OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 4, 2020

विश्वारोग्यसंस्थायाः औषधपरीक्षणे भारतस्यापि योगदानम्।
      नवदहली> कोविड्१९ प्रतिरोधाय नूतनौषधपरीक्षणं प्रति भारतमपि प्रविशति। विश्वारोग्यसंस्थायाः नेतृत्वे सज्जीक्रियमाणे औषधपरीक्षणे भारतमपि भागभाक् भविष्यतीति केन्द्र-स्वास्थ्यमन्त्री डा.हर्षवर्धनः न्यवेदयत्। 'सोलिडारिट्टि' इति नाम्ना क्रियमाणे औषधपरीक्षणे रेम्टेसिविर् नामकम् औपधं राष्ट्रस्य विविधेषु मण्डलेषु कोविड् रोगिषु परीक्ष्यते इति हर्षवर्धनः न्यवेदयत्। एतदर्थम् औषधस्य १००० मात्रा सज्जीकृतं वर्तते। परीक्षणं सम्बन्ध्य उन्नतस्तरे चर्चाः कियमाणाः सन्ति। ऐ सि एम् आर्, सि एस् ऐ आर् संस्थयोः वैज्ञानिकैः विषयोऽयं निरीक्ष्यते च। अमेरिकदेशे कोविड् रोगिषु रेम्टेसिविर् औषधस्य प्रयोगेन ३१% वेगेन रोगमुक्तिः सञ्जाता च। कोविड्१९ रोगमुक्तये आवश्यकान् कालान् न्यूनीकर्तुम् औषधोऽयम् उपकारकं भवतीति 'सोलिडारिट्टि' नामकः औषधपरीक्षणसङ्घः प्रमाणीकरोति। सङ्घेऽस्मिन् शताधिकानि राष्ट्राणि भागभाक्त्वं वहन्ति। मनुष्यशरीरेषु प्रविश्यमाणस्य कोरोणरोगाण्वोः स्वयपरिवर्तनशेषिं रेम्टेसिविर् औषधं नाशयतीति वैज्ञानिकाः अभिप्रयन्ति।

कुल्भूषण् यादवस्य मोचनं साध्यम् - हरीष् साल्वे।

       नवदहली> पाकिस्थानस्थस्य सैनिकन्यायालयस्य वधदण्डननिर्णयेन बन्धनस्थस्य कुल्भूषण् यादवस्य मोचनाय नयतन्त्रसाहाय्यं लब्धुं भारतेन अन्ताराष्ट्रन्यायालयः प्रापणीयः इति प्रमुखः अभिभाषकः हीरष्‌ साल्वे अवदत्। एकस्मै देशीयवार्तामाध्यमाय दत्तायां अभिमुखवेलायां भाषयन्नासीत् हरीष्‌ साल्वे। कुल्भूषण् यादवाय नयतन्त्रसाहाय्यं दातव्यमिति निर्देशः २०१९ तमे वर्षे लब्धः वर्तते, किन्तु निर्देशोऽयं  पाकिस्थानेन न पाल्यतेति सः अवदत्। अतः तस्य मोचनाय भारतेन अन्ताराष्ट्रन्यायालयः एव प्राप्तव्यः इति साल्वे असूचयत्। कुल्भूषणस्य मोचनाय भारतेन २३ आवेदनानि पाकिस्थानं प्रति समर्पितानि सन्ति। किन्तु कदापि एकं  प्रतिकरणमपि पाकिस्थानपक्षतः नाभवत् - सः असूचयत्। कुल्भूषणः स्वयमेव अपराधवहनं अकरोत् इत्येव पाकिस्थानस्य विशदीकरणं, किन्तु एतदर्थं किमपि निदानं न समर्पितं च, साल्वे अभिप्रयत्। एतत् पाकिस्थानेन क्रियमाणं मानवाधिकारलङ्घनमेव भवतीत्यपि हरीष् साल्वे अवदत्। कुल्भूषणस्य मोचनम् अन्ताराष्ट्रन्यायालयस्य साहाय्येन सुसाध्यमेव इति प्रतीक्षामपि सः प्राकटयत्।

Sunday, May 3, 2020

केरलस्य कोविड्प्रतिरोधाय शशि तरूरस्य अतुल्यं योगदानं - "Thermal Optical Imaging Camera" ।

 अनन्तपुरी >  केरलस्य कोविड् प्रतिरोधकर्ममण्डलाय अधिकोर्जं प्रदाय लोकसभासदस्यस्य शशि तरूरस्य महत्तरं योगदानम्। कृत्रिममेधाशक्तियुक्तं  मुखावगमनसाङ्केतिकविद्याधिष्ठितं "Thermal Optical Imaging Camera" नामकं चित्रग्राहियन्त्रं केरलराजधानिम् आनीय सः केरलस्य कोविड्प्रतिरोधयज्ञाय  शक्तिं प्रददात्। 
  सामाजिकदूरं पालयतां अनेकेषां शरीरतापं युगपद् प्रत्यभिज्ञातुं अनेनोपकरणेन शक्यते। शशि तरूरस्य आगोलसौहृदं 'एम् पि निधिं' चोपयुज्य जर्मनीतः एवेदं तापीयचित्रग्राहियन्त्रम् आनीतम्। गते एप्रिल् २४तमे जर्मन्यां कोलोण् प्रदेशात् डि. एछ्. एल् संस्थायाः सविशेषविमाने पारीस्, ब्रसल्स्, लीप्सिग्, बहरिन्, दुबाय् इत्येतैः विमाननिलयैः २८तमे दिनाङ्के बंगलुरु प्रापितम्। ततः वीथीमीर्गेण अनन्तपुरं प्रापितम्। 
  ह्यः अनन्तपुरीतः स्वराज्यं गतवताम् इतरराज्यकर्मचारिणां शरीरतापः अनेन यन्त्रेणैव अवगतः। ५.८ लक्षं रूप्यकाणि मूल्ययुतस्य यन्त्रस्य आनयनव्ययः २.७५ लक्षम् अभवत्। इतरराज्यकर्मकराणां गमनसमये तथा प्रवासिनाम् आगमनसमये च इदं चित्रग्राह्युपकरणम् अत्यन्तं प्रयोजनप्रदं भविष्यतीति मन्यते।
जनधन वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यम्।
   नवदहली> राष्ट्रस्य वित्तकोशेषु वनितानां वित्तलेखान् प्रति केन्द्रसर्वकारस्य धनसाहाय्यस्य द्वितीयः अंशः सोमवासरादारभ्य लभ्यते। वित्तकोशेषु जनबाहुल्यं न्यूनीकर्तुं संख्यासम्प्रदायः कल्पितः अस्ति। येषां वित्तकोशविनिमयसंख्यायां अन्ते ०,१ संख्ये वर्तेते तेभ्यः सोमवासरे, २,३ संख्यकेभ्यः मङ्गलवासरे इत्येवम् अस्य मासस्य ११ दिनाङ्कपर्यन्तं धनस्वीकरणाय समयः कल्पितः अस्ति। ५०० रुप्यकाणां धनसाहाय्यमेव अधुना लभ्यते। धनसाहाय्यपद्धतेः प्रथमांशरूपेण एप्रिल् मासे ५०० रुप्यकाणि लब्धानि आसन् ।  तृतीयांशः जूण् मासे लप्स्यते च।
कोविड्१९ प्रतिरोधप्रवर्तकेभ्यः सैन्यस्य आदरः।
   नवदहली> कोविड्१९ प्रतिरधप्रवर्तनेषु व्यापृतेभ्यः आरोग्यप्रवर्तकेभ्यः आरक्षकविभागेभ्यः च सैन्यस्य आदरः। महानौकासु दीपालङ्कारान् सज्जीकृत्य कोविड् आतुरालयानामुपरि पुष्पवृष्ट्या आकाशे व्योमाभ्यासप्रकटनं च कृत्वा एव सैन्येन आदरः प्रकटितः। आरक्षकविभागं प्रति आदरसूचकत्वेन दहलीस्थस्य आरक्षकस्मारकस्य पुरतः पुष्पचक्रं समर्प्य कार्यक्रमः आरब्धः। ततः कोविड् आतुरालयस्योपरि पुष्पवृष्टिं चाकरोत्। एवं राष्ट्रस्य विविधेषु नगरेषु भारतीयव्योमसेनायाः विविधानां युद्धविमानानां तथा यात्राविमानानां च आकाशप्रकटनमपि अभवत्। श्रीनगरतः तिरुवनन्तपुरपर्यन्तं तथा आसामतः गुजराते कच् पर्यन्तं च एतादृशरीत्या आदरप्रकटनम् अभवत्।
आतङ्कवादिभिः सह प्रतिद्वन्द्वः - काश्मीरे वरिष्ठस्थानिकौ अभिव्याप्य पञ्च सैनिकाः वीरमृत्युं प्राप्ताः। 

श्रीनगरं > जम्मुकाश्मीरस्य कुप्वारजनपदे हन्वारनगरे गतदिने आतङ्कवादिभिः सह सम्पन्ने प्रतिद्वन्द्वे एकः 'केणल्' स्थानिकः , एकः 'मेजर्' स्थानिकः , द्वौ सैनिकौ, एकः आरक्षिकाधिकारी च वीरमृत्युं प्रप्ताः।  ८ होराः यावत् दीर्घिते रणे द्वौ भीकराः अपि व्यापादिताः। 
  '२१ राष्ट्रिय रैफिल्' नामके एकाङ्के केणल् पदीयः अशुतोष् शर्मा, मेजर् पदीयः अनुज् नामकः, आरक्षकाधिकारी [SI] षक्कील् खासी च हताः। हतौ इतरौ द्वौ सैनिकौ अलब्धनामकौ वर्तेते। 
  हद्वारा नगरस्थे जनावासकेन्द्रे भीकराः निलीनाः वर्तन्ते इति सूचनानुसारं पूर्वोक्त एकाङ्कस्थाः सैनिकाः गणवेषच्छन्नाः सन्तः एव कृत्यं निरूढवन्तः। भीकरैः जनाः बन्धिताः आसन्निति सूच्यते।

Saturday, May 2, 2020

तृतीयवारसम्पूर्णपिधानम् - केषुचित् प्रदेशेषु आनुकूल्यादिकं वर्धितम्।
     नवदहली> राष्ट्रे कोविड्१९ व्यापनप्रतिरोधाय प्रख्यापितम् सम्पूर्णपिधानं तृतीयस्तरं प्रति प्रविशति। मार्च् २४ दिनाङ्कादारब्धं प्रथमं पिधानम् एप्रिल् १४ पर्यन्तमासीत्। ततः पिधानकालः मेय् ३ पर्यन्तं परिवर्तितः आसीत्। पिधानमिदं श्वः समाप्यते। किन्तु भारते केषुचित् नगरेषु रोगव्यापनम् अधुनापि नियन्त्रणाधीनं न वर्तते इत्यतः ह्यः केन्द्रसर्वकारेण पिधानं सप्ताहद्वयकालं यावत् दीर्घीकृतम्। तथापि वारद्वयपिधानापेक्षया इदानीम् आनुकूल्यादिकं वर्धितं वर्तते। तदर्थं कोविड्१९ बाधितप्रदेशाः रक्तीयाः, पिङ्लीयाः, हरिताः चेति वर्गीकृताः वर्तन्ते। राष्ट्रस्य १३० जनपदानि रक्तीयविभागे, २८४ जनपदानि पिङ्गलविभागे, ३१९ जनपदानि हरितविभागे च अन्तर्भावितानि वर्तन्ते। तत्र त्रिष्वपि मण्डलेषु वैद्य-निरीक्षणशालाः, व्यावसायिक-वाणिज्यकेन्द्राणि, सर्वकारीय-केन्द्राणि, कृषिस्थापनानि, वित्तकोश-धनकार्यकेन्द्राणि, पत्रालयकेन्द्राणि च उपाधिपूर्वकं प्रवर्तयितुम् अनुमतिः वर्तते। एवं  १० वयसः अधमानां बालानां तथा ६५ वयसः उपरिष्ठानां जनानां च बहिर्गमनं रक्तीय-पिङ्गल-हरितमण्डलेषु निरुद्धं वर्तते। एवं भूतलमार्गद्वारा राज्यान्तरगमनं,  विमान-रेलयानसंविधानं शैक्षिकस्थापनानां प्रवर्तनं, सिनेमाशालाप्रवर्तनं, सामान्य-भोजनालयप्रवर्तनं च सर्वत्र निरुद्धं वर्तते। हरितमण्डलेषु पिङ्गलमण्डलेषु च उपाधिपूर्वकं जनपदान्तर-गमनसहितं सञ्चारानुकूल्यादिकं दत्तं वर्तते।

भारते पिधानं सप्ताहद्वयंं यावत् दीर्घीकृतम्। 
केषुचन मण्डलेषु आश्वासप्रक्रमाः। 
नवदिल्ली >  भारते सम्पूर्णपिधानस्य कालपरिमाणं मेय् तृतीयदिनाङ्के परिसमाप्यमाणे , सप्ताहद्वयं यावत् पिधानं दीर्घीकृत्य गृहमन्त्रालयस्य विज्ञापनम्। मेय् १७पर्यन्तमेव तृतीयसोपानपिधानस्य कालः। 
  आराष्ट्रं जनपदान् 'रक्त ओरञ्ज हरित' मण्डलरूपेण वर्गीकृत्य क्रियमाणानि प्रवर्तनानि आदेशे निर्दिष्टानि। ओरञ्ज हरित मण्डलेषु नियन्त्रितरीत्या आश्वासप्रक्रमाः प्रख्यापिताः। किन्तु आराष्ट्रं मण्डलभेदं विना कानिचन नियन्त्रणानि आयोजितानि। व्योम रेल् मेट्रो गमनागमनानि निरुद्धानि। अन्ताराज्य-गमनागमनानाम् अपि अनुज्ञा नास्ति। विद्यालय कलालयादि शैक्षिकसंस्थाः पिहितरूपेणैव वर्तिष्यन्ते। 
  सामाजिक राजनैतिक धार्मिकमेलनानि निरुद्धानि। सायं सप्तवादनादारभ्य प्रभाते सप्तवादनपर्यन्तं सर्वेषामपि यात्रा न विहिता। ६५ तः उपरि वर्तमानाः वृद्धजनाः दशवयः पर्यन्तं विद्यमानाः बालकाः सगर्भाः महिलाः इत्येषां गृहान्तर्वासः विहितः।

Friday, May 1, 2020

राज्यान्तरकर्मकराणां स्वदेशगमनार्थं सविशेषरेल् यानाय  अनुज्ञा। 
स्वराज्यगमनपञ्जीकरणाय पेरुम्पावूर् मण्डले सम्मिलिताः राज्यान्तरीयाः कर्मकराः। 
छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादिभ्यश्च स्वराज्यप्राप्त्यर्थं सुविधा। 
तेलुङ्कानं - झार्खण्डः , केरलं - ओडीषा रेल् यानम् अद्य। 

कोच्ची >  भारते विविधप्रान्तान् उपजीविकायै अधिवसद्भ्यः राज्यान्तरकर्मकरेभ्यः स्वराज्यं प्राप्तुं केन्द्रसर्वकारः सविशेषरेल् यानसुविधाम् आयोजयति। पिधानमानदण्डान्  सुरक्षाक्रमीकरणानि च परिपालयन्नेव यात्रा कार्या इति केन्द्रनिर्देशः। 
  तादृशं प्रथमं सविशेषरेल् यानं तेलुङ्कानस्य हल्लम्पल्लि रेल्निस्थानात् झार्खण्डराज्यं प्रति अद्य प्रभाते प्रातिष्ठत्। केरलात् प्रथमं यानं अद्य सायं आलुवा निस्थानात् ओडीषस्य भुवनेश्वरं प्रति प्रस्थितम्। २४ कक्षयुक्ते अस्मिन् याने सहस्रात्परं यात्रिकाः भविष्यन्ति। 
  यात्रिकानां पञ्जीकरणं यथाकालं सम्पन्नम्।  भक्षणं, पानजलं, अवश्यमौषधम् इत्यादिकं दत्वा  केरलसर्वकारः तेभ्यः यात्रामङ्गलमकरोत्। श्वः पञ्च रेल्यानसेवाः अपि राज्यान्तरकर्मचारिभ्यः विधास्यति। 
  तथा च विविधराज्येषु कूटस्थाः छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादीनां स्वराज्यप्राप्तये अपि रेल् यानसुविधा आयोजिता। महाराष्ट्रं, बीहारः इत्यादिभ्यः राज्येभ्यः अपि रेल् यानसेवा आरब्धुं प्रक्रमाः आरब्धाः। 
रष्यदेशस्य प्रधानमन्त्री मिखायेल् मिष्स्तुः कोविड्१९ बाधितः।

 मोस्को> रष्यदेशस्य प्रधानमन्त्री मिखायेल् मिष्स्तुः कोविड्१९ बाधितः। रोगस्थिरीकरणात्परं सः निरीक्षणे अभवत्। प्रधानमन्त्रिणः औद्योगिकमण्डलं प्रति प्रत्यागमनपर्यन्तम् उपप्रधानमन्त्री आन्द्रे बेलसोव् सर्वकारं नेष्यति। रष्यदेशे रोगव्यापनकारणेन सम्पूर्णपिधानं सप्ताहद्वयपर्यन्तं परिवर्तितं वर्तते। रष्यदेशे एतावता १०७३ जनाः कोविड्१९ रोगेण मृताः सन्ति।
भारते मेय् ३ दिनाङ्कात्‍परं हरितमण्डलेषु सामान्य-गमनागमन-सुविधा इति सूचना।
      नवदहली> भारते प्रख्यापितं सम्पूर्णपिधानं मेय् ३ दिनाङ्‌के समाप्यते। केन्द्रसर्वकारेण राष्ट्रे कोविड्१९ भीषातः मुक्तानि मण्डलानि हरितमण्डलानि  भीषा अधुनापि अनुभूयमनानि रक्तीयमण्डलानि कानिचन पिङ्गलीयानि चेति वर्गीकृतानि वर्तन्ते। सम्पूर्णपिधानप्रतिग्रहणात्परमपि रक्तीयमण्डलेषु नियन्त्रणानि अनुवर्तयिष्यन्तीति अधिकृतैः सूचितम्। तथापि हरितमण्डलेषु सामान्यगमनागमनसौविध्याय च अनुमतिः दास्यति इत्यपि सूचना अस्ति। किन्तु विमान-रेलयानगमनाय अनुमतिः न स्यात्। नगरप्रदेशेषु नियन्त्रणपूर्वकं सञ्चारस्वातन्त्र्यं लप्स्यते। अधुना राष्ट्रे १५% ग्रामेष्वेव कोविड्१९ भीषा वर्तते। अतः ग्रामीणप्रदेशेषु अधिकतया प्रवर्तनानुकूल्यं स्यात्। सम्पूर्णपिधानात्परं देयानां विविधानानां सञ्चारानुकूल्यानां विषये औद्योगिकस्तरे चर्चाः क्रियमाणाः वर्तन्ते च।
कोविड् समस्या- ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते।
   लन्टन्> कोविड् महाव्याधिना जायमानां दुर्घटावस्थां  तारणाय ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते । संस्थायाः पुनः संघटना पद्धतेः भागतया संख्याधिकान् कर्मकरान् ब्रिटीश् एयर्वेसस्य मातृसंस्था इन्टर्नाषणल्  एयर्लैन् संस्थया एवम् आवेदितम्।
पद्धतयः इदानीं संस्थायाः आलोचना विषयाः भवन्ति। परन्तु एतानि कार्याणि ब्रिट्टीश् एयर्वेसस्य भूरि कर्मकरान्  बाधते इति संस्थया आवेदितम्। परिवर्तिते काले १२,०००कर्मकराः संस्थया परित्यक्ताः भवेयुः। २०१९तमे संवत्सरे यावन्तः यात्रिकाः आसन्, तावन्तः तत्समानरीत्या यात्रिकान् लब्धुम् इतोऽपि परं कतिपयसंवत्सराः आवश्यकाः इति संस्थया आवेदितम्। व्योमयानानां निश्चलत्वेन इह स्थितिवशात् संस्थायाः महानष्टं अभवत्। ब्रिटीश् एयर्वेस् संस्थायां ४५०० वैमानिकाः,१६००० विमानयात्रिकानां परिचारकाः च सन्ति। इदानीं विदेशेषु बन्धितानाम् आनयनाय विशेषसेवा ब्रिटीश् एयर्वेस् संस्थया क्रियते।
आरोग्यप्रवर्तकान् अभिनन्दयन् भारतस्य प्रधानमन्त्री।
  भारतराष्ट्रे> कोविड्‌१९ रोगप्रतिरोधप्रवर्तनेषु व्यापृतानाम् आरोग्यप्रवर्तकानां कृते प्रधानमन्त्रिणः नरेन्द्रमोदिनः अभिनन्दनम्। एते आरोग्यप्रवर्तकाः राष्ट्रस्य अभिमानप्रात्राणि भवन्तीति प्रधानमन्त्रिणा अभिप्रेतम्। कोविड्‌१९ व्यापनं प्रति भारतस्य प्रतिरोधप्रवर्तनेषु आरोग्यप्रवर्तकानां योगदानम् अमूल्यमेवेति तेन सूचितम्। विविधेषु प्रदेशेषु कोविड्१९ प्रतिरोधप्रवर्तनात्परं प्रत्यागतेभ्यः आरोग्यप्रवर्तकेभ्यः दत्तानाम् अभिनन्दनकार्यक्रमाणां चलनचित्राणि ट्विट्टर् माध्यमद्वारा समर्प्य एव नरेन्द्रमोदिना अभिनन्दनं कृतम्।
भारते कोविड्मरणं व्यापनं च विकसितराष्ट्रेभ्यः अपेक्षया अतिन्यूनम्। 
नवदिल्ली >  कोविड्व्यापनस्य तथा मरणस्य च मानं विकसितराष्ट्रेभ्यः अपेक्षया भारते अतिन्यूनमिति केन्द्रस्वास्थ्यमन्त्रालयस्य 'वोल्डोमीटर्' नामकस्य अन्तर्जालसङ्केतस्य च अन्वीक्षणेन स्पष्टीक्रियते। 
  रोगबाधितानां द्विगुणीकरणस्य कालः यू के , यू एस्, इट्टली, स्पेयिन्, इत्यादीनि राष्ट्रेभ्यः अपेक्षया अधिकः अस्ति। मृत्युमाने च भारतस्य स्थितिः इतरराष्ट्रेभ्यः श्रेष्ठा भवति। किन्तु कानडाराष्ट्रं भारतात् श्रेष्ठमिति पूर्वोक्तेन अन्वीक्षणेन स्पष्टीकृतम्।

Thursday, April 30, 2020


ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः।

   नवदहली > ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः। सयीद्‌ अक्बरुदीनस्य स्थाने एव तिरुमूर्तेः नियमनं वर्तते। सार्वलौकिकमण्डले विविधेषु विषयेषु भारतस्य शब्दः भवति सयीद्‌ अक्बरुदीन्।  सः अचिरादेव स्वस्थानात् विरम्यते।  १९८५ वर्षस्य ऐ एफ् एस् गणे उद्योगस्थः भवति टि एस् तिरुमूर्तिः।अधुना भारतस्य विदेशकार्यमन्त्रालये कार्यदर्शी भवति टि एस् तिरुमूर्तिः।
भारते कोविड्मरणानि सहस्रमतीतानि। 
नवदिल्ली >  राष्ट्रे कोविड्बाधया मृतानां संख्या १००८ अभवदिति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने ७१ रोगिणः मृताः। प्रप्रथममेव एकेनैव दिनेन एतावन्ति मरणानि भूतानि। ३१,७८७ जनाः रोगबाधिताः अभवन्। इतःपर्यन्तं ७,७९६ जनाः रोगमुक्ताः जाताः। 
  भारते महाराष्ट्रं कोविड्विषये अत्यधिकां दुर्दशामावहति। तत्र कोविड्बाधितानां संख्या नवसहस्रमतीता। गुजरात् , दिल्ली राज्यद्वयमपि महाराष्ट्रमनुगच्छति। त्रिसहस्राधिकाः जनाः प्रत्येकस्मिन् राज्ये रुग्णाः सन्ति।