राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति। शपथग्रहणाय जो बैडनः बाषिङ्टण् प्राप्तवान् अस्ति। कोविड् रोगेण हतानां यू एस् नागरिकाणां स्मृतौ एषः आदराञ्जलिं समर्पितवान्। शपथ-ग्रहणप्रक्रमाय अतीव-सुरक्षा वाषिङ्टण्  प्रदेशे सर्वत्र आयोजिता वर्तते। वाषिङ्टणे समागतः बैडणः लिङ्गण् स्मृतिमण्डपं प्रथमं सन्दर्शितवान्। जो बैडनस्य शपथग्रहण समारोहे पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः भागं न स्वीकुर्यात्॥

 अरुणाचलप्रदेशे चीनेन ग्रामः निर्मितः इति आवेदनम्; निरीक्ष्यते भारतेन।   

    नवदिल्ली> अरुणाचलप्रदेशे चीनेन निर्माण-प्रवर्तनानि कृतानि इत्यावेदने भारतस्य विदेश मन्त्रालयेन अभिमतं प्रकाशितम्। भारतस्य सुरक्षासंबन्धघटनया सर्वं निरीक्ष्यते अनुदिनम् इति। विषयेऽस्मिन् प्रक्रमाः स्वीकरिष्यन्ते इति च मन्त्रालयेन उक्तम्। अरुणाचलप्रदेशे भारतस्य भूप्रदेशान् संगृह्य चीनेन १०१ गृहाणि निर्मितानि इति आसीत् ए न् डि टि वि माध्यमस्य आवेदनम्।

 आस्ट्रेलियायां भारतस्य विजयकाहलं - भारताय निकषक्रिक्कट्स्पर्धापरम्परा।

  ब्रिस्बेन> भारतीयक्रिक्कट्क्रीडासंघस्य युद्धसमानप्रतियोगितावीर्याय समर्पणीया इयं विजयपरिसमाप्तिः। ह्यः समाप्ते भारतास्ट्रेलिययोः चतुर्थे निकषद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

   गाबा क्रीडाङ्कणे आस्ट्रेलियया उन्नीतः ३२८ धावननाङ्कानां विजयलक्ष्यः१८ कन्दुकेषु अवशिष्टेषु ७ क्रीडकानां विनष्टे भारतेन प्राप्तः। गाबायां ३२ संवत्सरात्परमेव आस्ट्रेलियायाः पराजयः। 

   अत्युज्वलेन अर्धशतकेन [८९*] धावनाङ्कानां विजयलक्ष्यं विजयतीरं आनीतवान्। विक्कट्सुरक्षकः ऋषभपन्तः एव श्रेष्ठक्रीडकः। ऋषभेन सह क्रीडाप्रारम्भकः शुभमनगिलः , चेतेश्वरपूजारश्च भारतस्य विजये निर्णायकं भागभागित्वं गृहीतवन्तौ।

Tuesday, January 19, 2021

 अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।

  जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्। 

  सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।

बैडनं प्रति आक्रमणमाशङ्कते।

      वाषिङ्टण्> नियुक्तं यू एस् राष्ट्रपतिं जो बैडनं विरुद्ध्य अङ्गरक्षकेभ्यः एव आक्रमणं भवेदिति आशङ्का वर्तत इति राष्ट्रपतेः सुरक्षाधिकारिणः। समीपकाले नगरसुरक्षायै नियुक्तेषु अधिकारिषु नियुक्तानां अधिकारिणां कतिपयेभ्यः सुरक्षाभीः अजायत इत्यभ्यूहः अस्ति।
  सुरक्षाभीषा वर्तमाना इति सैनिककार्यदर्शिना मक् कार्ति इत्यनेनापि दृढीकृतम्। ईदृशप्रवर्तनेषु भागभागं वहन्तं प्रत्यभिज्ञातुं  सर्वथा यतिष्यते इति तेनोक्तम्।

Monday, January 18, 2021

 इतःपर्यन्तं भारते २,२४,३०१ जनाः वाक्सिनीकरणं स्वीकृतवन्तः। 

  नवदिल्ली> आराष्ट्रं रविवासरं यावत् २,२४,३०१ जनाः कोविड्प्रतिरोधवाक्सिनं स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। एषु केवलं ४४७ जनेष्वेव लघुक्लेशाः जाताः। 

   शनिवासरे आसीत् भारते वाक्सिनीकरणमारब्धम्। प्रथमदिने उत्तरप्रदेशे अधिकतमः सूच्यौषधप्रयोगः विधत्तः - २१,२९१ जनेषु। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, कर्णाटकं, केरलं, मणिप्पुरं, तमिलनाडु  इत्येतेषु राज्येषु रविवासरे अपि वाक्सिनीकरणं विधत्तम्।

Sunday, January 17, 2021

 काबूले उच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते।

   काबूल्> अफ्गानिस्थानस्य सर्वोच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते। अद्य प्रातः (रविवासरे) आसीत् इयं घटना। आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्।  न्यायालयं प्रति न्यायाधिपयोः आगमनवेलायाम् आसीत् नालिकाशस्त्र धारिणाम् आक्रमणम्। समीपकाले राष्ट्रे ईदृशानि आक्रमणानि अनुवर्तन्ते। २०१७ संवत्सरे सर्वोच्च-न्यायालय-समीपे दुरापन्ने अत्मखादिनः आक्रमणेन २० (विंशति) जनाः मारिताः ४१ जनाः व्रणिताः च आसन्।

Saturday, January 16, 2021


 केरळाराज्यस्थेन संस्कृतप्रसारप्रचारक्षेत्रे अनवरतं कार्यं कुर्वता Livesanskrit संघेन राष्ट्रियपुरस्कारः अवाप्तः। 


संस्कृतचलच्चित्रनिर्माणगीतप्रकाशनादिकार्येषु सदा अग्रेसरः अयं livesanskrit संघः केरलाज्यस्थानां संस्कृताध्यापकानां एकः समवायः अस्ति। कविकुलगुरुकालिदासविश्वविद्यालयेन समायोजितायां ह्रस्वचलच्चित्रनिर्माण-प्रतियोगितायां केरलास्थेन livesanskrit संघेन प्रथमपुरस्कारः प्राप्तः। राष्ट्रिययुवजनदिनस्य परिप्रेक्ष्ये आसीदियं प्रतियोगिता समायोजिता। भारतीययुवकान् प्रति विवेकानन्दस्वामिनां सन्देशः इति विषये आसीत् प्रतियोगिता| भारतस्य विविधेभ्यः राज्येभ्यः अनेके प्रतिभागिनः अस्यां प्रतियोगितायां भागं स्वीकृतवन्तः।  वन्दे विवेकानन्दम् इति नाम्ना निर्मितमिदं ह्रस्वचलच्चित्रम् सामाजिकमाध्यमेषु अपि लोकावधानताम् आप्नोति। अस्य सम्पादनम् निदेशनम् च  विनायक् सि बि, रचना शब्दसंयोजनं च  नन्दकिशोर् आर्, पटकथा लिबि पुरनाट्टुकरा च द्वारा एव विहितानि। livesanskrit संघस्य सदस्याः एव एते सर्वे समीपकाले एव अनेन संघेन shibus Sanskrit इति युट्यूब् सरण्यां प्रकाशितं किम् किम् किम् इति मलयालगीतस्य संस्कृतीकृतं गीतं सामाजिक माध्यमेषु बहुधा प्रसिद्धम् अभवत्। इयं पुरस्कारप्राप्तिः livesanskrit संघस्य प्रवर्तनेभ्यः प्रेरणादायिका एवेति संघाध्यक्षः डो महेष् वाबु एस् एन् सम्प्रतिवार्तामाध्यमम् अवदत् ।

 भारते अद्य वाक्सिनीकरणसमारम्भं - प्रधानमन्त्री उद्घाटयिष्यति। 

  नवदिल्ली> विश्वस्मिन् बृहत्तमा कोविड्वाक्सिनीकरणकरणपरियोजना अद्य भारते प्रारभते। सर्वेषु राज्येषु प्रभाते १०.३० वादने प्रतिरोधसूचीप्रयोगः आरभ्यते। अस्याः परियोजनायाः समुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी वीडियो कोण्फ्रन्स् द्वारा करिष्यति।

 योगक्षेममालक्ष्य केरलस्य आयव्ययपत्रकम्। 

  अनन्तपुरी> वर्तमानभूतस्य केरलसर्वकारस्य अन्तिमे आयव्ययपत्रके सामान्यजनानां योगक्षेमकराः परियोजनाः प्रख्यापिताः। कोविड्काले आर्थिकप्रतिसन्धेः रूक्षतया राजस्वधनोदये १८.७७ प्रतिशतस्य न्यूनता जाता। राजस्वर्णः प्रतिशतं २.९४ , अधिक ऋणबाध्यतया धनर्णः प्रतिशतं ४.२५ इति च उच्चः जातः।

  आगाम्यार्थिकसंवत्सरे १,२८,३७५कोटिरूप्यकाण्येव प्रतीक्षितायः। व्ययस्तु १,४५,२८६ कोटि रूप्यकाणि च। ११६४कोटिरूप्यकाणां नूतनव्ययः प्रख्यापितः। १९१कोटेः कराश्वासः दत्तः। आगामिविधानसभानिर्वाचनमालक्ष्य निरर्थकानि वाग्दानानीति विपक्षेण उपहसितम्।