OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 9, 2020

 केन्द्रमन्त्री रामविलासपास्वानः दिवंगतः। 

 


  नवदिल्ली> केन्द्रसर्वकारस्य भक्ष्यमन्त्री तथा 'सोष्यलिस्ट्' राजनैतिकपरम्परायां प्रमुखः, लोक जनशक्ति पार्टी [एल् जे पी] नामकदलस्य नेता रामविलासपास्वानः [७४] दिवंगतः। हृद्रोगबाधया सः सप्ताहात् पूर्वं दिल्लीस्थे 'एयिंस्' आतुरालये प्रवेशितः आसीत्। 

  प्रायोगिकराजनैतिकस्य प्रवक्ता पास्वानः दशाब्दशः भारतस्य विविधासु मन्त्रिसभासु प्रमुखस्थानम् अलङ्कुर्वन्नासीत्। अधिकारराजनैतिकमार्गे तस्य यूपीए एन् डि ए भेदः नासीत्। बिहारस्थात् हाजिपुरमण्डलात् सप्तवारं सः लोकसभासदस्यः आसीत्। इदानीं राज्यसभासदस्यत्वेनैव केन्द्रमन्त्रिसभाङ्गत्वं प्राप्तवान्। 

  १९८९तमे वि पि सिंहस्य नेतृत्वे वर्तिते मन्त्रिमण्डले कर्ममन्त्रिरूपेण स्थानारोहितः सः तदनन्तरितेषु देवगौडः,  ऐ के गुज्रालः, ए बी वाजपेयी, मन्मोहनसिंहः, नरेद्रमोदी इत्येतानां नेतृत्वे रूपीकृतेषु सर्वेष्वपि मन्त्रिमण्डलेषु राजनैतिकास्पृश्यतां विना मुख्यस्थानं प्राप्तुं सः स्वकीयकौशलं प्रयुक्तवान्।

 साहित्यनोबेलपुरस्कारः अमेरिक्कीयकवयित्र्यै। 

    स्टाक् होम्>  अस्य संवत्सरस्य साहित्यनोबलपुरस्काराय अमेरिक्कादेशीया कवयित्री लूयिस् ग्लिक् नामिका अर्हा भवति। आत्मभाषणानां कवयित्री इति विशेष्यमाणा सा अधुना 'येल्' विश्वविद्यालये आङ्गलेयविभागे आचार्या भवति। 

  'दि ट्रयम्फ् आफ् अकिलस्' , 'दि वैल्ड् ऐरिस्' इत्यादयः तस्याः प्रमुखाः कृतयः भवन्ति। पुलिस्टर् पुरस्कारः [१९९३], National Book Award[२०१४] इत्यादयः बहवः अन्ताराष्ट्रपुरस्काराः तस्यै लब्धाः सन्ति।

Thursday, October 8, 2020

 हाथ्रस् प्रकरणम् असाधारणं भीतिदं स्तोभजनकमिति सर्वोच्चनीतिपीठः।

      नवदिल्ली> उत्तरप्रदेशस्थे हाथ्रस् ग्रामे २० वयस्का युवतिः संयुक्तबलात्संगानन्तरं निष्ठुररीत्या हता इति दुर्घटना अत्यन्तं भीतिजनका असाधारणा तथा क्षोभजनका इति भारतस्य सर्वोच्चनीतिपीठेन निरीक्षितम्।
  दुर्घटनायामस्यां स्वतन्त्रान्वीक्षणापेक्षितानाम् अभियाचिकानां परिगणनवेलायामासीत् मुख्यन्यायाधीशस्य एस् ए बोब्डे वर्यस्यायं परामर्शः। साक्षिणः इदानीमेव संरक्षणे वर्तन्ते, दुर्घटनायामस्यां सर्वोच्चनीतिपीठस्य अभीक्षणे स्वतन्त्रं नीतियुक्तं च अन्वीक्षणमावश्यकमिति यू पि सर्वकारेण अपेक्षितम्।  प्रकरणे$स्मिन् सुगमं नीतियुक्तं चान्वीक्षणं विधास्यतीति दृढीकृत्य अभियाचिकाः आगामिनि सप्ताहं यावत् व्यसृजत्।

 केरले प्रतिदिनकोविड्रोगिणः दशसहस्रमुपेताः। 

     अनन्तपुरी> केरलराज्ये कोविड्रोगबाधितानां प्रतिदिनसंख्या इदंप्रथमतया ह्यः दशसहस्रं प्राप्ता। ७३,८१६ जनानां स्रवपरिशोधनायां १०,६०६ जनेषु रोगबाधा दृढीकृता। ९८ स्वास्थ्यप्रवर्तकान् अभिभूय ९६४६ जनेषु संसर्गेणैव रोगः बाधितः। ७४१ जनानां रोगस्रोतः अस्पष्टं वर्तते। 

   २४ होराभ्यन्तरे एतावता आदर्शपरिशोधनापि प्रथमतया एव संवृत्ता। ह्यः ६१६१ रोगिणः स्वस्थीभूताः अभवन्। 

  राज्ये इतःपर्यन्तं रोगबाधिताः सार्धद्विलक्षाधिकं अभवन्। ९२,१६१ रुग्णाः परिचर्यायां वर्तन्ते। अशेषा मृत्युसंख्या ९०६ प्राप्ता।

Wednesday, October 7, 2020

 ट्रम्पं विरुद्ध्य मुखपुस्तकस्य ट्विट्टर् माध्यमस्य च प्रक्रमः।


     वाषिङ्टण्> कोविड्रोगं सामान्य लघुज्वरवत् परिकल्प्य  फेय्स् बुक्क् ट्विट्टर् नाम सामाजिकमाध्यमद्वारा ट्रम्पः सन्देशं कृतवान् इति दोषकारणेन फेस्बुक् टिट्वर् अधिकारिभ्यां प्रक्रमाः स्वीकृताः। सामान्यज्वरेण प्रतिवर्षं सहस्रशः जनाः मृताः भवन्ति इति अतः निःसारस्य रोगस्य कारणतया राष्ट्रस्य पिधानीकरणस्य आवश्यकता नास्ति इति सः सन्देशं प्रासारयत्। अनेन सन्देशेन जनेभ्यः अज्ञानप्रदानं कृतवान् ट्रम्पः इति फेय्स्बुक् माध्यमेन तथा टिट्वर् माध्यमेन च प्रत्यभिज्ञातम्। सामाजिक माध्यमनियमानि ट्रम्पेण उल्लङ्घितानि इति टिट्वर् माध्यमेन आवेदितम्।

Tuesday, October 6, 2020

 विश्वस्मिन् दशसु एकः कोविड्रोगबाधितः स्यात्- नूतनगणनया सह विश्वस्वास्थ्य संस्था। 

   जनीव> विश्वस्मिन् दशसु एकः कोविड्रोगबाधितः स्यात् इति नूतनगणना सूचयति इति विश्वस्वास्थ्य संस्थायाः आपदीयविभागस्य अध्यक्षेण डा. मैकिल् रयाणेन उक्तम्। अतिदारुणः कालः अभ्यागच्छति अतः दुर्दशायाः पारं गन्तुं श्रद्धालवः भवामः इति तेनोक्तम्। स्वास्थ्य संस्थायाः ३४ अङ्गायोगस्य सभायां भाषमाणः आसीत् सः। रोगव्यापनस्य व्याप्तिः वर्धते। ७६० कोटि जनेषु ७६ कोटि जनाः रोगबाधिताः स्यात् इति संस्थया अनुमीयते इति तेन प्रोक्तम्।

 'हेप्पटैटिस् - सि' सूक्ष्माणुम् अधिगतवतेभ्यः शास्त्रकारेभ्यः वैद्यशास्त्रनोबेल् पुरस्कारः।

 स्टोक् होम्>  अस्य संवत्सरस्य नोबेलपुरस्कारः हेप्पटैटिस् - सि' सूक्ष्माण्वधिगमाय। द्वाभ्यां अमेरिक्कीयगवेषकाभ्यां एकस्मै ब्रिट्टीष् गवेषकाय च पुरस्कारः संविभज्यते। 

  हार्वे जे आल्टरः, चाल्स् रैस् नामकौ अमेरिक्कीयशास्त्रज्ञौ मैक्कल् हौट्टण् नामकः ब्रिट्टीष् शास्त्रज्ञश्च अस्य संवत्सरस्य नोबेल जेतारः।

 गजसंरक्षणाय केन्द्राभियोजना।

    नवदिल्ली> राष्ट्रे विद्यमानानां वन्यगजानां  संरक्षणाय व्याघ्रसंरक्षणकेन्द्राणि इव नियम परिसरक्षां दातुं केन्द्रसर्वकारेण उद्यमते। यदा अभियोजना प्रवृत्तिपथमागच्छति तदा प्रभृति गजसंरक्षणकेन्द्राणां समीपे खननम्, उद्योगसंरम्भाः इत्यादीनि नानुमोदन्ते। 

   गजसंरक्षणकेन्द्रेभ्यः नियमपरिरक्षां विधातुं १९७२ तमवर्षस्य वन्यजीविसंरक्षणनियमं परिष्कर्तुं केन्द्रसर्वकारः चिन्तयति। राष्ट्रे १५ राज्येषु ३० गजारक्षणानि [Elephant Reserves] सन्तीति निर्णीतमस्ति।

Monday, October 5, 2020

 नसंसर्पणयानस्य भग्नवशात् द्वौ मृतौ। 


    कोच्ची> परिशीलनोड्डयनवेलायां नौसेनायाः यन्त्रघटितसंसर्पणयानं - Power Glider - भूमौ पतित्वा द्वौ नौसेनासेवकौ मृत्युमुपगतौ। उत्तराखण्डस्थे देहेराडूणस्वदेशीयः लफ्टनन्ट् राजीव झा [३९], बिहारस्थे भोज् स्थानाधिष्ठितः 'पेटी अधिकारी' सुनिल्कुमारः इत्येतावेव मृत्युभूतौ।  

   रविवासरे प्रभाते कोच्चीनगरसमीपे आसीदियं  दुर्घटना। ऐ एम् एस् गरुड् इत्यधिष्ठानात् नित्याभ्यासाय उड्डयितं यानं तोप्पुम्पटि नामकस्थाने मार्गेे भग्नमभवत्।   दुर्घटनायां ग्लैडर् यानं पूर्णतया भग्नीभूता। दुर्घटनाकारणं न स्पष्टीकृतम्। अन्वीक्षणं प्रचाल्यमानं वर्तते।

 आगम्यमाने संवत्सरे जुलाई मासे कोविड् प्रत्यौषधं प्रदास्यामहे - मन्त्री हर्षवर्धनः।

 


 नवदिल्ली> २०२१ जुलाईमासे २५ कोटि जनानां कृते कोविड् प्रत्यौषधं प्रदातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्रिणा डो. हर्षवर्धनेन उक्तम्। ४०तः५० कोटि प्रत्यौषधमात्रां क्रेतुं सर्वकारेण उद्दिश्यते इति तेन उक्तम्। 'सण्डे संवाद' इति सामजिकमाध्यमद्वारा प्रचाल्यमाने रविवासरीय-कार्यक्रमे  भाषमाणः आसीत् एषः।  

     प्रतिरोधप्रत्यौषध-वितरणाय नीति आयोगस्य प्रतिनिधी वी.के पोल् इत्यस्य नेतृत्वे समायोजितायाः समित्याः प्रवर्तनानि समारब्धानि।  केन्द्रसर्वकारेण औषधं समाहृत्य औषधवितरणं साक्षात्करिष्यते इत्यपि तेनोक्तम्।

 भाषां संस्कृतिं च संरक्षितुं सर्वकारं विरुद्ध्य चीनदेशस्थाः मङ्गोलियजनाः।

 


 बीजिङ्> चीनराष्ट्रस्य नूतनान् शैक्षिकनयान्  विरुद्ध्य प्रतिषेधः शक्तः भवति। चीनदेशस्थाः मङ्गोलियवंशजाः एव प्रतिषेधं कुर्वन्ति। चीनभाषामाध्यमेन एव इदानीमारभ्य अध्ययनं भवतु इति चीन-सर्वकारस्य निर्णयं विरुद्ध्य भवति प्रतिषेधः। मङ्गोलिया-भाषायाः तथा संस्कृतेः च नाशमुद्दिश्य भवति अयं निश्चयः इति एते बिभ्रन्ति। ४२ लक्षं मङ्गोलियवंशजाः चीनदेशे निवसन्तः सन्ति। एकीकृत-चैना इति कल्पनायां भवति एतादृश प्रक्रमः इति प्रतिषेधिनः वदन्ति। सेप्तंबर् प्रथम दिनाङ्गे शिक्षिक नयः चैनीस् कम्यूणिस्ट्पार्टि द्वारा प्रख्यापितः आसीत्। नयानुसारं सर्वविषयाः मङ्गोलिय भाषां विना चीन-भाषायाम् अध्येतव्याः।  अनेन स्वस्य संस्कृतेः नाशः भविष्यति इति मङ्गोलियवंशजाः वदन्ति।

Sunday, October 4, 2020

 भारते कोविड्मरणानि लक्षमतीतानि।

     नवदिल्ली> कोव्ड्रोगबाधया राष्ट्रे मृत्युमुपगतानां संख्या लक्षमतीतानि। सर्वकारस्य आवेदनमनुसृत्य १,०१,२११ जनाः पञ्चत्वं प्राप्ताः। लोके कोविड्मृतानां संख्यायां भारतं तृतीयस्थानं भजते। अमेरिक्का, ब्रसीलश्च यथाक्रमं प्रथमद्वितीयस्थानयोः वर्तेते। 

  महाराष्ट्रं, आन्ध्रप्रदेशः, कर्णाटकं, तमिलनाडु, उत्तरप्रदेशः, दिल्ली, पश्चिमवंगः इत्यादिषु राज्येषु मृत्युसंख्याप्रतिशतता उच्चस्तरीया भवति।

  महात्मा गांधी-लालबहादुरशास्त्री" जयन्त्युत्सव: सम्पन्नः


        जयपुरम्> विगते ०२ अक्टूबर २०२० तमे दिनांके सायं ५.०० वादने गूगल मीट ई-मञ्चोपरि "महात्मागांधी- लालबहादुरशास्त्री" इत्यनयोः जयन्त्युत्सवस्य आयोजनं संस्कृतभारती-जयपुरविभागेन कृतम्। भारतीयपरम्परानुसारेण कार्यक्रमस्य शुभारंभं अभिषेकशर्ममहोदयेन मंगलाचरणेन कृतम्। 

Saturday, October 3, 2020

 विश्वस्य दीर्घतमा सुरङ्गवीथिः 'अटल् टनल्' भारतेन उद्घाटिता।

१०.०२ कि.मी दीर्धिता इयं वीथिः। 


       मणालि> समुद्रतलात् उन्नता विश्वस्य दीर्घतमा सुरङ्गवीथिः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। प्रतिरोधमन्त्री राजनाथसिंह: हिमाचलप्रदेशस्य मुख्यमन्त्री जयराम ठाकुरः च कार्यक्रमे भागं स्वीकुर्वन्तः सन्ति। मणालीतः लडाक् पर्यन्तं ९.०२ किलो मीट्टर् दीर्घता इयं सुरङ्गवीथिः। समुद्रोपरितलात् ३००० मीट्टर् उपरि वर्ताते इयं वीथिः। दशवर्षाणि वीथीनिर्माणाय उपयुक्तानि। अनेन मार्गेण यात्रादूरं ४६ कि.मी न्यूनमभवत् इति महान् लाभः। यात्रासमयेषु ५ होरायाः लाभः च अस्ति।

Friday, October 2, 2020

 कोरोणबाधया केरलेषु कठोरनियन्त्रणानि समारब्धानि। 

  कालटी> कोरोण व्यापनानुबन्धतया केरलेषु कठोरनियन्त्रणानि प्रख्यापितानि।  ओक्टोबर् तृतीयदिनाङ्कतः एकत्रिंशत् दिनाङ्कपर्यन्तं भवति नियन्त्रणम्। केरले प्रतिदिनकोविड्बाधा दशसहस्रमुपगच्छति। गतसप्ताहं यावत् कोविड्बाधितानां प्रतिदिनसंख्या सहस्रमिति क्रमेण वर्धमाना ह्यः ९२५८ प्राप्ता। अतः अद्य आरभ्य राज्ये कठोरनियन्त्रणानि विहितानि।


 यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः। 


     वाषिङ्टण्> अमेरिक राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः भवति। अस्य पत्नी मेलानिया अपि रोगबाधिता अस्ति। उभौ एकान्तवासे प्रविष्टौ। अयं रोगबाधितः इति टिट्वर् द्वारा एषः स्वयम् प्रकाशितवान्। ट्रम्पस्य उपदेष्टा होप् हिक्स् विगते दिने रोग बाधितः इति प्रमाणीकृतः। अतः एव कृते रोगावलोकन परीक्षणे  ट्रम्पः पत्नी च रुग्णौ इति निर्णीतौ अभवताम्।

Thursday, October 1, 2020

 बाबरि मस्जिद् भञ्जनप्रकरणं - ३२ दोषारोपिताः विसृष्टाः।

 प्रमाणं नास्तीति नीतिपीठः।

       नवदिल्ली> २८ संवत्सरेभ्यः पूर्वं दुरापन्ने 'बाबरि मस्जिद'प्रकरणे भा ज पा दलस्य वरिष्ठाः नेतारः, एल् के अड्वाणी, मुरलीमनोहर जोषी, कल्याणसिंहः, उमाभारती इत्यादयः अभिव्याप्य ३२दोषारोपिताः निरपराधिनः इति प्रकल्प्य उपधानीतिपीठेन विसृष्टाः। मस्जिदाराधनालयभञ्जने गूढपर्यालोचनस्य प्रमाणं नास्तीति लख्नौस्थेन सि बी ऐ सविशेष नीतिपीठेन अभिवीक्षितम्। 

  पूर्वोक्ताः नेतारः भञ्जननिरोधाय प्रयत्नं कृतवन्तः आसन्निति सूचितम्। प्रोसिक्यूषन् न्यायवादिभिः समर्पितानि प्रमाणानि दोषारोपान् दृढीकर्तुं न प्रभवन्तीति नीतिपीठेन स्पष्टीकृतम्।

 गान्धीजयन्तीदिने संस्कृतेन सह द्वादशभिः भाषाभिः आत्मसाक्षात्कारस्य कृते योगः- सार्वजनिककार्यक्रमः

        गान्धीजी एवं शास्त्रिजी जयन्त्युत्सवदिने 2 अक्टोबर् 2020 तमे दिनाङ्के भारतस्य क्षेत्रीयाभिः राष्ट्रियाभिः च भाषाभिः कुण्डलिनीजागरणम् एवं आत्मसाक्षात्कारस्य कश्चन अन्तर्जालीयः सार्वजनिकः कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे मुख्यम् आकर्षणं नाम आरम्भिकायाम् एकस्यां होरायां संस्कृतेन सुदीर्घः कार्यक्रमः भविष्यति, यः अक्टोबर् मासस्य द्वितीयदिनाङ्के प्रातः अष्टवादनतः नव वादनपर्यन्तं https://www.sahajayoga.org.in/live इत्यत्र प्रसारितः भविष्यति।

       


एषः कार्यक्रमः पूज्यश्रीमाता-निर्मलादेव्याः अमूल्य-शिक्षणानाम् अनुसरणेन कुण्डलिनीजागरणस्य आत्मसाक्षात्कारस्य च अनुभवाय अस्ति । सामान्यजनानां कृते निःशुल्करूपेण अयं कार्यक्रमः प्रसार्यते । तेषामपि अन्तः विद्यमानायाः कुण्डलिनीशक्त्याः माध्यमेन प्रतिरोधकशक्तेः वृद्धिः, एवं रोगनिरोधकशक्तेः परिरक्षा च भविष्यति। यतो हि अस्य कार्यक्रमस्य मुख्यम् उद्देश्यश्यं शारीरकमानसिकविकासः एवम् आध्यात्मिक-उन्नतिः एव अस्ति। परमपूज्य श्रीनिर्मलामातुः शिक्षायाः अनुसारं कुण्डलिनी मनुष्यस्य आध्यात्मिक-उत्थानम् एवं आध्यात्मिकशक्तिपरिरक्षणं  च