OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 30, 2020

यु ए इ प्रार्थना भारतसर्वकारेण अङ्गीकृता - अचिरादेव वैद्यसङ्घं प्रेषयिष्यति।
    नवदहली > कोविड्१९ व्यापनवेलायामस्यां भारतेन आवश्यकः वैद्यसङ्‌घः प्रेषणीयः इति यु ए इ अधिकृतानां प्रार्थना भारतसर्वकारेण अङ्गीकृता। एतद्विषये गतसोमवासरे एव यु ए इ अधिकृतैः अभ्यर्थिता। भारतेन कुवैत् राष्ट्रं प्रति १५ अङ्‌गपरिमितः सैनिकवैद्यसङ्घः प्रेषितः आसीत्। अधुना विदेशराष्ट्राणि प्रति सेवनमण्डलात् विरमितानां सैनिकवैद्यानां प्रेषणमेव केन्द्रसर्वकारेण उद्दिश्यते। भारते प्रतिवर्षं सैनिकमण्डलात् शताधिकाः वैद्याः चत्वारिंशदधिकाः आतुरसेवकाः च विरम्यन्ते। एतेषां प्रेषणमेव केन्द्रसर्वकारेण प्रमुखतया क्रियते। विविधेभ्यः गल्फ् राष्ट्रेभ्यः वैद्यसम्बन्‍धं साहाय्यम् अभ्यर्थ्य निवेदनानि विदेशकार्यमन्त्रालये लब्धानि वर्तन्ते। एतदुपरि उचितः निर्णयः स्वीकरिष्यतीति मन्त्रालयेन सूचितं च। अधुना हैड्रोक्सिक्लोरोक्विन् औषधानि विविधाः औषधनिर्माणसामग्र्यः च भारतेन विदेशराष्ट्राणि प्रति प्रेष्यन्ते च।

Wednesday, April 29, 2020

ब्रिट्टने यूएस् राष्ट्रे च कोविड् अनियन्त्रणरीत्या।
फ्रान्स् स्वीडन् राष्ट्रयोः आश्वासप्रक्रमाः।
आविश्वं कोविड्बाधिताः ३१लक्षं ; मरणानि लक्षद्वयाधिकानि। 
  > लोके बहुषु इतरराष्ट्रेषु यद्यपि  कोविड्रोगः नियन्त्रणविधेयः अभवत्तथापि ब्रिट्टने यू एस् राष्ट्रे च रोगव्यापनम् अनियन्त्रणरीत्या अनुवर्तते। लोके विद्यमानेषु रोगिषु ⅓अंशः अपि अमेरिक्कायामेव वर्तते। इतःपर्यन्तं तत्र ५७,०४९ जनाः मृत्युमुपगताः। रोगबाधितास्तु दशलक्षाधिकाः अभवन्। 
  ब्रिट्टने तु मरणमानं तीव्रमुद्गच्छति। इतःपर्यन्तं २१,००० परं जनाः मृताः। गतसप्ताहेन मृत्युसंख्या द्विगुणितमभवत्। शताधिकाः स्वास्थ्यप्रवर्तका अपि मृत्युमुपगताः। 
  किन्तु फ्रान्स् स्वीडन् इत्यस्मिन् राष्ट्रद्वये मृत्युमानं न्यूनीकरोति इत्यतः तत्र आश्वासप्रक्रमान्  प्रख्यापितुम् उद्दिश्यते। आस्ट्रेलिया राष्ट्रे नियन्त्रणानि अंशतया निराकृतानि।
व्यङ्ग्यचित्रम्। 
-देविदासः देशपाण्डे

पृथक् विमानं प्रेषयामः, साहाय्यम् आवश्यकम् - भारतं प्रति यु ए ई प्रार्थना।
    नवदहली> कोविड् प्रतिरोधप्रवर्तनेभ्यः भारतस्य साहाय्यम्‌ अभ्यर्थ्य यु ए ई। कोविड्रोगीणां परिचरणाय भारतात् वैद्यान् आतुरसेविकाः च प्रेष्य साहाय्यं करणीयम् इत्येव यु ए इ अधिकृतानाम् अभ्यर्थना। यु ए इ मध्ये आतुरालयेषु प्रायः भारतीयाः एव सेवनं कुर्वन्तः वर्तन्ते। किन्तु, तेषु केचन विरामवेलायां भारतमागत्य सम्पूर्णपिधानकारणात् प्रतिगन्तुम् अशक्ताः च भवन्ति। एतेषां सेवां लब्धुं विशेषविमानमपि वयं प्रेषयामः इति अबुदाबि अधिकृतैः विदेशमन्त्रालयं प्रति सूचितम्। एतद्विषये चर्चा क्रियमाणा वर्तते, अचिरादेव उचितः निर्णयः स्वीक्रियते इति च विदेशमन्त्रालयाधिकारिभिः उक्तम्।

Tuesday, April 28, 2020

पिधानकारणात् विदेशराष्ट्रेभ्यः भारतम् प्रत्यागन्तुम् अशक्तेभ्यः साहाय्यं दीयते - भारतसर्वकारः।
   नवदहली > भारते तथा विदेशेषु च सम्पूर्णपिधानात् क्लेशमनुभवतां भारतीयानां प्रत्यागमनविषये केन्द्रसर्वकारेण पर्यालोच्यते। भारते सम्पूर्णपिधानस्य प्रतिनिवर्तनात्परम् एतेषां प्रत्यागमनाय उचितः निर्णयः स्वीक्रियतेति सूचना। एतदर्थं विविधमन्त्रालयाधिकारिभिः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना चर्चा कृता। प्रत्यागमनात्परम् एतेषां सम्पर्कनिरोधावासादीनां विषये अवलोकनं समर्पयितुं विविधेभ्यः राज्यस्तरीयाधिकारिभ्यः केन्द्रसर्वकारेण निर्देशः दत्तः वर्तते। एतदर्थं विदेशकार्यमन्त्रालयेन आविष्कृता रूपरेखा केन्द्रमन्त्रिसभायाः कार्यदर्शिनः राजीव् गौब महोदयस्य आध्यक्षे उन्नतसमित्या अवलोकिता। विदेशेषु वर्तमानानां भारतीयानां संख्या, भारते तेषां राज्यानि, प्रत्यागमनाय आवश्यकानां विमानानां संख्या इत्येते अंशाः समित्‍या पर्यालोचिता च ।
उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः।
 
  नवदहली> उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः। तेन गतसप्ताहे वारद्वयं यावत् उच्चतरन्यायालयः सन्दर्शितः वर्तते। अस्य जनसम्पर्कपट्टिका अधिकृतैः क्रियमाणा वर्तते। कर्मकरस्य कोविड्१९ स्थितीकरणात्परं उच्चतरन्यायालयस्य द्वयोः लेखाधिकारिणोः गृहे निरीक्षणे भवितुं निर्देशः दत्तः वर्तते च।

Monday, April 27, 2020

प्रधानमन्त्रिणो नरेन्द्रमोदिनो मन की बात कार्यक्रमः
-पुरुषोत्तमशर्मा नवदेहली
    मन की बात / श्रीमोदी प्रावोचत् यत्  - कोरोना-विषाणुं विरुध्य जनसामान्यं सङ्घर्षरतं वर्तते,अस्मिन् सङ्घर्षे समेषां योगदीनमस्ति, आत्मविश्वासाधिक्यं नैव पालयन्तु यदयं सङ्क्रमणः अस्मान् पुरतः नैवागमिष्यतीति 

प्रधानन्त्री नरेन्द्रमोदी ऐषमः चतुर्थे मन सी बात कार्यक्रमे जनान् सम्बोधयत्। प्रोक्तं च कोरोना संङ्घर्षो नैवास्ति दुर्बलः, अग्निः ऋणं रोगश्च कदापि पुनरुद्भवितुं शक्नुवन्ति, अत अस्माभिः सदैव जागरूकैः भाव्यम् ’ सममेवोक्तं यत् स्वयं व्यवहारं परिवर्तनीयं बहिर्गमनसमये मुखावेष्टं स्वीकरणीयम्, कुत्रापि निष्ठीवनं नैव कर्तव्यम्।

प्रधानमन्त्री नरेन्द्रमोदी अकथयदहं त्रिंशदुत्तरैकशतकोटि-देशवासिभ्यः सादरं नमामि। प्रशासनेन https://covidwarriors.gov.in/ इति अन्तर्जालपुटकमि निर्मितम्। अनेन जनाः परस्परं सम्पृक्ताः। इदानीं यावत् सपादकोटिजनाः अस्योपयोगं कृतवन्तः। चिकित्सकाः स्वास्थ्यकर्मिणः आशाकार्यकर्त्र्यः परिचायिकाश्च परस्परं सम्पृक्ताः वर्तन्ते। एते भावियोजनानिर्माणाय अपि साहाय्यं कुर्वन्ति।
पिधानदीर्घीकरणम् अपेक्षितमिति ६ राज्यानि। 
मुख्यमन्त्रिभिः सह प्रधानमन्त्रिणः 'वीडियोसम्मेलनम्' अद्य। 
नवदिल्ली >  कोविड् - १९ रोगस्य व्यापनं रूक्षतया अनुवर्तते इत्यतः पिधानमपि अनुवर्तनीयमिति ६ राज्यैः अपेक्षितम्। दिल्ली, महाराष्ट्रं, पश्चिमवंगः, पञ्चाबः, मध्यप्रदेशः, ओडीषा इत्येतानि राज्यानि केन्द्रसर्वकारम् अभ्यर्थयन्। तेलुङ्कानेन तु पिधानं मेय् सप्तमदिनाङ्कपर्यन्तं दीर्घीकृतम्। इदानीं मेय् ३तममेव पिधानमुद्घुष्टम्। 
  तथा अद्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिभिः साकं वीडियोद्वारा सम्मेलनमायोजितवान् अस्ति। तदा अमुं विषयं चर्चिष्यति। स्वदेशं प्रत्यागमनेच्छुनां प्रवासिनां निवेदने अपि निर्णयः भविष्यतीति प्रतीक्षते।

Sunday, April 26, 2020


विषाणुव्यापनं  येषु राष्ट्रेषु अनियन्त्रितया अनुवर्तते तेषु राष्ट्रेषु उपयोगाय श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति - ट्रम्पः।
  वाषिङ्टण्> कोरोणा विषाणुव्यापनम्  अनियन्त्रितया अनुवर्तमाने सन्द्रर्भेऽपि अन्यस्मै सौलभ्यं प्रकटीकरोति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः।   येषु राष्ट्रेषु अनियन्त्रितया नोवल् कोरोणा विषाणु व्यापनम् (कोविड्१९) अनुवर्तते, तेभ्यः राष्ट्रेभ्यः  श्वसनयन्त्राणि प्रदास्यन्ति इति ट्रम्पः अवदत्। इदानीं  स्वस्य राष्ट्रे अधिकतया यन्त्राणि सन्ति इति  ट्रम्पः अवदत्। मेक्सिको, होण्डूरास्, फ्रान्स्, इट्टली, इन्दोनेष्य, स्पेयिन्, आदि राष्ट्रेभ्यः श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति इति ट्रम्पः उक्तवान्।
‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०         
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]           


            मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम्  | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत्  सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
        सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ

Saturday, April 25, 2020

आगामिनि अध्ययनवर्षे विद्यालयेषु मुखावरणम् अवश्यं धार्यम्।
तृश्शूर् >  कोविड् व्यापनस्य परिसमाप्तिः यदि भविष्यति वा न वा, आगामिनि अध्ययनसंवत्सरे केरलस्य विद्यालयेषु छात्रैः अध्यापकैश्च मुखावरणम् अवश्यं धार्यमिति सर्वकारस्य स्वास्थ्यविभागेन आदिष्टम्। मेय् ३० तः पूर्वं केरलस्य  सार्वजनीनविद्यालयेषु ५०लक्षं परिमितानां छात्राणां तत्रत्यानां शिक्षकाणां च कृते  निःशुल्कतया मुखावरणं निर्मीय दातुं 'समग्र शिक्षा केरलं' नामिकां संस्थां निरदिशत्। तदर्थः व्ययः छात्राणां गणवेषनिधेः स्वीकर्तुम् अनुमतिः लब्धा।

Friday, April 24, 2020

सम्पूर्णपिधानम् - उत्तरभारते वायुमलिनीकरणस्य अनुपातः न्यूनत्वं प्राप्तः।
 नवदहली> भारते कोविड्१९ प्रतिरोधाय सम्पूर्णपिधानं मेय् मासस्य ३ दिनाङ्कपर्यन्तं परिवर्तितमासीत्।  एकमासात्मककालस्य सम्पूर्णपिधानस्य अवलोकनवेलायां कोविड्१९ व्यापननस्य प्रतिरोधेन सह प्रकृतेः संरक्षणकार्यमपि साधितं वर्तते। अनेन एकमासात्मककालेन उत्तरभारते वायुमलिनीकरणस्य अनुपातः गतविंशतिवर्षापेक्षया न्यूनत्‍वं जातः इति अमेरिक्कस्य बहिराकाशपठनकेन्द्रेण नासेन प्रस्तावितम्। सम्पूर्णपिधानं राष्ट्रस्य विविधप्रदेशेषु अन्तरीक्षमलिनीकरणस्य अनुपातं न्यूनीकर्तुम् अत्यन्तम् उपकारकम् अभवदिति नासकेन्द्रस्य वैज्ञानिकेन पवन् गुप्तेन अभिप्रेतम्। पिधानकारणतया मार्गेषु वाहनानां न्यूनत्वं तथा व्यावसायिकशालानां प्रवर्तनराहित्यं च अन्तरीक्षमलिनीकरणं न्यूनीकर्तुं सहायकमभवत्।
जम्मु काश्मीरे ४ भीकराः निहताः। 
श्रीनगरं > जम्मु काश्मीरस्य षोपियानजनपदे गतदिने सुरक्षासेनया सह प्रतिद्वन्द्वे चत्वारः भीकराः हताः। 
  मेल्होरा प्रविश्यायां भीकराणां सान्निध्यं वर्ततेति सूचनानुसारं सुरक्षासेनया आरक्षकैः च कुजवासरे एव अन्वेषणमारब्धमासीत्। निलीनाः भीकराः कार्यसंघं विरुध्य नालिकाशस्त्रं प्रयुक्तवन्तः। तदनन्तरं सम्पन्ने प्रतिद्वन्द्वे भीकराः व्यापादिताः। मृतभीकराणां प्रत्यभिज्ञानप्रक्रिया अारब्धा।
कोविडीयकालस्य विद्यालयीयछात्राणां रचनाः
अक्षरवृक्षः प्रथमभागः  प्रकाशितः। 
'अक्षरवृक्षस्य' प्रकाशनं केरलस्य मुख्यमन्त्री पिणरायि विजयः सांस्कृतमन्त्रिणे जि. सुधाकराय ददन् निर्वहति।
अनन्तपुरी > कोविड्काले केरले सम्पूर्णपिधाने प्राप्ते विद्यालयीयछात्राः वृथा कालं नीतवन्तः नासन्। शिक्षाविभागस्य निर्देशं शिरसा वहन्तः तेषाम् अध्यापकानां प्रोत्साहने स्वकीयसर्गशक्तेः प्रकाशनाय प्रयतितवन्तः। कथा कविता लेखनरूपैः तेषां कोविड्कालचिन्ताः बहिरागताः। ताः डिजिटल् रूपेण स्वीकृतवत्यः विद्यालयस्थानां ऐ टि अध्यापकानां साह्येन 'स्कूल् विक्की' नामिकां डिजिटल् मासिक्यां निवेशिताः। 
  ताः रचनाः राज्यस्तरे क्रोडीकृत्य श्रेष्ठरचनाः निर्वाच्य केरलशैक्षिकविभागेन पुस्तकरूपेण प्रकाशिताः। कथा-कविता-लेखनविभागेषु त्रयः ग्रन्थाः प्रकाशिताः। तेषां प्रथमभागस्य प्रकाशनं मुख्यमन्त्री पिणरायि विजयः सांस्कृतिकमन्त्रिणे जि सुधाकराय समर्प्य कृतवान्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः, एस् ई आर् टि निदेशकः प्रोफ. प्रसादः इत्यादयः तस्मिन् कार्यक्रमे सन्निहिताः आसन्।

Wednesday, April 22, 2020

कोविड्१९ सान्निध्य निरीक्षणाय न्यूनमूल्येन भारतीयं संविधानम्।
    नवदहली> कोविड्१९ रोगस्य सान्निध्य-निरीक्षणम् अतिमूल्यवत् भवति।  एकस्य सान्निध्य-निरीक्षणाय प्रायः ४०००-४५०० रूप्यकाणि भवेयुः। रोगव्यापनस्य प्रथमदिनेषु शरीरे रोगाणोः सान्निध्यं परीक्षितुम् उपकरणानि विदेशेभ्यः स्वीक्रियमाणानि आसन्‌। तदनन्तरं  भारतेन परीक्षणोपकरणं विकसितम्। अधुना नूतनपठनानां साह्येन मूल्यस्य न्यूनीकरणेन च नवीनं संविधानं भारतीयगवेषकाभ्यां विकसितम्। सि एस् ऐ आर् विभागस्य देब्ज्योति चक्रवर्ति, सौविक् मौति चेति द्वाभ्यां जीवशास्त्रगवेषकाभ्यामेव उपकरणं विकसितं वर्तते। अनेन उपकरणेन एकखण्टाभ्यन्तरे अल्पेन व्ययेन शरीरे रोगाणोः सान्निध्यं सम्बन्ध्य निरीक्षणफलं ज्ञातुं शक्यते। प्रसिद्धस्य चलच्चित्रनिदेशकस्य सत्यजित् राय् महोदयस्य प्रमुखकथापात्रस्य 'फेलूद'स्य नाम्ना इदं नूतनं कोविड्१९ परीक्षणोपकरणं व्यवह्रियते। एतत्सम्बन्ध्य विशदीकरणं ऐ जि ऐ बि अध्यक्षेण अनुराग् अगर्वालेन कृतम्।
कोविड् १९- आविश्वं दुर्दशा आगम्यमाना वर्तते। 
यू एस् कृते अपि जाग्रतासूचना दत्तेति विश्वस्वास्थ्यसंघटनम्। 
जनीवा >  कोविड् महामारेः अतिदुष्टा दशा लोकैः अभिमुखीक्रियमाणा भवेदिति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। "उच्यते यत् तद्विस्वसिहि ; आलोकं महती दुर्दशा आगम्यमाना भविष्यति।" जनीवस्थे 'हू'आस्थाने समायोजिते वार्ताहरसम्मेलने संघटनस्य निदेशकाध्यक्षः टेड्रोस् अथनोम् गब्रियेलः उक्तवान्। किन्तु प्रस्तावस्य विशदीकरणं तेन न कृतम्। संघटनस्य प्रवर्तनं सुतार्यमस्ति। विषाणुः अत्यन्तं विनाशकारी इत्यतः अस्मासु जायमाना मतभिन्नता अपि रोगनिर्व्यापने तस्य प्रतिरोधविषये च क्लिष्टतां जनयेत् - तेनोक्तम्। स्वास्थ्य, प्रतिरोधसंविधानेषु क्षीणविभवम् आफ्रिक्कामण्डलं विषाणोः आगामिप्रभवकेन्द्रमिति पूर्वमेव तेन सूचितमासीत्। 
  यू एस् कृते जाग्रतासूचना दत्ता। 
  चीनराष्ट्रे वुहाने कोरोणास्थिरीकरणस्य प्रथमदिनादारभ्य एव अमेरिक्कायै अपि जाग्रतासूचना दत्ता इति टेड्रोस् अथनेन उक्तम्। इतदधिकृत्य ट्रम्पेन उन्नीताः आरोपाः तेन निरस्ताः। अमेरिक्कातः किमपि वृत्तान्तं निलीतं कृतम्। 
  विषाणुव्यापननिरोधे प्रथमसोपाने स्वास्थ्यसंघटनस्य प्रवर्तने अलम्भावः जातः इति डोणाल्ड् ट्रम्पेन बहुवारमारोपितमासीत्।