OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 6, 2020

 डा. एस् राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः अनुष्ठेयानि - कटन्नप्पल्लि रामचन्द्रः। 

कटन्नप्पल्लि राम चन्द्रः (केरल मन्त्री )

       कोच्ची>  भारतस्य प्रथमोपराष्ट्रपतेः डो. सर्वेप्पल्लि राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः सर्वदा सर्वथा अनुष्ठेयानीति केरलस्य नौकाशय-पुराणवस्तुविभागमन्त्री कटन्नप्पल्लि रामचन्द्रः उक्तवान्। केरल संस्कृताध्यापकफेडरेशन् नामकेन संघटनेन आयोजिते राज्यस्तरीयाध्यापकदिनोत्सवस्य उद्घाटनं ओण् लेन् द्वारा कुर्वन् भाषमाणः आसीत् मन्त्रिवर्यः। कस्याश्चनापि भाषायाः जाति घर्मादि भेदचिन्ताः न सन्ति। संस्कृतभाषायास्तु सार्वलौकिकत्वं वक्तुमर्हति। अत एव संस्कृतशिक्षकाः संस्कृतपण्डितस्य डो. राधाकृष्णस्य जीवनमूल्यानि स्वजीवने अध्यापने च अनुष्ठेतुमर्हन्ति - मन्त्रिणा प्रस्तुतम्। 

  समारोहे संघटनस्य राज्यस्तरीयाध्यक्षः पि पद्मनाभः अध्यक्षतामवहत्। टि के सन्तोष्कुमारः शिक्षकदिनसन्देशं दत्तवान्। मुख्यकार्यदर्शी सि पि सनल् चन्द्रः , पि जि अजित्प्रसादः, एस् रविकुमारः इत्यादयः भाषणम् कृतवन्तः।

Saturday, September 5, 2020

 कोविड् प्रतिरोधौषधं - २०२१तमस्य अर्धकालं यावत् प्रतीक्षा करणीया। 

जनीवा >  विश्वस्मिन् सर्वत्र कोविडं विरुध्य प्रत्यौषधं प्रावर्तिकं करणीयं चेत् आगामिसंवत्सरस्य अर्धकालं यावत् प्रतीक्ष्यमाणाः वर्तनीयाः इति विश्वस्वास्थ्यसंघटनेन सूचितम्। ततः पूर्वं सम्पूर्णा प्रत्यौषधव्यवस्था असम्भव्या। परीक्षणनिरीक्षणानि कर्कशानि करणीयानीति WHO संस्थया जाग्रतासूचना दीयते। 

  रूस् राष्ट्रे द्विमासाभ्यन्तरे साक्षात्कृताय प्रतिरोधौषधाय सर्वकारेण अङ्गीकारः दत्त आसीत्। यू एस् राष्ट्रे अपि नवम्बरमासे प्रत्यौषधव्यवस्थामारब्धुं राज्यानि निर्दिष्टानि च आसन्। अस्यां भूमिकायामेव जनीवायामायोजिते अवलोकनोपवेशने WHO वक्त्री मार्गरट् हारिस् इत्यनया पूर्वोक्तं प्रस्तुतम्।

 भारत-चीनरक्षामन्त्रिणोः अभिमुखं सम्पन्नम्। 

   मोस्को>  पूर्वलडाके भारतचीनयोः संघर्षे वर्तिते, उभयोरपि राष्ट्रयोः रक्षामन्त्रिणौ रूस् राजनगर्यां मोस्कोमध्ये अभिमुखं कृतवन्तौ। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री वेयी फेन्गे इत्येतयोः उपवेशने भारतस्य रक्षासचिवः अजयकुमारः , रूसे भारतस्य स्थानपतिः डि बी वेङ्कटेशवर्मा इत्येते अपि सन्निहिताः आसन्। 

  मेय् मासे पूर्वलडाके संघर्षानन्तरं इदंप्रथममेव उभयोरपि राष्ट्रयोः मन्त्रितलमेलनं सम्पन्नम्।

Friday, September 4, 2020

शिक्षकदिनम् NEP च

संस्कृतप्रेमिणां पुरतः पत्रमिदं प्रकाश्यते। 

पत्रं पठामः -

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।

प्रणमामि,

 सप्टेम्बरमासस्य ५ दिनाङ्के शनिवासरे 'शिक्षकदिनम्' इति आचर्यते। सः दिवसः प्रचाराभियानदिनम् इति वयम् आचरामः इति निश्चितम् अस्ति।

 संस्कृतसंवर्धने शिक्षकस्य महत्त्वम् अत्यधिकमस्ति। किञ्च संस्कृतं शिक्षकाधीनमेव अस्ति। बहूनां शिक्षकाणां तपसा एतावन्ति सङ्कटानि सम्मुखीकृत्य संस्कृतविद्या वर्तमानकाले अपि प्रासङ्गिकी अस्ति।

 नूतनशिक्षणनीत्यां संस्कृतविद्यायाः न केवलं समर्थनम् अपि तु तस्याः संवर्धनार्थं बलं प्रदत्तमस्ति। 

संस्कृतस्य उल्लेखः आधुनिकभाषा (N.E.P. - 4.17) इति तत्र कृतः अस्ति। भारतीयज्ञानविज्ञानपरम्परायाः उल्लेखः Sanskrit Knowledge System (N.E.P. - 4.17) इति कृतः अस्ति।

संस्कृतस्य शिक्षणम् आकर्षकं मनोरञ्जकं च भवेत्, संस्कृतमाध्यमेन भवेत्, (N.E.P. - 4.17) सरलमानकसंस्कृतस्य आधारेण भवेत् (N.E.P. - 4.17) इति महत्त्वपूर्णाः सूचनाः तत्र विद्यन्ते।

 संस्कृतपाठशालाः, संस्कृतविश्वविद्यालयाः च शिक्षणस्य मुख्यधारायां भवेयुः (N.E.P. - 22.15)  इति अपि कश्चन महत्त्वपूर्णः बिन्दुः।

अधुना interdisciplinary  (N.E.P. - 22.15)शिक्षणं भविष्यति। अतः विज्ञानच्छात्राः, अर्थशास्त्रच्छात्राः, ललितकलाच्छात्राः अपि संस्कृतं पठितुम् अर्हन्ति। संस्कृतग्रन्थानाम् अध्ययनेन  शास्त्रग्रन्थानाम् आधुनिके सन्दर्भे गवेषणं भविष्यति।

 हस्तलिखितानां संरक्षणम् अध्ययनं (N.E.P. - 22.16) चेति विषये अपि नूतनशिक्षणनीत्याम् आग्रहः दृश्यते।

 भारतीयसंस्कृतेः मूल्यसमुच्चयबोधस्य च  परिचयार्थं संस्कृतभाषा आधारभूता एव।

 भारतीयभाषाणां संवर्धनार्थं (N.E.P. - 22.20)संस्कृतभाषायाः साहाय्यं भविष्यति इति तु सर्वे जानन्ति एव।

अतः संस्कृतशिक्षकाणां भूमिका आगामिकाले महत्त्वपूर्णा भविष्यति। एतं विषयम् अधिकृत्य शिक्षकदिने सर्वे कार्यकर्तारः प्रचारं कुर्युः। अन्यान् प्राध्यापकशिक्षकान् संस्कृतप्रेमीः च प्रेरयन्तु। सर्वे वृत्तपत्रेषु, समाजमाध्यमेषु च लिखन्तु। 

 इति शम्। 

 भवदीयः,

 शिरीषः भेडसगावकरः (अ. भा. प्रचारप्रमुखः संस्कृतभारती)

From WhatsApp

 भारते कोविड्रोगिणः ३९लक्षमतीताः ; आशङ्का न विनिवर्तते। 

    नवदिल्ली >  कोविडवलोकने भारतस्य स्थितिः आशङ्काजनका वर्तते। अद्यावधि ३९ लक्षं जनेषु कोविड्रोगः दृढीकृत इति केन्द्रीय स्वास्थ्यमन्त्रालयस्य अवलोकने स्पष्टीक्रियते। 

  गतासु २४ होरासु ८३,३४१ नूतनानि कोविड्प्रकरणानि आवेदितानि। मरणानि तु १०९६ च। आगामिदिनेषु एषा संख्या वर्धिष्यते इति सूचितं वर्तते। 

  महाराष्ट्रे एव विषाणुबाधिताः अधिकतमाः वर्तन्ते| कोविड्स्थिरीकरणप्रतिशतता अपि अत्रैव दृश्यते - १९.२५%। राष्ट्रियप्रतिशतता तु ८.४७ भवति। चण्डीगढ़ [१४.९] , कर्णाटकं [११.८४] दिल्ली [१०.९७] इत्येतेषु राज्येषु दृढीकरणप्रतिशतता देशीयमानमपेक्ष्य अधिकतया वर्तते। 

  महाराष्ट्रं , तमिळनाट् ,आन्ध्रप्रदेश, कर्णाटकम्, उत्तरप्रदेशः इत्येषु पञ्चसु राज्येषु रोगव्यापनमतिरूक्षं वर्तते इति स्वास्थ्यमन्त्रालयस्य विशकलनरेखायां सूचितमस्ति।

 पांगोङ् गिरिषु भारतस्य अधीशत्वम्। 

    नवदिल्ली>  चीनसीमायां पांगोङ् तटाकस्य दक्षिणपार्श्वस्थानि गिरिनिकराणि उल्लङ्घितुं चीनराष्ट्रस्य उद्यमः भारतेन प्रतिरुद्धः।  चीनसेनाम् अपाकृत्य षट् सप्त वा तन्त्रप्रधानेषु गिरिनिकरेषु भारतेन अधीशत्वं प्राप्तम्। 

  सीमासङ्घर्षं लघूकर्तुं ह्य अपि अनुस्यूततया चतुर्थदिनचर्चा प्रवृत्ता अपि चीनस्य कार्कश्येन सफलता नाप्ता। 

  सीमायां अवस्थाविशकलनाय स्थलसेनाध्यक्षः जन. एम् एम् नर्वाणे गुरुवासरे 'ले' प्राप्तः। व्योमसेनामुख्यः आर् के एस् भदौरियः अपि पूर्व 'एयर् कमान्ड्' स्थानस्य विविधप्रदेशेशानां सैनिकसंविधानस्य विशकलनं कृतवान्।

Thursday, September 3, 2020

 भारत-चीनसीमायां युद्धसमाना जाग्रता। 

भारतीयसैनिकाः मृता इति अस्थिरीकृतसूचना। 

   नवदिल्ली>  पूर्वलडाके पांगोङ् तटाकस्य दक्षिणभागे वर्तमानानि तन्त्रप्रधानानि पर्वतस्थानानि सङ्ग्रहीतुं चीनराष्ट्रस्य उत्साहमभिज्ञाय भारत-चीनसीमायां युद्धसमाना जाग्रता। गतदिने संवृत्ता उभयोः राष्ट्रयोः ब्रिगेड कमान्डर्स्तरचर्चा सफलातां  नाप। अनुस्यूततया तृतीयवारमेव चर्चा विफलतां प्राप्ता। 

  शनि रवि वासरद्वये पांगोङ् चुषूलप्रान्तेषु चीनसैन्येन कृते प्रकोपनपदक्षेपे निरुद्धे भारतस्य सविशेषसेनान्तर्भूताः टिबट्टीयसैनिकाः मृता इति अन्ताराष्ट्रवार्ताप्रणालिकया ए एफ् पि इत्यनया सूचितमासीत्। किन्तु एतस्य आधिकारिकं स्थिरीकरणं न लब्धम्। 

  सीमासु सर्वत्र सेनाबलं संवर्धयितुं रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां सम्पन्ने उन्नततलोपवेशने निर्णयः कृतः।

 "पब्जिम्" अभिव्याप्य ११८ चीनीय विधानानि भारतेन निरुद्धानि। 

    नवदिल्ली>  भारत-चीनासीम्नि युद्धसमानजाग्रतायां वर्तमानायां ११८ चीनीयानि विधानानि (Apps) केन्द्रसर्वकारेण निरुद्धानि। निरुद्धेषु पब्जी, कां कार्ड, बेय्डु, कट् कट्, ट्रान्सेन्ड् इत्यादीनि  जनप्रियानि क्रीडापिधानानि च अन्तर्भवन्ति। 

  भारत चीनासीमायां संघर्षः पूर्वाधिकं वर्तते। अतः 'भारतीय ऐ टि नियमस्य' ६९-ए अनुच्छेदानुसारं राष्ट्रसुरक्षामालक्ष्य एवायं पदक्षेपः। राष्ट्रस्य परमाधिकारस्य ऐक्यस्य सुरक्षायाः च विरोधे एतानि विधानानि प्रवर्तितानीति सर्वकारेण बहिर्नीतायां वार्तासूचनायां प्रस्तुतमस्ति।

Wednesday, September 2, 2020

 प्रणबाय विश्वनेतॄणां समादरः। 

    नवदिल्ली>  भारतस्य भूतपूर्वराष्ट्रपतेः प्रणबमुखर्जेः निर्याणे बहवः राष्ट्रनेतारः समादरं समर्पितवन्तः। १९७१ तमवर्षे बङ्लादेशविमोचनयुद्धे प्रणबस्य अविस्मरणीयं सुधीरं च भागभागित्वं सुस्मृत्वा देशस्य राष्ट्रपतिः अब्दुल् हमीदः प्रधानमन्त्रिणी षेख् हसीना च प्रणबस्य वियोगे अनुशोचितवन्तौ। राष्ट्रे एकदिवसीयदुःखाचरणं प्रख्यापितम्।  बङ्लादेशस्य राष्ट्रपताकां दिनैकं विनम्रं करिष्यति च। 

  नेप्पालाय यथाथमित्रस्य नष्ट एवाभवदिति राष्ट्रपतिः बिदिया देविभण्डारिः 'ट्विटर'द्वारा स्वीयादरं प्रकाशितवान्। प्रधानमन्त्री के पि शर्मा ओली, नेप्पालस्य कम्यूणिस्ट् राजनैतिकदलस्य अध्यक्षः पुष्पकमल दहल प्रचण्डः च स्वकीयानुशोचनं प्राकाशयत्। 

 तथा श्रीलङ्का, इस्रयेलः, रूस्, यू एस् अफ्खानिस्थानं, मालिद्वीपः इत्यादीनां राष्ट्राणां नेतारश्च प्रणब मुखर्जी वर्यस्य देहवियोगे दुःखं प्रकाश्य आदरं समर्पितवन्तः।

 प्रणबस्य अन्त्येष्टिः संवृत्ता। 

     नवदिल्ली>  गतदिने दिवंगतस्य भूतपूर्वस्य राष्ट्रपतेः प्रणब् मुखर्जी वर्यस्य अन्येष्टिः कुजवासरे मध्याह्नात्परं द्विवादने दिल्ल्यां लोधिमार्गे विद्युत्श्मशाने सम्पूर्णौद्योगिकबहुमतिभिः सम्वृत्ता। 

  कोविड्नियमाननुसृत्य आसीत् कार्यक्रमाः। 'पि पि ई' आवरणं धृत्वा पुत्रः अभिजितः अन्त्यकर्माणि निरवहत्। अन्ये अपत्ये इन्द्रजितः शर्मिष्ठा इत्येते च  कर्मसु भागं अग्रहीताम्। 

 कोविड्बाधया दिल्लीस्थे सैनिकातुरालये चिकित्सायां वर्तितः प्रणब मुखर्जी  सोमवासरे ५.३० वादने  इहलोकवासं त्यक्तवान्। ह्यः प्रभाते १० वादने तस्य भौतिकशरीरं  राजाजिमार्गस्थं स्ववासगृहं प्राप्तम्। सामाजिकदर्शनं नासीत्। तत्स्थाने प्रकोष्ठान्तरे स्थापितस्य तस्य छायाचित्रस्य पुरतः राष्ट्रपतिः , उपराष्ट्रपतिः, प्रधानमन्त्री, राहुल गान्धी इत्यादयः अन्याञ्जलिं समर्पितवन्तः।

 नियन्त्रणानां निष्कासनेन गुरुतरः प्रत्याघातः भविष्यति -WHO

      जनीव> कोविड्१९ व्यापनं रोद्धुं प्रचाल्यमानात् सुरक्षाबन्धनात् विमुक्तिमुद्दिश्य राष्ट्रैः क्रियमाणानि प्रवर्तनानि आपत्कराणि इति विश्वस्वास्थ्य-संस्थया पूर्वसूचना दत्ता। वैराणुः इतः पर्यन्तं नियन्त्रणातीतः भवति। अत एव नियन्त्रण निवारणं अवश्यकं वा इति सम्यक् पर्यालोचयतु इति संस्थायाः निर्देशकेन टेड्रोस्  अथनो गब्रियेसूस् इत्याख्येन निर्दिष्टानि। 

Monday, August 31, 2020

 भारतस्य भूतपूर्वराष्ट्रपतिः प्रणब मुखर्जी  दिवङ्गतः।


   नवदिल्ली> भारतस्य भूतपूर्वराष्ट्रपतिः तथा राजनीति मण्डण्डलस्य  सौम्यप्रभाववान्  प्रणब मुखर्जी दिवङ्गतः। पञ्च अशीतिवर्ष देशीयोऽयम् कोविड् १९ वैराणुना बाधितः आसीत्। पञ्चाशत् वर्षाणि यावत् भारत राजनीति मण्डले जाज्वल्यमानः आसीत् अयम्। दिल्लीस्थे सैनिक आतुरालये चिकित्सायाम् असीत्। महोदयस्य पुत्रेण अभिजित् मुखर्जिना दिवङ्गतवार्ता अधुनैव आवेदिता।

Sunday, August 30, 2020

 ‘मनोगतम् [०२.१५] ‘मनकीबात’प्रसारण-तिथि: ३०–अगस्त-मासः, २०२०  

       [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]


     मम प्रियाः देशवासिनः, नमस्कारः | सामान्यतया कालोऽयम् उत्सवस्य भवति, नैकत्र मेलकानि आयोज्यन्ते, धार्मिक-पूजापाठाः विधीयन्ते | कोरोना-संकट-कालेsस्मिन्  जनेषु उल्लासस्तु अस्ति, उत्साहः अपि वर्तते, किञ्च,  अस्माकं मनान्सि संस्पृशेत्, तादृशम् अनुशासनम् अप्यस्ति |  सुबहु एकरूपेण पश्याम, चेत् नागरिकेषु दायित्वस्य अनुभूतिः अपि अस्ति | जनाः स्वीयावधानं सन्धारयन्तः, अपरेषाम् अवधानं

 भारत-पाक्सीमायां कन्दरम् अधिगतम्। 

       जम्मू >  भारत-पाकिस्थानयोः अन्ताराष्ट्रसीमावृत्याः अधस्तात् निर्मितमेकं कन्दरं सीमारक्षासेनया  अधिगतम्। पाकिस्थानात् भारतं प्रति आतङ्कवादिनां प्रवेशाय तथा उन्मादवस्तूनां कुनयनाय एवेदं निर्मितमिति सीमारक्षण-सेनायाः निगमनम्। 

  २५ पादपरिमिते गर्ते आसीदस्य निर्माणं प्रवृत्तम्। चतुर्पादपरिमितः विस्तृतिरप्यस्ति। यन्त्रसाह्येन निरीक्षणे सीमातः १७४ मीटर् दूरं यावत् कन्दरस्य दैर्घ्यं दृष्टम्। 

  कन्दरस्य मुखपिधानाय उपयुक्तेषु पलास्तिकमृत्स्यूतेषु कराच्ची तथा शकर्खड् इत्यादिषु प्रदेशेषु वर्तमानानाम् उद्योगशालानां मुद्राः निर्माणदिनाङ्कः उपरमदिनाङ्कश्च मुद्रिताः सन्ति। अतः समीपकाले एवास्य निर्माणं प्रवृत्तमिति स्पष्टम्।

Friday, August 28, 2020

 न्यूसिलान्ट् भीकराक्रमणम् - अपराधिनः आजीवनान्तम् स्वतन्त्रतारहितः कारागृहवासः। 

      न्यूसिलान्ट्  >  अस्मिन् राष्ट्रे २०१९ मार्च् १५ तमदिनाङ्के आराधनालयद्वयम् अतिक्रम्य ५१ प्रर्थनानिरतान्  जनान् भुषुण्डिप्रयोगेण हतवान् अपराधिः आस्ट्रेलियादेशीशयः ब्रिन्टण् हारिसण् टारन्ट् नामकः न्यूसिलान्ट् नीतिपीठेन आजीवनान्तं स्वतन्त्रतारहिताय कारागारवासाय विहितः। 

  मनुष्यत्वरहिता अत्यधिकं निन्द्या क्रूरा च हत्या एव २९ वयस्केन टारन्टेन कृत इति न्यायाधीशेन कामरूण् मान्डर् इत्यनेन निरीक्षितम्। न्यूसिलान्ट् राष्ट्रे कञ्चनापराधिनं बहिर्गमनावसररहितेन [None parole] दण्डः इदंप्रथममस्ति। 

  अक्रममतिजीवितवन्ताः रक्षां प्राप्तवन्ताश्च हर्षारवेण विधिं स्वागतीचक्रुः। आजीवनान्तनिश्शब्दता एव अपराधिरर्हतीति राष्ट्रस्य प्रधानमन्त्रिण्या जसीन्दा आर्डेन् इत्यनया उक्तम्।

Wednesday, August 26, 2020

 एम् वि श्रेयांस् कुमारः राज्यसभां प्रति चितः। 

       अनन्तपुरी> केरलतः वामपक्षदलीयस्थानाशी  लोक तान्त्रिक जनतादलस्य [एल् जे डि] राज्याध्यक्षः एम् वि श्रेयांस्कुमारः राज्यसभासदस्यरूपेण चितः। यू डि एफ् स्थानाशिनं लाल् वर्गीस् कल्पलवाडि नामकं सः पराजितवान्। ४१ विरुध्य ८८ मतदानैः श्रेयांस् कुमारः विजयीभूतः। 

  राज्यसभासदस्यस्य एम् पि  वीरेन्द्रकुमारस्य वियोगेन रिक्तस्थानमुद्दिश्य आसीत् निर्वाचनं सम्पन्नम्। कोविड् नियमान् परिपाल्य अासीत् निर्वाचनम्।

Tuesday, August 25, 2020

उत्तरकोरियाराष्ट्रपतिः किं जोङः अस्तप्रज्ञः वर्तते? 

     सोल्> उत्तरकोरियायाः राष्ट्रपतिः किं जोङ् उन् इत्येषः अस्तप्रज्ञः वर्तते, तस्य सोदरी किं यो जोङ् अधिकानि देशीयान्तर्देशीयप्रकरणानि स्वीकृत्य व्यवहरतीति वृत्तान्तः बहिरागच्छति। दक्षिणकोरियायाः भूतपूर्वः राष्ट्रपतिः किं दे जङ् इत्यस्य राजनैतिककार्यसचिवरूपेण वर्तितं चाङ् सोङ् मिन् इत्यमुमुद्धृत्य दक्षिणकोरियस्था वृत्तान्तपत्रिका  'दि कोरिया हेराल्ड्' इत्यनया एवेयं वार्ता बहिरागता। 

  सामाजिकवेदिकासु बहुकालं यावत् किं जोङ् उन्नः न प्रत्यक्षीभूतः। सः रोगबाधितः इत्यत एव सोदर्या प्रशासनव्यवहारः क्रियते इति सूच्यते।

Monday, August 24, 2020

 अफ्गानिस्थाने आतङ्किनः आक्रमणम् - सप्तजनाः मारिताः।

  काबूल्> अफ्गानिस्थाने प्रवृत्तेन विस्फोटनेन त्रिभिः शिशुभिः सह सप्तजनाः मृताः।  गसनि प्रविश्यायाः जगतु जनपदे ह्यः प्रातः आसीत् इयं दुर्घटना। मार्गपार्श्वे स्थापिते बोम्ब् विस्फोटके कार् यानस्य घट्टनेन एव स्फोटनमभवत्। किन्तु आक्रमणस्य उत्तरदायित्वम् इतःपर्यन्तं कोऽपि न स्वीकृतम्। तालिबानेन सह सन्धिचर्चा प्रचाल्यमानः कालः आसीत् अयम्। विगतेन षण्मासाभ्यन्तरेण 1282 जनाः आतङ्किनाम् आक्रमणेन निहताः इति यु एन् सङ्घटनेन आवेदितम्।