OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 25, 2020

आभारतं सम्पूर्णं पिधानं ।
कोरोणायुद्धाय सामाजात् पृथक्त्वम् अनिवार्यमिति प्रधानमन्त्री।
प्रधानमन्त्री राष्ट्रमभिसंबुध्यति।  हस्तयोः 'को रो ना' इत्यस्य नूतनं व्याख्यानम्। "यः को$पि मार्गं न प्रविशतु " इत्यर्थः!
नवदिल्ली >  कोरोणाविषाणुं विरुध्य कठोरयुद्धाय भारतं सन्नद्धमस्ति। तदर्थं राष्ट्रस्य २१ दिनानां सम्पूर्णपिधानाय प्रधानमन्त्री नरेन्द्रमोदी आदेशं कृतवान्। ह्यः रात्रौ राष्ट्रम् अभिसम्बुध्य एव तेनेदमुद्घोषणं कृतम्। एप्रिल् १४ तमदिनाङ्कं यावत् पिधामनुवर्तिष्यते। 
   विषाणुं विरुध्य युद्धाय कुटुम्बवासः अनिवार्य इति प्रधानमन्त्रिणा उक्तम्। २१ दिनानि यावत् गृहान्तवासः न क्रियते चेत् २१ संवत्सराणां पश्चाद्गमनाय प्रेरयिष्यतीति सः अवदत्। "अतः साञ्जलिः अभ्यर्थये यत् २१ दिनानि यावत् गृहेभ्यः बहिर्गमनं मास्तु" नरेन्द्रमोदी एकैकान् भारतीयान् प्रावोचत्। 
  किन्तु अवश्यवस्तूनां दौर्लभ्यं न भवेत्। स्वास्थ्यमण्डलस्य आधारसौविध्यविकासाय १५,००० कोटिरूप्यकाणि अङ्गीकृतानि।

Tuesday, March 24, 2020

कोरोण विषाणु-व्यापनं गुरुतरम् - विश्व स्वास्थ्यसंस्थाI 
  जनीव> कोरोण विषाणु-व्यापनं गुरुतररूपेण परिवर्तितम्  इति विश्व स्वास्थ्यसंस्थया निवेद्यते। लक्षत्रयं घटनाः इतःपर्यन्तं व्यापकतया आवेदिताः इति कारणेन भवति विश्व स्वास्थ्य-संस्थायाः पूर्वसूचना-प्रसारणस्य कारणम्। पूर्वकालापेक्षया इदानीम् अतिवेगेन जनान् प्रति व्याप्यते विषाणुः इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अदानं गेब्रेयससः उक्तवान्I राष्ट्राणि प्रतिरोधप्रक्रमाः शीघ्रं स्वीकरणीयानि इत्यपि सः उद्‌बोधितवान्।
कोरोणा आविश्वं व्याप्ता ; मरणानि लक्षत्रयमतीतानि।
प्रतिरोधे भारतस्य प्रयत्नं प्रशंस्य विश्वस्वास्थ्यसंस्था।  
कोच्ची >  विश्वस्य १९५ राष्ट्रेष्वपि कोरोणाविषाणुः व्याप्तमिति लोकारोग्यसंस्थया निगदितम्। इतःपर्यन्तं आविश्वं ३,८१,०००परं जनाः कोविड् बाधिता इति WHO संस्थया उक्तम्। १६,६२४ मरणानि अभवन्। 
 प्रायेण सर्वैरपि राष्ट्रैः सम्पूर्णं बन्धनं प्रख्यापितम्। ब्रिट्टने सप्ताहत्रयं यावत् पिधानं विहितम्। दक्षिणाफ्रिक्रायां २१ दिनानां पिहितम् उद्घुष्टम्। यू ए ई, सऊदि, दुबाय् इत्यादिषु अरब् राष्ट्रेष्वपि कर्फ्यू नामकगृहान्तवासः आदिष्टः। 
  बहुषु राष्ट्रेषु मृत्युसंख्या अनुदिनं वर्धते। इतःपर्यन्तं विविधेषु राष्ट्रेषु मरणसंख्या एवम् - इट्टली - ५४७८, स्पेयिन् - २८११, इरान् - १९१२, फ्रान्स् - ६७४, यू एस् - ४५८, जर्मनी - ११८ , चीना - ३२७०।
  भारते तु इतःपर्यन्तं दश जनाः एव मृत्युमुपगताः। भारतस्य कोरोणाप्रतिरोधप्रवर्तनानि अनुकरणीयानीति लोकारोग्यसंस्थया प्रशंसामवाप्तम्।
केरलं बन्धितं ; निश्चलम्। 
 कोच्ची >  कोरोणाविषाणुबाधाप्रतिरोधाय   केरलराज्यं अद्य आरभ्य बन्धितम्। ह्यः २८ जना अपि कोरोणग्रस्ताः इति दृढीकरणस्य आधारे अासीदयं निर्णयः।
 अवश्यसेवनानि विहाय सर्वे व्यवहाराः निरस्ताः। राज्यस्य सर्वाः सीमाः पिहिताः भविष्यन्ति। सामान्यगतागतसंविधानानि निरुद्धानि। किन्तु निजीयवाहनानां निरोधः नास्ति। अवश्यसामग्रीविपणनशालासु प्रभाते सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं विपणनं शक्यते। आतुर-औषधालयाः, इन्धनशालाः , जलं, विद्युत्, भक्ष्यवस्तूनि, पाकेन्धनं,  इत्यादीनां सेवनानि उपलभ्यता च रोधं विना लप्स्यन्ते। मार्च् ३१ पर्यन्तमेवायं पिधानव्यवस्था।

Monday, March 23, 2020

कोरोण- इट्टलीराष्ट्रे मृताः 5476, यु एस् 100+‍ (24 होराभ्यन्तरे) 
    रोम्> कोरोणा विषाणुना ग्रसिताः 651 जनाः इट्टली राष्ट्रे मृताः। इतः पर्यन्तं मृतानां संख्या 5,476 इत्यभवत्। शनिवासरे 793 जनाः हताः रविवासरे मृतानां संख्या न्यूनीभूत्वा 651 इत्यभवत्। रोगनियन्त्रणाय यात्रा सर्वा रोधिता। इट्टलिसर्वकारेण  यु एस् सैनिकानां साहाय्यं प्रार्थितम् इति यु एस् प्रतिरोध सचिवेन मार्क्‌ एस्पेर् महोदयेन उक्तम्। मुखावरणं स्वसनसहाययन्त्रम् इत्यादि चिकित्सोपकरणानि च इट्टलिराष्ट्रेण अभ्यर्थितम् इत्यपि तेनाेक्तम्।
       यूरोप् भूखण्डेषु रोगग्रस्थानां संख्यायाम् द्वितीयस्थाने स्पेयिन् राष्ट्रं भवतिI 1700 जनाः मृताः इत्यस्मात्‌। त्वरितप्रकमाः एप्रिल् मासस्य ११ दिनाङ्कपर्यन्तं दीर्घितं  भविष्यति। इतः पर्यन्तम् आविश्वं 13,000 जनाः मृताः सन्ति। 
कोरोणाप्रतिरोधः - अत्यधिकनियन्त्रणम् अनुवर्तिष्यते।
९ राज्यानि पिहितानि। 
७५ जनपदाः पिधते , ३१ यावत् रेल् यानानि स्थगयितानि। 
नवदिल्ली >  महद्विजयमवाप्तस्य स्वयंकृतगृहान्तवासस्य अनन्तरं कोरोणाव्यापननिरोधाय अधिकनियन्त्रणानि भारतसर्वकारेण निर्दिष्टानि। कोविड् १९ रोगस्थिरीकृतान्  भारतस्य ७५ जनपदान् पिहितुं ,मेट्रो - सबर्बन् यात्रारेल् सेवनमभिव्याप्य सर्वं रेल्गतागतं स्थगयितुं च सर्वकारेण निर्णीतम्। 
  जार्खण्डः, बीहार्, जम्मुकाश्मीरं, अान्ध्रप्रदेशः, तेलङ्काना, दिल्ली, पञ्चाब्, राजस्थानं, नागालान्ड् इत्येतानि राज्यानि ३१ दिनाङ्कं यावत् पिहितानि। महाराष्ट्रे दिल्ल्यां च निरोधाज्ञा प्रख्यापिता। किन्तु पिधायमानेषु राज्येषु जनपदेषु च अवश्यवस्तूनां विपणन वितरणसेवनानि अनुमोदितानि।

Sunday, March 22, 2020

भारते स्वयंकृतगृहान्तवासः आरब्धः।
 वीथ्यः निश्चलाः, सामान्यगतागतानि स्तम्भितानि।
कोच्ची >  कोरोणानिर्व्यापनार्थं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः जनताकर्फ्यू [स्वयंकृतगृहान्तवासः] इति आह्वानं सर्वे भारतीयाः शिरसा वहन्तः वर्तन्ते। सर्वे राज्यसर्वकाराः अपि पूर्णसहयोगितां प्रख्यापितवन्तः। अद्य प्रभाते सप्तवादनतः रात्रौ नववादनपर्यन्तमेव बहुजनानां बाह्यव्यवहारनिरोधः क्रियते। 
  आभारतं सर्वत्र आतुरशालाः, औषधशालाः इत्यादीनि अवश्यसेवनानि विहाय सर्वाणि सेवनानि स्थगितानि। राज्यानां सीमाः रोधिताः।
कोरोणविषाणुरोधनाय  सैनिकान् नियोक्तुम्  इट्टली आलोच्यते 
    रोम् > 24 होराभ्यन्तरे 739मरणानि आवेदितानि इत्यस्मात् नियन्त्रणानि सबलं कर्तुम् इट्टलिना निश्चितम्। विषाणुव्यापनस्य आवेदनानन्तरम्  एकस्मिन् राष्ट्रे अधिकाः जनाः अद्य एव मारिताः ।  लोंबार्डि मध्यतः  आसीत् इट्टलितः प्रथमं कोविड् -व्यापनावेदनम्। अत्र सहस्रसहस्राधिकाः जनाः रोगग्रस्थाः सन्तिI तेषां पालनाय स्वास्थ्य-मण्डलीयाः क्लेशम् अनुभवन्तः सन्ति इति अन्ताराष्ट्रमाध्यमैः आवेद्यते। रोगव्यापन-निरोधाय प्रख्यापितान् मार्गान्  अनुवर्तयितुं  ११४ सैनिकाः आहूतवन्तःI

Friday, March 20, 2020


कोविद् १९ घटनानुबन्धतया
भारतस्य प्रधानमन्त्रिणः सन्देशः
नरेन्द्रमोदी

1. इतः परं कतिपयदिनानि यावत् राष्ट्राय जीवामः ।
2. सूत्रद्वयं पालयेम - दृढसंकल्प:, आत्मसंयमश्च ।
3.  मार्चमासस्य 22दिनाङ्के रविवासरे प्रातः 7 वादनात् रात्रौ 9 वादनं यावत् सर्वैः *जनता- कर्फ्यू*  इति स्वयंकृतगृहान्तोपवासस्य अनुष्ठानं आचरणीयम्।
4. मार्चमासस्य 22दिनाङ्के सायं 5 वादने 5 निवेषपर्यन्तं कोरोनायुद्धे सहकुर्वद्भ्यः स्वगृहादेव घण्टानादेन शङ्खनादेन करताडनेन वा धन्यवादार्पणम्।
5. ५. निश्चितान्तराले रोगनिरीक्षणार्थं चिकित्सालयं प्रति गन्तव्यं चेदपि यावच्छक्यं तन्निवारयेत्।
6. स्वगृहे आपणे वा कार्यरतानां सेवकानां अवकाशकारणाद् वेतनं न कर्तनीयम् ।
7.जीवनोपयोगिवस्तूनामनावश्यकसङ्ग्रहः न कर्तव्यः।
8. देशे आवश्यकवस्तूनाम् आपूर्तिः निर्बाधरूपेण भविष्यति ।
9. अस्माकं देशे औषधानाम् अभावः नास्ति।
10.सहमानवसाहोदर्यस्य सर्वदा जयः भवतु इति दृढसंकल्पः स्वीकुर्यात्।
11- जागरूकैः भाव्यम्।
12- वृद्धाः वरिष्ठनागरिकाः गृहेष्वेव तिष्ठेयुः .
13- अनावश्यकं गृहाद् बहिः केनापि न गन्तव्यम्।
14- सर्वकारस्य सहयोगं कुर्मः।
15- कार्यालयस्य कार्यं गृहादेव कुर्मः

-पुरुषोत्तम शर्मा नवदिल्ली।
निर्भयाघातकाः मृत्युपाशे दण्डिताः। 
चत्वारः अपि अपराधिनः युगपदेव उद्बन्धिताः।
नवदिल्ली >  राष्ट्रं प्रकम्पिते निर्भयासंघबलात्कारप्रकरणे चत्वारः अपि अपराधिनः अन्ते मृत्युपाशेन अलंकृताः। अद्य उषसि ५.३० वादने दिल्ल्यां तिहार् कारागारे मुकेष् सिंहः (३२), पवनगुप्तः (२५), विनय् शर्मा (२६), अक्षयकुमारसिंहः (३१) इत्येतेषां चतुर्णाम् उद्बन्धनं विधत्ते स्म। पवन् कुमार् जल्लाद् नामकः आसीत् दण्डपाशिकः। कृत्यानन्तरं सप्त संवत्सराणां त्रयानां मासानां चानन्तरमेव दण्डः प्रवृत्तिपथमागतः।

Thursday, March 19, 2020

नियन्त्रितुं न शक्यते चेत् कोरोण विषाणुना यु एस् राष्ट्रे २२ लक्षं जनाः मारिताः भविष्यन्ति।। 
 
    लण्टन्> कोरोण विषाणुव्यापनं नियन्त्रितुं न शक्यते चेत्  यु एस् राष्ट्रे २२ लक्षं जनाः ब्रिट्टणे ५लक्षं जनाः च मारिताः भविष्यन्ति इति आवेदनम्॥ ब्रिट्टणस्य अनुसन्धातृभ्यः प्रकाकाशीकृते अध्ययने  भवति ईृदशं विवरणम्l  लण्डणस्थे इम्पीरियल् कलाशालायाःजीवशास्त्रगणितस्य (Mathematical Biology) प्राध्यापकस्य फेर्गुसणस्य नेतृत्वे सम्पन्ने अवेक्षणे एव नृतनोऽयं अध्ययनफलम्I १९१८ दुरापन्ने इन्फ्लुवन्स व्यापनेन सह तुलनां कृत्वा असीत् अध्ययनम्।
केरले कोरोणाप्रतिरोधः अधोमण्डलं व्यापयितुं निर्णयः।
कोविड् रोगस्य उन्मूलनाशः लक्ष्यम्। 
केरलस्य प्रतिरोधप्रक्रमाः आगोलप्रशंसां प्राप्ताः। 

कोच्ची > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्। > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्।

Wednesday, March 18, 2020

त्रयाणां संस्कृतविश्वविद्यालयानां राज्यसभायाः अनुज्ञा।
 नवदिल्ली >  भारते त्रीन् कल्पितविश्वविद्यालयान् केन्द्रविश्वविद्यालयान् कर्तुं राज्यसभा अनुज्ञामदात्। राष्ट्रिय संस्कृतसंस्थानं नवदिल्ली, लाल् बहदूर् शास्त्री राष्ट्रिय संस्कृतविद्यापीठं नवदिल्ली, राष्ट्रिय संस्कृतविद्यापीठं तिरुप्पती इत्येते कल्पितविश्वविद्यालयाः एव केन्द्रीयविश्वविद्यालयरूपेण परिणमन्ते। 
  पूर्वं लोकसभया एतदर्थं विधायकं उत्तीर्णमासीत्। राष्ट्रियैक्यं परिपोषयितुं संस्कृकभाषा अपेक्षितेति विधेयकमधिकृत्य चर्चायाः प्रतिवचनं कुर्वन् मानवशेषिविभवमन्त्रिणा रमेष् पोख्रियालेन उक्तम्।

Monday, March 16, 2020

कोरोणां प्रतिरोद्धुं 'सार्क् निधिः' अपेक्षितः - भारतम्। 
 नवदिल्ली > आगोलव्यापकं कोरोणा विषाणुं कोविड् - १९ इत्याख्यं रोगं च प्रतिरोद्धुं सार्क् राष्ट्रैः विपत्कालीननिधिः रीपवत्करणीयः इति भारतेन अपेक्षितम्। एतदर्थं प्रप्रथमं स्वविहितरूपेण एककोटिपरिमितं डोलर् [प्रायशः ७४ कोटि रूप्यकाणि] भारतेन वाग्दत्तम्। सार्क् राष्ट्राधिपैः सह गतदिने कृते 'वीडियो कोण्फरन्स्' सम्मेलने प्रधानमन्त्री नरेन्द्रमोदी एवमुद्घोषणं कृतवान्। 
  निर्देशममुं बङ्गलादेशः, श्रीलङ्का, मालिद्वीपः, नेपालः, भूट्टानः, अफ्गानिस्थानं इत्येतानि राष्ट्राणि स्वागतं कृतवतः।
इलट्रोणिक् उपकरणानां पुनस्समीकरणसेवा उपभोक्तृजनानाम् अधिकारं कर्तुं यूरोप् प्रयतते।

 यस्मात् विद्युदाणविक-('इलट्रोणिक्') उपकरणानां कालः समारब्धः तस्मात् आरभ्य 'इ वेस्ट्' कारणेन परिस्थित्यै भीषा च आरब्धा। अस्मिन् समर्थयुगे उपकरणानां प्रवर्तनरीत्यां प्रतिदिनं परिवर्तनं भवति च। अतः इलट्रोणिक्' उपकरणानाम् आयुः सामान्येन हृस्वतां प्राप्नोति। नूतनानाम् उपकरणानां वाञ्छया नवीनोपकरणानि क्रीणाति। पूर्वतनोपकरणं पुनसमीकरणसेवां विना परित्यजन्ति जनाः। करदूरवाण्यः भवन्ति एवं परित्यक्तेषु आधिकाः। अतः 'इ' मालिन्यवर्धने कर दूरवाण्याः परिचर्या अधिकारः कर्तव्या इति यूरोप् राष्ट्रसमूहेन निश्चितम् अस्ति।

Sunday, March 15, 2020

कोरोणा राष्ट्रियदुरन्तः। 
प्रतिरोधाय दुरन्तन्वारणनिधिः।
 नवदिल्ली >  रोगबाधितानां संख्या वर्धमाना इत्यतः केन्द्रसर्वकारेण कोरोणाव्यापनं राष्ट्रियदुरन्तरूपेण प्रख्यापितम्। अनेन रोगव्यापनप्रतिरोधाय राज्यानां तत्तद्दुरन्तनिवारणनिधिम् उपयोक्तुं शक्यते। आर्थिकप्रतिसन्धिना पीड्यमानानां राज्यानां कृते आश्वासप्रदो भवत्यं निर्णयः।

Saturday, March 14, 2020

कोरोणाव्यापनं - भुवनं निश्चलं प्राप्नोति?
कोच्ची > कोरोणानामकः विषाणुः  लोके सर्वत्र वेगेन व्याप्नोतीति विविधरेष्ट्रेभ्यः बहिरागम्यमानैः वृन्तान्तैः सूच्यते। इट्टलिम् अभिव्याप्य बहुषु राष्ट्रेषु प्रतिरोधप्रक्रमाः मन्दगत्या एव प्रचलन्ति इत्येव प्रधानहेतुः।
  विविधैः राष्ट्रैः अन्ताराष्ट्रियविमानसेवनानि निरस्तानि वा न्यूनीकृतानि। सर्वत्र वाणिज्यमण्डलानि मन्दगतिं प्राप्तानि। 
 अमेरिक्कायां ४० कोविड्-१९ मरणानि दृढीकृतानि। सहस्राधिकाः रोगबाधिताः अभवन्। रोगव्यापनं जवेन सम्भवति इत्यतः तत्र विपत्कालजाग्रता प्रख्यापिता। ५० बिल्यन् डोलर् रोगप्रतिरोधप्रक्रमाय राष्ट्रपतिः डोणाल्ड् ट्रम्पः अनुमोदितवान्। 
 ब्रिट्टने विषाणुव्यापनप्रतिरोधः न सक्रिय इति सूचना लभ्यते। विद्यालयाः विश्वविद्यालयाश्च पिहिताः। 
 ब्रसीलराष्ट्रस्य राष्ट्रपति कोविड् बाधित इति स्थिरीकृतः। सः निरीक्षणे वर्तते।
  इटल्यां मृत्युसंख्या १२५० अतीता। रोगबाधिताः १७,६६० अभवन्। 
  राष्ट्रेषु सर्वत्र वीथयः विजनाः वर्तन्ते। क्रयविक्रयशालाः, उद्यानानि, चलच्चित्र-नाटकादिविनोदशालाः  इत्यादीनि सामाजिकस्थानानि सर्वाणि विजनानि वर्तन्ते।

Friday, March 13, 2020

भारते प्रथमं कोरोणामरणं कर्णाटके। 
 बङ्गुलुरु > भारते कोविड् - १९ रोगेण संभूतं प्रथमं मरणं कर्णाटके अभवत्। तत्र कल्बुर्गिप्रदेशीयः ७६ वयस्कः मुहम्मद् हुसैन् सिद्दिखि नामकः कोरोण बाधया एव मृत इति दृढीकृतम्। सौदीराष्ट्रात् ' उम्र' धर्मानुष्ठानानन्तरं फेब्रुवरि २९ दिनाङ्के आसीत्तस्य प्रत्यागमनम्। 
  मार्च् पञ्चमदिनाङ्कादारभ्य सः कोरोणाबाधितः सन् आतुरालयं प्रविष्टः। गतदिने मृत्युरभवत्। के के  तेन सह सम्पर्कमकुर्वन् इति पर्यवेक्षणं कर्णाटकसर्वकारस्य महान् कठिनप्रयत्नः भविष्यति।