OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 18, 2020

कोविड् - आविश्वं मरणानि सार्धलक्षमतीतानि ; रोगबाधिताः २२ लक्षम्।
अमेरिक्कायां अवस्था कष्टतरा। 
वाषिङ्टण् >  आविश्वं कोव्ड्रोगबाधिताः २२लक्षमतीताः। १,५०,६२३ जनाः मृत्युमुपगताः। अमेरिक्कायां गत२४होराभ्यन्तरे ४५९१ जनाः कोविड्रोगबाधया मृताः। तत्र अवस्था आशङ्काजनका वर्तते। 
  केवलममेरिक्कायाम् इतःपर्यन्तं मरणानि ३४,७०५ अभवन्। रोगबाधिताश्च ६,७९,७६२ भवन्ति। स्पेयिने १,८४९४८ रोगबाधितेषु १९,३१५ जनाः कालयवनिकां प्राप्ताः। इट्टली, फ्रान्स्, जर्मनी, ब्रिट्टन् इत्येतेषु यूरोपीयराष्ट्रेषु एकैकेषु लक्षाधिकाः रोगिणः सन्ति।
केरलं मण्डलानि विभज्य उपशान्तिप्रक्रमाः। 
अनन्तपुरी >  कोविड्रोगव्यापनस्य परिमाणमालम्ब्य केरलराज्यं चत्वारि मण्डलानि विभज्य पिधाने उपशान्तिप्रक्रमाः सर्वकारेण विज्ञापिताः। कासर्गोड्, कण्णूर् , कोष़िक्कोड् , मलप्पुरम् इत्येतानि जनपदानि 'रक्तमण्डल'मिति कृत्वा मेय् तृतीयदिनाङ्कपर्यन्तं संपूर्णं पिधानमनुवर्तिष्यते। पत्तनंतिट्टा, एरणाकुलं, कोल्लं जनपदेषु [ओरञ्च् - ए  मण्डलं] एप्रिल् २४ परं , आलप्पुष़ा, तिरुवनंतपुरं, पालक्काट्, वयनाट्, तृश्शूर् जनपदेषु [ओरञ्ज् - बी मण्डलं] २० दिनाङ्कात् परं च  पिधाने भागिकतया शिथिलीकरणानि अनुमोदितानि। 'हरित मण्डल'मिति निर्णीतयोः कोट्टयम्, इटुक्की जनपदयोः एप्रिल् २० परं सम्पूर्णोपशान्तिः प्रख्यापितः। 
 प्रस्तुतदिनाङ्केभ्यः परं तत्तथोक्तजनपदेषु निजीयवाहनेभ्यः , नगरप्रदेशेषु बस् यानेभ्यश्च उपाधिसहिता अनुमतिः दत्ता।

Friday, April 17, 2020

'तृश्शिवपेरूर् पूरं' परित्यक्तम्। 
तृश्शूर् पूरे कुटमाट्टं नामकस्य आघोषस्य विदूरदृश्यम्। 
तृशूर् > दक्षिणभारतस्य अतिप्रशस्तः  'तृशूर् पूरं' नामकः मन्दिराघोषः कोविड् प्रतिरोधस्य अंशतया अस्मिन् संवत्सरे पूर्णतया परित्यक्तः। मेय् द्वितीयदिनाङ्के अस्त्ययमुत्सवः। भारते संपूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम् इत्यस्य आधारे तिरुवम्पाटि पारमेक्काव् देवस्वप्रतिनिधयः मन्त्रिणः जनपदाधिकारी इत्यादीनां नेतृत्वे आयोजिते उपवेशने आसीदयं निर्णयः।
   शक्तन् तम्पुरान् महाराजेन व्यवस्थापितं ४८ होरापरिमितं यावत् अनुवर्तमानं 'पूरं' पूर्णतया परित्यक्तुं निर्णयः इदंप्रथममेव। इतःपूर्वं त्रिवारं पूरं नाममात्रं सम्पन्नम्। १९४८ तमे वर्षे महात्मागान्धिनः निहननं, १९५७ तमे ध्वनकाघोषनियन्त्रणं , १९६३ तमे भारत-चीनयुद्धं च आलक्ष्य आसीत् नाममात्रेण पूरमायोजितम्। किन्तु अस्मिन् वर्षे मन्दिरेषु पूजादयः आचाराः एव भवेयुः। तिरुवम्पाटी, पारमेक्काव् मन्दिराभ्यां विना अष्ट इतराणि समीमस्थानि मन्दिराणि च अस्मिन् पूरे भागं वहन्ति। 
  'इलञ्ञित्तरमेलं' नामकं लोकोत्तरं पञ्चेन्द्रियसुखदं तालैक्यं [  विश्वस्य नयनाभिरामदृश्येषु अन्यतममिति युनस्कोसंस्थया प्रकीर्तितं 'कुटमाट्टम्' इत्याख्यं छत्रपरिवर्तनं , रात्रेः अन्त्ययामेषु सम्पद्यमानं नयनाभिरामं ध्वनकमालाविस्फोटनं च आस्वदितुं वैदेशिकान् अभिव्याप्य दशसहस्रशः जनाः तृश्शूरे वटक्कुन्नाथमन्दिरम् उपयान्ति। सहस्रशानां जनानां कर्मकराणां च उपजीवनमार्गश्च  अस्त्ययमाघोषः। एतत्सर्वं कोरोणाव्यापनस्य हेतुना स्थगितं जायते।
समुद्रे परिभ्रमन्तः २४ रोहिंग्य अभ्याभयार्थिनः अनशनतया मृताः।
-डा. विनोविन् .वि. ए
   धाक्का> बङ्ग्लादेशस्य  समुद्रभागे स्थगिताः २४ रोहिंग्य अभयार्थिनः बुभुक्षया मृत्युं प्राप्तवन्तः इति आवेदनम्। मलेष्याराष्ट्रं प्रति गच्छन्तः एते जनाः कतिपय सप्ताहान् यावत् उपसमुद्रभागे स्थगिताः अभवन्I ३८२ जनाः बंगलादेशस्य तीर-संरक्षणसेनया रक्षिताः इति आवेद्यते। मासद्वयं यावत् अनशनतया बुभुक्षया एते मृताः इति रोयिट्टेर्स् वार्ता संस्थया आवेदितम्।
 बङ्गलादेशस्य तीरसंरक्षणसेनया विगते बुधवासरे रात्रौ दक्षिण-पूर्व-तटे एते दृष्टवन्तः।
ते बङ्ग्लादेशस्य दक्षिणपूर्व तटस्य अभयार्थी शिबिरात् मलेष्यं लक्ष्यीकृत्य गतवन्तः आसन्। किन्तु मलेष्य सर्वकरेण कोरोण महाव्याधि-व्यापनानुबन्धतया कृतान्वेषणयोः मध्ये ते मलेष्यस्य तीरं प्राप्तुं अशक्ताः अभवन् इति प्रादेशिकवार्ता-माध्यमेन आवेदितम्।

Thursday, April 16, 2020

विश्वस्वास्थ्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम्।
-विनोवन्
   वाषिङ्टण्>  विश्वारेग्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम् इति अमेरिकस्य राष्ट्रपतिः डोणाल्ड् ट्रम्प् उक्तवान्। कोरोणामहाव्याधिं विरुध्य प्रतिरोधप्रवर्तने विश्वस्वास्थ्य संस्थया विलम्बः कृतः इति वार्ता सम्मेलन वेलायां तेन उक्तम्। कृत्यनिर्वहणे विश्वस्वास्थ्यसंस्था पराजिता अभवत्। महाव्याधि व्यापनानन्तरं विश्वस्वास्थ्यसंस्थया स्वस्याः पराजयं  आच्छादितं च।   एतस्याः घटनायाः  उत्तरदायित्वं संस्थायै एव इत्यपि तेन उक्तम्। अस्य विषाणोः  विश्वव्यापनकाले अपि अणुसन्तरणात् पूर्वं लब्धान् विवरणान् रहसि निधाय चीनं केन्द्रीकृत्य प्रवर्तनं कर्तुं  उत्साहः प्रदर्शितः इति ट्रम्पेण दोषारोपः कृतः।

Wednesday, April 15, 2020

कोरोणा - द्वितीयव्यापनं प्रति जाग्रता करणीया। 
कोष़िक्कोट् > केरलं कोविड् प्रतिरोधे अन्ताराष्ट्रप्रशस्तियुक्तां सफलतां प्रापयत् तथापि जनैः  द्वितीयं व्यापनं प्रति जाग्रता करणीया इति राज्यस्थस्वास्थ्यविभागः पूर्वसूचनामदात्। द्वितीयव्यापनं कदाचित् तृतीयव्यापनमपि सम्भवेदिति एतादृशसंपर्कव्याधीनां सविशेषता अस्ति। चीनः, सिङ्गप्पूर्, जप्पान् इत्यादिषु राष्ट्रेषु कोविडस्य द्वितीयव्यापनं आरब्धदृष्टमस्ति। 
  केरले द्वितीयव्यापनस्य साध्यता एवमस्ति। 
१. यदा विदेशात् रोगबाधिताः आगच्छन्ति तदा।
२. समीपराज्येषु अणुबाधा तीव्रतरा इत्यस्मात् व्यापनसाध्यता अधिकमस्ति। 
३. विषाणुबाधा सत्यपि अप्रकाश्यमानलक्षणाः जनाः बहवः समाजे भवेयुः। तेभ्यः रोगबाधा स्यात्। 
 अतः कञ्चित्कालं यावदपि नितान्तजाग्रता आवश्यकी।
भारते मेय् मासस्य तृतीयदिनाङ्कपर्यन्तं रेल् यानसेवा न भविष्यति।
-डा.विनोविन्
    नवदिल्ली>  भारतदेशे सम्पूर्णपिधानं दीर्घितम्। अत एव रेलयाना सेवायाः पुनरारम्भः मेय् तृतीयदिनाङ्कानन्तरं स्यात् इति रेल् अधिकारिणम्  उद्‌घृत्य पि टि ऐ वार्तासंस्थया आवेदितम्।  एप्रिल चतुर्दश दिनाङ्के अर्धरात्रीसमयपर्यन्तं प्रथमतया रेलयानसेवा निरुद्धधा आसीत्। तावदेव इदानीम् मेय् तृतीयदिनाङ्कपर्यन्तं निरुद्धधा। मेयिल्, एक्स्प्रस्, पासञ्चर्,मेट्रो रेल् च मेय्  तृतीय दिनाङ्के अर्धरात्रीपर्यन्तं न धावनं करिष्ये।

Tuesday, April 14, 2020

भारते सम्पूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम्। 
कोविड् प्रतिरोधे भारताय विजयः।
आगामिसप्ताहः निर्णायकः। 
कतिपयमण्डलेषु एप्रिल् २०तः  आ श्वास पदक्षेपाः। 
नरेन्द्रमोदी राष्ट्रं सम्बुध्य भाषते। 
नवदिल्ली> कोविड्रोगस्य सम्पूर्णनिर्माजनं लक्ष्यीकृत्य सम्पूर्णं पिधानं मेय् तृतीयदिनाङ्कपर्यन्तं दीर्घीकृतमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य समाप्यमाणे राष्ट्रम् अभिसम्बुध्य भाषमाणः आसीत् सः। 
  एतावत्पर्यन्तं सर्वे भारतीयाः कोरोणाविषाणुप्रतिरोधे अभ्यस्ताः सैनिका इव व्यवहृतवन्तः इति प्रशंसां कृतवान्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्। तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति तेन सूचितम्। तदर्थं मानदण्डाः श्व आरभ्य प्रख्यापयिष्यन्ति।

Monday, April 13, 2020

बोरिस् जोण्सणः आतुरालयात् प्रतिगतः। 

लण्टन् >  कोविड् बाधया सप्ताहं यावत्  आतुरालयं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः ह्यः  प्रतिगतः। गतरविवासरे आसीत् सः लण्टने  सेन्ट् तोमस् आतुरालयं प्रवेशितः। तत्र प्रथमं दिनत्रयं तीव्रपरिचर्याविभागे आसीत्। 
  आतुरालयात् स्वस्मै श्रेष्ठा चिकित्सा लब्धा इति तेनोक्तम्। तदर्थं सर्वेभ्यो सः कृतज्ञतां प्रकाशितवान्।
चीनराष्ट्रे कोरोणा विषाणोः पुनरागमनम् ? ९१ जनाः ह्यः अणुबाधिताः।
      बीजिङ्> कोरोणा विषाणोः  व्यापनस्य स्तगनानन्तरं पुनरपि अणुव्यापनम् आरब्धम् इति चीनराष्ट्रतः नूतनम् आवेदनम् आगच्छति। विगतदिने ९९ जनाः रोगबाधिताः अभवत्l एतेषु ६३ जनाः रोगलक्षणरहिताः इति चीनं आशाङ्क्यते  

Sunday, April 12, 2020


कोरोणा प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। 
   न्यूयोर्क्‌> कोविड् १९ इत्यस्य  प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। ओक्स्‌फोड् विश्वविद्यालयस्य गवेषकाः एव कोरोणा प्रतिरोधौषधाय प्रयतन्ते| स्वेषां औषधं ८०% फलप्रदो  भविष्यति इति  प्रोफ़ सारा गिल्बर्ट् अवदत्I सप्ताह-द्वयानन्तरम् औषधं मनुष्येषु परीक्षणाय प्रदास्यते।  २१ कोटि यूरो धनं औषध निर्माणाय यु के राष्ट्रेण व्ययीक्रियते। तथापि अन्यैः औषधानुसन्धानदलैः उच्चते यत् औषध सज्जीकरणय संवत्‍सर-पर्यन्तं प्रतीक्षया स्थास्येयुः।

Saturday, April 11, 2020

महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्
  मुम्बै/कोल्कत्त> राज्यानां मुख्यमन्त्रिभिः साकं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं वीडियो भाषाणानन्तरं महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्। दुष्करे कालेऽपि राज्यं राष्ट्राय मार्गं प्रदर्शयेत् इति महाराष्ट्रस्य  मुख्यमन्त्री उद्‌ध्दव ताक्करे अवदत्। 
   पश्चिमबङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी  च प्रतिबन्धनं एप्रिल् अन्तिम वार पर्यन्तम् अनुवर्तिष्यति इति अवदत्I शिक्षा स्थानानि जूण् दशदिनाङ्कपर्यन्तं पिधास्यति इत्यपि तया उक्तम्।
मरणानि लक्षमतीतानि;रुग्णाः१६ लक्षं च।
  ब्रस्सल्स् > लोकं भीत्याः सूच्यग्रे स्थापयन् कोविड् मरणानि एकलक्षमतीतानि। ह्यः यावत् १,००१५६ जनाः मृत्युमुपगताः। २१० राष्ट्रेषु १६,३९,७६३ जनाः रोगबाधिताः अभवन्। गतसप्ताहे मरणानि पूर्वेभ्यः द्विगुणितं प्राप्तानि।
राष्ट्रम्
रोगिणः
मरणानि
यू एस्
,७७,९४४
१७,९०९
स्पेयिन्
,५७,०५३
१५,९७०
इट्टली
,४७,५७५
१८,८४९
जर्मनी
,१९६२४
,६०७
फ्रान्स्
,१७,७४९
१२,२१०
चीना
८१,९०७
३३३६
इरानः
६८,१९२
४२३२
ब्रिट्टनः
६५,०७७
८९३१
कोविड्रोगबाधया तीव्रपरिचर्याविभागं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः स्वास्थावस्थां प्राप्नुवन्नस्ति। दक्षिणकोरियायां विषाणुप्रभवकेन्द्रात् देगु नगरात् नूतनः प्रकरणः नावेदितः।

कोरोणाबाधया इट्टलिराष्ट्रे १०० वैद्याः ३० अनुवैद्याश्च मृताः
   रोम्> कोरोणाबाधया इट्टलिराष्ट्रे शतं (१००) वैद्याः त्रिंशत्‌ (३०) अनुवैद्याश्च मृताः।  इदम् एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इति सघटनेन आवेदितम् आसीत्। निवृत्ताः वैद्याश्च  रोगीपरिचर्यायाम् आसीत्।  अवश्यं संरक्षणं विना पुनरपि स्वास्थ्य-संरक्षक-प्रवर्तकान्  प्रेषयतुं वयं निर्बद्धाः भवेम इति  एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इत्यस्य अध्यक्षः फिलिप्पो ओनली अवदत्I

Friday, April 10, 2020

तैलेन्धनोत्पादनं न्यूनीकरिष्यति - ओपेक् ।
 कोच्ची> तैलेन्धनस्य उत्पादनं न्यूनीकर्तुम् अन्ताराष्ट्रिय तैलेन्धनोत्पादकराष्ट्राणां संघटनेन [ओपेक् प्लस्] निश्चितम्। प्रतिदिनं एककोटिबारल् परिमितम् इन्धनस्य न्यूनीकरणमेव कारयिष्यति। कोविडस्य आधारे तैलेन्धनस्य उपभोगः क्रमातीतं न्यूनीकृतम् इत्यत एव एतादृशः निर्णयः कृतः। तथा च इन्धनस्य मूल्यमपि गतानां२५ संवत्सराणां न्यूनातिन्यूनं प्राप्तं च। 

Thursday, April 9, 2020

हैड्रोक्सी क्लोरोक्विन् औषधस्य विदेशनयनम् -
मोदी ट्रम्पः च। 
"मोदी महान्" इति ट्रम्पः ; "औषधं मृतसञ्जीवनी"ति ब्रसील् राष्ट्रपतिः। 
जैर् बोल्सोनारो 
वाषिङ्टण् / नवदिल्ली > शीतज्वराय भारते उपयुज्यमानं 'हैड्रोक्सि क्लोरोक्विन्' नामकम् औषधं कोविड् प्रतिरोधाय विदेशराष्ट्राणि प्रति नेतुं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुमतिः सर्वत्र श्लाघ्यते। डोणाल्ड् ट्रम्पस्य अभ्यर्थनानुसारं गुज्रालराज्यस्थेभ्यः उद्योगशालेभ्यः २.९कोटि 'डोस्' परिमितं औषधं अमेरिक्कां नीतमासीत्। ततः नरेन्द्रमोदी अतिमहान् तथा श्रेष्ठ इति ट्रम्पः मोदिनं प्राशंसत। 
  तथा च हैड्रोक्सि क्लोरोक्विनं रामायणस्थं मृतसञ्जीवनिं उपमीय ब्रसील् राष्ट्रपतिः जैर् बोल्सोनारो वर्यः। शीतज्वरस्य औषधरूपं हैड्रोक्सि क्लोरोक्विनम् अपेक्षयन्तः ३० राष्ट्रनेतारः भारतम् अभ्यर्थितवन्तः आसन्।
येमन् राष्ट्रे गोलिकाप्रहराय विरामः। ५० कोटि डोलर् धनस्य  सौदिसाहाय्यम् I 
 मनाम> येमन् राष्ट्रे वारद्वयस्य गोलिकाप्रहर- विरामाय अरब् सख्यसेनया निश्चितम्। यु एन् इत्यस्य नेतृत्वे शान्तता प्रक्रमाः पुनरारंभणीयाः। कोराणा विषाणुरोधाय प्रयत्नाय समयः आवश्यकः अतः एव गोलिकाप्रहराय विरामः कृतः इति सख्यसेनायाः वक्ता केणल्. तुर्की अल् मालिकी अवदत्l  मानुषिकसाहायार्थं ५० कोटि डोलर् धनं तथा विषाणु प्रतिरोधाय २.५ कोटि डोलर् धनस्य साहाय्यं च सौदी अरेब्या राष्ट्रेण प्रदास्यते। पञ्चवर्षाणि यावत्‌ अनुवर्तमानेन युद्धेन  भग्नं भवति येमन् राष्ट्रम्।