OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Saturday, November 21, 2020
Friday, November 20, 2020
अलास्क नगरे आगामि सूर्योदयः ६६ दिनानन्तरं भविष्यति।
(आलास्कस्य उत्कियाविक् नगरः निशीथे)|Photo: University of Alaska Fairbanks Sea Ice Groupटोरन्टो> आर्टिक् मण्डले #विशेषघटना (Phenomenon) अस्ति।सूर्योदयरहितानि दिनानि। अत्र सूर्योदयं विना निशायाः दैर्ख्यः ६६ दिनानि पर्यन्तं भविष्यति। ध्रुवरात्रिः इति इयं कथ्यते। उत्तर-अमेरिक्कस्य अलास्क इति विख्यातनगरे उत्कियाग्विग् निवासिनः प्रभातसूर्यं द्रष्टुं ६६ दिनानि यावत् प्रतिक्षया स्थातव्याः। अस्य वर्षस्य अन्तिमः सूर्यास्तमयः बुधवासरे मध्याह्ने आसीत्। २०२१ जनुवरि २३ दिनाङ्कानन्तरमेव अत्र सूर्योदयः भविष्यति इति यू स् वातावरण निरीक्षण-सङ्घटनेन उक्तम्। २४ होराः यावत् सूर्यः चक्रवाल सीमायाः अधः भविष्यति इति कारणतः एव अस्य वर्षस्य अन्तिमा रात्रिः एतावती दीर्घिता ।
Thursday, November 19, 2020
वदनक्षालनद्रवः कोरोणां विरुद्ध्य फलप्रदः वा ? अनुसन्धानं प्रचलति।
लण्टण्> कोविड् रोगकारिणं कोरोणवैराणुं प्रतिरोद्धुं वदनक्षालनद्रवः(Mouth Wash) फलप्रदः इति नूतनम् अध्ययनफलं समागच्छति। कार्डिफ् विश्वविघालयस्य परीक्षणशालायां कृते परीक्षणे ३० निमेषानन्तरं वदनक्षालनद्रवः वैराणुं नाशयति इति अवगतम्। अन्येषां गवेषकाणाम् अङ्गीकारं प्रतीक्ष्य तिष्ठत् अस्ति नूतनं इदम् अध्ययन-फलम्। वदनक्षालनद्रवे उपयुज्यमानः सेट्टिपिरिडिनियं क्लोरैड् (CPC) एव वैराणुं नाशयति।Wednesday, November 18, 2020
अन्धविश्वासः षट्वयस्कायाः प्राणानपाहरत्।
काण्पुरम्> उत्तरप्रदेशे काण्पुरे षड्वयस्का बालिका आभिचारकर्मणे अतिनिष्ठुरेण व्यापादिता। घटनायामस्यां एकां महिलामभिव्याप्य चत्वारः आरक्षकैः निगृहीताः।
काण्पुरे घट्टंपुरप्रदेशीयस्य परशुरामनामकस्य अनपत्यतापरिहाराय आभिचारकर्म कर्तुं कस्याश्चन बालिकायाः श्वासकोशसहिताः आन्तरावयवाः अपेक्षिताः इति तस्य निर्देशमनुसृत्य अङ्कुल् कुरीलः, बीरानः इत्येतौ बालिकामपहृत्य समीपस्थं वनं नीत्वा बलात्कारं कृतवन्तौ। तदनन्तरं शरीरमुच्छिद्य आन्तरावयवान् समाहृत्य परशुरामाय दत्तवन्तौ इति आरक्षकाधिकारिणा उक्तम्।
आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी।
नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः।
आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।
Tuesday, November 17, 2020
अमेरिक्कस्य कोविड् प्रत्यौषधस्य तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।
सौमित्र चाटर्जी कालयवनिकां प्राप्तः।
कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्।
सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।
Monday, November 16, 2020
बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य।
पट्ना> बिहारराज्ये जे डि यू राजनैतिकदलस्य नेतुः नितीशकुमारस्य नेतृत्वे एन् डि ए सख्यमन्त्रिमण्डलम् अद्य सायं शपथं करिष्यति। सार्धचतुर्वादने राजभवने सम्पत्स्यमाने कार्यक्रमे राज्यपालः फगु चौहानः शपथवचनं कारयिष्यति।
अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।
विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्।
चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।
बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्। विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्। विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।
Sunday, November 15, 2020
सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।
नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।
बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः।
वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात् डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि।
जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।
Saturday, November 14, 2020
पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।
Friday, November 13, 2020
कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।
फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।
विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।
नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्। इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।