OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 5, 2020

 लडाक् प्रदेशस्य भारतसैनिकेभ्यः अमेरिक्कस्य सुखोष्णयुतकम्।

    नवदिल्ली> चीनस्य सीमनि विन्यस्तेभ्यः भारतसैनिकेभ्यः शीताद्ररक्षाय अमेरिक्कस्य सुखोष्णयुतकम्। सियाच्चिन् प्रदेशस्य पश्चिमयुद्धमुखे पूर्वलडाके च विन्यस्ताः सैनिकाः इदं युतकम् उपयोक्तुम् आरभन्त। समुद्रतलात् १२००० पादोन्नत्यां वर्तामानेषु एतेषु प्रदेशेषु तापमानं शुन्यात् ५०° (डिग्रि) इति भवति। अतः एव वस्त्रस्य आवश्यकता अवश्यमभवत्।

Wednesday, November 4, 2020

 न्यूसिलान्टमन्त्रिमण्डले प्रप्रथमं भारतकुलजा। 

  मेल्बण्> न्यूसिलान्ट् राष्ट्रे जसिन्डा आर्डेण् इत्यस्याः मन्त्रिमण्डले प्रप्रथमं भारतीयकुलजातायै अङ्गत्वमलभत। केरलीया प्रियङ्का राधाकृष्णः समाज-सन्नद्धमण्डल-युवजनविभागानां मन्त्रिणी भविष्यति। 

  २०१७तमे 'लेबर् पार्टी' दलस्य प्रतिनिधिरूपेण जनसभां प्राप्ता। वर्षद्वयानन्तरं गोत्रसमूहविभागमन्त्रिणः निजीयकार्यदर्शिरूपेण नियुक्ता।

  प्रियङ्कामभिव्याप्य ५ अङ्गाः मन्त्रिमण्डले अन्तर्भूताः। नूतनाः शुक्रवासरे शपथसमारोहं करिष्यन्ति।

Tuesday, November 3, 2020

 भूकम्पावशिष्टात् वर्षत्रयवयस्का ६५ होरानन्तरं रक्षिता

 


   अङ्कार> तुर्की-ग्रीस् देशयोः दुरापन्ने भूकम्पे ९४ जनाः एतावत् पर्यन्तं मृताः। रिक्टर् मापिन्यां ७.o इति भूकम्पनस्य शक्तिम् अङ्‌कितायां दुर्घटनायां  पतितस्य गृहावशिष्टस्य अधस्थात् वर्षत्रयवयस्का बालिका ६५ होरानन्तरं रक्षिता। अग्निशमनसेनानिना मु आमिर सेलिक् इत्याख्येन  बालिका रक्षिता।

 बिहारे द्वितीयसोपानमतदानं समारब्धम्। 

   पट्ना> बिहारस्य राजनैतिकगतिसूचकं भवति अद्य समारब्धं द्वितीयसोपानं विधानसभानिर्वाचनम्। १७ जनपदेषु ९४ मण्डलेषु मतदानप्रक्रिया समारब्धा। 

  महासख्यस्य मुख्यमन्त्रिस्थानाशी तेजस्वी यादवः, सोदरः तेज प्रतापयादवः, नितीषस्य मन्त्रिमण्डले वर्तमानाः ६ मन्त्रिणः इत्यादयः अद्यतननिर्वाचने जनविधिं कांक्षन्ते।

Monday, November 2, 2020

 कोविड् रोगिणा सह सम्पर्कः विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः एकान्तवासे। 

 जनीव> कोविड् रोगग्रस्तेन सह स्वसम्पर्कः अभवत् अतः स्वयम् एकान्तवासे तिष्ठन्नस्मि इति विश्वस्वास्थ्य-सङ्घटनस्य अध्यक्षेण टेड्रोस् अदनों गेब्रियेससेन उक्तम् ।किन्तु एतावत्पर्यन्तम् अस्वास्थ्यं न अनुभूतम्। तथापि गृहे उपविश्य स्व कर्मसु व्यापृतो भविष्यामि इति तेन उक्तम्। 

 अस्माभिः स्वास्थ्यमार्गनिर्देशाः पालनीयाः। रोगाणुव्यापनस्य श्रृङ्खला नाशनीया इत्यपि तेनोक्तम्। 

 यु एस् राष्ट्रपतिनिर्वाचनं श्वः। 

चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्। 

  वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते। 

    ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्। 

 आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।

Sunday, November 1, 2020

 तैवाने कोविड् रहितं २०० तमं दिनम्। 

  ताय् पेय्> विविधानि  राष्ट्राणि द्वितीय वारं कोविड् रोगाणुः पीडयति। फ्रान्स् जर्मनि इट्टलि यू एस् राष्ट्रेषु अति शक्तया रीत्या प्रत्यागतः भवति एषः वैराणुः। अवसरेस्मिन्।  ताय्वान् देशे २०० दिनानि यावत् कोरोण नास्ति इति अद्भुतं जनयति।  यावत् कालं ५५३ जनाः एव रोगग्रस्थाः अभवन्। केवलं ७ जनाः मृताः।  तय्वा तैवानस्य स्वास्थ्यसुरक्षा-प्रक्रमस्य क्षमता एव अनेन प्रकाश्यते। 

Saturday, October 31, 2020

 भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।

  कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः  भविष्यनिधिनिषेधेन पीड्यते।  संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां  अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः। 

  प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्। 

  सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्। 

 वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।

 तुर्किदेशे भूकम्पः १४ जनाः मारिताः ४१९ व्रणिताः।

 


 अङ्कारा> तुर्किदेशस्य पश्चिमतीरे  दुरापन्नेन भूभ्रंशेन १४ जनाः मारिताः ४१९ व्रणिताः इति दुरन्त-निवारणविभागेन ज्ञापिताः। ग्रीस् मध्ये द्वौ छात्रौ च मृतौ। भूकम्पस्य प्रतिफलनेन समासो द्वीपे लघु 'सुनामि' जाता। बहूनि गृहाणि भग्नानि इति प्रादेशिकीयैः वार्तामाध्यमैः आवेद्यते। 6.6 इति रिक्टर् मापिन्यां भूकम्पस्य शक्तिः अङ्किता इति तुर्की भौमशास्त्रविभागेन निवेदितम्।

 बीहारनिर्वाचनं - प्रचारवेदिकासु कोविडस्य संग्रामापातः। 

  पट्ना> मुखावरणरहिताः नेतारः अनुयायिनश्च। अणुनाशनसामग्रीमधिकृत्य 'न श्रूयते न च दृश्यते'। सामाजिकदूरपालनं विस्मृतम्।  बिहारराज्ये नगर-ग्रामभेदं विना  निर्वाचनप्रचरणवेदिकासु दृश्यमानं दृश्यमेवेतत्। 

  राज्ये सर्वत्र कोविड्महामारेः संग्रामापात एव दृश्यते। प्रचारणाय नेतृत्वं वूढवन्तः केचन नेतारः रोगग्रस्ताः अभवन्निति अस्य कठोरतां स्पष्टीकरोति। उपमुख्यमन्त्री सुशीलकुमारमोदी , केन्द्रमन्त्रिणी स्मृती इरानी, देवेन्द्र फड्नविसः, राजीवप्रताप रूडी, षानवास् हुसैनः इत्येते भा ज पा नेतारः अपि कोविड्ग्रस्ताः जाताः। 

  निष्कर्षपरिशोधनायाः अभावात् सामान्यरोगिणां संख्या राज्यस्वास्थ्यविभागेन न ज्ञायते च। कोविड्परिनिष्ठाः सम्यक् पालनीयाः इति निर्वाचनायोगस्य निदेशः जलरेखा अभूत्।

Friday, October 30, 2020

 ब्रिट्टणतः परीक्षणात्मकं कोविड् औषधं बहिरागच्छति।

   


 लण्डण्> परीक्षणात्मकं कोविड् औषधं बहिरानेतुं ब्रिट्टणस्य औषधनिर्माणसंस्थया सज्जतामाप्नोति। अस्य वितरणाय ११० कोटि डोलर् धनस्य निक्षेपं लब्धम् इति मोडेण औषधनिर्माण संस्थया आवेदितम्।

Thursday, October 29, 2020

 बिहारे मतदानं ५४.२६%

    पट्ना> बिहारे विधानसभानिर्वाचनस्य प्रथमसोपाने प्रतिशतं ५४.२६ जनाः मतदानं कृतवन्तः। १६ जनपदेषु ७१ मण्डलेषु सम्पन्ना मतदानप्रक्रिया शान्तिपूर्णा आसीत्। नक्सल् बाधितप्रदेशेष्वपि मतदानं शान्तियुक्तं सम्पन्नम्। सर्वत्रापि कोविड्परिनिष्ठां परिपाल्य एव मतदानपदक्षेपाः सम्पन्नाः। 

  प्रभाते सप्तवादनतः सायं षड्वादनपर्यन्तमासीत् मतदानम्। कैमूर नामकमण्डले उच्चतमं मतदानं कृतं - ५५.९५%।

चन्द्रोपरितले जलसान्निध्यं - 'नास'।


   नास संस्थायाः स्टोस्फेरिक् ओब्सर्वेट्टरि फोर् इन्फ्रारेड् (SOFIA) इति निरीक्षणसुविधया चन्द्रो परितले जलस्य सन्निधिः प्रत्यभिज्ञातम्। चन्द्रस्य क्लावियस् गर्ते एव जलसान्निध्यम्। गर्तः तु भूमेः सम्मुखभागे एव वर्तते। चन्द्रस्य दक्षिणार्धगोले विद्यमानेषु बृहत्गर्तेषु अन्यतमः भवति क्लावियस्। चन्द्रोपरितले ४०,००० चतुरश्र किलोमीट्टर् विस्तृतप्रदेशे हिमावस्थायां जलं स्यात् इति कोलराडो विश्वविद्यालयस्य पोल् हेयिनस्य नेतृत्वे विद्यमानेन अनुसन्धानगणेन अभिप्रेतम्।

Wednesday, October 28, 2020

 चीनं विरुध्य सोदरभावेन अमेरिका च। 

'बेक्का' सन्धौ हस्ताक्षरं कृत्वा भारतम् अमेरिका च। 

    नवदिल्ली> राष्ट्रसुरक्षामण्डले परस्परसाहाय्यं सहयोगं चाभिलक्ष्य भारतामेरिक्कयोर्मध्ये बेक्कानामकः सहयोगसमयः हस्ताक्षरीकृतः। चीनभारतसंघर्षे विद्यमाने अमेरिकया सह भारतस्यायं समयः उभयोरपि राष्ट्रयोः चीनाविरुद्धतायै सहायकं भवतीति केन्द्रसर्वकारेण सूच्यते। 

  प्रमुखाः सैनिक-साङ्केतिकविद्याः , व्योमभौमदेशालेख्यपत्राणि , सैनिकोपग्रहेभ्यः प्रसार्यमाणाः सूक्ष्मवृत्तान्तांश्च अन्योन्योपकारकरीत्या विनिमयं कर्तुमुद्दिष्टो भवति 'बेक्का' [Basic Exchange & Cooperation Agreement] नामकमयं सन्धिः।

 हिस्बुल् अध्यक्षमभिव्याप्य १८ पुरुषाः भीकरा इति प्रख्यापिताः। 

   नवदिल्ली> हिस्बुल् मुजाहिदीन् नामकातङ्कवादसंस्थायाः नेता सयिद् सलाहुदीनः तथा 'इन्ड्यन् मुजाहिदीन्' स्थापकौ 'भट्कल् सोदरौ' इत्येतान् अभिव्याप्य नानाभीकरसंस्थाप्रवर्तकाः १८ जनाः केन्द्रसर्वकारेण यू ए पि ए नीत्यनुसारं भीकराः इति प्रख्यापिताः। हिस्बुल् संघटनं विना लष्कर् ई तोय्बा, जय्षे मुहम्मद्, इन्ड्यन् मुजाहिदीन्, दावूद् इब्राहिं संघः इत्येतेषां संघटनानां प्रवर्तकाः एव भीकरावल्यामन्तर्भूताः।

Tuesday, October 27, 2020

 शान्तिकालप्रवर्त्तनानि स्थगयितुं भारतसेना आदिष्टा।

    नवदिल्ली> चीन-भारतयोः सीमनि नियन्त्रण-रेखायां चीनेन सैनिकाः विन्यस्थाः इति कारणेन भारतसैनिकेभ्यः जाग्रतानिर्देशः अदात्। शान्तिकालप्रवर्त्तनि स्थगयितुं सैनिकाध्यक्षेण बिपिन् रावतेन  भारतसेना आदिष्टा। भारतमहासमुद्रे चीनस्य युद्धनौकायाः विन्यासस्य अवलोकनाय अन्टमान-निकोबार द्वीपसमूहस्य 'संयुक्तकमान्ट्' विभागाय निर्देशः अदात्। 

 बिहारे विधानसभानिर्वाचनस्य प्रथमसोपानं श्वः। 

 


 पटना> बिहारस्य विधानसभानिर्वाचनस्य प्रथमसोपाने १६ जनपदानां ७१ मण्डलेषु बुधवासरे मतदानं भविष्यति। 

  १०६६ स्थानाशिनः स्पर्धावेदिकायां सन्ति। ७१ मण्डलेषु शब्दप्रचरणं ह्यः सायं समाप्तम्। 

  त्रिभिः सोपानैरेव बिहारे निर्वाचनं विधास्यति। द्वितीयसोपानं नवंबर् तृतीयदिनाङ्के तृतीयं सोपानं सप्तमदिनाङ्के च भविष्यति। दशमे मतगणना विधास्यति।

 आणवनिरोधनसन्धौ  जापानः विमुखतां प्राकटयत्। 

 टोकियो> आणवायुध- निरोधनाय  ऐक्यराष्ट्रसभायाः सन्धेः जपानेन मुखं परिवर्तितम्। अस्मिन् सन्धौ हस्ताक्षरं कर्तुं विप्रतिपत्तिरस्ति इति जपानस्य सचिवप्रमुखेन कट्स्तुनोबु काट्टो इत्याख्यान उक्तम्। आणवायुधरहितो विश्वः जापानस्य लक्ष्यम्। किन्तु ऐक्यराष्ट्रसभायाः सन्धिः आणवायुध-निर्माजनाय न पर्याप्तः इति तेन उक्तम्। विगते दिने ५० राष्ट्राणि अणवनिरोधन सन्धौ हस्ताक्षरं कर्तुं विमुखतां प्रदर्शितवन्तः सन्ति इति ऐक्यराष्ट्रसभया अवेदितम् आसीत्।  अमेरिका अपि हस्ताक्षरविमुखानां गणे अस्ति।