'राष्ट्रपतिः अनृतं वदति'
ट्रम्पस्य सततप्रसारणम् अर्थावस्थायां स्थगायितम्।
'राष्ट्रपतिः अनृतं वदति'
ट्रम्पस्य सततप्रसारणम् अर्थावस्थायां स्थगायितम्।
कोविड्रोगः हृदयं क्लमयति। मुक्तैः कठिनकर्माणि न करणीयानि।
अनन्तपुरी> कोविड्मुक्तैः मासत्रयं यावत् आयासपूर्णानि कर्माणि कठिनव्यामाश्च न करणीयानीति जाग्रतासूचना। हृदयसम्बन्धरोगैः पीडितैः अस्मिन् विषये श्रद्धा दातव्या इति केरलसर्वकारस्य कोविडनन्तरचिकित्सामार्गरेखायां निर्दिश्यते।
कायिकतारैः कठिनव्यायामाः षण्मासपर्यन्तं त्याज्याः। कोरोणाविषाणुबाधितेषु तदभावभूतेषु अपि विषाणोराघातः उच्चतरः वर्तते इति स्वस्थ्यविदग्धैरभिप्रेतम्।
आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा।
कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते।
ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।
सामाजिकान् विरुध्य दण्ड्यप्रकरणेषु गतिरोधः - सर्वोच्चन्यायालयः अतृप्तिं प्राकाशयत्।
नवदिल्ली> जनसभा-विधानसभाङ्गानि विरुध्य दण्ड्यपराधप्रकरानि विविधेषु न्यायालयेषु गतिरोधं प्राप्तानीत्यस्मिन् विषये सर्वोच्चन्यायालयेन अतृप्तिः प्रकाशिता। पश्चिमवंगे ३५संवत्सरप्राप्तानि एतादृशप्रकरणानि वर्तन्ते इति कोल्कोत्ता उच्चन्यायालयस्य नीतिज्ञे सूचिते आसीत् न्याय. एन् वि रमणस्य अध्यक्षत्वे विद्यमानेन नीतिपीठेन एवम् अतृप्तिः स्पष्टीकृता।
एतादृशानि २५०० प्रकरणानि राष्ट्रस्य विविधेषु न्यायालयेषु निश्चलानि वर्तन्ते। भूतपूर्वसामाजिकानां प्रकराणानि अभिव्याप्य एषा संख्या ४४०० उपगच्छेत्। वर्तमानान् 'एम् पि , एम् एल् ए' सामाजिकान् विरुध्य विद्यमानानि प्रकरणानि उपधां कृत्वा शीघ्रं समापयितुं सविशेषाः न्यायालयाः संस्थापनीयाः इति सामान्यतात्पर्ययाचिकायाः परिगणनावेला आसीदयं सन्दर्भः।
जनप्रतिनिधिविरुद्धानां दण्ड्यप्रकरणानां कृते सविशेषन्यायालयाः स्थापनीयाः इति सर्वोच्चन्यायालयेन २०१७ तमे केन्द्रसर्वकारं प्रति निगदितमासीत्।
लडाक् प्रदेशस्य भारतसैनिकेभ्यः अमेरिक्कस्य सुखोष्णयुतकम्।
नवदिल्ली> चीनस्य सीमनि विन्यस्तेभ्यः भारतसैनिकेभ्यः शीताद्ररक्षाय अमेरिक्कस्य सुखोष्णयुतकम्। सियाच्चिन् प्रदेशस्य पश्चिमयुद्धमुखे पूर्वलडाके च विन्यस्ताः सैनिकाः इदं युतकम् उपयोक्तुम् आरभन्त। समुद्रतलात् १२००० पादोन्नत्यां वर्तामानेषु एतेषु प्रदेशेषु तापमानं शुन्यात् ५०° (डिग्रि) इति भवति। अतः एव वस्त्रस्य आवश्यकता अवश्यमभवत्।
न्यूसिलान्टमन्त्रिमण्डले प्रप्रथमं भारतकुलजा।
मेल्बण्> न्यूसिलान्ट् राष्ट्रे जसिन्डा आर्डेण् इत्यस्याः मन्त्रिमण्डले प्रप्रथमं भारतीयकुलजातायै अङ्गत्वमलभत। केरलीया प्रियङ्का राधाकृष्णः समाज-सन्नद्धमण्डल-युवजनविभागानां मन्त्रिणी भविष्यति।
२०१७तमे 'लेबर् पार्टी' दलस्य प्रतिनिधिरूपेण जनसभां प्राप्ता। वर्षद्वयानन्तरं गोत्रसमूहविभागमन्त्रिणः निजीयकार्यदर्शिरूपेण नियुक्ता।
प्रियङ्कामभिव्याप्य ५ अङ्गाः मन्त्रिमण्डले अन्तर्भूताः। नूतनाः शुक्रवासरे शपथसमारोहं करिष्यन्ति।
भूकम्पावशिष्टात् वर्षत्रयवयस्का ६५ होरानन्तरं रक्षिता
बिहारे द्वितीयसोपानमतदानं समारब्धम्।
पट्ना> बिहारस्य राजनैतिकगतिसूचकं भवति अद्य समारब्धं द्वितीयसोपानं विधानसभानिर्वाचनम्। १७ जनपदेषु ९४ मण्डलेषु मतदानप्रक्रिया समारब्धा।
महासख्यस्य मुख्यमन्त्रिस्थानाशी तेजस्वी यादवः, सोदरः तेज प्रतापयादवः, नितीषस्य मन्त्रिमण्डले वर्तमानाः ६ मन्त्रिणः इत्यादयः अद्यतननिर्वाचने जनविधिं कांक्षन्ते।
कोविड् रोगिणा सह सम्पर्कः विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः एकान्तवासे।
जनीव> कोविड् रोगग्रस्तेन सह स्वसम्पर्कः अभवत् अतः स्वयम् एकान्तवासे तिष्ठन्नस्मि इति विश्वस्वास्थ्य-सङ्घटनस्य अध्यक्षेण टेड्रोस् अदनों गेब्रियेससेन उक्तम् ।किन्तु एतावत्पर्यन्तम् अस्वास्थ्यं न अनुभूतम्। तथापि गृहे उपविश्य स्व कर्मसु व्यापृतो भविष्यामि इति तेन उक्तम्।अस्माभिः स्वास्थ्यमार्गनिर्देशाः पालनीयाः। रोगाणुव्यापनस्य श्रृङ्खला नाशनीया इत्यपि तेनोक्तम्।
यु एस् राष्ट्रपतिनिर्वाचनं श्वः।
चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्।
वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते।
ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्।
आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।
तैवाने कोविड् रहितं २०० तमं दिनम्।
भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।
कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः भविष्यनिधिनिषेधेन पीड्यते। संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः।प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्।
सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्।
वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।
तुर्किदेशे भूकम्पः १४ जनाः मारिताः ४१९ व्रणिताः।
बीहारनिर्वाचनं - प्रचारवेदिकासु कोविडस्य संग्रामापातः।
पट्ना> मुखावरणरहिताः नेतारः अनुयायिनश्च। अणुनाशनसामग्रीमधिकृत्य 'न श्रूयते न च दृश्यते'। सामाजिकदूरपालनं विस्मृतम्। बिहारराज्ये नगर-ग्रामभेदं विना निर्वाचनप्रचरणवेदिकासु दृश्यमानं दृश्यमेवेतत्।
राज्ये सर्वत्र कोविड्महामारेः संग्रामापात एव दृश्यते। प्रचारणाय नेतृत्वं वूढवन्तः केचन नेतारः रोगग्रस्ताः अभवन्निति अस्य कठोरतां स्पष्टीकरोति। उपमुख्यमन्त्री सुशीलकुमारमोदी , केन्द्रमन्त्रिणी स्मृती इरानी, देवेन्द्र फड्नविसः, राजीवप्रताप रूडी, षानवास् हुसैनः इत्येते भा ज पा नेतारः अपि कोविड्ग्रस्ताः जाताः।
निष्कर्षपरिशोधनायाः अभावात् सामान्यरोगिणां संख्या राज्यस्वास्थ्यविभागेन न ज्ञायते च। कोविड्परिनिष्ठाः सम्यक् पालनीयाः इति निर्वाचनायोगस्य निदेशः जलरेखा अभूत्।
बिहारे मतदानं ५४.२६%
पट्ना> बिहारे विधानसभानिर्वाचनस्य प्रथमसोपाने प्रतिशतं ५४.२६ जनाः मतदानं कृतवन्तः। १६ जनपदेषु ७१ मण्डलेषु सम्पन्ना मतदानप्रक्रिया शान्तिपूर्णा आसीत्। नक्सल् बाधितप्रदेशेष्वपि मतदानं शान्तियुक्तं सम्पन्नम्। सर्वत्रापि कोविड्परिनिष्ठां परिपाल्य एव मतदानपदक्षेपाः सम्पन्नाः।
प्रभाते सप्तवादनतः सायं षड्वादनपर्यन्तमासीत् मतदानम्। कैमूर नामकमण्डले उच्चतमं मतदानं कृतं - ५५.९५%।
चन्द्रोपरितले जलसान्निध्यं - 'नास'।