‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम् | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत् सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ