OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 17, 2020

 भारते कोविड्मरणानि ५०,००० अतीतानि।

  • रोगमुक्तिप्रतिशतता ७२। 
  • मृत्युप्रतिशतता २ ।

       नवदिल्ली> भारते कोविड्रोगबाधया मृतानां संख्या पञ्चाशत्सहस्रमतीता। गतदिने ९४४ जनाः मृत्युमुपगता इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। आहत्य मरणानि ५०,१२२ । 

  २५,९४,११२ जनाः अद्यावधि राष्ट्रे कोविड्बाधिताः अभवन्। सम्प्रति प्रतिदिनसंक्रमणसंख्या षष्टिसहस्रमतीता। शनिवासरे ६३,४९० जनेषु रोगबाधा  दृढीकृता। विश्वस्मिन् भारतम् एतस्मिन् विषये तृतीयस्थानमावहति। 

  किन्तु रोगमुक्तिप्रतिशतता ७२ इत्याश्वासदायकं वर्तते। १८.६३ लक्षं जनाः विरुजः जाताः। मृत्युमानमपि १.९३ इति न्यूनतरं वर्तते।

Sunday, August 16, 2020

 वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते - भारतीय वैज्ञानिकाः।

   

नवदिल्ली> निरन्तर -जनितक-परिवर्तनेन सह कोविड् वैराणुः आविश्वं व्याप्यते इत्यस्ति नूतनम् आवेदनम्। वुहानतः समागतेषु नोवल् कोरोणवैराणुषु  ७३ भेदाः विद्यन्ते इति भारतीयवैज्ञानिकैः प्रत्यभिज्ञातम्। नवदिल्लीस्थायाः सि एस् ऐ आर् संस्थायाः तथा भुवनेश्वरे विद्यमानायाः औषधविज्ञानीय-संस्थायाः गवेषकाः मिलित्वा अध्ययनं कृतवन्तः। १५३६ अदर्श अंशाः अध्ययनाय उपयुक्ताः। B1.112, B.1.99 इति द्वे पङ्क्ती अपि भारते इदं प्रथमतया दृष्टा इति अनुसन्धातृभिः उक्तम्।

Saturday, August 15, 2020

 प्राथमिकपरीक्षणे 'कोवाक्सिन्' सुरक्षितम्।  

      नवदिल्ली> कोविड्रोगं प्रतिरोद्धुं भारतेन निर्मितं कोवाक्सिन् नामकं प्रत्यौषधं तस्य प्राथमिकसोपानपरीक्षणे विजयी अभवत्। दिल्लीस्थस्य  'एयिंस्' - AIMS - आतुरालयस्य निरीक्षणत्वेन आराष्ट्रं व्याप्यासु १२ संस्थासु ३७५ चितेषु जनेषु क्रियमाणं परीक्षणम् आगस्ट् मासे सम्पूर्णतामेष्यति। द्वितीयसोपानं सेप्तम्बरमासस्य प्रथमसप्ताहे आरप्स्यते। 

  प्रत्यौषधस्वीकर्तृषु अद्यावधि यः कोपि विशेषः न दृष्ट, ते सर्वे सुरक्षिताः वर्तन्त इति एयिंस् गवेषकप्रमुखः सञ्जय् रायः उक्तवान्। २०२१ संवत्सरस्य प्रथमार्धे प्रत्यौषधं सार्वत्रिकोपयोगाय विधातुं प्रतीक्षते इति तेनोक्तम्।


आत्मनिर्भरभारतम् इत्ययं १३० कोटि जनानां मन्त्रः अभवत् - नरेन्द्रमोदी।

    नवदिल्ली> 'सेवा परमो धर्मः' इति मन्त्रम् उदीर्य  कोविड् वैराणुं विरुद्धय युद्धं कुर्वन्तः वीराः  जनसेवां कुर्वन्ति इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। तान् प्रति कृतज्ञतां प्रकाशयति इति सः अवदत्।  स्वातन्त्रतादिनसमारोहे रक्तदुर्गे राष्ट्रं प्रति अभिसंबोधनं कुर्वन्नासीत्  प्रधानमन्त्री। इदानीं वयं दुष्टकालेन सह गच्छन्तः भवामः। स्वतन्त्रतायैः युद्धं कृताः वीरपुरुषाः अस्मिन् दिने अस्माभिः स्मर्तव्याः। अपि च अस्माकं सुरक्षायैः तिष्टतः सैनिकान् प्रति  धन्यवादार्पणाय भवति इदं दिनम्। कोविड् महाव्याधिकाले भारतीयाः स्वाश्रयाय दृढनिश्चयं कृतवन्तः अभवन्। आत्मनिर्भरं भारतम् इति भारतम् अधुना चिन्तयति। १३० कोटि जनानां स्वप्नरूपेण मन्त्ररूपेण च परिवर्तितः आत्मनिर्भरं भारतम् इति मोदिना उक्तम्।

Thursday, August 13, 2020

इस्रयेल यु ए ई राष्ट्रयोर्मध्ये ऐतिहासिकः सन्धिः। मध्यस्थः ट्रम्पः।

    वाषिङ्टण्> यु एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य माध्यस्थमेलनेयू ए ई इस्रयेल् देशयोर्मध्ये ऐतिहासिकः सन्धिः अभवत् । सन्ध्यनुसारं पालस्तीनप्रदेशान् अधीनं कर्तुं शासनस्थापनाय कृतः यत्नः स्थगनीयः इति निर्देशः इस्रयेलेन अङ्गीकृतः इति 'वैट् हौस्' तथा यु ए ई च आवेदयतः। एतयोः मध्ये परस्पर-साह्यकरणाय सन्धिः च कृतः। बहुकालं यावत् प्रचलितायाः चर्चायाः फलप्राप्तिः एव सन्धिरूपेण अधुना प्रकाशिता। ट्रम्पस्य माध्यस्थ चर्चायाम् अबुदाबि किरीटाधिकारि मुहम्मद् बिन् सायिद् अल् नह्यान् इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहु च दूरवाणिद्वारा भाषणं कृत्वा आसीत् सन्धिप्रक्रमाः आरब्धाः।

Tuesday, August 11, 2020

आत्मनिर्भरं विधातुं दिशयाम् - रक्षामन्त्रालयस्य निर्णयः ।

आत्मनिर्भरं विधातुं दिशयाम् - रक्षामन्त्रालयस्य निर्णयः।

 रक्षामन्त्रिणा राजनाथसिंहेन उक्तम् एकाधिकशतम् रक्षोपकरणानाम् आयातिकरणे प्रतिबंधः करिष्यति। 

राजनाथसिंहेन रविवासरे आत्मनिर्भरभारतं विधातुं दिशायाम् महत्वपूर्णाः घोषणाः कृतवान्। तेन विदेशेषु निर्मितेषु शताधिकेषु रक्षोपकरणेषु प्रतिबंधः प्रवर्तिष्यते। भारतराष्ट्रे एव रक्षोपकरणानां स्वतः निर्माणं कर्तुं अवकाशः प्रदास्यति। एतस्मात् राष्ट्रस्य आपणाः सुदृढ़ाः भविष्यन्ति। रक्षा अनुसन्धानः एवं विकास संगठनेन पूर्वरचितं रुपरेखानुसारेण साहाय्यः क्रियते। चीनभारतयोर्मध्ये लद्दाखस्य काचित् क्षेत्रेषु अधुनापि सङघर्षः प्रचलति।

Monday, August 10, 2020

 “राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।


-डा.भारती शर्मा 

-आचार्य: रामकृष्णशास्त्री  च (जयपुरम्)

       द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत्  नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् । 

मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।        

इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः  विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद्  भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति। 

इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते । 

14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन  विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये  हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।

अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च  अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।

एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।  

भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।


आन्ध्रप्रदेशे कोविड् आतुरालये अग्निबाधा - दश मरणानि।

विजयवाडा> आन्ध्रप्रदेशे विजयवाडस्थे कस्मिंश्चित् कोविड् परिचर्यालयगृहे रविवासरे उषसि दुरापन्नायामग्निबाधायां दश जनाः मृताः। कोविड्रोगिणां चिकित्सार्थं निजीयातुरालयेन भाटकरूपेण विधत्ते गृहे आसीदियं दुर्घटना। ४० रुग्णाः १० परिचारकजनाश्चात्रासन्। मृताः सर्वे रोगबाधिता इति प्रस्तूयन्ते। 'Short circuit' नामकहेतुना एव दुर्घटना जातेति गृहमन्त्रिणा एम् सुचैत्रेणोक्तम्।

Sunday, August 9, 2020

राष्ट्रियस्वच्छताकेन्द्रं प्रधानमन्त्रिणा उद्घाटितम्।

नवदिल्ली> स्वच्छभारताभियोजनायाः प्रवर्तनानि अनुभवानि च साधारणीकर्तुम् उद्दिश्यमाना वेदिका - 'राष्ट्रिय स्वच्छताकेन्द्रं' नामिका प्रधानमन्त्रिणा नरेद्रमोदिना उद्घाटिता। राजघट्टस्थे 'गान्धिस्मृति&दर्शनसमिति' इत्याख्ये स्थाने आरब्धमिदं केन्द्रं महात्मागान्धिनः स्मरणाय समर्प्यतेति प्रधानमन्त्रिणा उक्तम्। २०१४ तमादारभ्य आभारतं सम्पन्नानि स्वच्छताप्रवर्तनानि , 'अनावृतशौचं' विरुध्य प्रचालितानि प्रचारणप्रवर्तनानि च अन्तर्भूतानां 'डिजिटल्' प्रकारेण इतरेण च वर्तमानानि दृश्यानि वृत्तान्ताश्च तत्रान्तर्भवन्ति। प्रभाते अष्टवादनादारभ्य सायं पञ्चवादनपर्यन्तं सामान्यजनेभ्यः दर्शनव्यवस्था अस्ति। स्वतन्त्रतादिनपर्यन्तं सप्ताहं यावत् 'मालिन्यरहितभारतम्' इत्यस्मै स्वच्छताप्रवर्तनानि सम्पत्स्यन्ते।

केरले अतितीव्रवृष्टिः - नैकेषु जनपदेषु प्रलयदुष्प्रभावः।

कोच्ची> द्वित्रैः दिनात्मकैः केरले अतितीव्रा वृष्टिरनुवर्तते। बहुषु जनपदेषु प्रलयप्रभावः दुरापन्नः। जलोपप्लवेन तिरुवनन्तपुरं, कोल्लं जनपदद्वयं विहाय सर्वेषु जनपदेषु गमनागमनस्थगनं , भूस्खलनं, निवासनाशः, मरणानि च अभवन्। कोट्टयं जनपदे 'एम् सि रोड्' नामको राष्ट्रियमार्गः प्रलयजले मग्नः इत्यतः गमनागमनं स्थगितम्। यात्रिकेण सह एकं कार् यानं जलप्रवाहे अप्रत्यक्षमभवत्। आलप्पुष़ा, कोट्टयं, एरणाकुलं, वयनाट् , कासर्गोड् , कोष़िक्कोट् जनपदेषु जनाः स्वावासगृहाणि त्यक्त्वा समाश्वासशिबिराणि प्रविष्टाः। कुट्टनाट् प्रान्तेषु जलोपप्लवदुष्प्रभावेन कार्षिकनाशः जन्तुनाशश्चाभवत्। सर्वासु जलसम्भरणीषु जलवितानं तासामुच्चतमाङ्कनं प्राप्तवदस्ति।

Saturday, August 8, 2020

विश्वस्मिन् कोविड्बाधिताः १.९४कोटिजनाः।

 वाषिङ्टण् >  आविश्वं कोविड्-१९ रोगबाधितानां संख्या १.९४कोटिमुपगच्छति। अद्यावधि ७.१८ लक्षं जनाः मृत्युवशं गताः। १.२४कोटिजनाः स्वस्थीभूताः जाताः।

  गतदिने अशीतिसहस्राधिकाः जनाः रोगबाधिताः अभवन्। मरणानि तु द्विसहस्राधिकम् अभवन्। यू एस् , भारतं, रूस् , मेक्सिको, इरानः, इराखः, यू के, बङ्ग्लादेशः इत्येतेषु राष्ट्रेषु रोगबाधा मरणानि च अधिकतया वर्तन्ते।

Friday, August 7, 2020

केरले विमानदुर्घटना- १४ मरणानि ; १२३ आहताः

कोष़िक्कोट् > केरले कोष़िक्कोट् जनपदस्थे करिप्पूरविमाननिलये दुबाय्तः प्राप्तं एयर् इन्डिया संस्थायाः १३४४ इति एक्स् प्रेस् विमानं अवतरणमार्गात् स्खलित्वा जातायां दुर्घटनायां १४ जनाः मृताः। अद्य रात्रौ ७.४० वादने आसीदियं दुर्घटना।  मृत्युसंख्या अधिका भविष्यतीति सूच्यते। १२३ जनाः आहताः विविधेषु आतुरालयेषु प्रवेशिताः। तेषु २५ यात्रिकानां स्थितिः आशङ्काजनका वर्तते।  पर्यावरणस्य दुष्प्रभाव एव दुर्घटनाहेतुरिति सूच्यते। 

  वन्दे भारतदौत्ये अन्तर्भूतं विमानमेव दुर्घटनाग्रस्तमभवत्। अवतरणसमये महती वृष्टिरासीत् इत्यतः नियन्त्रणविनष्टं विमानं मार्गात् स्खलित्वा त्रिशत्पादपरिमिताम् अगाधतामपतत्। निपातस्य आघातेन विमानं द्विधा छिन्नमभवत्। विमाने आहत्य १९१ जनाः आसन्निति सूच्यते। 

  विमानचालकः सहचालकश्च मृतेषु अन्तर्भवतः।

संस्कृतभारत्याः केरलराज्यस्तरीयं मेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।

कालटी> संस्कृतभारत्याः (विश्वसस्कृतप्रतष्ठानं)  केरलराज्यस्तरीयं वार्षिकमेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।  सूम् आप् द्वारा भवति मेलनम्।  प्रातः ११ वादनतः मध्याह्नानन्तरं १ वादनपर्यन्तं सञ्चाल्यमाने मेलने  केन्द्रविदेशकार्यमन्त्री वी मुरलीधरः उद्घाटनं करिष्यति। डा. पी के माधवः, दिनेशकामत चलच्चित्र निर्देशक: विजीष् मणि, पि एन् ईश्वरः च प्रभाषणं  करिष्यन्ति । 

केरले भूस्खलनेन महान् दुरन्तः ; चत्वारि मरणानि , अनेके दुर्घटीभूताः।

 इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ  महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः। 

 राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति। 

  तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन  आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।

रजतशिलान्यासेन प्रधानमन्त्रिणा मोदिना रामदेवालयस्य निर्म्माणं प्रारब्धम् |

   अयोध्या> श्रीराम जन्मभूम्यां 'राम लल्ल' देवालयस्य निर्म्माणसमारम्भः समभवत् । प्रधानमन्त्रिणा मोदिना भारतराष्ट्रस्य प्रतिनिधी भूत्वा रजतशिलान्यासेन शिलान्यासमकरोत् । राष्ट्रकल्याणाय भवति इदम् इति सङ्कल्पपूर्वकं मन्त्रोच्चारणेन सह आसीत् क्रियाकलापः।  ४० किलोमिता भवति रजतशिला। राष्ट्रिय स्वयंसेवक सङ्घस्य अध्यक्षः मोहन भागवतः उत्तरप्रदेशस्य राज्यपालिका आनन्दी बन पट्टेलः मुख्यमन्त्री योगी आदित्यनाथ-प्रभृतयैः आनीतैः नवशिलाः च स्थापितेषु सन्ति। क्रिया कलापानन्तरम् देवालय चित्रमुद्रितम् निर्यासमुद्रा (Stamp) प्रधानमन्त्रिणा प्रकाशिता। देवालयभूमौ शिलान्यासात् पूर्वं पारिजातस्य बालवृक्षरोपणमपि तेन कृतम्। प्रधानमन्त्रिणं विहाय १८५ जनाः भागभाजः अभवन्। तेषु १३५ सन्यासिनः च आसन्। 

Wednesday, August 5, 2020

संस्कृतदिनाशंसया - प्रधानमन्त्रिणः नरेन्द्रमोदिनः ट्विट्टर् सन्देशः

  अद्य संस्कृतदिवसे ये संस्कृतभाषां पठन्ति तथा च जनेषु तस्याः प्रचारार्थं प्रयासं कुर्वन्ति तान् सर्वान् प्रणमामि। संस्कृतभाषा सुन्दरी भाषा अस्ति किञ्च सहस्रशः वर्षेभ्यः अस्माकं श्रेष्ठायाः संस्कृत्याः भागभूता अस्ति। आगामिषु वर्षेषु संस्कृतभाषायाः लोकप्रियता नितराम् अभिवर्धताम्।

Monday, August 3, 2020

भारतस्य गृहमन्त्री अमितशाहः कोविड्बाधितः।


 नवदिल्ली > भारते प्रमुखाः कोविड्रोगाधीनाः जायन्ते। राष्ट्रस्य गृहमन्त्री अमित शाहः कोविड्रोगबाधितः आतुरालयं प्राविशत्। अमित शाहः स्वेनैव  रोगबाधावृत्तान्तं ट्विटर्द्वारा विज्ञापितवान्। 
  पञ्चदिनेभ्यः पूर्वं केन्द्रमन्त्रिसभामण्डलस्य उपवेशने भागं गृहीतवान्। ह्यः  कोविड्रोगस्य लक्षणानि प्रकटितवानासीत्। भिषग्वराणाम् उपदेशानुसारं आतुरालयवासः चितः। गुरुग्रामस्थे मेदान्तातुरालये एव प्रविष्टः अस्ति। तस्य स्वास्थ्यावस्था उत्तमा इति आतुरालयवृत्तैः सूचितम्।

सम्पादकस्य सन्देशः

प्रियसंस्कृत-बान्धवाः सर्वेभ्यो मम सादरनमस्कारः। 
   अद्य संस्कृतदिनम्। अत एव सर्वेषां संस्कृतप्रेमिणां मोदाय दिनमिदम् इति मन्ये। संस्कृतं न केवलं भारतीयभाषा अपि च विश्वभाषाकुले विस्मयं जनयति एषा भाषाजननी। अतः वयं तादृश्याः भाषायाः कानिचनवाक्यानि वक्तुम् प्रभवामः इत्यनेन अभिमानिन: भवामः।  ललित-कोमल-मधुर मञ्जूषा एषा भाषा मानव संस्कृतेः वाहिनी एव भवति। एवं प्रकारेण बहुधा वक्तुं शक्यते- किन्तु एवम् उक्त्वा किं प्रयोजनम् ?  अस्माकं जीवने निरन्तरोपयोगेन संस्कृतभाषायाः संवर्धनम् एव कार्यम्। केवलम् इतिहास पुराणान्तर्गता भाषा न अपि च वैज्ञानिक ग्रन्थे विद्यमान अन्यून-विज्ञान-सागर-धारिणी च भवति भाषा - अस्मिन् संस्कृतदिने अस्माकं प्रतिज्ञा एवं भवतु - अहं संस्कृतेन भाषणं करिष्यामि मम चिन्ता अपि अधुना आरभ्य संस्कृतेन भविष्यामि। संस्कृतदिनस्य शुभकामनापुरसरं सर्वेभ्यो मम धन्यवादः॥
- अय्यम्पुष़ हरिकुमारः
मुख्यसम्पादकः