OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 9, 2020

राष्ट्रियस्वच्छताकेन्द्रं प्रधानमन्त्रिणा उद्घाटितम्।

नवदिल्ली> स्वच्छभारताभियोजनायाः प्रवर्तनानि अनुभवानि च साधारणीकर्तुम् उद्दिश्यमाना वेदिका - 'राष्ट्रिय स्वच्छताकेन्द्रं' नामिका प्रधानमन्त्रिणा नरेद्रमोदिना उद्घाटिता। राजघट्टस्थे 'गान्धिस्मृति&दर्शनसमिति' इत्याख्ये स्थाने आरब्धमिदं केन्द्रं महात्मागान्धिनः स्मरणाय समर्प्यतेति प्रधानमन्त्रिणा उक्तम्। २०१४ तमादारभ्य आभारतं सम्पन्नानि स्वच्छताप्रवर्तनानि , 'अनावृतशौचं' विरुध्य प्रचालितानि प्रचारणप्रवर्तनानि च अन्तर्भूतानां 'डिजिटल्' प्रकारेण इतरेण च वर्तमानानि दृश्यानि वृत्तान्ताश्च तत्रान्तर्भवन्ति। प्रभाते अष्टवादनादारभ्य सायं पञ्चवादनपर्यन्तं सामान्यजनेभ्यः दर्शनव्यवस्था अस्ति। स्वतन्त्रतादिनपर्यन्तं सप्ताहं यावत् 'मालिन्यरहितभारतम्' इत्यस्मै स्वच्छताप्रवर्तनानि सम्पत्स्यन्ते।

केरले अतितीव्रवृष्टिः - नैकेषु जनपदेषु प्रलयदुष्प्रभावः।

कोच्ची> द्वित्रैः दिनात्मकैः केरले अतितीव्रा वृष्टिरनुवर्तते। बहुषु जनपदेषु प्रलयप्रभावः दुरापन्नः। जलोपप्लवेन तिरुवनन्तपुरं, कोल्लं जनपदद्वयं विहाय सर्वेषु जनपदेषु गमनागमनस्थगनं , भूस्खलनं, निवासनाशः, मरणानि च अभवन्। कोट्टयं जनपदे 'एम् सि रोड्' नामको राष्ट्रियमार्गः प्रलयजले मग्नः इत्यतः गमनागमनं स्थगितम्। यात्रिकेण सह एकं कार् यानं जलप्रवाहे अप्रत्यक्षमभवत्। आलप्पुष़ा, कोट्टयं, एरणाकुलं, वयनाट् , कासर्गोड् , कोष़िक्कोट् जनपदेषु जनाः स्वावासगृहाणि त्यक्त्वा समाश्वासशिबिराणि प्रविष्टाः। कुट्टनाट् प्रान्तेषु जलोपप्लवदुष्प्रभावेन कार्षिकनाशः जन्तुनाशश्चाभवत्। सर्वासु जलसम्भरणीषु जलवितानं तासामुच्चतमाङ्कनं प्राप्तवदस्ति।

Saturday, August 8, 2020

विश्वस्मिन् कोविड्बाधिताः १.९४कोटिजनाः।

 वाषिङ्टण् >  आविश्वं कोविड्-१९ रोगबाधितानां संख्या १.९४कोटिमुपगच्छति। अद्यावधि ७.१८ लक्षं जनाः मृत्युवशं गताः। १.२४कोटिजनाः स्वस्थीभूताः जाताः।

  गतदिने अशीतिसहस्राधिकाः जनाः रोगबाधिताः अभवन्। मरणानि तु द्विसहस्राधिकम् अभवन्। यू एस् , भारतं, रूस् , मेक्सिको, इरानः, इराखः, यू के, बङ्ग्लादेशः इत्येतेषु राष्ट्रेषु रोगबाधा मरणानि च अधिकतया वर्तन्ते।

Friday, August 7, 2020

केरले विमानदुर्घटना- १४ मरणानि ; १२३ आहताः

कोष़िक्कोट् > केरले कोष़िक्कोट् जनपदस्थे करिप्पूरविमाननिलये दुबाय्तः प्राप्तं एयर् इन्डिया संस्थायाः १३४४ इति एक्स् प्रेस् विमानं अवतरणमार्गात् स्खलित्वा जातायां दुर्घटनायां १४ जनाः मृताः। अद्य रात्रौ ७.४० वादने आसीदियं दुर्घटना।  मृत्युसंख्या अधिका भविष्यतीति सूच्यते। १२३ जनाः आहताः विविधेषु आतुरालयेषु प्रवेशिताः। तेषु २५ यात्रिकानां स्थितिः आशङ्काजनका वर्तते।  पर्यावरणस्य दुष्प्रभाव एव दुर्घटनाहेतुरिति सूच्यते। 

  वन्दे भारतदौत्ये अन्तर्भूतं विमानमेव दुर्घटनाग्रस्तमभवत्। अवतरणसमये महती वृष्टिरासीत् इत्यतः नियन्त्रणविनष्टं विमानं मार्गात् स्खलित्वा त्रिशत्पादपरिमिताम् अगाधतामपतत्। निपातस्य आघातेन विमानं द्विधा छिन्नमभवत्। विमाने आहत्य १९१ जनाः आसन्निति सूच्यते। 

  विमानचालकः सहचालकश्च मृतेषु अन्तर्भवतः।

संस्कृतभारत्याः केरलराज्यस्तरीयं मेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।

कालटी> संस्कृतभारत्याः (विश्वसस्कृतप्रतष्ठानं)  केरलराज्यस्तरीयं वार्षिकमेलनम् आगस्त् ९ दिनाङ्के आयोक्ष्यते।  सूम् आप् द्वारा भवति मेलनम्।  प्रातः ११ वादनतः मध्याह्नानन्तरं १ वादनपर्यन्तं सञ्चाल्यमाने मेलने  केन्द्रविदेशकार्यमन्त्री वी मुरलीधरः उद्घाटनं करिष्यति। डा. पी के माधवः, दिनेशकामत चलच्चित्र निर्देशक: विजीष् मणि, पि एन् ईश्वरः च प्रभाषणं  करिष्यन्ति । 

केरले भूस्खलनेन महान् दुरन्तः ; चत्वारि मरणानि , अनेके दुर्घटीभूताः।

 इटुक्की > केरलस्य इटुक्की जनपदे मून्नार् समीपस्थे राजमला स्थाने ह्यः रात्रौ  महत्भूस्खलनं सञ्जातम्। चत्वारः मृतदेहाः दुर्घटनास्थानात् अभिदर्शिताः। चतुरान् जनान् आतुरालयं प्रवेशिताः। 

 राजमलाप्रदेशस्थे 'कण्णन् देवन्' चायकेदारभूमौ कर्मकराणां निवासस्थाने इयं दुर्घटना दुरापन्ना। उपशतं कर्मचारिणः तत्र निवसन्ति। रात्रौ दुर्घटना अभवदित्यतः कतिजनाः दुर्घटितभूताः जाता इति निर्णयः दुष्करः अस्ति। 

  तृशूरतः दुरन्तनिवारणसेनायाः द्वौ संघौ दुरन्तस्थानं प्रस्थितौ । प्रदेशवासिनां साहाय्येन  आरक्षकाणां संघः एव रक्षाप्रवर्तनं कुर्वन्नस्ति। मार्गमध्ये वर्तमानः 'पेरियवरा'सेतुः भूस्खलने नष्टः जातः इत्यतः रक्षाप्रवर्तकानां दुरन्तस्थानप्राप्तिः दुष्करं वर्तते। ६७ जनाः तत्र लग्नाः इत्यूहते।

रजतशिलान्यासेन प्रधानमन्त्रिणा मोदिना रामदेवालयस्य निर्म्माणं प्रारब्धम् |

   अयोध्या> श्रीराम जन्मभूम्यां 'राम लल्ल' देवालयस्य निर्म्माणसमारम्भः समभवत् । प्रधानमन्त्रिणा मोदिना भारतराष्ट्रस्य प्रतिनिधी भूत्वा रजतशिलान्यासेन शिलान्यासमकरोत् । राष्ट्रकल्याणाय भवति इदम् इति सङ्कल्पपूर्वकं मन्त्रोच्चारणेन सह आसीत् क्रियाकलापः।  ४० किलोमिता भवति रजतशिला। राष्ट्रिय स्वयंसेवक सङ्घस्य अध्यक्षः मोहन भागवतः उत्तरप्रदेशस्य राज्यपालिका आनन्दी बन पट्टेलः मुख्यमन्त्री योगी आदित्यनाथ-प्रभृतयैः आनीतैः नवशिलाः च स्थापितेषु सन्ति। क्रिया कलापानन्तरम् देवालय चित्रमुद्रितम् निर्यासमुद्रा (Stamp) प्रधानमन्त्रिणा प्रकाशिता। देवालयभूमौ शिलान्यासात् पूर्वं पारिजातस्य बालवृक्षरोपणमपि तेन कृतम्। प्रधानमन्त्रिणं विहाय १८५ जनाः भागभाजः अभवन्। तेषु १३५ सन्यासिनः च आसन्। 

Wednesday, August 5, 2020

संस्कृतदिनाशंसया - प्रधानमन्त्रिणः नरेन्द्रमोदिनः ट्विट्टर् सन्देशः

  अद्य संस्कृतदिवसे ये संस्कृतभाषां पठन्ति तथा च जनेषु तस्याः प्रचारार्थं प्रयासं कुर्वन्ति तान् सर्वान् प्रणमामि। संस्कृतभाषा सुन्दरी भाषा अस्ति किञ्च सहस्रशः वर्षेभ्यः अस्माकं श्रेष्ठायाः संस्कृत्याः भागभूता अस्ति। आगामिषु वर्षेषु संस्कृतभाषायाः लोकप्रियता नितराम् अभिवर्धताम्।

Monday, August 3, 2020

भारतस्य गृहमन्त्री अमितशाहः कोविड्बाधितः।


 नवदिल्ली > भारते प्रमुखाः कोविड्रोगाधीनाः जायन्ते। राष्ट्रस्य गृहमन्त्री अमित शाहः कोविड्रोगबाधितः आतुरालयं प्राविशत्। अमित शाहः स्वेनैव  रोगबाधावृत्तान्तं ट्विटर्द्वारा विज्ञापितवान्। 
  पञ्चदिनेभ्यः पूर्वं केन्द्रमन्त्रिसभामण्डलस्य उपवेशने भागं गृहीतवान्। ह्यः  कोविड्रोगस्य लक्षणानि प्रकटितवानासीत्। भिषग्वराणाम् उपदेशानुसारं आतुरालयवासः चितः। गुरुग्रामस्थे मेदान्तातुरालये एव प्रविष्टः अस्ति। तस्य स्वास्थ्यावस्था उत्तमा इति आतुरालयवृत्तैः सूचितम्।

सम्पादकस्य सन्देशः

प्रियसंस्कृत-बान्धवाः सर्वेभ्यो मम सादरनमस्कारः। 
   अद्य संस्कृतदिनम्। अत एव सर्वेषां संस्कृतप्रेमिणां मोदाय दिनमिदम् इति मन्ये। संस्कृतं न केवलं भारतीयभाषा अपि च विश्वभाषाकुले विस्मयं जनयति एषा भाषाजननी। अतः वयं तादृश्याः भाषायाः कानिचनवाक्यानि वक्तुम् प्रभवामः इत्यनेन अभिमानिन: भवामः।  ललित-कोमल-मधुर मञ्जूषा एषा भाषा मानव संस्कृतेः वाहिनी एव भवति। एवं प्रकारेण बहुधा वक्तुं शक्यते- किन्तु एवम् उक्त्वा किं प्रयोजनम् ?  अस्माकं जीवने निरन्तरोपयोगेन संस्कृतभाषायाः संवर्धनम् एव कार्यम्। केवलम् इतिहास पुराणान्तर्गता भाषा न अपि च वैज्ञानिक ग्रन्थे विद्यमान अन्यून-विज्ञान-सागर-धारिणी च भवति भाषा - अस्मिन् संस्कृतदिने अस्माकं प्रतिज्ञा एवं भवतु - अहं संस्कृतेन भाषणं करिष्यामि मम चिन्ता अपि अधुना आरभ्य संस्कृतेन भविष्यामि। संस्कृतदिनस्य शुभकामनापुरसरं सर्वेभ्यो मम धन्यवादः॥
- अय्यम्पुष़ हरिकुमारः
मुख्यसम्पादकः

Friday, July 31, 2020

क्रिकेट् - प्रथमा एकदिनस्पर्धा - इङ्ग्लण्ट् दलाय विजयः।
  सताम्प्टण्> कोरोणकालस्य विरामात्परं पुनरारब्धे कायिकमण्डले प्रथमैकदिनक्रिकेट्स्पर्धायाम् अयर्लण्ट् दलोपरि इङ्ग्लण्ट्दलस्य विजयः। स्पर्धायां इङ्ग्लण्ट्दलं षट्भिः क्रीडकैः अयर्लण्ट्दलं पराजयत्। अयर्लण्ट्दलेन दत्तं १७३ धावनाङ्कानां विजयलक्ष्यम् इङ्ग्लण्ट्दलं २७‌.५ ओवर्  मध्ये ४ क्रीडकानां नष्टेन प्रापयत्।
अङ्काः- अयर्लण्ट्दलं १७२/१० (४४.४)  इङ्ग्लण्ट्दलं १७३/४ (२७.५)

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः। 
नवदिल्ली >  'वन्दे भारत'मित्यभियोजनायाः अंशतया अद्यावधि अष्टलक्षाधिकाः प्रवासिजनाः स्वदेशं प्रत्यागता इति विदेशकार्यमन्त्रालयेण निगदितम्। १.०७ लक्षं जनाः नेप्पालं , भूट्टानं , पाकिस्थानम् इत्यादिभ्यः प्रातिवेशिकराष्ट्रेभ्यः भूतलमार्गेण भारतं प्राप्तवन्तः सन्ति। 
  अभियोजनायाः पञ्चमं सोपानं शनिवासरे आरभ्यते। २३ राष्ट्रेभ्यः ७९२ विमानानि सेवां करिष्यन्ति। अमेरिक्का ,कानडा, यू के, जर्मनी , फ्रान्स्, आस्ट्रेलिया, न्यूसीलान्ट्, मलेष्या, फिलिप्पीन्स्, सिंहपुरं, बङ्लागेश्, म्यान्मर् , ताय्लान्ट, चीनः, इस्रायेल्, युक्रेन्, किर्गिस्थानम् इत्येतानि राष्ट्राणि अधिवसन्तः भारतीयाः स्वदेशं नेष्यन्ते। आहत्य १,३०,००० जनाः भारतं प्राप्स्यन्तीति प्रतीक्षते।

Wednesday, July 29, 2020

संस्कृतदिनमहोत्सवस्य उद्‌घाटनम् - डा. बलदेवानन्द सागर

  केरलम्> -संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य अस्य संवत्सरस्य संस्कृतदिनमहोत्सवस्य तथा संस्कृतसप्ताहाचरणस्य उद्‌घाटनं सुप्रसिद्ध संस्कृतवार्तावतारकेषु प्रथमस्थानीयलंकृतः, तथा प्रसारभारत्याः  उपदेशाङ्ग: संस्कृतपण्डितः च,  डा. बलदेवानन्दसागर: करिष्यति। २०२० जूलैमासे ३१ दिनाङ्के प्रातः ११ वादने उद्‌घाटनकार्यक्रम:  विश्व संस्कृतप्रतिष्ठानस्य फैस् बुक् अन्तर्जालद्वारा भविष्यति। विश्वसंस्कृतप्रतिष्ठानस्य एरणाकुलं जनपदस्य अध्यक्षः डा. एटनाट् राजन् नम्प्यार् महाभागः अस्य कार्यक्रमस्य अध्यक्षपदवीं अलङ्करिष्यति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा कोलत्तूर् अद्वैदाश्रमस्य मठाधिपति: चिदानन्दपुरी स्वामिपादाः मुख्यभाषणं करिष्यति।
जूलै ३१तः ओगस्त् ६ दिनाङ्कपर्यन्तं  सायं ५ वादनतः ६ वादनपर्यन्तं "वैखरी" इति नाम्नि संस्कृतप्रभाषणपरम्परा प्रचलिष्यति। अस्य कार्यक्रमस्य उद्घाटनं संबोध् फौण्डेषन्  आचार्य: अध्यात्मानन्दसरस्वती स्वामिपादा: करिष्यति। अनुदिनेषु  डा. पि के माधवः, डा. प नन्दकुमार:,डा. आर् रामचन्द्र:, महामहोपाध्याय डा. जी गङ्गाधरन् नायर:, डा. एम् वि नटेश: , डा. के उण्णिकृष्ण: इत्यादया: प्रमुखवर्या: प्रभाषणं  करिष्यन्ति।

-राजेष् कुमार: ।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्। 
जनावा >  कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्। 
   बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्। 
जनीवा >  कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्। 
   बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।

Tuesday, July 28, 2020

चीनराष्ट्रे ६१ नूतनाः  कोविड् रोगिणः 
एप्रिल् मासानन्तरम् आवेदितम्  उन्नततमं  प्रतिदिनमानम्।
   बैजिङ्> रविवासरे चीन राष्ट्रे कोविड् रोगिणां संख्या ६१ इति  आवेदितम्। अस्मिन् ५७ जनाः प्रादेशिक-सम्पर्केण इति उच्यते। एप्रिल् मासानन्तरम् आवेदितम्  उन्नततमं  प्रतिदिनमानम् भवति इदम्। 

Monday, July 27, 2020

कार्गिल् युद्धे वीरमृत्युं प्राप्तेभ्यः आदरं समर्प्य राष्ट्रम्। 
कार्गिल् दिने रक्षामन्त्री राजनाथसिंहः आदरं समर्पयति। 
नवदिल्ली >  कार्गिल् युद्धविजयस्य आघोषे भारतेन वीरमृत्युं प्राप्तेभ्यःसैनिकेभ्यः आदरः समर्पितः। राष्ट्रिययुद्धस्मारके  रक्षामन्त्री राजनाथसिंहः पुष्पचक्रं समर्प्य समादरं प्रकाशितवान्। 
  रक्षासहमन्त्री श्रीपदयशो नायिक् ,संयुक्तसेनाध्यक्षः जनरल् बिपिन् रावतः , स्थलसेनाध्यक्षः जनरल् एम् एम् नरवने , नाविकसेनाध्यक्षः अड्मिरल् कर्मवीरसिंहः, व्योमसेनाध्यक्षः आर् के सिंह बदौरिया इत्येते अपि पुष्पचक्रं समर्पितवन्तः। 
  १९९९ तमे वर्षे भारतीयजनतां संरक्षितवतः अस्माकं सायुधसेनायाः धैर्यः दृढनिश्चयश्च अस्माभिः स्मर्यते तथा च तेषां त्यागः आगामिपरम्पराणां कृते प्रचोदनादायकश्चेति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रशंसितम्।
यू एस् राष्ट्रे जलोपप्लवभीतिं वर्धयन् 'हन्ना' चक्रवातः। 
वाषिङ्टण् >  यू एस् राष्ट्रे टेक्सस् राज्यस्य दक्षिणभागेषु तथा मेक्सिक्को देशस्य उत्तरपूर्वतीरेषु च प्रलयभीतिम् उन्नयन् हन्ना नामकचक्रवातः। शनिवासरे पाण्ड्रे नामकद्वीपं प्राप्तस्य चक्रवातस्य शक्तिः न्यूनीभूता तथापि महती वृष्टिः जलोपप्लवश्च जायेत इति जाग्रता सूचना वर्तते। 
  वातः मेक्सिको तीरं प्रयाति। १४५ कि.मी वेगेनैव वातः वाति। २०२०तमे वर्षे अमेरिक्कया अभिमुखीक्रियमाणः प्रथमः चक्रवातो भवति हन्ना।