OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 15, 2020

सूर्यस्य सहस्रगुणिताकारयुक्तं तिरुवतिरनक्षत्रं 'सूपर नोव' विस्फोटनाय सज्जम्।
    ओरैयण् नक्षत्रसमूहेषु अधिकप्रकाशयुक्तस्य  बीट्टल् जीस् (तिरुवातिरा) नक्षत्रस्य  प्रकाशतीव्रतायां न्यूनता अस्ति इति वैज्ञानिकाः वदन्ति। प्रकाशतीव्रतायां  १२  स्थाने आसीत् इदम्। गतमासे अस्य स्थानं २० तमम् इति परिष्कृतम्। भूमीतः ६४२.५ प्रकाशवर्षात् दूरं भवति अस्य स्थानम्। अस्य स्फोटनम् भूमीतः दृष्टुं शक्यते। विल्लनोव विश्वविद्यालयस्य ज्योतिवैज्ञानिकः एड्वेर्ड् गिनन् इत्याख्येन सञ्चितानि विवरणानि अधिकृत्य  अनुमानानि निष्पादितानि भवन्ति। फेब्रुवरि २१ दिनाङ्के प्रकाशस्य न्यूनतममात्रायां समागमिष्यति इति अनुमीयते वैज्ञानिकैः।

Thursday, February 13, 2020

प्रथम प्रपञ्चस्य भीमाकारा वियद्गङ्गा प्रत्यभिज्ञाता।

     अद्य दृश्यमानस्य प्रपञ्चस्य १८० कोटि संवत्सराणि एव आयु:। किन्तु १२०० कोटि संवत्सराणाम्   पुरातनं  भीमाकारं वियद्गङ्गां दृष्टवन्तः ज्योतिवैज्ञानिकाः। इदानीं निर्जीवावस्थायां दृष्टा वियद्गङ्गा  कालिफोर्णियस्य विश्वविद्यालयस्य वैज्ञानिकानां नेतृत्वे एव प्रत्यभिज्ञाता।

Wednesday, February 12, 2020

कोरोणविषाणुना चीन राष्ट्रे १०००+ जनाः हताः
    बैजिङ्> चीनराष्ट्रे कोरोणविषाणुना ह्यः १०३ जनाः हताः I आहत्य मृतानां सङ्ख्या १०११ इत्यभवत्। मङ्गलवासरे प्रभाते आगतम् आवेदनमिदम्। रोगेण पीडितानां संख्या ४२,२०० इति वर्धितम्। रविवासरे राष्ट्रपतिना जिन् पिङ्‌ षि इत्यनेन आतुरालयं संदृष्टाः। विश्वस्वास्थ्य सङ्घटनस्य विशेषादेशाम् अनुसृत्य  ब्रूस् अल् वार्डस्य नेतृत्वे  अन्ताराष्ट्र स्वास्थ्यप्रवर्तकानां सङ्घः चीनराष्ट्रं प्राप्तम्। आफ्रिक्कमध्ये एबोल विषाणुव्यापनकाले तत्रत्यानां स्वास्थ्यप्रवर्तनानां नेतृत्वं अनेन ब्रूस् अल् वार्ड् महोदयेन निर्व्यूढम्l

Tuesday, February 11, 2020

प्रचण्डवातेन विमानं डयडयितम् द्विहोराभ्यां पूर्वं लक्ष्यं प्राप्तम्।  
      लण्टन् > सप्त वर्षाभयन्तरे जायमानेषु प्रचण्डवातेषु अतिशक्तः भवति ह्यः यु के यूरोप् प्रदेशे जातः सियार इति नामाङ्कितः वातः। किन्तु प्रचण्ड वातस्य सञ्चारगतिम् उपयुज्य ब्रिट्टणस्य विमानेन यात्रासमयः न्यूनीकृतः।  न्यूयोर्कतः हीत्रु विमान निलयं प्रति समायातस्य विमानस्य सञ्चारपथस्य अनुकूलदिशायाम् आसीत् प्रचण्डवातस्य गतिः। अतः १२९० वेगेन डयनाय अशक्यत् इत्यनेन ४.५६ घण्डाभ्यन्तरेण विमानं हीत्रु विमाननिलयं प्राप्तम्।

Sunday, February 9, 2020

भारतीय-तत्वचिन्तामण्डलस्य आधुनिकप्रवाचकः पि परमेश्वरः विष्णुपदं प्राप्तवान्।
   पालक्काट्> भारतीय-तत्वचिन्ता-मण्डलस्य प्रवाचकः भारतीयविचार केन्द्रस्य वरिष्ठनिर्देशकः पूजनीयः परमेश्वर जी महोदयः दिवङ्गतः अभवत्I ९३ वयस्कः एषः आयुर्वेद औषधालये चिकित्सायाम् आसीत्। पद्मश्री, पद्मविभूषणम् अमृतकीर्तिः इत्यादि उपाधिभिः सम्मानितः आसीत्I अद्य सायं चतुर्वादने मुहम्मदेशे भवति महोदयस्य अन्त्येष्ठिः। 
संस्कृतभारत्याः अखिलभारतीय समीक्षायोजनागोष्ठी समारब्धा
    कालटी> संस्कृतभारत्याः अखिलभारतीयोपवेशनं आदिशङ्करस्य जन्मभूम्यां कालट्यां समारब्धम्। संस्कृतपण्डितः तथा कालटी श्रृंगेरिमठस्य प्रबन्धकः प्रो. सुब्रह्मण्य अय्यर् महोदयः मेलनस्य उद्‌घाटनम् अकरोत्। संस्कृतभाषा शास्त्रसम्पदः व्यावहारिकनैर्मल्यस्य च संवर्धनं करोतिI अस्याः भाषायाः प्रचारः ग्रामान्तरेषु अपि व्यापनीयः इति सुब्रह्मण्यय्यर् महोदयेन उक्तम्। संस्कृतभारत्याः अखिल-भारतीयानां कार्यकर्तृणाम् मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतभारत्याः अखिल-भारतीयाध्यक्षः  सोमनाथसंस्कृत विश्वविद्यालयस्य कुलपतिः डा. गोपबन्धु मिश्रः अध्यक्षः आसीत्। संस्कृतभारत्याः केरल-राज्यस्तरीय- अध्यक्षः डा. पि के माधवः आमुखभाषाणं कृतवान्। डा. ई एन् ईश्वरः स्वागतं, डा. ओ. एस्. सुधीषः कृतज्ञता च उक्त वन्तौ। १५० प्रतिनिधयः मेलने भागं स्वीकुर्वन्ति।

Saturday, February 8, 2020

पाकिस्थानीय छात्रान् वुहानतः रक्षिष्यामः इति मोदी इम्रान् खानं प्रति उक्तवान्l इम्रानः मौनी अभवत्।
मालद्वीपस्य नागरिकाः वुहानतः दिल्ली विमाननिलये
     नव दिल्ली> कोरोणा विषाणोः प्रभवकेन्द्रात् पाकिस्थानस्य नागरिकान् आनेतुं सज्जाः इति भारतेन पाकिस्थानः उद्‌बोधितः इति नूतनम् आवेदनमस्ति। वुहानतः भारतस्य  छात्रान् संरक्ष्य आनयनसमये आसीत् भारतस्य वाग्दानम् I किन्तु पाकिस्थानस्य पक्षतः कोऽपि प्रतिस्पन्दः  नासीत् इति  ऐ ए एन् एस् वार्ताहरसंस्थया आवेद्यते।  भारतीयेन साकं समीपस्थानां प्रातिवेशिक-राष्ट्राणां नागरिकान् अपि आनेतुं सज्जाः इति भारतेन उक्तम्I मालिद्वीप्, बंग्लादेश् राष्ट्रत्योः नागरिकाः एवं भारतेन आनीताः आसन्। चीनराष्ट्रे  रोधिताः पाकिस्थानस्य नागरिकाः चीनस्य जाड्ये प्रतिषेधं प्रकाशितवन्तः आसन्।

Thursday, February 6, 2020

दशनिमेषाभ्यन्तरेण  विवाहानुष्ठानानि समाप्य कोरोणा रोगीपरिचर्याय गतवान् 
   बैजिङ्> चीनस्य भिषग्वरः दशनिमेषाभ्यन्तरेण स्वस्य विवाहानुष्ठानानि समाप्य कोरोणा रोगिणः परिचर्याय गतवान् इति वार्ता विश्वस्य वार्ता पुटेषु निभृता अस्ति। भिषग्वरस्य लि षिकियाङ् इत्यस्य विवाहवार्ता अस्ति इयम्l कोरोण विषाणु व्यापनेन जनाः दूयमानाः सन्ति, अतः शीघ्रमेव आतुरालयं प्रति गन्तव्यम् इति चिन्ता आसीत् तस्यl  तस्य वधू यु होङ्यान् अपि वैद्या भवति। विवाहानन्तरं मिलित्वा भोजनमपि अकृत्वा गतवान् पतिः इत्यनेन तस्यै खेदलेशोऽपि नास्तिI

Wednesday, February 5, 2020

कोरोणा विषाणुः- मृतानां संख्या - ४९२, रोगग्रस्ताः २४०००

    हुबेय् (चीन)> चीनराष्ट्रे कोरोणा विषाणुना मारितानां संख्या  ४९२ इति वर्धिता। रोगग्रस्तानां संख्या तु २४००० इति चI ह्यः ६५ जनाः  मृताः। यन्त्रमनुष्यस्य साहाय्येन रोगग्रस्तेभ्यः अन्नम् औषधं च दातुमारब्धम्।

Tuesday, February 4, 2020

छात्रेभ्यः इस्रो संस्थया युविक-२ पञ्जीकरणं समारब्धम्।
      नवदिल्ली> अष्टमकक्ष्यायाः अध्ययनानन्तरं  वैज्ञानिकविषयेण प्रभावितेभ्यः छात्रेभ्यः अधिकाध्ययनाय सन्दर्भः दातु मुद्दिश्य इस्रो संस्थया समारब्धा योजना भवति युविका-२ इति। 'युवविज्ञानि कार्यक्रमः' इति नामाङ्कितायाः अस्याः योजनायाः पाञ्जीकरणं प्रचलत् अस्ति। अन्तर्जालद्वारा  भवति पञ्जीकरणम्, अन्तिमा तिथिः अस्मिन् मासस्य २४ दिनाङकःभवति। १२ कक्ष्यायाः छात्रेभ्यः अपि योजनायां भागं कर्तुं सन्दर्भः अस्ति। (https://www.isro.gov.in/update/22-jan-2020/young-scientist-programme-2020) .

कोरोण- चीनराष्ट्रे ५२५ जनाः मृताः।
  बैजिङ्> विश्वमखिलम् आशङ्कायां पातयित्वा कोरोणा विषाणुः व्याप्यते। चीनराष्ट्रे अद्यावधि ४२५ जनाः अणुग्रस्तो भूत्वा मृताः सन्ति। २०,४३८ जनाः इदानीं रोगग्रस्ताः सन्ति इति राष्ट्रिय-स्वास्थ्यायोगेन उक्तम्। सोमवासरे ३१ प्रविश्यातः ३२३५ नूतनतया रोगग्रस्था इति आवेदिताः। चिकित्सालये. प्रविष्टेषु ६४ जनाः सोमवासरे मृताः। २५८८ जनाः गुरुतरावस्थायां रोगेण पीडयन्तः सन्ति इति सोमवासरस्य गणना भवति।

संस्कृताभियानम्I

        नमांसि, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभि: अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  
कविकुलगुरु कालिदासविश्वविद्यालयः। महाराष्‌ट्रम्।

Monday, February 3, 2020

इस्रायेल्-ईजिप्त प्रकृति वातकनाली विस्फोटनेन भग्ना।
  केय्रो> इस्रायेल्-ईजिप्तराष्ट्रयोर्मध्ये विद्यमाना  प्रकृति-वातकनाली विस्फोटनेन भग्ना अभवत्I आतङ्कवादिनः भवन्ति  दुष्कर्मणः पृष्ठतः इति आशङ्क्यते इति ईजिप्त्‌ सर्वकारेण उक्तम्। ईजिप्तस्य सीनायि उपद्वीपस्य उत्तरभागस्थाथायां नालिकाश्रेण्याम् आसीत् रविवासरे विस्फोटः। बिर् अल् अब्द् नगरे नालिकायाः अधः मुखम् अच्छाद्य आगताः षट् आतङ्कवादिनः विस्फोटकं स्थापितवन्तः इति स्वनाम वक्तुम्  अनभिलाषिणः उद्योगिनः उक्‌तवन्तः इति ए एफ्. पि. वार्तादलेन आवेदितम्।

Sunday, February 2, 2020

चीनदेशस्य वुहाम्नगरात् 
स्वदेशं प्रत्यागता: भारतीया:
-पुरुषोत्तमशर्मा
     नवदेहली>चीनदेशस्य कोरोणविषाणुग्रस्‍तात् वुहाननगरात् भारतीयान् संवाह्य एयर इण्डिया समवायस्य द्वितीयं विशेषविमानम् अद्य भारतं प्रत्यागतम्। चतुर्विंशत्यधिकत्रिशतं भारतीयानादाय प्रथमं विशेषविमानं गतदिने राजधान्यां नवदिल्ल्यां सम्प्राप्तम्। वुहाननगरात् सम्प्राप्ता: सर्वेऽपि भारतीया: चतुर्दश दिवसेभ्य: चिकित्सकानां निरीक्षणे स्थास्यन्ति। एतदर्थं प्रशासनेन हरियाणाया: गुरुग्रामे दिल्ल्या: छावलायां च विशेषनिरीक्षणे केन्द्रे स्थापिते वर्तेते।
भारत-न्यूजीलैण्डदेशयो: २०-२० क्षेपचक्रीयाया: क्रिकेटशृङ्खलाया अन्तिमा स्पर्धा अद्य
-पुरुषोत्तमशर्मा
        भारत-न्यूजीलैण्डदेशयो: मध्ये अनुवर्तमानाया: विंशति: - प्रतिविंशति: क्षेपचक्रीयाया: क्रिकेटशृङ्खलाया अन्तिमा स्पर्धा अद्य स्पर्धिष्यते। भारतेन इयं शृङ्खला पूर्वमेव विजितास्ति। पञ्चस्पर्धात्मिकायां शृङ्खलायां भारतेन इदानीं चतस्र: स्पर्धा: विजितास्सन्ति। स्पर्धाद्वयी च सुपर् ओवर् इति विशेषकन्दुकक्षेपेण निर्णय: सञ्जात:। भारतेन तृतीया चतुर्थी च स्पर्धा विशेषकन्दुकक्षेपणषट्केन भव्यप्रदर्शनबलेन विजिते।

Friday, January 31, 2020

कोरोण विषाणुः- आविश्वं जाग्रतानिर्देशः प्रसारितःI
चीनराष्ट्रे ११३ जनाः मृताः।

     जनीव> चीनस्य कोरोण विषाणुव्यापन घटनायां विश्वस्वास्थ्यसंगठनेन आविश्वं सूचना प्रसारिता। चीनराष्ट्रस्य बहिरपि रोगाणुः व्याप्ताः इत्यनेन भवति अयं प्रक्रमः इति अध्यक्षः टड्रोस् अदानम् इत्याख्यः जनीवायाम् उक्तवान्। २१३ जनाः इतःपर्यन्तं मृताः। आविश्वं ९७०० जनाः कोरोण विषाणुग्रहणेन दूयमानाः सन्ति। रोगग्रस्तेषु भूरि जनाः चीनराष्ट्रे एव। इदानीं २० राष्ट्रेषु रोगाणुः व्याप्ता अस्तिI भारते केरलराज्ये एका छात्रा रोगाणुग्रस्था अस्ति। 
चीनदेशस्य वुहाम्प्रदेशस्थान्  भारतीयान् शुक्रवासरे भारतम् आनेष्यति।
के.वि.रजीष्
नवदहली > चीनदेशे कोरोणरोगाणुबाधितात् वुहाम्प्रदेशात् विश्वराष्ट्राणि स्वपौरान् तत्तद्राष्ट्रं प्रति आनेतुम् आवश्यकव्यवहारान् आरभन्त। वुहाम्प्रदेशस्थान् भारतीयान् प्रायः शुक्रवासरे भारतं आनेष्यति इति भारतस्य विदेशकार्यमन्त्रालयाधिकृतैः सूचितम्। एतत्संबन्धितया निर्देशादिकं चीनदेशस्थात् भारतीयस्थानपतिकार्यालयात् वुहाम्प्रदेशस्थेभ्यः भारतीयच्छात्रेभ्यः दत्तं वर्तते। एतदर्थं सविशेषतया सज्जीकृतं विमानं श्वः चीनदेशं प्रति प्रस्थास्यति। प्रथमं वुहाम्प्रदेशात् भारतीयान् आनेष्यति, ततः परं हुबै मण्डलस्थान् भारतीयान् अपि आनेष्यति। एतदर्थं भारतसर्वकारेण भारतस्थेन चीनस्थानपतिकार्यालयेन सह सम्पर्कः अनुवर्तते च।

Thursday, January 30, 2020

कोरोणा विषाणुना १७० चीनाः मृताः। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति।

   बैजिङ्‌> कोरोणा विषाणुः नियन्त्रणातीतः वर्तते। अनेन विषाणुना १७० चीनाः मृताः सन्ति। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति। किन्तु मृतानां सङ्ख्या इतोऽपि अधिकाः स्युः इत्याशङ्क्यते।  ११५ जनाः रोगान्मुक्तो भूत्वा आतुरालयात् गतवन्तः इति चीनस्य स्वास्थ्यमन्त्रालयेन उक्तम्। इदानीं १७ राष्ट्रेषु रोगः व्याप्तः इत्यावेदनानि सूचयन्ति। चीनस्थस्य गूगिलस्य कार्यालयाः होङ्कोङस्थः ताय्वानस्थः च कार्यालयाः च कीलिताः। माक्डाणाल्डस्य तथा अन्येषां च प्रमुखानां भक्ष्यशालानाम् अपि पिधानं कृतम् ।  विषाणु-सङ्‌क्रमणः आर्थिकमण्डलेभ्यः बाधारूपेण भविष्यति इति आर्थिकविचक्षणैः अनुमन्यते।