OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 21, 2020

बिहारराज्यस्य उत्तरभागेषु गतेचतुर्विंशति-होराः यावत् वृष्टिः अनुवर्तते। मुजफ्फरपुरक्षेत्रम् अभवत् जलमय्।

 मुज़फ्फरपुरम्> बिहारराज्यस्य मुजफ्फरपुरक्षेत्रे गतेचतुर्विंशति होराः यावत्  अतिवृष्टिः अनुवर्तते। स्थानीयानां जनानां जीवनम् अपि अव्यवस्थितं जातम्। मुजफ्फर पुरस्य अधिकतम-क्षेत्राणि जलमग्नानि अभवन्। रेलयानखण्डाः मार्गाः च  जलेन आप्लाविताः सन्ति। मुजफ्फरपुर प्रदेशः सर्वाधिक-दुष्प्रभावितं वर्तते। वीथयः, विपण्यः च जलाप्लाविताः जाताः। सहस्रेषु गृहेषु आपणेषु च वृष्टिजलस्य प्रवेशनेन कोटिशः संपत्तेः क्षतिः  अनुमी यते। राज्येऽस्मिन् पर्जन्यकालस्य प्रबलवृष्टिकारणात् "स्मार्ट-सिटी" इति नगरक्षेत्रेषु जलप्रलयस्य स्थितिः उत्पन्ना अभवत्।

Saturday, July 18, 2020

अत्याधुनिकम् अल्ट्रावयललट् किरणेन अणुनाशिनि संविधानम्। 
कोविड्-१९ अपि अधीने भविष्यति।

   कोच्ची>  कोविड् -१९ वैराणुं प्रतिरोद्धुं नूतनं संविधानं सुसज्जमभवत्।    'अल्ट्रावयलट्' किरणानुपयुज्य (RazeCoV UVC Disinfection System) अल्ट्रावयलट् जर्मिडल् रेडियेषन् (Ultraviolet Germicidal Irradiation -UVGI) दीपमुपयुज्य भोजनशाला- आतुरालय-विमाननिलयेषु सर्वत्र प्रदेशेषु वैराण्वोः जीवाण्वोः च नाशः अनेन शक्यते।  भारते कोच्चीप्रदेशस्थे ऐ बिस् मेडिक्कल् एक्युप्मेन्ट् आन्ट् सिस्टम्स् प्रैवट् लिमिट्टड् इति संस्थया उपकरणमिदं निर्मितम्।  
कुलभूषणं सन्द्रष्टुं भारताय सन्दर्भो लप्स्यते। 
इस्लामबादः >  चारवृत्यारोपणेन मृत्युदण्डनं विधाय पाकिस्थानस्य कारागृहे निबन्धितं भरतवंशजं कुलदीपजाधवं कारागृहे सन्द्रष्टुं भारताय पुनरपि नयतन्त्रानुमतिः लप्स्यते। 
  पाक्विदेशकार्यमन्त्रिणं मुहम्मद खुरेषिमुद्धृत्य पाकिस्थानवार्तामाध्यमैरेव विषयो यं सूचितम्। गतदिने सम्पन्ने कुलदीपं प्रति भारताय  अभिमुखं प्रदत्तमासीत्। किन्तु पाक्सैन्याधिकारिणां सान्निघ्यमासीदिति कारणेन स्वतन्त्राभिमुखं न सम्पन्नम्। तस्मिन्विषये प्रतिषेधः अपि जातः। एतदनुसृत्य एव पुनःसन्दर्शनाय सन्दर्भः लभते इति आवेदनं बहिरागतम्।
केरले कोविड्बाधिताः ११सहस्रमतीताः।
प्रतिदिनव्यापनं ७००अधिकम्।
तिरुवनन्तपुरं जनपदे सामाजिकव्यापनम्। 
अनन्तपुरी > केरले कोविड्-१९ रोगस्य व्यापनं कतिपयस्थानेषु अतिरूक्षतया अनुवर्तते। ह्यः ७९१ जनेषु रोगबाधा दृढीकृता। रोगबाधितेषु ५३२ सम्पर्केण बाधिताः भवन्ति। दिनद्वयं यावत् प्रतिदिनव्यापनसंख्या सप्तशताधिका वर्तते। 
  राज्ये तिरुवन्तपुरं जनपदे पून्तुरा पुल्लुविला प्रदेशद्वये  सामाजिकव्यापनमभवदिति निर्णीतम्। राष्ट्रे प्रथमतया एव  सामाजिकव्यापनमभवदितति सर्वकारीयस्तरे दृढीकरणं कृतम्। राष्ट्रस्य बहुषु मुख्यनगरेषु रोगबाधितानां संख्या क्रमातीतेन उद्गता अपि ऐ सि एम् आर् संस्थया केन्द्रस्वास्थ्यमन्त्रालयेन वा सामाजिकव्यापने स्थिरीकरणं न कृतमासीत्। 
  आहत्य ११०६६ जनेभ्यः कोविड्रोगः बाधितः। अद्यावधि ४९९५ रोगिणः स्वास्थ्यभूताः जाताः। ३८ जनाः मृत्युवशं प्राप्ताः।

Friday, July 17, 2020

'ला लीगा' मध्ये रयल् माड्रिड् जेता।
(कायिकम्)
  माड्रिड्(स्पेयिन्)> स्पानिष् लीग् पादकन्दुकक्रीडासपर्यायां 'ला लीगा' मध्ये रयल् माड्रिड् सङ्घः विजेता अभवत्। रयल् माड्रिड् कृते एका क्रीडा अपि अवशिष्यते इत्‍येतत् सङ्घस्य विजयमाधुर्यं वर्धयति। कोविड्१९ भीत्या मासत्रयात्मककालं यावत् क्रीडाः समापिताः आसन्। विरामात्परं पुनरारब्धे लीग्‌ मध्ये रयल् माड्रिड् असामान्यं प्रभावं प्राकटयत्। गतदिने २-१ इति क्रमे विय्यारल् उपरि प्राप्तः जयः रयल् माड्रिड् सङ्घस्य किरीटधारणं दृढम् अकरोत्।

Thursday, July 16, 2020

विदेशछात्राः यू एस् मध्ये अनुवर्तितुं शक्यन्ते। 
वाषिङ्टण् > यू एस् राष्ट्रे  'ओण् लैन्' अध्ययनस्य प्रचारे संवर्धिते वैदेशिकछात्रैः राष्ट्रं त्याज्यमिति ट्रमम्प् शासनस्य आदेशः निरस्यते। जूलाय् षष्ठे दिने विज्ञापितमादेशं निरस्तुं यू एस् राष्ट्रं सन्नद्धमिति बोस्टण् फेडरल् जनपदनीतिपीठस्य न्यायाधीशेन अलीसन् बरो इत्यनेन निगदितम्। भारतमभिव्याप्य लक्षशः विदेशीयछात्राणां कृते आश्वासदायकः भवत्ययं निर्णयः। 
  सेप्टम्बर्-डिसम्बर् सेमस्टर् अध्ययनं सम्पूर्णतया ओण्लैन् द्वारा आयोज्यमानेषु  विश्वविद्यालयेषु अध्ययनं कुर्वन्तः वैदेशिकछात्राः राष्ट्रं त्यजेयुः नो चेत् ते राष्ट्रान्निष्कासितव्याः भवेयुरिति  विदेशमन्त्रालयः जाग्रतासूचनां अकरोत्। एतां विरुध्य राष्ट्रे महान् प्रक्षोभः सम्पन्नः। राष्ट्रे विद्यमानाः प्रमुखाः विश्वविद्यालयाः अपि छात्राणाम् अनुकूलतया आगतवन्त आसीत्। तदनुसृत्य एव शासकैः निर्णयः परिवर्तितः।
राजस्थानसर्वकारे कलहः - सच्चिन् पैलट् स्थानान्निष्कासितः। 
नवदिल्ली > साप्ताहिकं यावत् अधिकारप्राप्त्यर्थम् अनुवर्तमाने राजनैतिककलहे कोण्ग्रस्दलस्य राज्यस्तरीयाध्यक्षः उपमुख्यमन्त्रिपदस्थानीयः युवकः नेता सच्चिन् पैलटः स्थानद्वयादपि निष्कासितः। सच्चिनेन सह कलहकेतुमुद्धृतवन्तौ द्वौ मन्त्रिणावपि मन्त्रिसभातः बहिर्नीतौ। 
  मुख्यमन्त्रिपदप्राप्त्यर्थं सच्चिन् पैलटस्य नेतृत्वे कैश्चित् कोण्ग्रस्दलीयसामाजिकैः आयोजितायाः कुकेल्याः परिणतिरेव राजस्थाने दृष्टा।

Wednesday, July 15, 2020

भारतस्य स्वतन्त्रता दिवसः समागच्छति।
कोविड्रोगस्य काले स्वतंत्रता दिवसः।
      नव दिल्लीः -  कोरोणा महारोगस्य काराणात् भारतदेशस्य इतिहासे प्रथमः वारं रक्तदुर्गे स्वतंत्रता दिवस्य समारोहः पृथक् रूपेण मन्यते। गतवर्षस्य तुलनया अस्मिन् वर्षे केवलं  प्रतिशतं विंशति "अति महत्वपूर्णाः  जनाः" अन्याः जनाः च  प्रधानमन्त्रिणः मोदिनः प्रसारणं दृष्टुम् शक्ष्यन्ते। पाठशालानां छात्राणां स्थानेषु पंचशताधिक-सहस्त्रं कोरोणा रोगान्मुक्ताः  एतस्मिन् भागभाक् भविष्यति।  
  समारोहे अस्मिन्  छात्रेभ्यः भागं कर्तुं न शक्यते। एतस्मिन् पञ्चाशत् स्थानीयाः नगरारक्षकाः भविष्यन्ति अन्याः सहस्रं  भागभागिनः देशस्य पृथक् पृथक् क्षत्रेभ्यः  भविष्यन्ति।

कोविड्व्यापनमनुदिनं वर्धते - केरले प्रतिदिनबाधा ह्यः ६०८।
सम्पर्कव्यापनम् अतिरूक्षम्। 
कोच्ची > केरलस्य प्रतिदिनकोविड्बाधा ह्यः षट्शतमतीता। ६०८ जनाः ह्यः रोगबाधिताः अभवन्। एषु ३९६ जनेषु सम्पर्केणैव रोगः अबाधत। एकः मृत्युवशं प्राप्तः। १८१ स्वास्थ्यभूताः अभवन्। 
  ह्यः राजधानीजनपदे २०१ जनाः रोगबाधिताः जाताः। एषु १७७ सम्पर्केण बाधिताः। जनानां जाग्रताभाव एव सम्पर्कव्यापनस्य हेतुरिति मुख्यमन्त्रिणा पिणरायिविजयेनोक्तम्।रोगप्रतिरोधप्रक्रमेषु केषांचन नागरिकाणां उदासीनभावः महद्विपदे कारणं भविष्यतीति तेन निगदितम्। 
  राज्ये प्रथमतया एव रोगिणां संख्या ६०० अतीता। जूलाय् मासस्य दशमदिनाङ्कादारभ्य प्रतिदिनरुग्णसंख्या चतुर्शताधिका अासीत्। ह्यः एव ६०० अतीता। अनेन निखिला रोगबाधितसंख्या ८९३० प्राप्ता। ४४५४ जनाः इदानीं चिकित्सायां वर्तन्ते।

Monday, July 13, 2020

केरले कोविड्बाधितानां प्रतिदिनसंख्या चतुर्शताधिका। 
अनन्तपुरी >  केरले कोविड्व्यापनम् आशङ्काजनकं वर्तते। गतदिनत्रयं यावत् प्रतिदिनं रोगबाधितानां संख्या ४००अधिकतया तिष्ठति।प्रतिदिनं वर्धमानः च। ह्यः कोविड्बाधिताः ४३५ आसन्। तत्र २०६ जनेषु सम्पर्केणैव रोगः बाधितः। 
  आहत्य रोगबाधिताः ७८७३ जाताः। इदानीं चिकित्सायां ३७४३ रुग्णाः वर्तन्ते। ४०९५ विरुजः अभवन्। मरणानि तु ३१ । 
   एरणाकुलं, तिरुवनन्तपुरं ,मलप्पुरं जनपदेषु अतितीव्रमण्डलानि बहूनि वर्तन्ते। एरणाकुले आलुवा, चेल्लानं , पेरुम्पावूर् प्रदेशाः ,कोच्चीनगरस्थे केचन अंशाः, अनन्तपुरीनगरं, पून्तुरा समुद्रतटग्रामः, मलप्पुरं जिल्लायां पोन्नानी प्रविश्या च अतितीव्रमण्डलेषु अन्तर्भवन्ति।
कोविड् व्यापनं - वासरान्त्यपिधानं कर्कशं कुर्वन्  उत्तरप्रदेशः। 
लख्नौ >  कोविड्रोगस्य व्यापनं निरोद्धुं शनि-रविवासरद्वये निखिले राज्ये सम्पूर्णपिधानं विधातुं यू पि सर्वकारेण निश्चितम्। शनिवासरे कोविड्बाधिताः ३६,००० उपागताः इत्यस्मादेवायं निर्णयः। मरणानि तु ९३३ च जातानि। 
  अवशिष्टेषु शनि - रविवासरेषु कर्कशं सम्पूर्णपिधानं भविष्यतीति राज्यस्य उपमुख्यकार्यदर्शिना अवनीष् अवस्तिवर्येण निगदितम्। नगरेषु ग्रामेषु च पिधानं प्रायोज्यते। कार्यालयाः आपणाश्य पिधास्यन्ते। वित्तकोशाः प्रवर्तिष्यन्ते। रविवासरे केवलं अवश्यसेवाविभागः प्रवर्तिष्यते। गतशुक्रवासरे रात्रौ दशवादनादारभ्य ५५ होरादीर्घितं पिधानं सर्वकारेण आयोजितमासीत्।

Sunday, July 12, 2020

सुवर्णभारस्य निलीनानयनं - स्वप्नासुरेषः सुहृच्च बङ्गुलुरौ निगृहीतौ। 
एन् ऐ ए संस्थया गृहीताः सन्दीपः, स्वप्ना,रमीसः [यथाक्रमं वामतः]
रमीस् नामकः अन्यो$पि मलप्पुरं जनपदे ग्रहीतः।
कोच्ची  > सप्ताहैकस्मात् पूर्वं यू ए ई राष्ट्रस्य भारतस्थानपतिकार्यालयं निमित्तीकृत्य त्रिंशत् किलोपरिमितं सुवर्णम् अलीकरीत्या आनीतमित्यस्मिन् प्रकरणे अलीकानयनस्य सूत्रधारिणी इति विचिन्त्यमाना स्वप्नासुरेशः कर्णाटकस्थे बङ्गुरुनगरे ,  तस्याः मित्रं सन्दीप् सि नायर् इत्येषः मैसुरू नगरे च ह्यः राष्ट्रियान्वेषणसंस्थया [N I A] निगृहीतौ। द्वावपि अद्य एव केरलमानीतौ।  अनेन प्रकरणे$स्मिन् त्रयः अपराधिनः निगृहीताः। 
  राष्ट्रद्रोहापराधं तथा यू ए पि ए नामकं आतङ्कवादापराधं च आरोपितप्रकरणस्य अपराधिपट्टिकायां द्वितीया भवति स्वप्नासुरेषः। सा यू ए ई स्थानपतिकार्यालये कार्यकर्त्री आसीत्। ततः वर्षद्वयं यावत् केरलसर्वकारस्य ऐ टि विभागस्य अधीने प्रवर्तमाने State Information Technology and Infrastructure इत्यस्मिन् निदेशिकारूपेण कार्यं कुर्वन्ती आसीत्। प्रथमः अपराधी यू ए इ राष्ट्रस्य नयतन्त्रकार्यालये पि आर् ओ रूपेण वर्तमानः सरित् नामकः सप्ताहात्पूर्वमेव निगृहीतः। रमीस् नामकः इतरो$पि प्रकरणे$स्मिन् मलप्पुरं जनपदे आरक्षकैः ग्रहीतः। एषः अपि सुवर्णानयनप्रकरणश्रृङ्खलायां सुप्रधानभागं वहतीति सूचना अस्ति। 
  इदानीं आलुव जनपदीयातुरालये स्वास्थ्यशोधनानन्तरं कोच्चीनगरस्थे विद्यमाने एन् ऐ ए कार्यालयमानीतौ द्वावपि अद्य चतुर्वादने न्यायाधीशसमक्षम् उपस्थापयिष्यन्ति।
अमिताभबच्चः पुत्रश्च कोविड्बाधितौ। 
अमिताभ बच्चः। 
महाराष्ट्रे कोविड्बाधिताः द्विलक्षाधिकाः, मृत्युः दशसहस्रमुपयाति। 
मुम्बई >  प्रशस्तः 'बोलिवुड्'चलच्चित्रनटः अमिताभबच्चः तस्य पुत्रः अभिनेता च अभिषेकबच्चः च कोविड्रोगबीधिताविति दृढीकृतम्। द्वावपि मुम्बय्यां नानावती आतुरालयं प्रवेशितौ। तयोः स्वास्थ्यावस्था शुभदायकी इति अातुरालयाधिकृतैः सूचितम्। 
  कोरोणाबाधावृत्तान्तम् अमिताभबच्चः स्वयमेव ट्विट्टर् द्वारा विज्ञापितवान्। अन्येषां परिवाराङ्गानां स्रवाः अपि शोधनाय स्वीकृताः। सर्वैः फलमाकांक्षते। 
  महाराष्ट्रे कोविड्बाधिताः २,३८,४६१ जाताः। मृत्युसंख्या ९८९३ अभवत्। किन्तु धारावीनामकस्थाने कोविड्व्यापनं नियन्त्रणाधीनं वर्तते।

Saturday, July 11, 2020

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
नमांसि
 छात्रा:,शिक्षका:,प्राध्यापका:,अनुरागिण:,सामाजिका:,महिला:,बाला:,युवान:,भारतीया: चेति वयं सर्वे संस्कृतस्य जना:। परं संस्कृतं कस्य इति प्रश्न: पर्वतायते। य: 'संस्कृतं मम' इति चिन्तयति स: अवश्यमेव संस्कृतस्य प्रयोगं कुर्यात्। ममत्वस्य अनुभूत्यै,  प्रकटनाय वा अन्यत् विधानं नास्ति संस्कृतप्रयोगं विहाय ।सर्व: अपि चिन्तयेत्-अहं संस्कृतात् ज्ञानं प्राप्नुवम्, वित्तं पदं च प्राप्नुवम्, समाजे प्रतिष्ठां स्थानं सम्मानं च प्राप्नुवम्। परं संस्कृतं मत् किं वा प्राप्नोत्? मित्राणि, वयं  'संस्कृतं मम' इति ममत्वप्रकटनाय अनुभूत्यै च संस्कृतव्यवहारशीलाः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ।
प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलस्य आधिपत्यम्। 
     सताम्प्टण्> इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोः मध्ये प्रचाल्यमानायां प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलाय ११४ धावनाङ्कानाम् आधिपत्यम्। इङ्ग्लण्ट् दलस्य प्रथमेन्निङ्स् अङ्कान् २०४ धावनाङ्कान् प्रति वेस्ट् इन्टीस् दलं प्रतिक्रीडनावसरे ३१८ धावनाङ्कान् प्रापयत्। वेस्ट् इन्टीस् दलाय क्रेग् ब्रात्वेय्ट्, षैन् डौरिच् च अर्धशतकं प्रापयताम्। तृतीयदिनस्य क्रीडायाः समापनवेलायां द्वितीयेन्निङ्स् मध्ये इङ्ग्लण्ट् दलं क्रीडकनष्टं विना १५ धावनाङ्कान् प्रापयच्च। क्रीडायाः प्रथमदिनं वृष्टिवशात् त्यक्तमासीत्।

Friday, July 10, 2020

मिसोरां राज्ये भूचलनम् - रिक्टर् मापिन्यां ४.३ इति तीव्रता अङ्किता।
 
    ऐस्वाल्>  मिसोरां राज्ये चम्बाई जनपदे भूचलनम् अभवत्।  ४. ३ इति रिक्टर्-मापिन्यां अङ्कितं भूचलनं गुरुवासरे मध्याह्ने आसीत्। जीवापायः वा वस्तुनाशः वा न अभवत्।  चम्पाईतः २३ किलो मीट्टर् पूर्वदक्षिण-भागे दश-किलो मीट्टर्  अन्तर्भागः भवति प्रभवकेन्द्रः इति राष्ट्रिय-भूकम्प-विज्ञान-केन्द्रेण उच्यते। विगते मासत्रयाभ्यन्तरे आहत्य अष्ट भूचलनानि आपन्ननि। चम्पाई देशे त्रीणि चलनानि च अभवन्। अनुवर्तमानेन भूचलनेन प्रदेशवासिनः आशङ्काकुलाः वर्तन्ते।

Thursday, July 9, 2020

कोविड् वैराणुः  मस्तिष्कं बाधते। सुषुप्तिरोगः भविष्यति इति वैज्ञानिकाः। 
कोरोण-वैराणुबाधया मस्तिष्कस्य क्षमता न्यूना भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता अस्ति। रोगबाधितेषु  नाडीसम्बन्धतया  गुरुतररोगाः भविष्यन्ति। बुद्धिभ्रमः उन्मादः च भविष्यतः नाडीरोगवशात्  इति पूर्वसूचनायाम्  अस्ति। लन्टनस्य  विश्व-विद्यालयकलाशाला (UCL) ४३ कोविड्१९ रोगिषु कृते अध्ययने एव ईदृशम् अनुमानम्।   
१९१८- तमे आपन्ने 'स्पानिष् फ्लू' इति ज्वरानुबन्धतया ईदृशी अवस्था जाता आसीत्। कोविड्  रोगबाधायाः अनन्तरमपि ईदृशी अवस्था स्यात्  इति विद्यालयकलाशालायाः अनुसन्धाता मैक्कल् सान्टि अवदत्। एते स्वस्य परितः किं जायते इति अज्ञात्वा सुप्तो वा इत्यवस्थायां कालः यापयन्तः सन्ति। मानसिक-संवेदनक्षमता हीनाः भूत्वा कालं यापयन्तः इति भवति सुषुप्तिरोगः।
ब्रसील् राष्ट्रपतिः कोविड्बाधितः। 
जयर् बोल्सनारो। 
ब्रसीलिया >  ब्रसीलराष्ट्रस्य राष्ट्रपतिः जयर् बोल्सनारो इत्यस्मिन् कोविड्रोगबाधा स्थिरीकृता। ब्रसीलस्य आर्थिकव्यवस्थापुनरुज्जीवनं लक्ष्यीकुर्वन् , कोविड्रोगं केवलज्वर एवेति सः प्रचारणं कृतवानासीत्। अत एव सः स्वास्थ्यव्यवस्थामननुपालयन् मुखावरणमधार्यमाणः जनसञ्चयेषु व्यवहरन् हस्तदानादिकं कुर्वन् चासीत्।
  किञ्च सः स्वयं स्वास्थ्यपूर्णः, 'हैड्रोक्सि क्लोरोक्विन्' नामकामौषधस्य स्थिरोपयोक्ता इत्यतः कोविड् न बाधिष्यते इति च ७५ वयस्कः सः प्रचारणं कृतवानासीत्। किन्तु गतगुरुवासरादारभ्य कासेन पीडितः सः शनिवासरे यू एस् विदेशप्रतिनिधिना सह मध्याह्नभोजनमपि कृतवान्।