OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 20, 2020


कोविद् १९ घटनानुबन्धतया
भारतस्य प्रधानमन्त्रिणः सन्देशः
नरेन्द्रमोदी

1. इतः परं कतिपयदिनानि यावत् राष्ट्राय जीवामः ।
2. सूत्रद्वयं पालयेम - दृढसंकल्प:, आत्मसंयमश्च ।
3.  मार्चमासस्य 22दिनाङ्के रविवासरे प्रातः 7 वादनात् रात्रौ 9 वादनं यावत् सर्वैः *जनता- कर्फ्यू*  इति स्वयंकृतगृहान्तोपवासस्य अनुष्ठानं आचरणीयम्।
4. मार्चमासस्य 22दिनाङ्के सायं 5 वादने 5 निवेषपर्यन्तं कोरोनायुद्धे सहकुर्वद्भ्यः स्वगृहादेव घण्टानादेन शङ्खनादेन करताडनेन वा धन्यवादार्पणम्।
5. ५. निश्चितान्तराले रोगनिरीक्षणार्थं चिकित्सालयं प्रति गन्तव्यं चेदपि यावच्छक्यं तन्निवारयेत्।
6. स्वगृहे आपणे वा कार्यरतानां सेवकानां अवकाशकारणाद् वेतनं न कर्तनीयम् ।
7.जीवनोपयोगिवस्तूनामनावश्यकसङ्ग्रहः न कर्तव्यः।
8. देशे आवश्यकवस्तूनाम् आपूर्तिः निर्बाधरूपेण भविष्यति ।
9. अस्माकं देशे औषधानाम् अभावः नास्ति।
10.सहमानवसाहोदर्यस्य सर्वदा जयः भवतु इति दृढसंकल्पः स्वीकुर्यात्।
11- जागरूकैः भाव्यम्।
12- वृद्धाः वरिष्ठनागरिकाः गृहेष्वेव तिष्ठेयुः .
13- अनावश्यकं गृहाद् बहिः केनापि न गन्तव्यम्।
14- सर्वकारस्य सहयोगं कुर्मः।
15- कार्यालयस्य कार्यं गृहादेव कुर्मः

-पुरुषोत्तम शर्मा नवदिल्ली।
निर्भयाघातकाः मृत्युपाशे दण्डिताः। 
चत्वारः अपि अपराधिनः युगपदेव उद्बन्धिताः।
नवदिल्ली >  राष्ट्रं प्रकम्पिते निर्भयासंघबलात्कारप्रकरणे चत्वारः अपि अपराधिनः अन्ते मृत्युपाशेन अलंकृताः। अद्य उषसि ५.३० वादने दिल्ल्यां तिहार् कारागारे मुकेष् सिंहः (३२), पवनगुप्तः (२५), विनय् शर्मा (२६), अक्षयकुमारसिंहः (३१) इत्येतेषां चतुर्णाम् उद्बन्धनं विधत्ते स्म। पवन् कुमार् जल्लाद् नामकः आसीत् दण्डपाशिकः। कृत्यानन्तरं सप्त संवत्सराणां त्रयानां मासानां चानन्तरमेव दण्डः प्रवृत्तिपथमागतः।

Thursday, March 19, 2020

नियन्त्रितुं न शक्यते चेत् कोरोण विषाणुना यु एस् राष्ट्रे २२ लक्षं जनाः मारिताः भविष्यन्ति।। 
 
    लण्टन्> कोरोण विषाणुव्यापनं नियन्त्रितुं न शक्यते चेत्  यु एस् राष्ट्रे २२ लक्षं जनाः ब्रिट्टणे ५लक्षं जनाः च मारिताः भविष्यन्ति इति आवेदनम्॥ ब्रिट्टणस्य अनुसन्धातृभ्यः प्रकाकाशीकृते अध्ययने  भवति ईृदशं विवरणम्l  लण्डणस्थे इम्पीरियल् कलाशालायाःजीवशास्त्रगणितस्य (Mathematical Biology) प्राध्यापकस्य फेर्गुसणस्य नेतृत्वे सम्पन्ने अवेक्षणे एव नृतनोऽयं अध्ययनफलम्I १९१८ दुरापन्ने इन्फ्लुवन्स व्यापनेन सह तुलनां कृत्वा असीत् अध्ययनम्।
केरले कोरोणाप्रतिरोधः अधोमण्डलं व्यापयितुं निर्णयः।
कोविड् रोगस्य उन्मूलनाशः लक्ष्यम्। 
केरलस्य प्रतिरोधप्रक्रमाः आगोलप्रशंसां प्राप्ताः। 

कोच्ची > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्। > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्।

Wednesday, March 18, 2020

त्रयाणां संस्कृतविश्वविद्यालयानां राज्यसभायाः अनुज्ञा।
 नवदिल्ली >  भारते त्रीन् कल्पितविश्वविद्यालयान् केन्द्रविश्वविद्यालयान् कर्तुं राज्यसभा अनुज्ञामदात्। राष्ट्रिय संस्कृतसंस्थानं नवदिल्ली, लाल् बहदूर् शास्त्री राष्ट्रिय संस्कृतविद्यापीठं नवदिल्ली, राष्ट्रिय संस्कृतविद्यापीठं तिरुप्पती इत्येते कल्पितविश्वविद्यालयाः एव केन्द्रीयविश्वविद्यालयरूपेण परिणमन्ते। 
  पूर्वं लोकसभया एतदर्थं विधायकं उत्तीर्णमासीत्। राष्ट्रियैक्यं परिपोषयितुं संस्कृकभाषा अपेक्षितेति विधेयकमधिकृत्य चर्चायाः प्रतिवचनं कुर्वन् मानवशेषिविभवमन्त्रिणा रमेष् पोख्रियालेन उक्तम्।

Monday, March 16, 2020

कोरोणां प्रतिरोद्धुं 'सार्क् निधिः' अपेक्षितः - भारतम्। 
 नवदिल्ली > आगोलव्यापकं कोरोणा विषाणुं कोविड् - १९ इत्याख्यं रोगं च प्रतिरोद्धुं सार्क् राष्ट्रैः विपत्कालीननिधिः रीपवत्करणीयः इति भारतेन अपेक्षितम्। एतदर्थं प्रप्रथमं स्वविहितरूपेण एककोटिपरिमितं डोलर् [प्रायशः ७४ कोटि रूप्यकाणि] भारतेन वाग्दत्तम्। सार्क् राष्ट्राधिपैः सह गतदिने कृते 'वीडियो कोण्फरन्स्' सम्मेलने प्रधानमन्त्री नरेन्द्रमोदी एवमुद्घोषणं कृतवान्। 
  निर्देशममुं बङ्गलादेशः, श्रीलङ्का, मालिद्वीपः, नेपालः, भूट्टानः, अफ्गानिस्थानं इत्येतानि राष्ट्राणि स्वागतं कृतवतः।
इलट्रोणिक् उपकरणानां पुनस्समीकरणसेवा उपभोक्तृजनानाम् अधिकारं कर्तुं यूरोप् प्रयतते।

 यस्मात् विद्युदाणविक-('इलट्रोणिक्') उपकरणानां कालः समारब्धः तस्मात् आरभ्य 'इ वेस्ट्' कारणेन परिस्थित्यै भीषा च आरब्धा। अस्मिन् समर्थयुगे उपकरणानां प्रवर्तनरीत्यां प्रतिदिनं परिवर्तनं भवति च। अतः इलट्रोणिक्' उपकरणानाम् आयुः सामान्येन हृस्वतां प्राप्नोति। नूतनानाम् उपकरणानां वाञ्छया नवीनोपकरणानि क्रीणाति। पूर्वतनोपकरणं पुनसमीकरणसेवां विना परित्यजन्ति जनाः। करदूरवाण्यः भवन्ति एवं परित्यक्तेषु आधिकाः। अतः 'इ' मालिन्यवर्धने कर दूरवाण्याः परिचर्या अधिकारः कर्तव्या इति यूरोप् राष्ट्रसमूहेन निश्चितम् अस्ति।

Sunday, March 15, 2020

कोरोणा राष्ट्रियदुरन्तः। 
प्रतिरोधाय दुरन्तन्वारणनिधिः।
 नवदिल्ली >  रोगबाधितानां संख्या वर्धमाना इत्यतः केन्द्रसर्वकारेण कोरोणाव्यापनं राष्ट्रियदुरन्तरूपेण प्रख्यापितम्। अनेन रोगव्यापनप्रतिरोधाय राज्यानां तत्तद्दुरन्तनिवारणनिधिम् उपयोक्तुं शक्यते। आर्थिकप्रतिसन्धिना पीड्यमानानां राज्यानां कृते आश्वासप्रदो भवत्यं निर्णयः।

Saturday, March 14, 2020

कोरोणाव्यापनं - भुवनं निश्चलं प्राप्नोति?
कोच्ची > कोरोणानामकः विषाणुः  लोके सर्वत्र वेगेन व्याप्नोतीति विविधरेष्ट्रेभ्यः बहिरागम्यमानैः वृन्तान्तैः सूच्यते। इट्टलिम् अभिव्याप्य बहुषु राष्ट्रेषु प्रतिरोधप्रक्रमाः मन्दगत्या एव प्रचलन्ति इत्येव प्रधानहेतुः।
  विविधैः राष्ट्रैः अन्ताराष्ट्रियविमानसेवनानि निरस्तानि वा न्यूनीकृतानि। सर्वत्र वाणिज्यमण्डलानि मन्दगतिं प्राप्तानि। 
 अमेरिक्कायां ४० कोविड्-१९ मरणानि दृढीकृतानि। सहस्राधिकाः रोगबाधिताः अभवन्। रोगव्यापनं जवेन सम्भवति इत्यतः तत्र विपत्कालजाग्रता प्रख्यापिता। ५० बिल्यन् डोलर् रोगप्रतिरोधप्रक्रमाय राष्ट्रपतिः डोणाल्ड् ट्रम्पः अनुमोदितवान्। 
 ब्रिट्टने विषाणुव्यापनप्रतिरोधः न सक्रिय इति सूचना लभ्यते। विद्यालयाः विश्वविद्यालयाश्च पिहिताः। 
 ब्रसीलराष्ट्रस्य राष्ट्रपति कोविड् बाधित इति स्थिरीकृतः। सः निरीक्षणे वर्तते।
  इटल्यां मृत्युसंख्या १२५० अतीता। रोगबाधिताः १७,६६० अभवन्। 
  राष्ट्रेषु सर्वत्र वीथयः विजनाः वर्तन्ते। क्रयविक्रयशालाः, उद्यानानि, चलच्चित्र-नाटकादिविनोदशालाः  इत्यादीनि सामाजिकस्थानानि सर्वाणि विजनानि वर्तन्ते।

Friday, March 13, 2020

भारते प्रथमं कोरोणामरणं कर्णाटके। 
 बङ्गुलुरु > भारते कोविड् - १९ रोगेण संभूतं प्रथमं मरणं कर्णाटके अभवत्। तत्र कल्बुर्गिप्रदेशीयः ७६ वयस्कः मुहम्मद् हुसैन् सिद्दिखि नामकः कोरोण बाधया एव मृत इति दृढीकृतम्। सौदीराष्ट्रात् ' उम्र' धर्मानुष्ठानानन्तरं फेब्रुवरि २९ दिनाङ्के आसीत्तस्य प्रत्यागमनम्। 
  मार्च् पञ्चमदिनाङ्कादारभ्य सः कोरोणाबाधितः सन् आतुरालयं प्रविष्टः। गतदिने मृत्युरभवत्। के के  तेन सह सम्पर्कमकुर्वन् इति पर्यवेक्षणं कर्णाटकसर्वकारस्य महान् कठिनप्रयत्नः भविष्यति।

Thursday, March 12, 2020

कोरोण विषाणुव्यापनं महाव्याधिः  इति विश्वस्वास्थ्यसंस्था। 
      जनीव>  कोरोण विषाणुव्यापनं महाव्याधिः  इति विश्वस्वास्थ्यसंस्थया (WHO)ख्यापिता। विषाणुना पीडितानां सङ्ख्या चीनराष्ट्रस्य बहिः सप्ताहद्वयाभ्यन्तरे वर्धिता इति कारणेन भवति ईदृशं प्रख्यापनम् इति विश्वस्वास्थ्यसंस्थयाः अध्यक्षः डड्रोस् अदानं गब्रियेससेन उक्तम्। विविधविश्वराष्ट्रेषु युगपद् व्याप्यमाने सन्दर्भे भवति तां व्याधिम् महाव्याधि: इति निर्णीयते|कोरोणाविषाणु-सङ्क्रमणेन स्वास्थ्य आपत्कालत्वेन पूर्वमेव प्रख्यापितम् आसीत्।
कोरोणा महाव्याधिः - विश्वस्वास्थ्यसंघटनम्। 
  न्यूयोर्क् > कोरोणाविषाणुः १२१ राष्ट्रेषु व्यापृतः इत्यतः कोविड् - १९ रोगः महाव्याधिरूपेण विश्वस्वास्थ्यसंघटनेन [WHO] प्रख्यापितः। WHO संस्थायाः अध्यक्षः टेड्रोस् अथनोमगब्रियूसः एवायं प्रख्यापनं कृतवान्। इदानीं विविधराष्ट्रेषु १,२२,२८९ जनाः कोरोणाबाधिताः वर्तन्ते। ४३८९ जनाः मृत्युमुपगताः।
   सामान्येन सर्वाणि राष्ट्राणि कोणोणाभीतिम् अभिमुकुर्वन्तीति गब्रिसियूसः अवदत्। अनेन हेतुना महाव्याधिरूपेण प्रख्यापितः। 
* भारते कोरोणाबाधिताः ६७! महाराष्ट्रे नूतनतया १० जनानां बाधेयं स्पष्टीकृता!
* ब्रिट्टनस्य स्वास्थ्यमन्त्री नडैन् डोरिस् इत्येषः कोरोणाबाधितः इति दृढीकृतः!
* इट्टलीराष्ट्रे ६३१, इराने ३५४ च जनाः इतःपर्यन्तं कालगतिं प्राप्ताः! चीने ह्यः २२ मरणानि अभवन्! यूएस् राष्ट्रे मृत्युसंख्या ३१ अभवत्!

Wednesday, March 11, 2020

भारतीय स्टैट् बैंकेन सामान्य-वित्तलेखे  न्यूनतम अवशेषः परिमार्जितः। 

      नवदिल्ली> सामान्य वित्तलेखे  न्यूनतम अवशेषनिर्देशः भारतीय स्टैट्‌ बैंकेन परिमार्जितः। उपभोक्तृ-जनानां सौविध्यप्रदाय सुखानुभवाय नूतनोऽयं प्रक्रमः इति एस्‌ बि ऐ इत्यनेन आवेद्यते। आराष्ट्रं ४४. ५१ कोटि वित्तलेखास्वामिनाम् उपकाराय भवति नूतननिश्चयः। यथाक्रमं ३०००, २०००, १००० इति राशिः महानगर-नगर-ग्रामक्रमेण वित्तलेखे आधारधनत्वेन न्यूनातिन्यूनं निश्चितं धनम् आवश्यकम् इति नियमः आसीत्I दूरवाण्यां दीयमानाय लघुसन्देशप्रेषणाय सङ्कलितं शुल्कमपि परित्यक्तम् अस्ति इति  अध्यक्षेण रञ्जिनशकुमारेण उक्तम्।
कोरोणव्यापनात्  प्रतिरोधाय केरलेषु विद्यालयाः पिहिताः।
     तिरुवनन्दपुरम्> केरलेषु अपि कोविद्१९ विषाणुः व्याप्यते इत्यनेन रोगव्यापन प्रतिरोधमुद्‌दिश्य विरामः ख्यापितः। विधानसभया निर्णयः स्वीकृतः। मार्च् मासस्य ३१ दिनाङ्कपर्यन्तम् अस्ति विरामः । किन्तु ८, ९, १०, ११, १२ कक्ष्यायाः छात्रेभ्यः परीक्षाः प्रचलिष्यन्ति। १ कक्ष्यातः ७ पर्यन्तं परीक्षा न भविष्यति।

Monday, March 9, 2020

अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे सिन्धी-भाषायाः पुस्तकानि अर्पितानि ।


   अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य सिन्धी-भाषायाः सुख्याता लेखिका कवयित्री च शालिनी-सागर-महोदया स्वीय-पुस्तकानि केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे श्रीमते प्रह्लाद-सिंह-पटेल-महाभागाय आर्पयत्, अपि च सिन्धी-भाषायाः सुबहु प्रचार-प्रसार-हेतोः संस्कृति-पर्यटन-मन्त्रालययोः सहयोगं मार्ग-दर्शनञ्च विवर्धयितुं मन्त्रि-महोदयं निवेदितवती। आकाशवाण्याः विदेश-प्रसारण-सेवा-विभागे सिन्धी-भाषायाः अनुवादिका प्रसारिका [निवृत्ता] च शालिनी-सागर-महोदया गद्य-पद्य-विधायां षट् पुस्तकानि विरचय्य प्रकाशितवती। सा पण्डितराज-जगन्नाथस्य ‘गङ्गालहरी’-इति स्तुति-काव्यस्य सिन्धी-भाषन्तरणं व्यदधात्, तथा च, साहित्य-अकादम्याः कृते भगवतः भाष्यकारस्य भगवत्-पादस्य आदिशङ्करस्य ‘प्रश्नोत्तर-रत्नमालिकां’ च सिन्धी-भाषान्तरेण विभूषितवती । तस्याः अन्यतमेन लघुकथा-संग्रहेण दिल्ली-सिन्धी-अकादम्याः उत्कृष्ट-कथा-लेखन-पुरस्कारोऽवाप्तः।
हेमन्त-जोशी
अणुप्रैषः - hemantjoshi.media@gmail.com
इट्टली निश्चला अभवत् । १.६० कोटि जनाः स्वयम् एकान्तवासिनः अभवन्।
   रोम् > कोविद्-१९ विषाणुसंङ्क्रमणेन इट्टलीयानां जनानां जीवनं स्थगितम्। १.६ कोटि जनाः सम्पर्कनिरोधनेन इदानीं निरीक्षणे सन्तिI कोरोणया मृतानां संख्यायाम् आधिक्यं चीनाराष्ट्रे भवति। द्वितीयस्थाने इट्टली च वर्तते। केवलं रविवासरे ३६ जनाः मृताः। अहत्य  २३० जना: मृताः इति गणना सूचयति।
नारीशक्तिपुरस्काराः सम्मानिताः 
  नवदिल्ली >  अन्ताराष्ट्रवनितादिने भारतस्य १५ महिलेभ्यः नारीशक्तिपुरस्काराः राष्ट्रपतिना रामनाथकोविन्देन सम्मानिताः। 
   वायुसेनायाः प्रथमाः युद्धविमानचालकाः अवानी चतुर्वेदी, भावना कान्तः, मोहनासिंहजितर्वाल् , आदर्शभूता वनिताकर्षका पि. भूदेवी [आन्ध्रप्रदेशः], वन्द्यवयोधिता साक्षरतापठितात्री कार्त्यायनि अम्मा [केरलं], करकौशलनिर्मात्री  आरिफा जान् [जम्मू काश्मीरं], शौचालयनिर्माणेन श्रद्धाभूता कलावतीदेवी [उत्तरप्रदेशः] इत्यादिन्यः महिलाः प्रमुखाः भवन्ति।

Sunday, March 8, 2020

केरले पुनरपि 'कोविड् - १९' बाधा।  
रोगबाधिताः  इट्टलीतः प्रतिनिवर्तिताः। 
 पत्तनंतिट्टा >  इट्टलिराष्ट्रात् प्रत्यागतानां पत्तनंतिट्टाजनपदीयानां केरलीयानां कोरोणा विषाणुबाधा दृढीकृता। गतमासस्य २९तमे दिनाङ्के आसीत् पत्तनंतिट्टानिवासीनः  माता, पिता, तयोः पुत्रश्च इट्टलीतः खत्तर् द्वारा कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तवन्तः। तान् स्वीकर्तुं द्वौ बान्धवौ च प्राप्तवन्तौ। किन्तु एतैः स्वास्थ्यविभागं प्रति सम्पर्कः न कृतः इति सूच्यते।  एते पञ्च जनाः एव कोरोणाविषाणुबाधिताः इति स्थिरीकृताः। 
   वार्तायां बहिरागतायां स्वास्थ्यविभागः जाग्रतया उत्थापितः। पूर्वोक्ताः पञ्च जनाः आतुरालयं प्रवेश्य कर्कशनिरीक्षणाय निर्दिष्टाः।