OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 17, 2020

समुद्रे परिभ्रमन्तः २४ रोहिंग्य अभ्याभयार्थिनः अनशनतया मृताः।
-डा. विनोविन् .वि. ए
   धाक्का> बङ्ग्लादेशस्य  समुद्रभागे स्थगिताः २४ रोहिंग्य अभयार्थिनः बुभुक्षया मृत्युं प्राप्तवन्तः इति आवेदनम्। मलेष्याराष्ट्रं प्रति गच्छन्तः एते जनाः कतिपय सप्ताहान् यावत् उपसमुद्रभागे स्थगिताः अभवन्I ३८२ जनाः बंगलादेशस्य तीर-संरक्षणसेनया रक्षिताः इति आवेद्यते। मासद्वयं यावत् अनशनतया बुभुक्षया एते मृताः इति रोयिट्टेर्स् वार्ता संस्थया आवेदितम्।
 बङ्गलादेशस्य तीरसंरक्षणसेनया विगते बुधवासरे रात्रौ दक्षिण-पूर्व-तटे एते दृष्टवन्तः।
ते बङ्ग्लादेशस्य दक्षिणपूर्व तटस्य अभयार्थी शिबिरात् मलेष्यं लक्ष्यीकृत्य गतवन्तः आसन्। किन्तु मलेष्य सर्वकरेण कोरोण महाव्याधि-व्यापनानुबन्धतया कृतान्वेषणयोः मध्ये ते मलेष्यस्य तीरं प्राप्तुं अशक्ताः अभवन् इति प्रादेशिकवार्ता-माध्यमेन आवेदितम्।

Thursday, April 16, 2020

विश्वस्वास्थ्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम्।
-विनोवन्
   वाषिङ्टण्>  विश्वारेग्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम् इति अमेरिकस्य राष्ट्रपतिः डोणाल्ड् ट्रम्प् उक्तवान्। कोरोणामहाव्याधिं विरुध्य प्रतिरोधप्रवर्तने विश्वस्वास्थ्य संस्थया विलम्बः कृतः इति वार्ता सम्मेलन वेलायां तेन उक्तम्। कृत्यनिर्वहणे विश्वस्वास्थ्यसंस्था पराजिता अभवत्। महाव्याधि व्यापनानन्तरं विश्वस्वास्थ्यसंस्थया स्वस्याः पराजयं  आच्छादितं च।   एतस्याः घटनायाः  उत्तरदायित्वं संस्थायै एव इत्यपि तेन उक्तम्। अस्य विषाणोः  विश्वव्यापनकाले अपि अणुसन्तरणात् पूर्वं लब्धान् विवरणान् रहसि निधाय चीनं केन्द्रीकृत्य प्रवर्तनं कर्तुं  उत्साहः प्रदर्शितः इति ट्रम्पेण दोषारोपः कृतः।

Wednesday, April 15, 2020

कोरोणा - द्वितीयव्यापनं प्रति जाग्रता करणीया। 
कोष़िक्कोट् > केरलं कोविड् प्रतिरोधे अन्ताराष्ट्रप्रशस्तियुक्तां सफलतां प्रापयत् तथापि जनैः  द्वितीयं व्यापनं प्रति जाग्रता करणीया इति राज्यस्थस्वास्थ्यविभागः पूर्वसूचनामदात्। द्वितीयव्यापनं कदाचित् तृतीयव्यापनमपि सम्भवेदिति एतादृशसंपर्कव्याधीनां सविशेषता अस्ति। चीनः, सिङ्गप्पूर्, जप्पान् इत्यादिषु राष्ट्रेषु कोविडस्य द्वितीयव्यापनं आरब्धदृष्टमस्ति। 
  केरले द्वितीयव्यापनस्य साध्यता एवमस्ति। 
१. यदा विदेशात् रोगबाधिताः आगच्छन्ति तदा।
२. समीपराज्येषु अणुबाधा तीव्रतरा इत्यस्मात् व्यापनसाध्यता अधिकमस्ति। 
३. विषाणुबाधा सत्यपि अप्रकाश्यमानलक्षणाः जनाः बहवः समाजे भवेयुः। तेभ्यः रोगबाधा स्यात्। 
 अतः कञ्चित्कालं यावदपि नितान्तजाग्रता आवश्यकी।
भारते मेय् मासस्य तृतीयदिनाङ्कपर्यन्तं रेल् यानसेवा न भविष्यति।
-डा.विनोविन्
    नवदिल्ली>  भारतदेशे सम्पूर्णपिधानं दीर्घितम्। अत एव रेलयाना सेवायाः पुनरारम्भः मेय् तृतीयदिनाङ्कानन्तरं स्यात् इति रेल् अधिकारिणम्  उद्‌घृत्य पि टि ऐ वार्तासंस्थया आवेदितम्।  एप्रिल चतुर्दश दिनाङ्के अर्धरात्रीसमयपर्यन्तं प्रथमतया रेलयानसेवा निरुद्धधा आसीत्। तावदेव इदानीम् मेय् तृतीयदिनाङ्कपर्यन्तं निरुद्धधा। मेयिल्, एक्स्प्रस्, पासञ्चर्,मेट्रो रेल् च मेय्  तृतीय दिनाङ्के अर्धरात्रीपर्यन्तं न धावनं करिष्ये।

Tuesday, April 14, 2020

भारते सम्पूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम्। 
कोविड् प्रतिरोधे भारताय विजयः।
आगामिसप्ताहः निर्णायकः। 
कतिपयमण्डलेषु एप्रिल् २०तः  आ श्वास पदक्षेपाः। 
नरेन्द्रमोदी राष्ट्रं सम्बुध्य भाषते। 
नवदिल्ली> कोविड्रोगस्य सम्पूर्णनिर्माजनं लक्ष्यीकृत्य सम्पूर्णं पिधानं मेय् तृतीयदिनाङ्कपर्यन्तं दीर्घीकृतमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य समाप्यमाणे राष्ट्रम् अभिसम्बुध्य भाषमाणः आसीत् सः। 
  एतावत्पर्यन्तं सर्वे भारतीयाः कोरोणाविषाणुप्रतिरोधे अभ्यस्ताः सैनिका इव व्यवहृतवन्तः इति प्रशंसां कृतवान्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्। तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति तेन सूचितम्। तदर्थं मानदण्डाः श्व आरभ्य प्रख्यापयिष्यन्ति।

Monday, April 13, 2020

बोरिस् जोण्सणः आतुरालयात् प्रतिगतः। 

लण्टन् >  कोविड् बाधया सप्ताहं यावत्  आतुरालयं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः ह्यः  प्रतिगतः। गतरविवासरे आसीत् सः लण्टने  सेन्ट् तोमस् आतुरालयं प्रवेशितः। तत्र प्रथमं दिनत्रयं तीव्रपरिचर्याविभागे आसीत्। 
  आतुरालयात् स्वस्मै श्रेष्ठा चिकित्सा लब्धा इति तेनोक्तम्। तदर्थं सर्वेभ्यो सः कृतज्ञतां प्रकाशितवान्।
चीनराष्ट्रे कोरोणा विषाणोः पुनरागमनम् ? ९१ जनाः ह्यः अणुबाधिताः।
      बीजिङ्> कोरोणा विषाणोः  व्यापनस्य स्तगनानन्तरं पुनरपि अणुव्यापनम् आरब्धम् इति चीनराष्ट्रतः नूतनम् आवेदनम् आगच्छति। विगतदिने ९९ जनाः रोगबाधिताः अभवत्l एतेषु ६३ जनाः रोगलक्षणरहिताः इति चीनं आशाङ्क्यते  

Sunday, April 12, 2020


कोरोणा प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। 
   न्यूयोर्क्‌> कोविड् १९ इत्यस्य  प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। ओक्स्‌फोड् विश्वविद्यालयस्य गवेषकाः एव कोरोणा प्रतिरोधौषधाय प्रयतन्ते| स्वेषां औषधं ८०% फलप्रदो  भविष्यति इति  प्रोफ़ सारा गिल्बर्ट् अवदत्I सप्ताह-द्वयानन्तरम् औषधं मनुष्येषु परीक्षणाय प्रदास्यते।  २१ कोटि यूरो धनं औषध निर्माणाय यु के राष्ट्रेण व्ययीक्रियते। तथापि अन्यैः औषधानुसन्धानदलैः उच्चते यत् औषध सज्जीकरणय संवत्‍सर-पर्यन्तं प्रतीक्षया स्थास्येयुः।

Saturday, April 11, 2020

महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्
  मुम्बै/कोल्कत्त> राज्यानां मुख्यमन्त्रिभिः साकं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं वीडियो भाषाणानन्तरं महाराष्ट्रं, पश्चिमबङ्गालं च प्रतिबन्धनं एप्रिल् ३० दिनांक पर्यन्तम् अदीर्घयत्। दुष्करे कालेऽपि राज्यं राष्ट्राय मार्गं प्रदर्शयेत् इति महाराष्ट्रस्य  मुख्यमन्त्री उद्‌ध्दव ताक्करे अवदत्। 
   पश्चिमबङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी  च प्रतिबन्धनं एप्रिल् अन्तिम वार पर्यन्तम् अनुवर्तिष्यति इति अवदत्I शिक्षा स्थानानि जूण् दशदिनाङ्कपर्यन्तं पिधास्यति इत्यपि तया उक्तम्।
मरणानि लक्षमतीतानि;रुग्णाः१६ लक्षं च।
  ब्रस्सल्स् > लोकं भीत्याः सूच्यग्रे स्थापयन् कोविड् मरणानि एकलक्षमतीतानि। ह्यः यावत् १,००१५६ जनाः मृत्युमुपगताः। २१० राष्ट्रेषु १६,३९,७६३ जनाः रोगबाधिताः अभवन्। गतसप्ताहे मरणानि पूर्वेभ्यः द्विगुणितं प्राप्तानि।
राष्ट्रम्
रोगिणः
मरणानि
यू एस्
,७७,९४४
१७,९०९
स्पेयिन्
,५७,०५३
१५,९७०
इट्टली
,४७,५७५
१८,८४९
जर्मनी
,१९६२४
,६०७
फ्रान्स्
,१७,७४९
१२,२१०
चीना
८१,९०७
३३३६
इरानः
६८,१९२
४२३२
ब्रिट्टनः
६५,०७७
८९३१
कोविड्रोगबाधया तीव्रपरिचर्याविभागं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः स्वास्थावस्थां प्राप्नुवन्नस्ति। दक्षिणकोरियायां विषाणुप्रभवकेन्द्रात् देगु नगरात् नूतनः प्रकरणः नावेदितः।

कोरोणाबाधया इट्टलिराष्ट्रे १०० वैद्याः ३० अनुवैद्याश्च मृताः
   रोम्> कोरोणाबाधया इट्टलिराष्ट्रे शतं (१००) वैद्याः त्रिंशत्‌ (३०) अनुवैद्याश्च मृताः।  इदम् एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इति सघटनेन आवेदितम् आसीत्। निवृत्ताः वैद्याश्च  रोगीपरिचर्यायाम् आसीत्।  अवश्यं संरक्षणं विना पुनरपि स्वास्थ्य-संरक्षक-प्रवर्तकान्  प्रेषयतुं वयं निर्बद्धाः भवेम इति  एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इत्यस्य अध्यक्षः फिलिप्पो ओनली अवदत्I

Friday, April 10, 2020

तैलेन्धनोत्पादनं न्यूनीकरिष्यति - ओपेक् ।
 कोच्ची> तैलेन्धनस्य उत्पादनं न्यूनीकर्तुम् अन्ताराष्ट्रिय तैलेन्धनोत्पादकराष्ट्राणां संघटनेन [ओपेक् प्लस्] निश्चितम्। प्रतिदिनं एककोटिबारल् परिमितम् इन्धनस्य न्यूनीकरणमेव कारयिष्यति। कोविडस्य आधारे तैलेन्धनस्य उपभोगः क्रमातीतं न्यूनीकृतम् इत्यत एव एतादृशः निर्णयः कृतः। तथा च इन्धनस्य मूल्यमपि गतानां२५ संवत्सराणां न्यूनातिन्यूनं प्राप्तं च। 

Thursday, April 9, 2020

हैड्रोक्सी क्लोरोक्विन् औषधस्य विदेशनयनम् -
मोदी ट्रम्पः च। 
"मोदी महान्" इति ट्रम्पः ; "औषधं मृतसञ्जीवनी"ति ब्रसील् राष्ट्रपतिः। 
जैर् बोल्सोनारो 
वाषिङ्टण् / नवदिल्ली > शीतज्वराय भारते उपयुज्यमानं 'हैड्रोक्सि क्लोरोक्विन्' नामकम् औषधं कोविड् प्रतिरोधाय विदेशराष्ट्राणि प्रति नेतुं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुमतिः सर्वत्र श्लाघ्यते। डोणाल्ड् ट्रम्पस्य अभ्यर्थनानुसारं गुज्रालराज्यस्थेभ्यः उद्योगशालेभ्यः २.९कोटि 'डोस्' परिमितं औषधं अमेरिक्कां नीतमासीत्। ततः नरेन्द्रमोदी अतिमहान् तथा श्रेष्ठ इति ट्रम्पः मोदिनं प्राशंसत। 
  तथा च हैड्रोक्सि क्लोरोक्विनं रामायणस्थं मृतसञ्जीवनिं उपमीय ब्रसील् राष्ट्रपतिः जैर् बोल्सोनारो वर्यः। शीतज्वरस्य औषधरूपं हैड्रोक्सि क्लोरोक्विनम् अपेक्षयन्तः ३० राष्ट्रनेतारः भारतम् अभ्यर्थितवन्तः आसन्।
येमन् राष्ट्रे गोलिकाप्रहराय विरामः। ५० कोटि डोलर् धनस्य  सौदिसाहाय्यम् I 
 मनाम> येमन् राष्ट्रे वारद्वयस्य गोलिकाप्रहर- विरामाय अरब् सख्यसेनया निश्चितम्। यु एन् इत्यस्य नेतृत्वे शान्तता प्रक्रमाः पुनरारंभणीयाः। कोराणा विषाणुरोधाय प्रयत्नाय समयः आवश्यकः अतः एव गोलिकाप्रहराय विरामः कृतः इति सख्यसेनायाः वक्ता केणल्. तुर्की अल् मालिकी अवदत्l  मानुषिकसाहायार्थं ५० कोटि डोलर् धनं तथा विषाणु प्रतिरोधाय २.५ कोटि डोलर् धनस्य साहाय्यं च सौदी अरेब्या राष्ट्रेण प्रदास्यते। पञ्चवर्षाणि यावत्‌ अनुवर्तमानेन युद्धेन  भग्नं भवति येमन् राष्ट्रम्।

Wednesday, April 8, 2020

प्रधानमंत्ररिणा-नरेन्द्रमोदिना महामारी-इत्यस्मिन् दुर्नाशे दुर्धटना समये अन्येभ्य: देशेभ्यः कर्तुं निश्चयः कृतः। 
-साक्षी चौरसिया
    नवदेहली> कोविड-१९ एतेन सह भारतः स्वयुद्धं करोति परमस्यां दुर्नाशे दुर्घटसमये साहाय्यं कर्तुं सामान्यतया सन्नद्धाः वयं न भवेम। प्रातिवेशिनः वाऽन्येभ्यः सहाय्यमपेक्षितेभ्यः देशेभ्यः क्लोरोक्वीन वान्येषां औषधीनां आपूर्तिङ्कृत्वा भारतेन वैदेशिकानां सहाय्यं वर्धितुं निश्चयः कृतः। 

श्रीलंकायां महामारीतः रक्षणार्थं १० टण् चिकित्सकीय सामग्रयः प्रापिताः। 
    मङ्गलवासरे प्रतिवेशी-देश-श्रीलंकां कोरोना-महामारीतः संरक्षणार्थं १०टन् चिकित्सकीय सामग्रीन् प्रेषितवान्। खाड़ी इत्यस्य मित्रराष्ट्रं  कुवैताय अपि एतादृशीं प्रापयितुं सम्पूर्ण-सिद्धता अस्ति।

प्रधानमन्त्री मोदी ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् सहाय्यं कर्तुम् सन्नद्धतां प्रकटितवान् च।
     पी.एम-मोदी मङ्गलवासरे ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् पुनश्च समाश्वासितवान् साहाय्यं कर्तुं सन्नद्धतां प्रकटितवान् च। वस्तुतः पीएम-मोदी असामान्यः अनितरसाधारणैकाद्वितीयः नेता अस्ति यः अस्मिन् अस्यां दुरन्तस्थित्यां निरन्तरं अन्येषां देशानां प्रमुखैः सह सम्पर्के अस्ति पुनश्च तेभ्यः साहाय्यं कर्तुं समागच्छति।

भारतेन मालद्वीपाय चिकित्सकीय-सामग्र्या सह चिकित्सकानामेकं विशेषदलमपि प्रेषितः। 

विदेशमंत्रालयस्य सूत्रानुसारेण एयरइंडियायाः विशेषविमानेन १० टन् चिकित्सकीय सामग्रीं स्वीकृत्य विमानमेकं श्रीलंकां प्राप्तवत्। अस्मिन् विमाने केवलं तानि वस्तूनि सन्ति यानि प्रतिवेशीदेशानां कृते आपेक्षितानि। इतः पूर्वं लघुदेशाय मालिद्वीपाय अपि भारतस्य पक्षतः त्रिमासस्य चिकित्सकीय सामग्रयः प्रेषिताः सन्ति। चिकित्सकानामेकं विशिष्टदलमपि प्रेषितम् ये स्थानीय-चिकित्सकान्  आवश्यकं शिक्षणमपि दास्यन्ति। कुवैत्-देशायापि एतादृशीं सहायतां दास्यन्ते।

खाडी़-इति देशेषु शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धते।
     खाडी़-इति देशे अधुना शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धमाना दृश्यते। तत्र अधिकांशदेशैः सह भारतस्य मित्रवत् सम्बन्धाः सन्ति पुनश्च अन्यदेशाः भारतं कोविड-महामार्यां प्रयुक्ता मलेरियारोगस्य औषधीं क्लोरोक्विन व अन्यौषधीं याचन्ति। तथापि भारतमपि एतेषु देशेषु ऊर्जायाः कारणेन बहु आवश्यकता अस्ति।

तैलस्य आपूर्त्यां बाधा नागच्छेत् एतदर्थं धर्मेन्द्रप्रधानस्य यूएई-मंत्रिणा सह वार्ता।
    अंतरराष्ट्रीय-विपण्यां क्रूड अथवा गैस इत्याद्योः मूल्येषु अतिन्यूनतायाः उपरान्तम् एतयोः आपूर्तिः विषये आशंका स्थिता। आशंकायाः कारणं अस्ति यत् यदि महामार्याः प्रसारः एवमेव भविष्यति तर्हि अन्येषु देशेषु क्रूड अथवा गैस इत्याद्योः समस्या भवितुमर्हति। मङ्गलवासरे एतदर्थं पेट्रोलियम् व प्राकृतिक-गैस-मंत्रिणा धर्मेन्द्रः प्रधानः यूएई इत्यस्य राज्यमंत्री व अबूधाबी नेशनल आयल कम्पनी इत्यस्य सीईओ सुल्तान-अल-जबेरेण सह द्वितीयवारं वार्तां कृतम्। द्वयोः नेतयोः मध्ये एलपीजी आपूर्तिः विषये विशेषवार्ता जाता। ८ कोटिः एलपीजी गैसस्य अतिरिक्त अनिलकोशस्य आपूर्तिः कर्तुं भारतं अधिकमात्रायां एलपीजी अपेक्षितम्।
वुहान् उद्घाटितम् ; चीनः आश्वस्तः। 
 नियन्त्रणानि अपसृतानि , जनानां बहिर्गमनाय अङ्गीकारः ।
वुहान् >  चीनराष्ट्रस्य वुहान् नगराय एतत् द्वितीयजन्म। कोरोणाविषाणोः प्रभवकेन्द्रे वुहानप्रदेशे जनवरी ३० दिनाङ्के आयोजितं सम्पूर्णं पिधानं निरस्तम्। जनाः एतदाघुष्यमाणाः नगरं प्रविशन्ति। दिनद्वयं यावत् चीने नूतनं कोविड् प्रकरणं न प्रकाशितम्। 
  किन्तु स्वास्थ्यपरिशोधनाः कर्कशेण अनुवर्तन्ते। आरोग्यशीलाः पालनीयाः इति उद्घोषितमस्ति।

Tuesday, April 7, 2020

संसदः सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति- मन्त्रिमण्डलस्य निर्णय:
-पुरुषोत्तमशर्मा
   नवदेहली> केन्द्रीयमन्त्रिमण्डलेन संसदः सदस्ययानां वेतने वित्तानुमोदने गतशताब्दस्य चतु:पञ्चाशततमे सेवानिवृत्तिवेतनाधिनियमे संशोधनाय अध्‍यादेश: अनुमत:। अनेन संसत्सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति। अयम् अध्‍यादेश: अप्रैलमासात् प्रारब्धो भविष्यति। 
    सूचनाप्रसारणमन्त्री प्रकाशजावडेकर: वार्ताहरान् प्रावोचत् यत् वर्षद्वयाय संसदः सदस्यानां क्षेत्रीयविकासनिधे: स्थगननिर्णयः अपि मन्त्रिमण्डलेन कृतः। श्रीजावडेकर: न्यगदत् यत् नव सप्तति: अर्बुदरूप्यकाणां राशि:  कोविड-१९ सङ्क्रमणस्य निवारणाय  भारतस्य समेकितनिधौ प्रत्यर्पयिष्यते इति।