OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 18, 2020

 नीत ( NEET) परीक्षायां सम्पूर्णाङ्काः  (720/ 720) लब्ध्वा इतिहासं व्यरचयत् षोय्ब् इत्याख्यः। 


     जयपुरम्> भारतस्य वैद्यशिक्षाप्रवेशपरीक्षायां ७२० इति पूर्णाङ्कं लब्ध्वा प्रथमस्थानं प्राप्तवान् षोय्बः। भारतेतिहासे प्रप्रथमः भवति अयं विजयः। ओडीषायां   रूरकल देशीयः भवति एषः अष्टादशवयस्कः षोय्ब् अफ्ताब्। हृदय-शल्यचिकित्सायां कुशलः भवितव्यम् इति सः अभिलषति।  प्रतिदिनं 10 - 12 होरां यावत् स्वाध्यायं कृत्वा भवति तस्य विजयः। समाजे दरिद्राणां कृते जीवनं यापनीयम् इति सः चिन्तयति। सेप्तंबर् मासस्य 23 दिनाङ्के प्रचलितायां परीक्षायां  13,67,032 छात्राः तथा ओक्टोबर् मासे 14- दिनाङ्के 290 छात्राः च परीक्षां लिखितवन्तः आसन्। www.ntaresults.nic.in इति अन्तर्जालसूत्रे परिक्षाफलं लभते।

Saturday, October 17, 2020

 कोविड् वर्धनं- पञ्च राज्यानि प्रति केन्द्रसंघः। 

     नवदिल्ली> कोविड्-१९ बाधिताः  अनियन्त्रितेन वर्धते इत्यस्मात् ५ राज्यानि प्रति केन्द्रसर्वकारः उन्नततलं स्वास्थ्यसंघं नेष्यति। केरलं, कर्णाटकं, पश्चिमवंगः, राजस्थानं, छत्तीसगढ़् इत्येतानि तानि राज्यानि। रोगव्यापनं नियन्त्रयितुं मार्गनिर्देशं दातुमेव केन्द्रसंघस्य गमनम्।  राष्ट्रस्य अशेषेषु कोविड्बाधितेषु ४.३% रोगिणः [३,१७,९२९] केरलतः भवन्ति। राष्ट्रजनसंख्यायाः २.७६% एव केरलस्य जनसंख्या इत्यतः पूर्वोक्तः कोविड्संख्या  गौरवास्पदा भवति।

Friday, October 16, 2020

 संस्कृतसंभाषणवर्गाणां  सम्पूर्णसमारोहं महानटः पद्मश्री: जयरामः समुदघाटयत्।  


 कालटी> संस्कृतभारत्याः केरलविभागस्य विश्व-संस्कृत-प्रतिष्ठानस्य ५३ सम्भाषणवर्गाः सम्पूर्णाः। कार्यक्रमः महानटेन पद्मश्रीजयरामेण समुद्घाटितः। संस्कृतं प्रति तस्य आदरः तेन प्रकटित:। चेन्नैनगरे स्वगृहे उपविश्य सूम् (Zoom) सुविधाद्वारा आसीत् तस्य भाषणम्। संस्कृताध्ययनाय अवसरं लब्धवन्तः भाग्यशालिनः भवन्ति,  तान् अभिनन्दामि इत्युक्त्वा नूतनान् छात्रान् सः प्रचोदितवान्। 

   सन्दर्भे संस्कृतभारत्याः राज्याध्यक्षः  डो. पी. के. माधवन् वर्यः अध्यक्षः आसीत्। संस्कृतभारत्याः अखिलभारतीय- प्रशिक्षणप्रमुखेण डा. एच्. आर्. विश्वासमहोदयेन मुख्यसन्देशः प्रसारितः। 

प्रचलितेषु ५३ सम्भाषणवर्गेषु उपत्रिसहस्रं ( ३०००) जनाः (छात्राः अन्ये प्रौढाः च ) भागं स्वीकृतवन्तः। प्रतिमासं ५ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं दशदिनसम्भाषणवर्गाः भविष्यन्ति। गृहे उपविश्य सकुटुम्बं कक्ष्यायाम् उपवेष्टुं सन्दर्भः अस्ति। ये भागं स्वीकर्तुम् इच्छन्ति तैः अधोदत्तबन्धनसूत्रद्वारा पञ्जीकरणं क्रियताम्।

Link - https://forms.gle/ubXQh8Dg3fM4Bsgt5

 कोविड्- द्वितीयप्रत्यौषधाय रूस् राष्ट्रस्य अङ्गीकारः। 

      मोस्को> कोविड् प्रतिरोधाय रूस् राष्ट्रेण द्वितीयं प्रत्यौषधं निष्पादितम्। नूतनप्रत्यौषधाय अङ्गीकारः दत्त इति राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। द्वयमपि रूस् राष्ट्रे एव वितरिष्यतीति तेनोक्तम्। 

  'ए पि वाक् कोरोणा' इति कृतनामधेयमिदमौषधं सैबीरियस्थया 'वेक्टर् इन्स्टिट्यूट्' संस्थया एव विकसितम्। प्रत्यौषधस्य फलप्राप्तिः सुरक्षा इत्यादिकं निर्णेतुं दशसहस्रं जनेषु परीक्षणं नवम्बरे डिसम्बरे वा आरप्स्यते।  स्फुट्निक्-५ नामकं प्रथमं प्रत्यौषधं आगस्ट्मासे अङ्गीकारः प्राप्तः। ४०,००० सन्नद्धप्रवर्तकेषु एतस्य परीक्षणं संवृत्तमस्ति।

 जि एस् टि नष्टम् - सविशेषजालकद्वारा १.१लक्षंकोटि ऋणसुविधा। 

     नवदिल्ली> जि एस् टि इत्यस्मात् राज्यसर्वकारैः अभिमुखीक्रियमाणं नष्टं परिहर्तुं केन्द्रसर्वकारेण ऋणसुविधा विधत्ता। सविशेषजालकद्वारा १.१लक्षं कोटिरूप्यकाणां ऋणं समाहृत्य राज्यसर्वकारेभ्यो दातुं निर्णयः वित्तमन्त्रालयेण स्वीकृतः। जि एस् टि नष्टपरिहारविषये राज्यानाम् अनिष्टं दूरीकर्तुमेवायं निर्णयः। 

  राज्यानां कृते निश्चितस्य ऋणावधेः उपरि एव १.१लक्षं कोटि रूप्यकाणां ऋणं केन्द्रसर्वकारेण स्वीकरिष्यते। राज्यानामृणस्वीकारे वृद्धिबाध्यता भविष्यति। किन्तु ऋणस्वीकारः केन्द्रसर्वकारेण क्रियते तर्हि राज्यानां वृद्धिबाध्यतायाः मुक्तिः भविष्यतीति राज्यानां समाश्वासः।

Thursday, October 15, 2020

 १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा पञ्चवर्षदेशीयेन बालकेन अभिज्ञातः। 


  प्रौढजनापेक्षया निरीक्षणकौशलविषये शिशवः पदमेकं पुरतो विद्यन्ते। परितः संवीक्ष्य  नूतनाः घटनाः तैः अवगम्यन्ते इति अत्भुतस्य विषयः। तादृशः एकः बालकः भवति याङ् स्वेर्वि। पञ्चवर्षदेशीयेन अनेन १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा अभिज्ञाता। चीनराष्ट्रस्य दक्षिण-पश्चिम-भागेषु  विद्यमानेषु  शिलोच्चयेषु एकत्र एव पादमुद्रा दृष्टा। पितरौ सह विनोद यात्रया समागतः बालकेन याङ् स्वेर्विना शिलोच्चये मुद्रा दृष्ट्वा स्वा परीक्षणनिरीक्षणानन्तरं डयमानस्य भीमसरटस्य पादमुद्रा स्यात् इति  अभिप्रेतम्। शैशवादपि निरीक्षणोत्सुकस्य पुत्रस्य अभिमतस्य मूल्यं ज्ञातवन्तौ पितरौ चीनस्य भौमवैज्ञानिक-विश्वविद्यालयस्य प्रमुखाध्यापकं षिङ् लिटां प्रति घटनेऽयम् अवदताम्। सोऽपि पादमुद्रां निरीक्ष्य तेरोपोट्स् इति पक्षयुतस्य भीमसरटस्य पादचिह्नम् इति अवदत्। इदानीं अयं बालवैज्ञानिकस्य ख्यातिः आविश्वं प्रसरति।

 ज्ञानपीठपुरस्कारजेता महाकवि पद्मश्री अक्कित्तं दिवङ्गतः।


  त्रिश्शिवपेरूर्> महाकवि अक्कित्तम् अच्युतन् नम्पूतिरिः दिवङ्गतः। अद्य प्रातः 8:10 वादने वार्धक्यसहजेन रोगेण पीडितः एषः 94 वयस्कः आसीत्। केरलीयोयं महाकविः पद्मश्री पुरस्करः केन्द्र-साहित्य अक्कादमी पुरस्कारः  केरल-साहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः इत्यादयैः  पुरस्कारैः समादृतः आसीत्।

Wednesday, October 14, 2020

 मेहबूबा मुफ्ती विमोचिता। 


 श्रीनगरम्> जम्मू काश्मीरस्य सविशेषपदतिरस्कारात् पूर्वं राजनैतिककारागृहं विहिता जम्मू काश्मीस्य भूतपूर्वा मुख्यमन्त्रिणी पि डि पी दलस्य अध्यक्षा च मेहबूबा मुफ्ती विमोचिता। २०१९ आगस्ट् ५ तमे इतरैः राजनैतिकदलनेतृभिः सह कारागारे बद्धा मेहबूबा मङ्गलवासरे विमोचितेति जम्मू काश्मीरस्य प्रशासनवक्ता रोहित कन्सल् इत्यनेन निगदितम्। 

 सप्तमासं यावत् सर्वकारसंविधाने कारागारबद्धा सा गतएप्रिल् मासादारभ्य गार्हिककारागारे बद्धा आसीत्। सामाजिकसुरक्षानियमः [पि एस् ए] तस्यां निबद्धः आसीत्। 

  समीपकाले सर्वोच्चन्यायालयस्य प्रक्रिया अस्मिन् प्रकरणे सञ्जाता। तदनुसृत्य एव काश्मीरप्रशासनेन मेहबूबायाः मोचनं साधितम्।

 केरलसर्वकारस्य चलच्चित्रपुरस्काराः प्रख्यापिताः - 'वासन्ती' उत्कृष्टचलच्चित्रं, सुराजः श्रेष्ठः अभिनेता, अभिनेत्री तु कनी कुसृती, सूत्रधारः लिजो जोस् पेल्लिशेरि। 


 अनन्तपुरी>  केरले ५०तमाः राज्यस्तरीयचलच्चित्रपुरस्काराः प्रख्यापिताः। 'रह्मान् ब्रदेर्स्' इति नाम्नि षिनोस् रह्मान् सजास् रह्मान् सोदरद्वयेन निदेशं कृतं वासन्ती नामकं चलच्चित्रं गतसंवत्सरस्य  चलच्चित्रेषु सर्वोत्कृष्टं पदमलङ्कृतम्। 'आन्ड्रोय्ड् कुञ्ञप्पन्' 'विकृति' इत्येतयोः चलच्चित्रयोः अभिनयेन सुराज् वेञ्ञारम्मूट् श्रेष्ठः अभिनेता इति पुरस्काराय चितः। 

  कनी कुसृती भवति श्रेष्ठा अभिनेत्री - चलच्चित्रं 'बिरियाणि' नामकम्। 'कुम्पलङ्ङी नैट्स्' नामकचलच्चित्रं महत्तमां जनप्रीतिं प्राप्तम्। सर्वोत्कृष्टस्य सूत्रधारस्य पदं लिजो जोसफ् पेल्लिशेरि च प्राप्तवान्।

Tuesday, October 13, 2020

 विपणिसमुद्धापनाय ७३,००० कोटि रूप्यकाणि। 

      नवदिल्ली> कोविड्महामार्यां प्रक्षीणितां भारतस्य सम्पद्व्यवस्थामुत्थापयितुं द्वितीयम् उत्तेजकभाण्डं वित्तमन्त्रिणी निर्मलासीतारमणः प्रख्यापितवती। उपभोगसामग्रीणाम् आवश्यकतां संवर्ध्य विपणीनाम् उत्तेजनाय केन्द्रसर्वकारसेवकानाम् आनुकूल्यानि, केन्द्र-राज्यसर्वकाराणां मूलधनद्रव्यसंवर्धनाय आयोजनाश्च वित्तमन्त्रिण्या प्रख्यापितानि। ७३,०००कोटिरूप्यकाणामायोजनाः उद्घुष्टाः।

 हेमन्तर्तुं स्वागतीकर्तुं  विकसति ब्रह्मकमलम् ।


   चमेलि> हेमन्तऋतोः आगमनम् उद्घोबोधयतः भारतस्य विविधभागेषु ब्रह्मकमलानि विकसन्ति। संवत्सरे एकवारं पुष्पाणि जायन्ते इत्यस्ति विशेषता। हिमालयप्रान्तेषु राज्येषु उत्तरखण्डे हिमाचलप्रदेशे च अधिकतया एतानि विद्यन्ते। सम्प्रति उत्तरखण्डस्य चमोलि जनपदे ब्रह्मकमलानि  अधिकतया विकसितानि सन्ति। उत्तरखण्डस्य राज्यपुष्पं भवति ब्रह्मकमलम्। रात्रौ एव तानि विकसन्ति। समुद्रतलात् ३००० - ५००० मीट्टर् उन्नत्यां पुष्पाणि दृश्यन्ते। आयुर्वेदीयौषध-निर्माणाय तिबट्देशीय चिकित्साविधौ च उपयुज्यन्ते। जुलैतः ओक्टोबर् पर्यन्तं पुष्पाणि द्रष्टुं शक्यन्ते।

Monday, October 12, 2020

 केरलेषु विद्यालयाः 'सम्पूर्णडिजिटल्' पदं प्राप्ताः। 


   अन्तपुरी> केरलं भारतस्य इदंप्रथमं 'सम्पूर्णडिजिटटल् विद्यालयराज्यम्' अभवत्। राज्येषु सम्पूर्णेषु सामाजिकविद्यालयप्रकोष्ठेषु ऐ टि तन्त्रोपकरणान् संस्थाप्य अध्ययनमार्गम् आधुनिकं कर्तुमेव सर्वकारस्यायमुद्यमः। राज्यस्य मुख्यमन्त्री पिणरायि विजयः ओण् लैन् द्वारा आयोजिते समारोहे  सम्पूर्णडिजिटल् आयोजनायाः पूर्तीकरणप्रख्यापनमकरोत्। 

  केरलस्य अशेष्वपि सामाजिकविद्यालयेषु ३,७४,२७४ डिजिटल् उपकरणानि विन्यस्तानि। एषूपकरणेषु Lap top, Multi Medea Projector, T V, DSLR Camera, इत्यादीनि नवविधानि ऐ टि सम्बन्धोपकरणानि विद्यन्ते। कैट्, किफ्बि नामकसंस्थयोः नेतृत्वे सामान्यविद्याभ्याससंरक्षणयज्ञः नामकाभियोजनाद्वारा एव एतादृशं पदं प्राप्तम्। 

 कार्यक्रमेऽस्मिन् शिक्षामन्त्री प्रोफ.सि. रवीन्द्रनाथः अध्यक्षपदमलंकृतवान्। विधानसभाध्यक्षः पि श्रीरामकृष्णः मुख्यातिथिः आसीत्। वित्तमन्त्री डो. टि एम् ऐसक्कः मुख्यभाषणमकरोत्। इतरे मन्त्रिणः सामाजिकाः प्रमुखाधिकारिवृन्दश्च कार्यक्रमे ओण्लैन् द्वारा सन्निहिताः आसन्।

 चलदूरवाण्यां काचे धनपत्रे च कोराणावैराणु २८ दिनानि जीवति - नूतनं अध्ययनफलम्।  


    कोरोणावैराणु २८ दिनानि यावत्  प्रतलस्य विशेषतानुसारं जीवति इति नूतनम् आवेदनम् आगच्छति। निर्मले अयःप्रतले चलदूरवाण्याः काचमयप्रतले, पलास्तिके, धनपत्रे, काकदे च  अष्टविंशति दिनानि यावत् अतिजीवनं कुर्वन्नस्ति कोविड् १९ वैराणुः इति भवति नूतनम् आवेदनम्। एतादृशेषु प्रतलेषु वैराणुः सप्त दिनानि यावत् जीवति इत्यासीत् पूर्वतनस्य अध्ययनस्य फलम्।  ओस्ट्रेलियस्य अनुसन्धानसंस्थयाः (CSIRO) गवेषकाः इदं नूतनम् अध्ययनफलं प्रकाशितवन्तः।

Sunday, October 11, 2020

भारतसीमनि चीनेन ६०,००० सैनिकाः विन्यस्थाः इति अमेरिका

  वाषिङ्टण्> चीन-भारतयोः नियन्त्रणरेखायाः समीपे  चीनेन षष्टिसहस्रं (६०,०००) सैनिकाः विन्यस्थाः इति यु एस् राष्ट्रस्य सचिवः मैक् पोम्पियो नामाख्यः उक्तवान्। 'क्वाड्' राष्ट्राणां पुरतः चीनस्य मनोभावं चीनस्य भीषां च तेन परामृष्टः। टोक्यो मध्ये आयोजिते क्वाड् राष्ट्राणां प्रतिनिधीनां मेलने भागं स्वीकृत्य प्रत्यागतः सः 'द गैबन्सन्' प्रस्तुत्यां  भाषमाणः आसीत्। यु एस्-जापान- ओस्ट्रेलिय-भारतप्रमुखाणां चतुर्णां राष्ट्राणां सहयोगः भवति क्वाड् (Quad Countries) क्वाड्राष्ट्राणि इदानीं चीनतः भीषां अभिमुखीकुर्वन्ति। अतः मण्डलस्य क्षेमाय शान्तये सुरक्षायै च अवश्यं सम्भूय वर्तव्याः इत्यपि तोनोक्तम्।

काश्मीरे प्रतिद्वन्द्वः - सेनया ४ भीकराः निहताः। 

    श्रीनगरम्> जम्मुकाश्मीरस्य कुलगामे पुल्वामे च संवृत्तयोः द्वयोः प्रतिद्वन्वयोः भारतीयसुरक्षासेनया ४ भीकराः निहताः। तेष्वेकः पाकिस्थानीयः भवति। 

  शुक्रवासरे निशायां चिन्गुम् प्रविश्यायामासीत् कुलगामसंघर्षः जातः। तस्मिन् संघर्षे हतः समीर् भायीति उच्यमानः उस्मान् नामकः पाकिस्थानीयः,  अपरः तारिख् अहम्मदः कुलगामनिवासी च । जय्षे मुहम्मद् नामकातङ्कवादिसंघटनाङ्गौ द्वावेतौ भीकराक्रमणं लक्ष्यीकृताविति आरक्षकसेनया निगदितम्।

 केरले कोविड्प्रतिदिनसंख्या ११सहस्रमतीता। 

   अनन्तपुरी> शनिवासरे केरले कोविड्बाधिताः ११,७५५ जाताः।६६,२२८ आदर्श परीक्षणानि संवृत्तानि। परीक्षणस्पष्टताप्रतिशतता २३अधिका जाता। 

  ७४७० रोगिणः रोगमुक्ताः अभवन्। ह्यः २३ मरणानि स्थिरीकृतानि। आहत्य मृत्युसंख्या ९७८ जाता। 

  ओक्टोबर् नवम्बर् मासद्वये केरले रोगव्यापनतीव्रता इतोप्यधिका भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन उक्तम्। स्वास्थ्यप्रवर्तकाः अपि बहवः रोगबाधिताः ततोप्यधिकाः श्रान्ताश्चाभवन्।

Saturday, October 10, 2020

 विश्वक्षुधाविरुद्धयोजनायै नोबेलस्य शान्तिपुरस्कारः। 

    स्टोक्होम्> क्षुधाविरुद्धान्दोलनाय अस्य संवत्सरस्य नोबेल शान्तिपुरस्कारः। बुभुक्षितेभ्यः भोज्यवस्तूनि प्रापयन्ती संयुक्तराष्ट्रसभायाः 'W F P' नामिका अभियोजना एव पुरस्कारार्हा अभवत्। 

  विश्वस्मिन् क्षुधां दूरीकर्तुं तथा च संघर्षमण्डलेषु शान्तिप्राप्त्यर्थं कृतानि प्रवर्तनानि  पुरस्कृत्य एव शान्तिपुरस्कारः दीयते इति पुरस्कारनिर्णयसमितेः अध्यक्षा बेरिट् रैस् आन्डेर्सण् उक्तवती। कोविड्कालसेवाः अपि पुरस्कारनिर्णये सूचिका अभवत्।

 क्षणाभ्यन्तरे संशोधनाफलम् - कोविड्रोगाणुः प्रत्यभिज्ञातः भविष्यति।

  नवदिल्ली> कोविड्रोगाणुं प्रत्यभिज्ञातुं नूतनानां संशोधनानां-सामग्रीणां निर्माणाय भारत-इस्रयेलयोः संयुक्तप्रयत्नः। रोगनिर्णयाय नालिकान्तर्भागे एकः फूत्कारः एव पर्याप्तः क्षणाभ्यन्तरे निश्वासवायोर्मध्ये अणुः अस्ति वा न वा इति संशोधनाफलं प्राप्स्यति। इस्रयेलस्य प्रतिरोध अनुसन्धान निर्देशकसंघटनेन (DRDO) तथा व्यावसायिक-वैज्ञानिकायोगेन च (CSIR) मिलित्वा एव अनुसन्धानं प्रचालितम्। सप्ताहाभ्यन्तरे सामग्रीणां निर्माणं भारते एव समारभ्यते इति इस्रयेलस्य राजपुरुषः रोण्  माल्क इत्याख्यः अवदत्।