OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 20, 2021

 आस्ट्रेलियायां भारतस्य विजयकाहलं - भारताय निकषक्रिक्कट्स्पर्धापरम्परा।

  ब्रिस्बेन> भारतीयक्रिक्कट्क्रीडासंघस्य युद्धसमानप्रतियोगितावीर्याय समर्पणीया इयं विजयपरिसमाप्तिः। ह्यः समाप्ते भारतास्ट्रेलिययोः चतुर्थे निकषद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

   गाबा क्रीडाङ्कणे आस्ट्रेलियया उन्नीतः ३२८ धावननाङ्कानां विजयलक्ष्यः१८ कन्दुकेषु अवशिष्टेषु ७ क्रीडकानां विनष्टे भारतेन प्राप्तः। गाबायां ३२ संवत्सरात्परमेव आस्ट्रेलियायाः पराजयः। 

   अत्युज्वलेन अर्धशतकेन [८९*] धावनाङ्कानां विजयलक्ष्यं विजयतीरं आनीतवान्। विक्कट्सुरक्षकः ऋषभपन्तः एव श्रेष्ठक्रीडकः। ऋषभेन सह क्रीडाप्रारम्भकः शुभमनगिलः , चेतेश्वरपूजारश्च भारतस्य विजये निर्णायकं भागभागित्वं गृहीतवन्तौ।

Tuesday, January 19, 2021

 अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।

  जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्। 

  सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।

बैडनं प्रति आक्रमणमाशङ्कते।

      वाषिङ्टण्> नियुक्तं यू एस् राष्ट्रपतिं जो बैडनं विरुद्ध्य अङ्गरक्षकेभ्यः एव आक्रमणं भवेदिति आशङ्का वर्तत इति राष्ट्रपतेः सुरक्षाधिकारिणः। समीपकाले नगरसुरक्षायै नियुक्तेषु अधिकारिषु नियुक्तानां अधिकारिणां कतिपयेभ्यः सुरक्षाभीः अजायत इत्यभ्यूहः अस्ति।
  सुरक्षाभीषा वर्तमाना इति सैनिककार्यदर्शिना मक् कार्ति इत्यनेनापि दृढीकृतम्। ईदृशप्रवर्तनेषु भागभागं वहन्तं प्रत्यभिज्ञातुं  सर्वथा यतिष्यते इति तेनोक्तम्।

Monday, January 18, 2021

 इतःपर्यन्तं भारते २,२४,३०१ जनाः वाक्सिनीकरणं स्वीकृतवन्तः। 

  नवदिल्ली> आराष्ट्रं रविवासरं यावत् २,२४,३०१ जनाः कोविड्प्रतिरोधवाक्सिनं स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। एषु केवलं ४४७ जनेष्वेव लघुक्लेशाः जाताः। 

   शनिवासरे आसीत् भारते वाक्सिनीकरणमारब्धम्। प्रथमदिने उत्तरप्रदेशे अधिकतमः सूच्यौषधप्रयोगः विधत्तः - २१,२९१ जनेषु। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, कर्णाटकं, केरलं, मणिप्पुरं, तमिलनाडु  इत्येतेषु राज्येषु रविवासरे अपि वाक्सिनीकरणं विधत्तम्।

Sunday, January 17, 2021

 काबूले उच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते।

   काबूल्> अफ्गानिस्थानस्य सर्वोच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते। अद्य प्रातः (रविवासरे) आसीत् इयं घटना। आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्।  न्यायालयं प्रति न्यायाधिपयोः आगमनवेलायाम् आसीत् नालिकाशस्त्र धारिणाम् आक्रमणम्। समीपकाले राष्ट्रे ईदृशानि आक्रमणानि अनुवर्तन्ते। २०१७ संवत्सरे सर्वोच्च-न्यायालय-समीपे दुरापन्ने अत्मखादिनः आक्रमणेन २० (विंशति) जनाः मारिताः ४१ जनाः व्रणिताः च आसन्।

Saturday, January 16, 2021


 केरळाराज्यस्थेन संस्कृतप्रसारप्रचारक्षेत्रे अनवरतं कार्यं कुर्वता Livesanskrit संघेन राष्ट्रियपुरस्कारः अवाप्तः। 


संस्कृतचलच्चित्रनिर्माणगीतप्रकाशनादिकार्येषु सदा अग्रेसरः अयं livesanskrit संघः केरलाज्यस्थानां संस्कृताध्यापकानां एकः समवायः अस्ति। कविकुलगुरुकालिदासविश्वविद्यालयेन समायोजितायां ह्रस्वचलच्चित्रनिर्माण-प्रतियोगितायां केरलास्थेन livesanskrit संघेन प्रथमपुरस्कारः प्राप्तः। राष्ट्रिययुवजनदिनस्य परिप्रेक्ष्ये आसीदियं प्रतियोगिता समायोजिता। भारतीययुवकान् प्रति विवेकानन्दस्वामिनां सन्देशः इति विषये आसीत् प्रतियोगिता| भारतस्य विविधेभ्यः राज्येभ्यः अनेके प्रतिभागिनः अस्यां प्रतियोगितायां भागं स्वीकृतवन्तः।  वन्दे विवेकानन्दम् इति नाम्ना निर्मितमिदं ह्रस्वचलच्चित्रम् सामाजिकमाध्यमेषु अपि लोकावधानताम् आप्नोति। अस्य सम्पादनम् निदेशनम् च  विनायक् सि बि, रचना शब्दसंयोजनं च  नन्दकिशोर् आर्, पटकथा लिबि पुरनाट्टुकरा च द्वारा एव विहितानि। livesanskrit संघस्य सदस्याः एव एते सर्वे समीपकाले एव अनेन संघेन shibus Sanskrit इति युट्यूब् सरण्यां प्रकाशितं किम् किम् किम् इति मलयालगीतस्य संस्कृतीकृतं गीतं सामाजिक माध्यमेषु बहुधा प्रसिद्धम् अभवत्। इयं पुरस्कारप्राप्तिः livesanskrit संघस्य प्रवर्तनेभ्यः प्रेरणादायिका एवेति संघाध्यक्षः डो महेष् वाबु एस् एन् सम्प्रतिवार्तामाध्यमम् अवदत् ।

 भारते अद्य वाक्सिनीकरणसमारम्भं - प्रधानमन्त्री उद्घाटयिष्यति। 

  नवदिल्ली> विश्वस्मिन् बृहत्तमा कोविड्वाक्सिनीकरणकरणपरियोजना अद्य भारते प्रारभते। सर्वेषु राज्येषु प्रभाते १०.३० वादने प्रतिरोधसूचीप्रयोगः आरभ्यते। अस्याः परियोजनायाः समुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी वीडियो कोण्फ्रन्स् द्वारा करिष्यति।

 योगक्षेममालक्ष्य केरलस्य आयव्ययपत्रकम्। 

  अनन्तपुरी> वर्तमानभूतस्य केरलसर्वकारस्य अन्तिमे आयव्ययपत्रके सामान्यजनानां योगक्षेमकराः परियोजनाः प्रख्यापिताः। कोविड्काले आर्थिकप्रतिसन्धेः रूक्षतया राजस्वधनोदये १८.७७ प्रतिशतस्य न्यूनता जाता। राजस्वर्णः प्रतिशतं २.९४ , अधिक ऋणबाध्यतया धनर्णः प्रतिशतं ४.२५ इति च उच्चः जातः।

  आगाम्यार्थिकसंवत्सरे १,२८,३७५कोटिरूप्यकाण्येव प्रतीक्षितायः। व्ययस्तु १,४५,२८६ कोटि रूप्यकाणि च। ११६४कोटिरूप्यकाणां नूतनव्ययः प्रख्यापितः। १९१कोटेः कराश्वासः दत्तः। आगामिविधानसभानिर्वाचनमालक्ष्य निरर्थकानि वाग्दानानीति विपक्षेण उपहसितम्।

Friday, January 15, 2021

 ८३ तेजस् युद्धविमानानि क्रेतुम् अनुज्ञा दत्ता।

    नवदिल्ली> भारतेन तद्देशीयतया विकासितानि ७३ 'तेजस्'नामकयुद्धविमानानि १० परिशीलनविमानानि च क्रेतुं मन्त्रिसभायाः सुरक्षाकार्यसमित्या अनुज्ञा विधत्ता। ४५,६९६कोटिरूप्यकाणि व्ययः प्रतीक्ष्यते।। 

  भाविनि व्योमसेनायाः शक्तिस्रोतरूपेण वर्तमानानि भविष्यन्ति तेजस्युद्धविमानानीति रक्षामन्त्रिणा राजनाथसिंहेन प्रस्तुतम्।

Wednesday, January 13, 2021

 वाक्सिनप्रयोगाय भारतं सज्जं - प्रथमसोपानस्य व्ययः केन्द्रसर्वकारेण। 

   नवदिल्ली> कोविड् १९ रोगस्य प्रत्यौषधसूचीप्रयोगस्य प्रथमसोपानाय भारतं सर्वथा सज्जमस्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्। वाक्सिनीकरणस्य सिद्धतामवलोकयितुं समावेशिते मुख्यमन्त्रिणामुवेशने भाषमाणः आसीत् मोदिवर्यः।  शनिवासरे प्रक्रियेयमारभ्यते। 

   प्रथमसोपाने स्वास्थ्यप्रवर्तकाः कोविड्युद्धस्य सेनामुखे वर्तमानाः च अभिव्याप्य त्रिकोटिपरिमिताः भटाः वाक्सिनार्हाः भविष्यन्ति। अस्य व्ययः सर्वः केन्द्रसर्वकारेणैव वक्ष्यतीति प्रधानमन्त्रिणा उक्तम्। 

  कोवाक्सिन्, कोविषील्ड् नामकं वाक्सिनद्वयमेव वितरणाय सज्जमस्ति। कतिपयमासाभ्यन्तरे दशकोटिजनेभ्यः वाक्सिनदानं लक्ष्यीक्रियते। राजनैतिकप्रवर्तकेभ्यः यथाकालं वाक्सिनं लप्स्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।

 विद्युद्याननिर्माणं नूतनसरण्याम्; बंगलूरु देशे निर्माणकेन्द्रम् उद्घाट्यते।

 बंगलूरु> भारते कारयान निर्माणं विक्रयणं च समारभ्यते। तदर्थं विद्युत्कारयान-निर्माण-संस्थया 'टेस्ल' इत्याख्यया  बंगलूरु मध्ये कार्यालयः समारब्धः।  २०२१ संवत्सरे विद्युत्कार्यान निर्माणं समारब्स्यते इति आवेदनं पूर्वमासीत्। अनेन विद्युत्कार्यानानां विक्रयणं  भरते बहुगुणितं भविष्यति इति यान प्रेमिणः चिन्तयन्ति।

Monday, January 11, 2021

 स्पेयिन् देशे महान् हिमपातः। जनाः वाहनेन सह हिमस्य अधः बन्धितः। 

    माड्रिड्> कठिनहिमपातेन अतिशीतवातेन च स्पेयिन् प्रदेशस्थाः पीडिताः भवन्ति। चत्वारः जनाः मृताः इति आवेदनम् आगच्छति। सहस्राधिकाः रेल् निस्थानेषु विमान-निलयेषु च बन्धिताः। रेल्-विमान सेवा स्थगिता। फ्यूवेन्गिरोल प्रदेशे नद्यां जलोपप्लवः अभवत् इत्यनेन प्रवाहे कार् यानानि विनष्टानि। यानात् बहिरागन्तुम् अशक्तौ द्वौ मृतौ। अन्यः एकः हिम-घण्डस्य अधस्तात् मृतावस्थायां प्रत्यभिज्ञातः। भवनरहितः एक: अपि मृतानां गणेषु अन्तर्भवति। राज्येषु सर्वत्र पूर्वसूचना प्रदता अस्ति।

 सप्तराज्येषु पक्षिज्वरः स्थिरीकृतः। 

    नवदिल्ली> भारतस्य सप्तसु राज्येषु 'एवियन् इन्फ्लुवन्सा' नामकः पक्षिज्वरः दृढीकृतः। उत्तरप्रदेशः, केरलं, राजस्थानं, मध्यप्रदेशः, हिमाचलप्रदेशः, हरियानं, गुजरातः इत्येतेषु राज्येषु एव पक्षिज्वरः दृढीकृतः। दशसहस्रशः कुक्कुटाड्यादयः ग्राम्यपक्षिणः अन्ये पतगाश्च गतसाप्ताहिके मृत्युभूताः। शनिवासरे विविधराज्येषु उपपञ्चसहस्रं पक्षिणः मृताः। राष्ट्रस्थासु मृगशालासु परिसरेषु वा रोगः स्थिरीक्रियते चेत् प्रतिदिनावेदनं केन्द्रमृगशालासंस्थां प्रति समर्पणीयमिति निर्दिष्टमस्ति।

Sunday, January 10, 2021

 लडाक् सीमा उल्लङ्घितम्; चीनस्य सैनिकः ग्रहीतः।

  श्रीनगरम्> लडाक् सीमाप्रदेशे  भारतसीमा चीनस्य सैनिकेन उल्लङ्घितम्। सः भारतसेनया ग्रहीतः। लडाक्कस्य रेसङ्ग ला मण्डले दक्षिण पाङ्गोङ्  तटाक समीपे ह्यः प्रातः एव सीमानम्  उल्लङ्घयत्। विगते संवत्सरे मण्डले सङ्घर्षः सञ्जातः आसीत्। तदनन्तरम् उभयोः पक्षतः तस्मिन् प्रदेशे अहनिशं निरीक्षणं प्रचलितम् अस्ति।

Saturday, January 9, 2021

 लण्टन् नगरे प्रतित्रिंशत् जनेषु एकः इति क्रमेण कोविड् रोगः।

    लण्टण् ☰ ब्रिट्टणस्य राजधान्यां लण्टणे कोविड् रोगव्यापनं रूक्षतया वर्तते इति आवेद्यते। प्रतित्रिंशत् जनेषु एकः रोगबाधितः इति प्रकारेण रोगः व्याप्तः अस्ति इति नगरपालेन सादिख् खानेन उक्तम्। रोगिणाम् आधिक्येन चिकित्सालये स्थलपरिमितिः विना विलम्बं स्यात् इत्यपि तेन संसूचितम्। कोविड्रोग भीत्या नगरं विपदि पतितम् पतितम् । चिकित्साविधयः यथायोग्यं न प्रचलन्ति चेत् स्थितिः नियन्त्रणातीता भविष्यति। जनाः मृत्युवशं गच्छेयुः। गतसप्ताहापेक्षया २७% जनाः एव बाधिताः सन्ति।

Friday, January 8, 2021

 कोविड्-रोगोत्पत्तिः - विशेषज्ञानां सङ्घस्य प्रवेशं निषिध्य चीनः।

  जनीव> कोरोण वैराणोः उत्पत्तिमधिकृत्य अन्वेष्टुं चीनं प्रति विशेषज्ञाः गच्छन्तः सन्ति। किन्तु राष्टे प्रवेशनाय चीनस्य सर्वकारेण अनुज्ञा न प्रदत्ता इति विश्व-स्वास्थ्य-सङ्घटनस्य अध्यक्षः  टेड्रोस् अथानों गेब्रियेसूस् अवदत्। कतिपयमासपर्यन्तं दीर्घिताः चर्चायाः अन्ते दश विशेषज्ञाः वैज्ञानिकाः एवः अस्मिन् सप्ताहे अनुसन्धानाय चीनं गच्छन्ति। द्वौः चीनं प्रति प्रस्थानं कृतौ च। किन्तु विषयस्य प्राधान्यं ज्ञात्वा इतःपर्यन्तं चीनः कोऽपि प्रक्रमः न स्वीक्रियते इति च स अवदत्॥


Wednesday, January 6, 2021

 खत्तरं प्रति उपरोधः निवर्तितः। 

   रियाद्> खत्तर् राष्ट्रं प्रति सौदिम् अभिव्याप्य चतुर्भिः राष्ट्रैः विहितः उपरोधः निवर्तितः। ईजिप्ट्, यू ए ई इत्यादिभिः सख्यराष्ट्रैः सार्धत्रिसंवत्सरात्पूर्वमेव उपरोधः विहितः। 

  ४१ तम जि सि सि शिखरसम्मेलनं रियादे समाप्तम्। तत्र सौदिविदेशकार्यमन्त्रिणा एव खत्तरं विरुध्य उपरोध-निवर्तनमधिकृत्य विज्ञापितम्।

Tuesday, January 5, 2021

 देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य प्रशासनेन सप्तमस्तरीया चर्चा समनुष्ठिता

    नवदिल्ली> केन्‍द्रप्रशासनेन देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य सप्तमस्तरीया समनुष्ठिता। अत्रावसरे केन्द्रीयः कृषिमन्त्री नरेन्द्रसिंहतोमरः रेलमन्त्री पीयूषगोयलः कृषकसङ्घटनानां नेतारश्चोपस्थिताः अवर्तन्त। उपवेशनात् प्राक् कृषिमन्त्रिणा निगदितं यत् प्रशासनं कृषकणां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। उपवेशनस्य पश्चात् वार्ताहरसम्मेलने कृषिमन्त्री अवोचत् यत् प्रशासने कृषकाणां विश्वासो वर्तते। कृषकैरपि प्रशासनमध्यर्थितं यत् शीघ्रं समाधानामादय आन्दोलनसमापनाय प्रयासं कुर्यात्। विषयेस्मिन् अष्टम चरणपरिचर्चायै शुक्रवासरे उपवेशनं भविष्यति।

<वार्तहरः -रुषोत्तमशर्मा नव-देहली>