भारतस्य नेतारः चीनेन निरीक्षन्ते।
प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।
भारतस्य नेतारः चीनेन निरीक्षन्ते।
प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।
आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय जीवनं प्रत्यानेतुं सैन्यैः यत्नः समारब्धः।
जनसभासम्मेलनाय अद्य शुभारम्भः।
मेलनं स्वास्थ्य-सुरक्षानियमान् परिपाल्य।
नवदिल्ली> भारतजनसभायाः वर्षाकालसम्मेलनम् अद्य प्रारभते। कोविड्रोगव्यापनकालं परिगणय्य कर्कशाः स्वास्थ्य सुरक्षानियमाः परिपाल्यन्ते। ओक्टोबरमासपर्यन्तमेव मेलनं निर्णीतम्।
१७तमलोकसभायाः चतुर्थं तथा राज्यसभायाः २५२तमं मेलनं च भवत्येतत्। प्रथमे दिने अस्मिन् लोकसभा प्रातः नववादनतः ११ पर्यन्तं , राज्यसभा मध्याह्नात्परं त्रिवादनतः सायं सप्तवादनपर्यन्तं च मेलिष्यति।
अप्रत्यक्षाः भारतीयाः युवकाः चीनेन प्रत्यर्पिताः।
इट्टानगरम्> अरुणाचलप्रदेशात् अस्य मासस्य द्वितीये दिनाङ्के अदृश्यं गतान् पञ्च युवकान् चीनसेना गतदिने भारतं प्रतिसमार्पयत्। मृगयाविनोदाभ्यन्तरे सीमामुल्लङ्घितवन्तः अरुणाचल-प्रदेशीयाः युवकाः चीनसैन्येन निगृहीताः आसन्। अरुणाचलप्रदेशस्थे अञ्चावु जनपदे दमा नामके स्थाने आसीत् प्रत्यर्पणकार्यक्रमः।
तालिबानफ्खानशान्तिचर्चा खत्तरे समारब्धा।
दोहा> अफ्खाने दशकैः संवत्सरैः यावत् अनुवर्तमानस्य संघर्षस्य परिसमाप्तये सर्वकारः तालिबानेन सह चर्चा खत्तरराष्ट्रे समारब्धा। फेब्रुवरिमासे कृतस्य यू एस् तालिबानयोः सुरक्षासन्धेः अनुबन्धतया मार्च्मासे आरम्भणीया शान्तिचर्चा एव कतिपयमासेभ्यः परं गतदिने आरब्धा।
तालिबानस्य अफ्खानिस्थानस्य च सर्वकारीयप्रतिनिधिभिः साक्षात्क्रियमाणः प्रथमः संवादः भवत्येषः। अफ्खानसर्वकारः अमेरिक्कायाः क्रीडनीयकमित्यारोप्य तालिबानः चर्चायै सन्नद्धो नासीत्। संवत्सरदशकात् परं दीर्घितस्य संघर्षस्य शान्तियुक्तः शाश्वतपरिहार एव लक्ष्यम्।
केरले कोविड्बाधिताः लक्षमतीताः।
द्वौ मन्त्रिणौ रोगबाधितौ।
अनन्तपुरी> केरले ह्यः २९८८ जनेषु कोविड्बाधितेषु रोगबाधितानामशेषसंख्या १,०२,२५४ जाता। ७२,५७४ जनाः रोगमुक्तिं प्राप्ताः। रोगमुक्तेः प्रतिशतता ७३.११ अस्ति। आहत्य ४१० मरणानि अभवन्।
केरलस्य द्वौ मन्त्रिणौ कोविड्बाधितौ अभवताम्। वित्तमन्त्री डो. तोमस् ऐसकः सप्ताहात्पूर्वं रोगबाधया चिकित्सायां वर्तते। उद्योगमन्त्री ई पि जयराजः अपि गतदिने कोविड्रोगयुक्तः अभवत्। द्वयोरपि स्वास्थ्यावस्था शुभोदर्का वर्तते।
स्वामि अग्निवेशः दिवंगतः।
१९३९ सेप्टम्बर् २१ तमे आन्ध्रप्रदेशस्थे ब्राह्मणपरिवारे जन्म लेभे। पूर्वीयाश्रमे तस्य नाम वेप श्यामरावु इत्यासीत्। १९६८ तमे वर्षे आर्यसमाजस्य निश्शेषकालप्रवर्तकः अभवत्।
भारते सर्वत्र सञ्चरन् भ्रष्टाचारं तथा शासकानां कुशासनं च विरुध्य लोकानुदबोधयत्। अण्णाहसारे वर्यस्य भ्रष्टाचारविरुद्धान्दोलने, प्लाच्चिमटा , कूटंकुलम् इत्यादिषु जनकीयान्दोलनेषु च तस्य योगदानं निस्तुलमासीत्।
जयपुरप्रान्ते तन्त्रांशमाध्यमेन बालकेन्द्रम् आयोजितम्
जयपुरम्> राजस्थानस्य जयपुरप्रान्ते गृहसंरोधकाले तंत्रांशमाध्यमेन दशदिवसात्मकं बालकेन्द्रशिबिरम् आयोजितम्। अगस्तमासे ऑनलाइनमाध्यमेन वर्गस्य आयोजनं जातम्। बालकेन्द्रे पञ्चविंशति: बालका: भागं गृहीत्वा संस्कृतभाषायाः रसास्वादनमकुर्वन्। २७ अगस्तत: ५ सितम्बरपर्यन्त संचाल्यमाने बालकेन्द्रे २५ बालकाः बालिका: च भागं गृहीतवन्तः। अस्मिन् वर्गे न केवलं जयपुरस्थ अपितु भारतस्य विभिन्येभ्य: राज्येभ्य: अपि संस्कृतप्रेमिका: बालका: बालिका: चासन्। सर्वे शिविरार्थीनः गृहे उपविश्य संस्कृत-सम्भाषणस्य सम्यक् अभ्यासं कृतवन्तः। पिपिटि द्वारा चित्रफलकानि निर्माय संभाषणबिन्दुनाम् पाठनम् अभ्यासञ्च कृतम्। एतस्य वर्गस्य मार्गदर्शक: प्रांतसह-मंत्री श्रीचन्द्रशेखरदाधीच: शिक्षकश्च दीपकः शास्त्री आसीत्। प्रतिदिनं शिविरस्य अन्तिमेषु ५ निमेषेषु संस्कृतगीतस्य अभ्यासम् अपि कृतवन्त:। वर्गस्य उद्घाटनसमारोहे अतिथिरूपेण जयपुरप्रांतस्य प्रांतमन्त्री: श्रीपवनव्यासमहोदय: आसीत्। महोदयेन कार्यक्रमे बालकेन्द्रस्य उद्देश्यविषये उक्तम् बाला: च कथं संस्कृतस्य प्रचारं-प्रसारं कर्तुं शक्नुवन्ति एतत् सर्वं ज्ञापितम्।
भारते कोविड्मरणानि भूरिशः पञ्चसु राज्येषु; बाधा तु नवसु राज्येषु।
नवदिल्ली> राष्ट्रे सम्प्रति वर्तमानेषु कोविड्बाधितेषु ७४% नवसु राज्येषु विद्यते इति केन्द्रस्वास्थ्यमन्त्रालयः। संभाव्यमानेषु मरणेषु ६८% महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, दिल्ली, आन्ध्रप्रदेशः इत्येतेषु पञ्चसु राज्येषु विद्यते च। रोगव्यापः महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, आन्ध्रप्रदेशः, तेलुङ्कानं, असमः, ओडीष, छत्तीसगढः उत्तरप्रदेशः इत्येतेषु नवसु राज्येषु इति मन्त्रालयस्य आवेदने सूचितम्।
भारते कोविड्बाधितानां संख्या सार्धपञ्चचत्वारिंशल्लक्षमुपगच्छति। मरणानि ७६,११५ जातानि।
सङ्घर्षभरिता चीनभारतसीमा।
चीनसीमायां सङ्घर्षः रूक्षः।
४५ संवत्सराभ्यन्तरे प्रथमतया भुशुण्डिप्रयोगः।
नवदिल्ली> पूर्वलडाके चीनभारतयोर्मध्ये सीमनि यथातथनियन्त्रणरेखायां सर्वत्र सङ्घर्षः मूर्च्छति। सेप्तम्बरमासस्य सप्तमे दिने भारतस्य अग्रिम-सैनिकशिबिरेषु अन्यतमम् उल्लङ्घितुम् उद्युक्तः चीनासैनिकसङ्घः आकाशं प्रति भुषुण्डिप्रयोगमकरोदिति भारतसैन्येन पत्रलेखद्वारा निगदितम्। १९७५ तमसंवत्सरात्परं प्रथममेव सीमायां भुशुण्डिप्रयोगः कृतः।
स्थितिः रूक्ष इति भारतस्य विदेशकार्यमन्त्रिणा जयशङ्करेणोक्तम्। सीमायां शान्तिं सुखं च दृढीकर्तुं न शक्यते चेत् अन्येषु प्रकरणेषु च राष्ट्रस्य प्रतिकरणं तादृशरीत्या भवेदिति तेन निगदितम्।
केरलतीरे समुद्रे प्रचण्डवातः - तिस्रः नौकाः भग्नाः।
कोष़िक्कोट्> रविवासरे रात्रौ प्रचण्डवातेन दुरापन्नेन समुद्रविक्षोभेन केरलतटे तिस्रः मत्स्यबन्धननौकाः भग्नाः जाताः। कस्यापि जीवहानिः नाभवत्। १६ होराः यावत् समुद्रे निपतिताः १३ धीवराः साहसिकतया रक्षिताः।
पोन्नानी, आलप्पुष़ा कन्याकुमारी प्रदेशेभ्यः अरबसमुद्रे मत्स्यबन्धनार्थं प्राप्ताः यन्त्रनौकाः केरलतीरात् ६ 'नोटिकल् मैल्' दूरपरिमिते स्थाने दुर्घटनापतिताः आसन्। समुद्रविक्षोभेन नोकाः विशीर्णाः। धीवराः विशीर्णान् नौकावशिष्टानाश्रित्य १६ होराः यावत् अलक्ष्यतया समुद्रे अटन्तः आसन्।
नाविकसेना, तटसंरक्षणसेना, मत्स्यबन्धनविभागः, तीरारक्षकविभागः इत्याद्यः संस्थाः धीवराणां साह्येन अतिप्रयत्नं कृत्वा एव दुर्घटनापन्नानां रक्षामकुर्वन्।
भारतराष्ट्रे मेट्रो रेल्यानसेवाम् अद्य आरभते।
कोच्ची मेट्रोयानस्य नूतनवीथी अद्यैव उद्घाट्यते।
कोच्ची> पिधाननिवर्तनस्य चतुर्थसोपानस्य अंशतया भारतस्य मेट्रो रेल् यानसेवाम् अद्य आरभते। दिल्ली चेन्नै कोच्ची इत्याद्यः सेवाः कोविड्नियमान् परिपाल्य एव आरभ्यन्ते।
केरले कोच्ची मेट्रो तस्य नूतनयात्रायै सिद्धमस्ति। इतःपर्यन्तं 'तैक्कूटं' निस्थाने सेवां समाप्तवत् मेट्रो यानं अद्य आरभ्य 'पेट्टा' निस्थानपर्यन्तं सेवां करोति। आलुवातः पेट्टा पर्यन्तमिति कोच्ची मेट्रो रेल्यानसंस्थायाः प्रथमसोपानस्य सम्पूर्तीकरणमेव अद्य साक्षात्क्रियते।
अद्य मध्याह्ने १२.३० वादने केरलस्य मुख्यमन्त्री पिणरायि विजयः नूतनं मेट्रोवीथिम् उद्घाटयिष्यति। कोविड्भीत्या सर्वे कार्यक्रमाः वीडियोसम्मेलनद्वारा एव भविष्यति। केन्द्रमन्त्री हर्दीपसिंह पुरी समारोहे अध्ययनक्षपदमलंकरिष्यति च।
कोविड्नियमाननुसृत्य एव कोच्ची मेट्रोयानस्य सेवा पुनरारभ्यते। आलुवातः पेट्टापर्यन्तं २५.१६ कि मी दूरमस्ति। अस्याः सेवायाः अनुबन्धरूपेण निश्चितस्य तृप्पूणित्तुरापर्यन्तस्य मेट्रोमार्गस्य निर्माणस्य उद्घाटनमपि अद्य सम्पत्स्यते।
डा. एस् राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः अनुष्ठेयानि - कटन्नप्पल्लि रामचन्द्रः।
समारोहे संघटनस्य राज्यस्तरीयाध्यक्षः पि पद्मनाभः अध्यक्षतामवहत्। टि के सन्तोष्कुमारः शिक्षकदिनसन्देशं दत्तवान्। मुख्यकार्यदर्शी सि पि सनल् चन्द्रः , पि जि अजित्प्रसादः, एस् रविकुमारः इत्यादयः भाषणम् कृतवन्तः।
कोविड् प्रतिरोधौषधं - २०२१तमस्य अर्धकालं यावत् प्रतीक्षा करणीया।
जनीवा > विश्वस्मिन् सर्वत्र कोविडं विरुध्य प्रत्यौषधं प्रावर्तिकं करणीयं चेत् आगामिसंवत्सरस्य अर्धकालं यावत् प्रतीक्ष्यमाणाः वर्तनीयाः इति विश्वस्वास्थ्यसंघटनेन सूचितम्। ततः पूर्वं सम्पूर्णा प्रत्यौषधव्यवस्था असम्भव्या। परीक्षणनिरीक्षणानि कर्कशानि करणीयानीति WHO संस्थया जाग्रतासूचना दीयते।
रूस् राष्ट्रे द्विमासाभ्यन्तरे साक्षात्कृताय प्रतिरोधौषधाय सर्वकारेण अङ्गीकारः दत्त आसीत्। यू एस् राष्ट्रे अपि नवम्बरमासे प्रत्यौषधव्यवस्थामारब्धुं राज्यानि निर्दिष्टानि च आसन्। अस्यां भूमिकायामेव जनीवायामायोजिते अवलोकनोपवेशने WHO वक्त्री मार्गरट् हारिस् इत्यनया पूर्वोक्तं प्रस्तुतम्।
भारत-चीनरक्षामन्त्रिणोः अभिमुखं सम्पन्नम्।
मोस्को> पूर्वलडाके भारतचीनयोः संघर्षे वर्तिते, उभयोरपि राष्ट्रयोः रक्षामन्त्रिणौ रूस् राजनगर्यां मोस्कोमध्ये अभिमुखं कृतवन्तौ। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री वेयी फेन्गे इत्येतयोः उपवेशने भारतस्य रक्षासचिवः अजयकुमारः , रूसे भारतस्य स्थानपतिः डि बी वेङ्कटेशवर्मा इत्येते अपि सन्निहिताः आसन्।
मेय् मासे पूर्वलडाके संघर्षानन्तरं इदंप्रथममेव उभयोरपि राष्ट्रयोः मन्त्रितलमेलनं सम्पन्नम्।
शिक्षकदिनम् NEP च
संस्कृतप्रेमिणां पुरतः पत्रमिदं प्रकाश्यते।
पत्रं पठामः -
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।
प्रणमामि,
सप्टेम्बरमासस्य ५ दिनाङ्के शनिवासरे 'शिक्षकदिनम्' इति आचर्यते। सः दिवसः प्रचाराभियानदिनम् इति वयम् आचरामः इति निश्चितम् अस्ति।
संस्कृतसंवर्धने शिक्षकस्य महत्त्वम् अत्यधिकमस्ति। किञ्च संस्कृतं शिक्षकाधीनमेव अस्ति। बहूनां शिक्षकाणां तपसा एतावन्ति सङ्कटानि सम्मुखीकृत्य संस्कृतविद्या वर्तमानकाले अपि प्रासङ्गिकी अस्ति।
नूतनशिक्षणनीत्यां संस्कृतविद्यायाः न केवलं समर्थनम् अपि तु तस्याः संवर्धनार्थं बलं प्रदत्तमस्ति।
संस्कृतस्य उल्लेखः आधुनिकभाषा (N.E.P. - 4.17) इति तत्र कृतः अस्ति। भारतीयज्ञानविज्ञानपरम्परायाः उल्लेखः Sanskrit Knowledge System (N.E.P. - 4.17) इति कृतः अस्ति।
संस्कृतस्य शिक्षणम् आकर्षकं मनोरञ्जकं च भवेत्, संस्कृतमाध्यमेन भवेत्, (N.E.P. - 4.17) सरलमानकसंस्कृतस्य आधारेण भवेत् (N.E.P. - 4.17) इति महत्त्वपूर्णाः सूचनाः तत्र विद्यन्ते।
संस्कृतपाठशालाः, संस्कृतविश्वविद्यालयाः च शिक्षणस्य मुख्यधारायां भवेयुः (N.E.P. - 22.15) इति अपि कश्चन महत्त्वपूर्णः बिन्दुः।
अधुना interdisciplinary (N.E.P. - 22.15)शिक्षणं भविष्यति। अतः विज्ञानच्छात्राः, अर्थशास्त्रच्छात्राः, ललितकलाच्छात्राः अपि संस्कृतं पठितुम् अर्हन्ति। संस्कृतग्रन्थानाम् अध्ययनेन शास्त्रग्रन्थानाम् आधुनिके सन्दर्भे गवेषणं भविष्यति।
हस्तलिखितानां संरक्षणम् अध्ययनं (N.E.P. - 22.16) चेति विषये अपि नूतनशिक्षणनीत्याम् आग्रहः दृश्यते।
भारतीयसंस्कृतेः मूल्यसमुच्चयबोधस्य च परिचयार्थं संस्कृतभाषा आधारभूता एव।
भारतीयभाषाणां संवर्धनार्थं (N.E.P. - 22.20)संस्कृतभाषायाः साहाय्यं भविष्यति इति तु सर्वे जानन्ति एव।
अतः संस्कृतशिक्षकाणां भूमिका आगामिकाले महत्त्वपूर्णा भविष्यति। एतं विषयम् अधिकृत्य शिक्षकदिने सर्वे कार्यकर्तारः प्रचारं कुर्युः। अन्यान् प्राध्यापकशिक्षकान् संस्कृतप्रेमीः च प्रेरयन्तु। सर्वे वृत्तपत्रेषु, समाजमाध्यमेषु च लिखन्तु।
इति शम्।
भवदीयः,
शिरीषः भेडसगावकरः (अ. भा. प्रचारप्रमुखः संस्कृतभारती)
From WhatsApp
भारते कोविड्रोगिणः ३९लक्षमतीताः ; आशङ्का न विनिवर्तते।
नवदिल्ली > कोविडवलोकने भारतस्य स्थितिः आशङ्काजनका वर्तते। अद्यावधि ३९ लक्षं जनेषु कोविड्रोगः दृढीकृत इति केन्द्रीय स्वास्थ्यमन्त्रालयस्य अवलोकने स्पष्टीक्रियते।
गतासु २४ होरासु ८३,३४१ नूतनानि कोविड्प्रकरणानि आवेदितानि। मरणानि तु १०९६ च। आगामिदिनेषु एषा संख्या वर्धिष्यते इति सूचितं वर्तते।
महाराष्ट्रे एव विषाणुबाधिताः अधिकतमाः वर्तन्ते| कोविड्स्थिरीकरणप्रतिशतता अपि अत्रैव दृश्यते - १९.२५%। राष्ट्रियप्रतिशतता तु ८.४७ भवति। चण्डीगढ़ [१४.९] , कर्णाटकं [११.८४] दिल्ली [१०.९७] इत्येतेषु राज्येषु दृढीकरणप्रतिशतता देशीयमानमपेक्ष्य अधिकतया वर्तते।
महाराष्ट्रं , तमिळनाट् ,आन्ध्रप्रदेश, कर्णाटकम्, उत्तरप्रदेशः इत्येषु पञ्चसु राज्येषु रोगव्यापनमतिरूक्षं वर्तते इति स्वास्थ्यमन्त्रालयस्य विशकलनरेखायां सूचितमस्ति।