OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 7, 2020

कायिकम्- क्रिकेट् स्पर्धा श्वः आरभ्यते।
लण्टण्> चतुर्णां मासानां विरामात्परं कायिकलोके पुनरपि क्रिकेट् वसन्तः। कोविड्भीत्या अवसिताः क्रिकेट् स्पर्धाः श्वः आरभ्य कायिकलोके सजीवाः भविष्यन्ति। इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोर्मध्ये एव स्पर्धाः वर्तन्ते। प्रथमटेस्ट्स्पर्धा श्वः भारतीयसमये मध्याह्नात्परं ३.३० तः आरभ्यते। सताम्प्टण् मध्ये भवति स्पर्धा। किन्तु मैतानमागत्य साक्षात् स्पर्धां द्रष्टुं क्रिकेट्प्रेमिणां कृते अनुमतिः नास्ति। कोविड् जाग्रतानिर्देशान् परिपाल्य एव स्पर्धाः आयोजिताः वर्तन्ते। तथापि दूरदर्शने सोणि सिक्स् मध्ये यथासमयं स्पर्धां द्रष्टुम् अवसरः वर्तते च।
विश्वस्मिन् कोविड्बाधिताः १.१६कोटिः। 
वाषिङ्टणः> ह्यः आविश्वं कोविड्रोगबाधितानां संख्या एकलक्षाधिकायां प्राप्तायां निखिला संख्या १६ लक्षाधिकैककोटिं प्राप्ता। ह्यः मृत्युसंख्या द्विसहस्राधिका आसीत्। आहत्य मरणसंख्या ५,३८००० उपगच्छति। 
  यूू एस्, रूस्, मेक्सिको, इरानः, पाकिस्थानं, सौदी, बङ्लादेशः, इन्डोनेष्या, इराखः, फिलिप्पीन्स्, ओमानःइत्यादिषु राष्ट्रेषु रोगबाधा अधिकया दृश्यते। 
  पाकिस्तानस्य स्वास्थ्यमन्त्री  डो. सफर् मिर्सः कोविड्बाधित इति स्थिरीकृतम्। विदेशकार्यमन्त्री षा मह्मूदी खुरेषी इत्यस्यापि गतदिने कोविड् स्थिरीकृतमासीत्। पाकिस्थाने कोविड्बाधिताः २,३१००० अतीताः, ७६२ मरणानि च अभवन्।
डोवल्-वाङ् यि चर्चा फलं प्राप्नोति - सीमायाः चीनस्य प्रतिनिवर्तनम्।
      नवदहली> चीनभारतयोः मध्ये सीमाविषये सञ्जातस्य तर्कस्य परिहारः भारतस्य देशीयोपदेष्टा अजित् डोवल् महाभागः चीनराष्ट्रस्य विदेशकार्यमन्त्रिणा वाङ्यि महोदयेन कृतया चर्चया जायमानः दृश्यते। शुभसूचकत्वेन सीमायाः तर्कभूमेः चीनस्य सैनिकसङ्‌घः प्रतिनिर्वतः इति वृत्तान्तः माध्यमलोकेन प्रकाशितः वर्तते। चीनस्य सैनिकसङ्‌घः तर्कभूमेः कि.मि द्वयं यावत् प्रतिनिवर्तः इति वृत्तान्तः आगतः वर्तते।डोवल्-वाङ्यि महोदययोः मध्ये संवृत्ता चर्चा घण्टाद्वयं यावत् अभवत्। चर्चेयं सौहृदात्मिका आसीत्, भाविकालेऽपि द्वयोरपि राष्ट्रयोः सीमनि नियन्त्रणरेखायां एतादृशप्रतिसन्धेः नियन्त्रणाय चर्चायां निर्णयः स्वीकृतः वर्तते - माध्यमलोकः अवलोकयति।

Monday, July 6, 2020

सामाजव्यापनभीतिः - केरलराजधान्यां त्रितलपिधानम्। 
 अनन्तपुरी >  अनन्तपुरीनगरे सम्पर्केण कोविड्रोगः वर्धते इत्यतः नगरसभावधौ अद्य आरभ्य सप्ताहपर्यन्तं त्रितलीयं पिधानं विहितम्। विधानसभामभिव्याप्य सर्वे सर्वकारीयकार्यालयाः पिधाय एव वर्तिष्यन्ते। विधानसभायां केवलं प्रधानाधिकारिणः एव भविष्यन्ति। 
  मुख्यमन्त्री अन्ये मन्त्रिणश्च स्वस्वगृहेषु वर्तमानाः कर्मनिरताः भविष्यन्ति। जनाः गृहेभ्यो बहिर्गन्तुं नार्हन्ति। गतसम्पूर्णपिधानकालमपेक्ष्य कर्कशानि नियन्त्रणान्येव विधास्यन्ति। 
  ह्यः केरले २२५ कोविड्रोगिणः नूतनतया अजायन्त। तेषु ३८ सम्पर्केण रोगबाधिताः सन्ति। अनन्तपुर्यां २२ जनाः सम्पर्कबाधिताः सन्ति।
दक्षिणजापाने जलोपप्लवः १२ जनाः मृताः।
        टोकियो> अति वृष्ट्या सञ्जाते जलोपप्लवे मृत्पाते च १२ जनाः मृताः १० जनाः अप्रत्यक्षाः च अभवन्। मृत्पातेन  बहूनि गृहाणि भग्नानि। प्रलयबाधित-प्रदेशेषु जनाः निरालम्बाः सन्ति। रात्रौ वृष्टिः शक्ता अभवत् कुममोट्टो, कगोषिम नगरेषु ७५००० जनाः निवासस्थानात् सुरक्षित-स्थानं प्रापणीयाः इति वाञ्चितवन्तः। हिट्टोयोष्कि नगरः जलेन आप्लावितः। वृद्धसदनात् १४ अन्तेवासिनः अप्रत्यक्षाः अभवन्।
10,000 प्रतिरोधसैनिकाः दुरितसमाश्वास प्रवर्तनाय नियुक्ताः सन्ति इति जापानस्य प्रधानमन्त्री  आबे षिन्सो अवदत्।

Sunday, July 5, 2020

कोरोण वैराणोः प्रभवस्थानं प्रत्यभिज्ञातुं WHO सङ्घः चीनराष्ट्रं प्रति
 
      जेनेव> कोविड्19 रोगबाधायाः कारणभूतस्य वैराणोः  सार्स् कोव् -२ इत्यस्य  प्रभवस्थानम् अन्वेष्टुं  सक्षमान् वैज्ञानिकान् प्रेषयितुम् उद्युक्तः विश्वस्वास्थ्य संस्थया।  समागते सप्ताहे वैज्ञानिकाः चीनराष्ट्रं प्राप्स्यन्ते। चीनस्य परीक्षणशालातः वैराणोः  उत्पत्तिः इति आरोपण-प्रत्यारोपणयोः  मध्ये भवति विश्व-स्वास्थ्य-संस्थायाः विज्ञप्ति प्रकाशनम्। वैराणोः आविर्भावम् अधिकृत्य अवश्यं ज्ञातव्यम् । वैराणुं विरुद्ध्य योद्धुम् सफल-चिकित्सापद्धत्याः  समायोजनाय इदम् अन्वेषणम्  अनिवार्यमिति विश्व-स्वास्थ्य-संस्थाया: अध्यक्षः डेड्रोस् अथनों गब्रियेससः अवदत्।
संस्कृतप्रेमी प्रतिभावान् प्रदीप् प्रणवः सर्वासु परीक्षासु उन्नतस्थानं प्राप्तवान् ।
जार्खण्डस्य लोक् सेवा आयोस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय नियुक्तिनिर्देशः
       राञ्ची> जार्खण्डस्य लोक् सेवा आयोगस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय अस्य नियुक्तिनिर्देशः लबधः। एम् एस् सि, एम् फिल् परीक्षायाम् उन्नत अङ्काः प्रा प्राप्तवानयं दशम कक्ष्यापर्यन्तं संस्कृतं पठितवानासीत्।  कराटे आयोधन कलायां द्वितीयं पदं (karate second dan) प्राप्तवान्। डार्जिलिङ् देशे विद्यमानायाः हिमालय-पर्वतारोहक संसस्थायाः शिक्षणमपि सर्वोत्तमरीत्या अनेन सम्प्राप्तम्। हिमालयस्य १० श्रृङ्गान्  एषः विजितवान्। समुद्रतरणे अपि शिक्षितः एषः। NCC विभागतः रजतपदकः प्राप्तवानस्ति।
     कलारङ्गेऽपि एषः  निपुणः भवति। भारतस्य विदेशस्य च ४२ सङ्गीत उपकरणेषु प्रवीणः अस्ति एषः।
जारखण्डस्य  नागपुरि चल नचित्र मुद्रिकायाम् एष: अभिनेता अस्ति। दशवर्षाणि यावत् लोक आयोगस्य परीक्षायाः कृते यत्नं कुर्वन्नासीत् एषः।
       वित्तकोशे, बौद्धिकायोगे, आयकर विभागे च कर्मचारी रूपेण बहुवारं नियुक्तः अभवत्  एषः प्रदीप प्रणवः। अयं कर्मशाली प्रदीपः इदानीं साङ्ख्यकी एवं क्रियान्वय-मन्त्रालयस्य राष्ट्रिय प्रतिदर्श कार्यालयये सह अधीक्षण पदाधिकारि रूपेण वर्तमानः अस्ति।
     इदानीं विनाविलम्बं DYSP पदं प्राप्तुं सज्जः भवति एषः। तथाऽपि दशमी-कक्ष्यापर्यन्तं अध्ययनं कृतं संस्कृतं पुनरपि अध्येतव्यम् आचार्यपरीक्षायाम् उन्नतस्थानं प्रार्तव्यम् च इति अस्य नूतना अभिवाञचा।
केरले कोविड्बाधितानां प्रतिदिनसंख्या द्विशताधिका। 
प्रमुखनगरेषु अधिकजाग्रता ।
        अनन्तपुरी> गतदिनद्वये केरले कोविड्रोगिणां प्रतिदिनसंख्या अनुस्यूततया द्विशतमुद्गच्छति। ह्यः २४० जनाः रोगबाधिताः अभवन्। परह्यः तु २११ जनाः कोविड्भावाः जाताः। ह्यस्तनरूग्णेषु १५२ जनाः विदेशेभ्यः प्रत्यागताः भवन्ति। ४२ इतरराज्येभ्यः आगताश्च।   अद्यावधि रोगबाधिताः ५२०४।             
   तथा च प्रतिदिनं  रोगमुक्तिं भूयमानानां संख्या अपि द्विशताधिका वर्तते। ह्यः परह्यः च यथाक्रमं २०९, २०२ जनाः विरुजः जाताः। आहत्य ३०४८ रोगविमुक्तिं प्राप्ताः।
   केरलस्य राजनगरीमभिव्याप्य प्रमुखानि नगराणि रोगव्यापनभीत्यां वर्तन्ते। अनन्तपुर्यां पालयंस्थानस्थे आपणे तथा कोच्चीनगरस्थे आपणे च केचन सम्पर्केण रोगबाधिताः जाताः। किन्तु रोगस्रोतांसि न प्रत्यभिज्ञातानि इत्येतत् आशङ्कां संवर्धते। मलप्पुरं कण्णूर् जनपदयोरपि सम्पर्केण रोगबाधिताः सन्ति। तेषु स्थानेषु अतिजाग्रताप्रक्रमाः आरब्धाः।

Saturday, July 4, 2020

खालिस्थानस्य भीकरनेतारः इदानीं यावत्  उग्रदोषिणः। नव अतङ्किनः भारतस्य गृहमन्त्रालयेन पट्टिकायां निविष्टाः। 
     नवदिल्ली> खालिस्थानस्य  उग्रदोषिणः आतङ्किनः पट्टिकायां निविविष्टाः इत्यस्य कारणं केन्द्र-गृहमन्त्रालयेन विशदीकृतम्। विगते सप्ताहे विश्वस्य विविधभागेषु केन्द्रीकृताः खालिस्थानस्य आतङ्किनः  दोषिणां पट्टिकायां निविष्टाः  इत्यस्य विवरणमेव अधुना बहिरागतम्। एते नव आतङ्किनः पञ्जाबे आतङ्कवादस्य प्रचारं क्रियन्ते। राष्ट्रे अत्याचार प्रवर्तने निरताः, भारतं विरुद्ध्य प्रवर्तनानाम् आयोजनम् च तैः कृतानि दोषकर्माणि इति आरक्षकैः प्रत्यभिज्ञातम्। पाकिस्थानादयेषु राष्ट्रेषु उषित्वा ते प्रवर्तन्ते।
अन्ताराष्ट्रतले विद्यमानेन सन्ध्यनुसारेण एतेभ्यः कारागार दण्डं वा भारताय अर्पणं वा करणीयः। नियमानुसारं सतेषां स्थावर जंगम वस्तु धनादीनि बलात् स्वीकर्तुमपि शक्यते।
लडाके भारतप्रधानमन्त्रिणः अप्रतीक्षितसन्दर्शनम् 
लडाके प्रधानमन्त्री सैन्यम् अभिसंबोधयति। 
सैनिकान् अभिसम्बुध्यमानः नरेन्द्रमोदी। 
लडाकः >  ह्यः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी लडाकस्थे सङ्घर्षभरितप्रदेशे अप्रतीक्षितसन्दर्शनं कृतवान्। लडाकस्य राजधीनीभूतात् 'ले' इत्यस्मात् ३६ कि मी  दूरे वर्तमाने ११,००० पादपरिमिते उत्तुङ्गे वर्तमानं नीमूस्थं सैनिकास्थानं प्राप्तवान् नरेन्द्रमोदी सैनिकान् अभिसम्बुध्यमानः मातृराष्ट्रं परिरक्षतां सैनिकानां धैर्यं त्यागं च अनर्घमिति प्राकीर्तयत्। 
  संयुक्तसेनाध्यक्षः बिपिनरावतः, स्थलसेनाधिपः जनरल् एम् एम् नरवणे इत्येताभ्यां सह ह्यः प्रभाते आसीत् प्रधानमन्त्री लडाकस्थं 'ले' प्राप्तः। गल्वान् प्रतिद्वन्द्वे व्रणिताः सैनिकातुरालयस्थाः भटाः तेेन सन्दृष्टाः। 
  तदनन्तरं स्थल-व्योम-ऐ टि बि पि सैनाङ्गान् अभिसंबुध्यमानः प्रधानमन्त्री प्रोत्साहजनकैः उत्तेजकैश्च वाक्यैः राष्ट्रस्य सीमासंरक्षणे व्यापृतान् सैनिकान् अभ्यनन्दयत्। यं कमपि प्रतियोद्धुं भारतं सुसज्जमिति उद्घुष्य चीनाय शक्तां पूर्वसूचनामदात्।
चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। 
 
     वाषिङ्टण्> चीनेन सह तर्कवितर्के सति चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। प्रदेशेस्मिन् चीनस्य अभ्यास प्रदर्शनवेलायमेव चीनस्यायं प्रक्रमः। यु. ए स्. एस् रोणाल्ड् रीगन्, यु. ए स्. एस्. निमिट्स् च सैनिकाभ्यासाय समागच्छति। यु. ए स्. एस् राष्ट्रेण सह व्यापरः तथा कोरोणव्यापन-सम्बन्धतया च तर्कवितर्काः अनुवर्तिते सन्दर्भे  चीनं प्रति निशितसन्देश दानाय भवति अयं प्रक्रमः इति अनुमीयते। सुरक्षायाः कृते सुस्थिरतायाः कृते वयं प्रतिज्ञाबद्धाः इति अस्माकं सख्यदलानां पुरतः ख्यापनम् भवति उद्देश्यः इति यू.एस् रियर् अड्मिरल् जोर्ज् एम्. वैकोफ् उक्तवान्। वार्तेऽयं यू एस् वार्तामाध्यमैः आवेदिता। किन्तु अभ्यास-प्रदर्शनानि सगरस्य कस्मिन् प्रदेशे इति न सूचितानि। द्वे विमानवाहिनी नौके, चतस्रः युद्धनौकाः च भविष्यन्ति। व्यूहं परितः युद्धविमानानि च भविष्यन्ति इति 'वाल् स्ट्रीट् जेर्णल्' द्वारा आवेदितम् अस्ति।
आगम्यताम् ! वयं संस्कृतमातृभाषिणः भवेम!
-लेखः -
भारतवर्षे संस्कृतविद्यालयानाम् अकादमीनां पाठशालानां वेदगुरुकुलानाञ्च पर्याप्ता संख्या वर्तते।  यद्यपि एतेषु नैकेषु संस्कृतसंस्थानेषु कोटिसंख्यकाः विद्यार्थिनः शिक्षकाश्च अध्ययनाध्यापनेन संबद्धाः  सन्ति तथापि 2011 तमे वर्षे सम्पन्नायाः  जनगणनायाः अनुसारेण प्रायः सार्धचतुर्दश-सहस्रपरिमिताः जनाः एव संस्कृतं मातृभाषारूपेण स्वीकुर्वन्तीति महद्दुःखम्। भवन्तः सम्यक् जानन्त्येव यत् काञ्चिद् भाषां मातृभाषारूपेण अङ्गीकुर्वाणानां जनानां संख्या दशसहस्रात् न्यूना भवति चेत् सर्वकारस्य अवधानं स्वतः एव तस्याः भाषायाः अपगच्छति। तत्र कारणमेकमेव यत् यस्याः भाषायाः क्रियायाः वा समर्थिनः अभिलाषुकाः च यावन्तः अधिकाः भवन्ति सर्वकारस्य प्रयत्नाः तावन्तः एव तस्यां दिशि वर्तन्ते। तथा च तदनुगुणमेव  सर्वकारः वित्तीय-प्रावधानान्यपि करोति। 
वर्तमानकालिकी परिस्थितिः संस्कृतस्य सर्वेभ्यः विद्यार्थिभ्यः महत्संकटमुत्पादयितुं समर्थास्ति। अधुना यदि वयं संस्कृतं नहि संरक्षामः तर्हि निश्चयेन विलम्बः भविष्यति। यतोहि संस्कृतस्य ह्रासः संस्कृताध्येतृणाम् औदासीन्यस्येव परिणामः। अतः वयं एतस्य ह्रासस्य इतोऽपि सहयोगिनः न भवेम। तथा च 2021 तमस्य आगामिन्यै जनगणनायै सर्वे संस्कृताध्येतारः अध्यापकाः संस्कृतानुरागिणः च निवेद्यन्ते यद् भवन्तः सर्वे अस्यां जनगणनायां संस्कृतभाषां मातृभाषारूपेण उद्घोषयेयुः। येन 2021 तमस्य वर्षस्य जनगनणायां संस्कृतभाषिणां संख्या सार्धचतुर्दशसहस्रात् वर्धित्वा चतुर्दशकोटिं यावद् गच्छेत्। 
आगम्यताम् एनम् अभियानं वयम् अग्रे सारयाम सर्वान् च एतदर्थं प्रेरयाम इति।
- आचार्य रामकृष्ण शास्त्री
-डा. भारती शर्मा

Friday, July 3, 2020

24 होराभ्यन्तरे कोविड् बाधिताः लक्षद्वयम्। रोगव्यापने अतिवेगः।
     नवदिल्ली> विश्वस्मिन् आवेदिते रोगव्यापानावेदने वर्धिताः संख्याः दृश्यन्ते। विगते 24 होराभ्यन्तरे कोविड् बाधिताः लक्षद्वयम् (2,08,864) । रोगव्यापने अतिवेगः। 5,155 जनाः रोग बाधया हताः। अनेन मृतानां संख्या 5,23,947 इति वर्धिताः। ब्रसील देशे स्थितिः गुरुतरा इत्यावेदिता। 24 होराभ्यन्तरे 1,200 जनाः तत्र मारिताः । नूतनतया 47,000 जनाः रोगग्रस्ताः अभवन्।
भारते कोविड् परिशोधः एककोटिं प्राप्नोति। 
सर्वकारवैद्यस्य निर्देशः आवश्यक इति व्यवस्था निरस्ता। 
नवदिल्ली >  कोविड् -१९ रोगशोधनायै सर्वकारीयवैद्यानामनुमतिः आवश्यकी इति व्यवस्था निरीकृता इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। अनेन कोविड् शोधनासंख्यां संवर्धयितुं शक्यते। ह्य एव २,२९,५८८ जनेषु कोविड्रोगपरिशोधः कृतः। अद्यावधि राष्ट्रे कृतस्य रोगशोधस्य संख्या ९०, ५६,१७३ वर्तते। 
  इतःप्रभृति पञ्जीकृतवैद्यकानुशीलकस्य [Registered Medical Practitioner] निर्देशानुसारं यः को$पि कोविड्शोधाय विधेयो भवितुमर्हति। निजीयमण्डलस्थाः वैद्याः अपि शोधनां कर्तुमर्हन्ति।

Thursday, July 2, 2020

भारतीयसङ्घेन विकसितं कोविड्१९ प्रति उपयोजकम् औषधं प्रयोक्तुम् अनुमतिः।
      नवदहली> कोविड्१९ प्रतिरोद्धुं  विकसितं उपयोजकम् औषधं मनुष्‍येषु प्रयोक्तुम् अनुमतिः। हैदराबाद्‌ मध्ये प्रवर्तमानेन भारत् बयोटेक् नामकेन सङ्घेन एव इदम् कोविड्१९ उपयोजकम् औषधं विकसितं वर्तते। इदम्प्रथमतया एव भारतीयौषधनियन्त्रणविभागात् मनुष्येषु कोविड्१९ उपयोजकौषधप्रयोगाय एकस्मै सङ्‌घाय अनुमतिः लब्धा वर्तते। औषधप्रयोगात् पूर्वं क्रियमाणानां पठनानाम् अवलोकनानां च आधारेण एव अनुमतिः दत्ता वर्तते। 'कोवाक्सिन् ' इति नामकरणं कृतस्य औषधस्य परीक्षणम् अस्मिन् मासे आरभ्यते। अधुना विश्वस्मिन् विविधैः सङ्घैः शताधिकं कोविड्१९ उपयोजकौषधपरीक्षणादिकं क्रियमाणं वर्तते।
गाल्वनात् चीनः निवर्तिष्यते। 
गाल्वने चीनस्य सैनिकसान्निध्यम्। 
नवदिल्ली >  सीम्नि वर्तमानं विवादं परिहर्तुं भारत-चीनयोः 'कमान्डर्' स्थानीययोः चर्चा न फलप्रदा जाता। किन्तु गाल्वनाधित्यकातः 'होट् स्प्रिङ्' पर्यन्तं दीर्घीभूतेभ्यः पि पि १४ [गाल्वनं] , पि पि १५ [होट्स्प्रिंग्], पि पि १७ [गोग्रामः] इत्येतेभ्यः निरीक्षणस्थानेभ्यः [Patrolling Points] सैनिकान् निवर्तयितुं चीनेन अनुमोदितम्। पि पि १६ भारताधीनं वर्तते। 
  परन्तु पाङ्गोङ् तटाकः, डेस्पाङ्ग्, देम्चूक् नामकेभ्यः स्थानेभ्यः चीनसैनिकनिवर्तनं दुष्करमिति सूच्यते। 'ले'आस्थानकस्य १४तम कोर् सैनिकविभागस्य कमान्डर् पदीयः लफ्टनन्ट् जनरल् हरीन्दर् सिंहः 'दक्षिणषिङ् जियाङ्' सैनिकमण्डलस्य मेजर् जनरल् पदस्थः लियू लिन् इत्येषः  च 'चुषूल्' स्थाने भारताधीने शिबिरे [Outpost] चर्चां कृतवन्तौ। अस्यां चर्चायां क्रमानुगतं प्रतिपदं च निवर्तनाय सन्धिः कृतेति सूचना लभते।
संस्कृतभाषायै अन्तर्जालाध्ययनं नास्ति। छात्राः रक्षाकर्तारः च प्रतिषेधं प्रकाशितवन्तः।
चित्रकारः - अरुण्कुमारः संस्कृत छात्रः
   कालटी> केरल-सर्वकारेण छात्रेभ्यः निस्तत्री दृश्यमाध्यमेन शिक्षणं समारभ्य ३० दिनानि अतीतानि। तथापि प्रथमकक्ष्यातः नवमकक्ष्या पर्यन्तं छात्रेभ्यः संस्कृतम्, अरबि, उरुदु भाषायाः कक्ष्या इतः पर्यन्तं न समारब्धा। भाषाध्ययने तत्पराणां छात्राणां संख्या अधिकतया सन्ति। तथापि सर्वकारस्य विप्रतिपत्तिः भाषायाः दुरवस्थायाः हेतुः भविष्यति। छात्रेषु संस्कृतेः आधारभूतं भवति भाषाध्ययनम् इति संस्कृताध्यापक फेडरेषन् इत्यस्य अध्यक्ष: बिजु काविल् अवदत्।

Wednesday, July 1, 2020

१५ राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः।
       ब्रसल्स्> कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनताजातेभ्यः राष्ट्रेभ्यः एव पौराणां प्रवेशनाय  अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीनेत्यादिराष्ट्रेभ्यः पौराणां निर्णयानुसारेण प्रवेशः लभते। किन्तु यूरोपीय यात्रिकाणां चीनं प्रति प्रवेशः मा रुन्धि इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। सप्ताहद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।