OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 11, 2020

मरणानि लक्षमतीतानि;रुग्णाः१६ लक्षं च।
  ब्रस्सल्स् > लोकं भीत्याः सूच्यग्रे स्थापयन् कोविड् मरणानि एकलक्षमतीतानि। ह्यः यावत् १,००१५६ जनाः मृत्युमुपगताः। २१० राष्ट्रेषु १६,३९,७६३ जनाः रोगबाधिताः अभवन्। गतसप्ताहे मरणानि पूर्वेभ्यः द्विगुणितं प्राप्तानि।
राष्ट्रम्
रोगिणः
मरणानि
यू एस्
,७७,९४४
१७,९०९
स्पेयिन्
,५७,०५३
१५,९७०
इट्टली
,४७,५७५
१८,८४९
जर्मनी
,१९६२४
,६०७
फ्रान्स्
,१७,७४९
१२,२१०
चीना
८१,९०७
३३३६
इरानः
६८,१९२
४२३२
ब्रिट्टनः
६५,०७७
८९३१
कोविड्रोगबाधया तीव्रपरिचर्याविभागं प्रवेशितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः स्वास्थावस्थां प्राप्नुवन्नस्ति। दक्षिणकोरियायां विषाणुप्रभवकेन्द्रात् देगु नगरात् नूतनः प्रकरणः नावेदितः।

कोरोणाबाधया इट्टलिराष्ट्रे १०० वैद्याः ३० अनुवैद्याश्च मृताः
   रोम्> कोरोणाबाधया इट्टलिराष्ट्रे शतं (१००) वैद्याः त्रिंशत्‌ (३०) अनुवैद्याश्च मृताः।  इदम् एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इति सघटनेन आवेदितम् आसीत्। निवृत्ताः वैद्याश्च  रोगीपरिचर्यायाम् आसीत्।  अवश्यं संरक्षणं विना पुनरपि स्वास्थ्य-संरक्षक-प्रवर्तकान्  प्रेषयतुं वयं निर्बद्धाः भवेम इति  एफ्.एन्.ओ.एम्.सि.हेल्त् असोसिएषन् इत्यस्य अध्यक्षः फिलिप्पो ओनली अवदत्I

Friday, April 10, 2020

तैलेन्धनोत्पादनं न्यूनीकरिष्यति - ओपेक् ।
 कोच्ची> तैलेन्धनस्य उत्पादनं न्यूनीकर्तुम् अन्ताराष्ट्रिय तैलेन्धनोत्पादकराष्ट्राणां संघटनेन [ओपेक् प्लस्] निश्चितम्। प्रतिदिनं एककोटिबारल् परिमितम् इन्धनस्य न्यूनीकरणमेव कारयिष्यति। कोविडस्य आधारे तैलेन्धनस्य उपभोगः क्रमातीतं न्यूनीकृतम् इत्यत एव एतादृशः निर्णयः कृतः। तथा च इन्धनस्य मूल्यमपि गतानां२५ संवत्सराणां न्यूनातिन्यूनं प्राप्तं च। 

Thursday, April 9, 2020

हैड्रोक्सी क्लोरोक्विन् औषधस्य विदेशनयनम् -
मोदी ट्रम्पः च। 
"मोदी महान्" इति ट्रम्पः ; "औषधं मृतसञ्जीवनी"ति ब्रसील् राष्ट्रपतिः। 
जैर् बोल्सोनारो 
वाषिङ्टण् / नवदिल्ली > शीतज्वराय भारते उपयुज्यमानं 'हैड्रोक्सि क्लोरोक्विन्' नामकम् औषधं कोविड् प्रतिरोधाय विदेशराष्ट्राणि प्रति नेतुं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुमतिः सर्वत्र श्लाघ्यते। डोणाल्ड् ट्रम्पस्य अभ्यर्थनानुसारं गुज्रालराज्यस्थेभ्यः उद्योगशालेभ्यः २.९कोटि 'डोस्' परिमितं औषधं अमेरिक्कां नीतमासीत्। ततः नरेन्द्रमोदी अतिमहान् तथा श्रेष्ठ इति ट्रम्पः मोदिनं प्राशंसत। 
  तथा च हैड्रोक्सि क्लोरोक्विनं रामायणस्थं मृतसञ्जीवनिं उपमीय ब्रसील् राष्ट्रपतिः जैर् बोल्सोनारो वर्यः। शीतज्वरस्य औषधरूपं हैड्रोक्सि क्लोरोक्विनम् अपेक्षयन्तः ३० राष्ट्रनेतारः भारतम् अभ्यर्थितवन्तः आसन्।
येमन् राष्ट्रे गोलिकाप्रहराय विरामः। ५० कोटि डोलर् धनस्य  सौदिसाहाय्यम् I 
 मनाम> येमन् राष्ट्रे वारद्वयस्य गोलिकाप्रहर- विरामाय अरब् सख्यसेनया निश्चितम्। यु एन् इत्यस्य नेतृत्वे शान्तता प्रक्रमाः पुनरारंभणीयाः। कोराणा विषाणुरोधाय प्रयत्नाय समयः आवश्यकः अतः एव गोलिकाप्रहराय विरामः कृतः इति सख्यसेनायाः वक्ता केणल्. तुर्की अल् मालिकी अवदत्l  मानुषिकसाहायार्थं ५० कोटि डोलर् धनं तथा विषाणु प्रतिरोधाय २.५ कोटि डोलर् धनस्य साहाय्यं च सौदी अरेब्या राष्ट्रेण प्रदास्यते। पञ्चवर्षाणि यावत्‌ अनुवर्तमानेन युद्धेन  भग्नं भवति येमन् राष्ट्रम्।

Wednesday, April 8, 2020

प्रधानमंत्ररिणा-नरेन्द्रमोदिना महामारी-इत्यस्मिन् दुर्नाशे दुर्धटना समये अन्येभ्य: देशेभ्यः कर्तुं निश्चयः कृतः। 
-साक्षी चौरसिया
    नवदेहली> कोविड-१९ एतेन सह भारतः स्वयुद्धं करोति परमस्यां दुर्नाशे दुर्घटसमये साहाय्यं कर्तुं सामान्यतया सन्नद्धाः वयं न भवेम। प्रातिवेशिनः वाऽन्येभ्यः सहाय्यमपेक्षितेभ्यः देशेभ्यः क्लोरोक्वीन वान्येषां औषधीनां आपूर्तिङ्कृत्वा भारतेन वैदेशिकानां सहाय्यं वर्धितुं निश्चयः कृतः। 

श्रीलंकायां महामारीतः रक्षणार्थं १० टण् चिकित्सकीय सामग्रयः प्रापिताः। 
    मङ्गलवासरे प्रतिवेशी-देश-श्रीलंकां कोरोना-महामारीतः संरक्षणार्थं १०टन् चिकित्सकीय सामग्रीन् प्रेषितवान्। खाड़ी इत्यस्य मित्रराष्ट्रं  कुवैताय अपि एतादृशीं प्रापयितुं सम्पूर्ण-सिद्धता अस्ति।

प्रधानमन्त्री मोदी ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् सहाय्यं कर्तुम् सन्नद्धतां प्रकटितवान् च।
     पी.एम-मोदी मङ्गलवासरे ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् पुनश्च समाश्वासितवान् साहाय्यं कर्तुं सन्नद्धतां प्रकटितवान् च। वस्तुतः पीएम-मोदी असामान्यः अनितरसाधारणैकाद्वितीयः नेता अस्ति यः अस्मिन् अस्यां दुरन्तस्थित्यां निरन्तरं अन्येषां देशानां प्रमुखैः सह सम्पर्के अस्ति पुनश्च तेभ्यः साहाय्यं कर्तुं समागच्छति।

भारतेन मालद्वीपाय चिकित्सकीय-सामग्र्या सह चिकित्सकानामेकं विशेषदलमपि प्रेषितः। 

विदेशमंत्रालयस्य सूत्रानुसारेण एयरइंडियायाः विशेषविमानेन १० टन् चिकित्सकीय सामग्रीं स्वीकृत्य विमानमेकं श्रीलंकां प्राप्तवत्। अस्मिन् विमाने केवलं तानि वस्तूनि सन्ति यानि प्रतिवेशीदेशानां कृते आपेक्षितानि। इतः पूर्वं लघुदेशाय मालिद्वीपाय अपि भारतस्य पक्षतः त्रिमासस्य चिकित्सकीय सामग्रयः प्रेषिताः सन्ति। चिकित्सकानामेकं विशिष्टदलमपि प्रेषितम् ये स्थानीय-चिकित्सकान्  आवश्यकं शिक्षणमपि दास्यन्ति। कुवैत्-देशायापि एतादृशीं सहायतां दास्यन्ते।

खाडी़-इति देशेषु शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धते।
     खाडी़-इति देशे अधुना शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धमाना दृश्यते। तत्र अधिकांशदेशैः सह भारतस्य मित्रवत् सम्बन्धाः सन्ति पुनश्च अन्यदेशाः भारतं कोविड-महामार्यां प्रयुक्ता मलेरियारोगस्य औषधीं क्लोरोक्विन व अन्यौषधीं याचन्ति। तथापि भारतमपि एतेषु देशेषु ऊर्जायाः कारणेन बहु आवश्यकता अस्ति।

तैलस्य आपूर्त्यां बाधा नागच्छेत् एतदर्थं धर्मेन्द्रप्रधानस्य यूएई-मंत्रिणा सह वार्ता।
    अंतरराष्ट्रीय-विपण्यां क्रूड अथवा गैस इत्याद्योः मूल्येषु अतिन्यूनतायाः उपरान्तम् एतयोः आपूर्तिः विषये आशंका स्थिता। आशंकायाः कारणं अस्ति यत् यदि महामार्याः प्रसारः एवमेव भविष्यति तर्हि अन्येषु देशेषु क्रूड अथवा गैस इत्याद्योः समस्या भवितुमर्हति। मङ्गलवासरे एतदर्थं पेट्रोलियम् व प्राकृतिक-गैस-मंत्रिणा धर्मेन्द्रः प्रधानः यूएई इत्यस्य राज्यमंत्री व अबूधाबी नेशनल आयल कम्पनी इत्यस्य सीईओ सुल्तान-अल-जबेरेण सह द्वितीयवारं वार्तां कृतम्। द्वयोः नेतयोः मध्ये एलपीजी आपूर्तिः विषये विशेषवार्ता जाता। ८ कोटिः एलपीजी गैसस्य अतिरिक्त अनिलकोशस्य आपूर्तिः कर्तुं भारतं अधिकमात्रायां एलपीजी अपेक्षितम्।
वुहान् उद्घाटितम् ; चीनः आश्वस्तः। 
 नियन्त्रणानि अपसृतानि , जनानां बहिर्गमनाय अङ्गीकारः ।
वुहान् >  चीनराष्ट्रस्य वुहान् नगराय एतत् द्वितीयजन्म। कोरोणाविषाणोः प्रभवकेन्द्रे वुहानप्रदेशे जनवरी ३० दिनाङ्के आयोजितं सम्पूर्णं पिधानं निरस्तम्। जनाः एतदाघुष्यमाणाः नगरं प्रविशन्ति। दिनद्वयं यावत् चीने नूतनं कोविड् प्रकरणं न प्रकाशितम्। 
  किन्तु स्वास्थ्यपरिशोधनाः कर्कशेण अनुवर्तन्ते। आरोग्यशीलाः पालनीयाः इति उद्घोषितमस्ति।

Tuesday, April 7, 2020

संसदः सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति- मन्त्रिमण्डलस्य निर्णय:
-पुरुषोत्तमशर्मा
   नवदेहली> केन्द्रीयमन्त्रिमण्डलेन संसदः सदस्ययानां वेतने वित्तानुमोदने गतशताब्दस्य चतु:पञ्चाशततमे सेवानिवृत्तिवेतनाधिनियमे संशोधनाय अध्‍यादेश: अनुमत:। अनेन संसत्सदस्यानां वेतनम् एकवर्षं यावत् प्रतिशतं त्रिंशन्मितं न्यूनं भविष्यति। अयम् अध्‍यादेश: अप्रैलमासात् प्रारब्धो भविष्यति। 
    सूचनाप्रसारणमन्त्री प्रकाशजावडेकर: वार्ताहरान् प्रावोचत् यत् वर्षद्वयाय संसदः सदस्यानां क्षेत्रीयविकासनिधे: स्थगननिर्णयः अपि मन्त्रिमण्डलेन कृतः। श्रीजावडेकर: न्यगदत् यत् नव सप्तति: अर्बुदरूप्यकाणां राशि:  कोविड-१९ सङ्क्रमणस्य निवारणाय  भारतस्य समेकितनिधौ प्रत्यर्पयिष्यते इति।
ब्रिट्टनप्रधानमन्त्री तीव्रपरिचरणविभागं प्रवेशितः। 

लण्टन् >  कोविड्रोगबाधितः ब्रिट्टनस्य प्रधानमन्त्री बोरिस् यत्सनः तीव्रपरिचरणविभागं प्रवेशितः। तस्य स्वास्थ्यावस्था कठिनतरा वर्तते इति अधिकृतैरुक्तम्। 
  विदेशकार्यमन्त्री डोमिनिक् राबिनः प्रधानमन्त्रिणः उत्तरदायित्वं वहति।
मुम्बय्यां  ‍भिषग्वराणां अनुवैद्यानां च कोविड्रोगः।
मुम्बई > महाराष्ट्रे 'मुम्बई सेन्ट्रल्' स्थाने 'वोक्काड् क्रिट्टिक्कल् केयर्' नामके कस्मिंश्चन निजीयातुरालये त्रयाणां वैद्यानां  ५३ अनुवैद्यानां च कोविड्-१९ रोगः स्थिरीकृतः। अनुवैद्यासु ४६ केरलीयाः सन्ति। अनेन आतुरालयः पिहितः। 
 अस्मिन्नातुरालये १५० अनुवैद्याः निरीक्षणे नियुक्ताः। स्वास्थ्यप्रवर्तकानां मध्ये कोरोणाबाधा आशङ्काहेतुः भवति। पूर्वं त्रयः जनाः कोविड्रोगबाधया मृता आसन्। तेभ्यः एव रोगव्यापनमभवदिति मन्यते। अवश्यानुसारसुरक्षासंविधानस्य अभावः एव कारणमिति सूच्यते। 
  कोरोणाबाधिताः अनुवैद्याः मुम्बय्यां 'सेवन् हिल्' नामके आतुरालये परिचरणाय प्रवेशिताः। अन्ये अनुवैद्याः च तत्रैव निरीक्षणाय प्रवेशिताः।

Monday, April 6, 2020

न्यूयोर्कस्थे जन्तुशालायां व्याघ्रः कोराणबाधितः अभवत् ।
Image by Razlisyam Razali from Pixabay 
   न्युयोर्क्> विश्वम् कोरोणविषाणुभीत्याम्। तदा जन्तवः अपि कोरोणबाधिताः भविष्यन्ति इति विवरणं भीतिं वितरति। न्यूयोर्कस्थे ब्रोण्क्स्  जन्तुशालायां  व्याघ्रः त्रयः  शार्दूलः च कोराणबाधिताः अभवन्। जन्तुशालाकर्मकराणां पार्श्वतः अणुव्यापनमभवत् इति मन्यते। विगते मासे चीन राष्ट्रेपि बिडालेषु रोग व्यापनम्  आसीत् इति पूर्वं आवेदिम्।

Sunday, April 5, 2020

कोरोणा-विषाणुव्यापनस्य कारणं '५ जि' इति व्याजवार्ता - जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः।
    लण्टन् >  ५ जि' इति चलदूरवाण्‌याः प्रसारणस्तंभः कोरोणा-विषाणुव्यापनस्य कारणं भवति इति  व्याजवार्तया दूषिताः जनाः ५ जि स्तम्भाः अग्निसात् कृतवन्तः। फेस्बुक् यू ट्यूब् आदि माध्यमद्वारा आसीत् व्याजवार्ता-प्रसारणम्। राष्ट्रेऽपि सेवा प्रवर्तनानि स्थगितानि। बेर्मिङ्हां, लिवर् पूल, मेल्लिङ्, मेर्सिसैड् प्रदेशस्थाः प्रसारण-स्तम्भाः एव अग्निसात्  कृताः। 
भारते अद्य ऐक्यदीपज्वालनम्।
 नवदिल्ली >  कोरोणानिर्व्यापनप्रवर्तनानाम् अंशतया भारते अद्य रात्रौ नववादनतः नवनिमेषान् यावत् विद्युद्दीपान् निर्व्याप्य सिक्थवर्तिका, मृद्दीपः, तैलदीपः, करदीपः इत्यादीन् अन्यान् दीपान् 'मोबैल् दीपान्' वा प्रज्वाल्य जनाः कोरोणाप्रतिरोधप्रवर्तनेषु ऐक्यबोधं प्रकाशयन्ति। प्रधानमन्त्रिणः नरैन्द्रमोदिनः  निर्देशं शिरसा वहन्तः एव एतादृशं प्रतीकात्मकं प्रवर्तनं जनानाम् ऐक्यबोधनाय निर्वहन्ति। 
  जनानाम् वासस्थानेषु एव एवं ऐक्यबोधनं करणीयम्। विद्युद्दीपा एव निर्व्यपनीयाः। दूरदर्शनं, व्यजनं, प्रशीतकम् इत्यादीनि न निर्व्यापनीयानि। कोरोणानामकम् अन्धकारमपनीय सम्पूर्णस्वास्थ्यरूपं प्रकाशम् आभारतं व्यापयितुमेव इदं प्रवर्तनमायोजितम्। 
भारते मरणानि ९४ ; रोगबाधिताः३०७२।
 नवदिल्ली > भारते कोरोणाबाधया ९४ जनाः मृताः। गतदिने महाराष्ट्रं, गुजरात्, मध्यप्रदेशः, राजस्थानं, कर्नाटक, तेलुङ्कानं इत्येतेषु राज्येषु १२ मरणानि भूतानि। 
  राष्ट्रे इतःपर्यन्तं ३०७२ जनाः रोगबाधिता इति दृढीकृतम्। नूतनतया ३७० जनाः रोगबाधिताः। किन्तु अत्र आशङ्कायाः विषयः नास्ति, निसामुद्दीने तब्लीग् सम्मेलने भागभागित्वं कृतेषु रोगबाधा दृढीकृता इत्यत एव संख्यावर्धनस्य कारणमिति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। राष्ट्रे रोगबाधितेषु ३०% (१०२३ जनाः) तब्लीग् सम्मेलनमनुबध्य वर्तिताः सन्ति! कोरोणाप्रतिरोधाय राष्ट्रे नितान्तजाग्रता अनुवर्तते। 

Saturday, April 4, 2020

कोविड् प्रतिरोधे विश्वादर्शरूपेण केरलम्।
वरिष्ठवयस्कौ दम्पती रोगविमुक्तौ। 
कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ दम्पतीः तोमसः मरियाम्मा च आतुरालयात् बहिरागच्छतः। 

कोट्टयम् >  ९३ वयस्कः तोमसः ८९ वयस्का मरियाम्मा च कोट्टयं वैद्यककलालयस्य  द्वितीयविभागस्य द्वारेण यदा बहिरागतौ तदा 'स्वास्थ्यकेरलस्य' भारतस्य च अभिमाननिमेषः आसीत्। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ प्रप्रथमवयोधिकौ भारतीयौ अभवदेतौ दम्पती। 
  केरले पत्तनंतिट्टा जनपदात् मार्च् ८तमे दिनाङ्के आसीत् कोरोणाबाधया पूर्वोक्तौ दम्पती कोट्टयं वैद्यककलालयस्य कोरोणा एकान्तवासविभागं प्रवेशितौ। इट्टलीतः स्वदेशं प्राप्तस्य कोविड्बाधितस्य पितरौ स्तः एतौ। सम्पर्केण आसीदेतयोः रोगबाधा।
  प्राथमिकस्तरे तयोः चिकित्सा सङ्कीर्णा आसीत्। ९३वयस्कः तोमसः श्वासरोगेण हृद्रोगेण च पीडितः आसीत्। डो. सजित्कुमारस्य नेतृत्वे रूपीकृतस्य वैद्यकसंघस्य अश्रान्तपरिश्रमः एतयोः दम्पत्योः पुनरुज्जीवनाय मार्गः उद्घाटितः। द्वावपि २५ दिनानि पृथक् पृथक् प्रकोष्ठे एकान्तवासे आस्ताम्। मार्च् ३० दिनाङ्के तृतीया स्रवशोधना अपि अभावात्मिका इति विज्ञाय कतिपयदिनान्यपि निरीक्षणे नियुक्तवन्तौ। ह्यः द्वावपि विसृष्टवन्तौ गृहं प्रेषितवन्तौ च। 
  एतस्मिन्नन्तरे तौ दम्पती परिचरणं कृतवती तीव्रपरिचरणविभागस्था अनुवैद्या रेष्मा मोहन्दासः  कोरोणाबाधिता अपि दशदिनानन्तरं रोगविमुक्ता च। सा अपि स्वगृहं नीतवती।

Friday, April 3, 2020

कोरोणा - आविश्वं मरणानि अर्धलक्षम् अतीतानि। 
इट्टली - १३,०००+, स्पेयिन् - १०,०००+, यू एस् - ५,०००+, फ्रान्स् - ४,०००+, इरान् - ३,०००+ चीनः - ३३००+!
 >  आविश्वं कोरोणा विषाणुबाधया इतःपर्यन्तम् अर्धलक्षाधिकं जनाः मृत्युपगताः। विषाणुबाधिताः दशलक्षमुपगताः। इट्टली, स्पेयिन्, यू एस् इत्येषु राष्ट्रेषु विषाणुबाधा नियन्त्रणातीता वर्तते। प्रतिरोधप्रवर्तनानि प्रतीक्षानुसारं फलप्राप्तिं न एति। 
  यूरोपीयराष्ट्रेषु रोगिणां संख्या पञ्चलक्षमतीता। स्पेयिन् इट्टली राष्ट्रयोः प्रतिदिनं सामान्यतः ८०० जनाः मृत्युमुपयान्तीति आशङ्कां वर्धयति। इतःपर्यन्तम् इट्टल्यां १३,००० अधिकाः, स्पेयिने १०,०००अधिकाः जनाः मृताः। बल्जियंराष्ट्रे मृत्युसंख्या सहस्रं प्राप्ता। 
  गल्फ् राष्ट्रेषु च रोगबाधिताः वर्धन्ते। सौदीराष्ट्रे १८८५ जनाः रोगबाधिताः इति दृढीकृतम्। २१ मरणानि अभवन्। सर्वेषु राष्ट्रेषु शक्तं नियन्त्रणप्रक्रमाः स्वीकृताः सन्ति।

Thursday, April 2, 2020

सम्पूर्ण-पिधान कालानन्तरं सम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री। 
   नवदेहली> 21 दिनानां  सपूर्णपिधानकालानन्तरं जायमानं जनसम्मर्दनियन्त्रणाय सर्वजनिक सुविधा आवश्यकी इति  मुख्यमन्त्रिणान् प्रति प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। कोरोण-विषाणुव्यापनस्य पृष्ठभूमौ राज्यानां मुख्यमन्त्रिणः प्रति वीडियोद्वारा भाषमाणः आसीत् सःl सपूर्णपिधानाय कृतसाह्याय सः धन्यवादमर्पितवान् I विषाणुरोधनाय समागतेषु सप्ताहेषु अपि रोगनिर्णयः, एकान्तवासः, सम्पर्कनिरोधः इत्येतेषु प्रक्रमेषु श्रद्धा देया इत्यपि नरेन्द्रमोदिना अभ्यर्थितम्। औषधसामग्रीणां निर्माणं वितरणं  च कार्यक्षमतायुक्तं भवितव्यम् इति प्रधानमन्त्रिणः कार्यालयात् प्रकाशिते सूचनापत्रे स्मारयति।
       गृहमन्त्री अमितशाहः प्रधिरोधमन्त्री राजनाथ सिंहः स्वास्थ्य-मन्त्रालयस्य वरिष्ठोद्योगिनः च भागं स्वीकृतवन्तः।
सीमा अपावरणीया - उच्चन्यायालयः। 
कोच्ची >  केरलस्य सीमाप्रदेशतः कासर्गोडतः समीपस्थं कर्णाटकस्थं मङ्गुलुरु नगरं प्रवेष्टुं कर्णाटकसर्वकीरेण पिहिता राष्ट्रियवीथिः झटित्येव अपावरणीया इति केरलस्य उच्चनीतिपीठेन आदिष्टम्। मनुजप्राणानां संरक्षणम् अतिप्रधानमिति अवगम्य केन्द्रसर्वकारस्य पदक्षेपः अस्मिन् विषये अनिवार्य इति न्यायमूर्ती ए के जयशङ्करन् नम्प्यारः, षाजि पि चाली इत्येतावुपेतेन नीतिपीठेनोक्तम्।