OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 6, 2020

दशनिमेषाभ्यन्तरेण  विवाहानुष्ठानानि समाप्य कोरोणा रोगीपरिचर्याय गतवान् 
   बैजिङ्> चीनस्य भिषग्वरः दशनिमेषाभ्यन्तरेण स्वस्य विवाहानुष्ठानानि समाप्य कोरोणा रोगिणः परिचर्याय गतवान् इति वार्ता विश्वस्य वार्ता पुटेषु निभृता अस्ति। भिषग्वरस्य लि षिकियाङ् इत्यस्य विवाहवार्ता अस्ति इयम्l कोरोण विषाणु व्यापनेन जनाः दूयमानाः सन्ति, अतः शीघ्रमेव आतुरालयं प्रति गन्तव्यम् इति चिन्ता आसीत् तस्यl  तस्य वधू यु होङ्यान् अपि वैद्या भवति। विवाहानन्तरं मिलित्वा भोजनमपि अकृत्वा गतवान् पतिः इत्यनेन तस्यै खेदलेशोऽपि नास्तिI

Wednesday, February 5, 2020

कोरोणा विषाणुः- मृतानां संख्या - ४९२, रोगग्रस्ताः २४०००

    हुबेय् (चीन)> चीनराष्ट्रे कोरोणा विषाणुना मारितानां संख्या  ४९२ इति वर्धिता। रोगग्रस्तानां संख्या तु २४००० इति चI ह्यः ६५ जनाः  मृताः। यन्त्रमनुष्यस्य साहाय्येन रोगग्रस्तेभ्यः अन्नम् औषधं च दातुमारब्धम्।

Tuesday, February 4, 2020

छात्रेभ्यः इस्रो संस्थया युविक-२ पञ्जीकरणं समारब्धम्।
      नवदिल्ली> अष्टमकक्ष्यायाः अध्ययनानन्तरं  वैज्ञानिकविषयेण प्रभावितेभ्यः छात्रेभ्यः अधिकाध्ययनाय सन्दर्भः दातु मुद्दिश्य इस्रो संस्थया समारब्धा योजना भवति युविका-२ इति। 'युवविज्ञानि कार्यक्रमः' इति नामाङ्कितायाः अस्याः योजनायाः पाञ्जीकरणं प्रचलत् अस्ति। अन्तर्जालद्वारा  भवति पञ्जीकरणम्, अन्तिमा तिथिः अस्मिन् मासस्य २४ दिनाङकःभवति। १२ कक्ष्यायाः छात्रेभ्यः अपि योजनायां भागं कर्तुं सन्दर्भः अस्ति। (https://www.isro.gov.in/update/22-jan-2020/young-scientist-programme-2020) .

कोरोण- चीनराष्ट्रे ५२५ जनाः मृताः।
  बैजिङ्> विश्वमखिलम् आशङ्कायां पातयित्वा कोरोणा विषाणुः व्याप्यते। चीनराष्ट्रे अद्यावधि ४२५ जनाः अणुग्रस्तो भूत्वा मृताः सन्ति। २०,४३८ जनाः इदानीं रोगग्रस्ताः सन्ति इति राष्ट्रिय-स्वास्थ्यायोगेन उक्तम्। सोमवासरे ३१ प्रविश्यातः ३२३५ नूतनतया रोगग्रस्था इति आवेदिताः। चिकित्सालये. प्रविष्टेषु ६४ जनाः सोमवासरे मृताः। २५८८ जनाः गुरुतरावस्थायां रोगेण पीडयन्तः सन्ति इति सोमवासरस्य गणना भवति।

संस्कृताभियानम्I

        नमांसि, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभि: अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  
कविकुलगुरु कालिदासविश्वविद्यालयः। महाराष्‌ट्रम्।

Monday, February 3, 2020

इस्रायेल्-ईजिप्त प्रकृति वातकनाली विस्फोटनेन भग्ना।
  केय्रो> इस्रायेल्-ईजिप्तराष्ट्रयोर्मध्ये विद्यमाना  प्रकृति-वातकनाली विस्फोटनेन भग्ना अभवत्I आतङ्कवादिनः भवन्ति  दुष्कर्मणः पृष्ठतः इति आशङ्क्यते इति ईजिप्त्‌ सर्वकारेण उक्तम्। ईजिप्तस्य सीनायि उपद्वीपस्य उत्तरभागस्थाथायां नालिकाश्रेण्याम् आसीत् रविवासरे विस्फोटः। बिर् अल् अब्द् नगरे नालिकायाः अधः मुखम् अच्छाद्य आगताः षट् आतङ्कवादिनः विस्फोटकं स्थापितवन्तः इति स्वनाम वक्तुम्  अनभिलाषिणः उद्योगिनः उक्‌तवन्तः इति ए एफ्. पि. वार्तादलेन आवेदितम्।

Sunday, February 2, 2020

चीनदेशस्य वुहाम्नगरात् 
स्वदेशं प्रत्यागता: भारतीया:
-पुरुषोत्तमशर्मा
     नवदेहली>चीनदेशस्य कोरोणविषाणुग्रस्‍तात् वुहाननगरात् भारतीयान् संवाह्य एयर इण्डिया समवायस्य द्वितीयं विशेषविमानम् अद्य भारतं प्रत्यागतम्। चतुर्विंशत्यधिकत्रिशतं भारतीयानादाय प्रथमं विशेषविमानं गतदिने राजधान्यां नवदिल्ल्यां सम्प्राप्तम्। वुहाननगरात् सम्प्राप्ता: सर्वेऽपि भारतीया: चतुर्दश दिवसेभ्य: चिकित्सकानां निरीक्षणे स्थास्यन्ति। एतदर्थं प्रशासनेन हरियाणाया: गुरुग्रामे दिल्ल्या: छावलायां च विशेषनिरीक्षणे केन्द्रे स्थापिते वर्तेते।
भारत-न्यूजीलैण्डदेशयो: २०-२० क्षेपचक्रीयाया: क्रिकेटशृङ्खलाया अन्तिमा स्पर्धा अद्य
-पुरुषोत्तमशर्मा
        भारत-न्यूजीलैण्डदेशयो: मध्ये अनुवर्तमानाया: विंशति: - प्रतिविंशति: क्षेपचक्रीयाया: क्रिकेटशृङ्खलाया अन्तिमा स्पर्धा अद्य स्पर्धिष्यते। भारतेन इयं शृङ्खला पूर्वमेव विजितास्ति। पञ्चस्पर्धात्मिकायां शृङ्खलायां भारतेन इदानीं चतस्र: स्पर्धा: विजितास्सन्ति। स्पर्धाद्वयी च सुपर् ओवर् इति विशेषकन्दुकक्षेपेण निर्णय: सञ्जात:। भारतेन तृतीया चतुर्थी च स्पर्धा विशेषकन्दुकक्षेपणषट्केन भव्यप्रदर्शनबलेन विजिते।

Friday, January 31, 2020

कोरोण विषाणुः- आविश्वं जाग्रतानिर्देशः प्रसारितःI
चीनराष्ट्रे ११३ जनाः मृताः।

     जनीव> चीनस्य कोरोण विषाणुव्यापन घटनायां विश्वस्वास्थ्यसंगठनेन आविश्वं सूचना प्रसारिता। चीनराष्ट्रस्य बहिरपि रोगाणुः व्याप्ताः इत्यनेन भवति अयं प्रक्रमः इति अध्यक्षः टड्रोस् अदानम् इत्याख्यः जनीवायाम् उक्तवान्। २१३ जनाः इतःपर्यन्तं मृताः। आविश्वं ९७०० जनाः कोरोण विषाणुग्रहणेन दूयमानाः सन्ति। रोगग्रस्तेषु भूरि जनाः चीनराष्ट्रे एव। इदानीं २० राष्ट्रेषु रोगाणुः व्याप्ता अस्तिI भारते केरलराज्ये एका छात्रा रोगाणुग्रस्था अस्ति। 
चीनदेशस्य वुहाम्प्रदेशस्थान्  भारतीयान् शुक्रवासरे भारतम् आनेष्यति।
के.वि.रजीष्
नवदहली > चीनदेशे कोरोणरोगाणुबाधितात् वुहाम्प्रदेशात् विश्वराष्ट्राणि स्वपौरान् तत्तद्राष्ट्रं प्रति आनेतुम् आवश्यकव्यवहारान् आरभन्त। वुहाम्प्रदेशस्थान् भारतीयान् प्रायः शुक्रवासरे भारतं आनेष्यति इति भारतस्य विदेशकार्यमन्त्रालयाधिकृतैः सूचितम्। एतत्संबन्धितया निर्देशादिकं चीनदेशस्थात् भारतीयस्थानपतिकार्यालयात् वुहाम्प्रदेशस्थेभ्यः भारतीयच्छात्रेभ्यः दत्तं वर्तते। एतदर्थं सविशेषतया सज्जीकृतं विमानं श्वः चीनदेशं प्रति प्रस्थास्यति। प्रथमं वुहाम्प्रदेशात् भारतीयान् आनेष्यति, ततः परं हुबै मण्डलस्थान् भारतीयान् अपि आनेष्यति। एतदर्थं भारतसर्वकारेण भारतस्थेन चीनस्थानपतिकार्यालयेन सह सम्पर्कः अनुवर्तते च।

Thursday, January 30, 2020

कोरोणा विषाणुना १७० चीनाः मृताः। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति।

   बैजिङ्‌> कोरोणा विषाणुः नियन्त्रणातीतः वर्तते। अनेन विषाणुना १७० चीनाः मृताः सन्ति। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति। किन्तु मृतानां सङ्ख्या इतोऽपि अधिकाः स्युः इत्याशङ्क्यते।  ११५ जनाः रोगान्मुक्तो भूत्वा आतुरालयात् गतवन्तः इति चीनस्य स्वास्थ्यमन्त्रालयेन उक्तम्। इदानीं १७ राष्ट्रेषु रोगः व्याप्तः इत्यावेदनानि सूचयन्ति। चीनस्थस्य गूगिलस्य कार्यालयाः होङ्कोङस्थः ताय्वानस्थः च कार्यालयाः च कीलिताः। माक्डाणाल्डस्य तथा अन्येषां च प्रमुखानां भक्ष्यशालानाम् अपि पिधानं कृतम् ।  विषाणु-सङ्‌क्रमणः आर्थिकमण्डलेभ्यः बाधारूपेण भविष्यति इति आर्थिकविचक्षणैः अनुमन्यते।
क्रिकेट्-भारतस्य तृतीयः विजयः परम्परायाम् अजय्यता च। 
-के.वि.रजीष्
    हामिल्टण् > न्यूसिलण्ट्दलं प्रति प्रचाल्यमानायाः टि२० क्रिकेट् परम्परायाः तृतीयक्रीडायां 'सूपर् ओवर्' मध्ये भारतदलस्य विजयः। क्रिकेट् आस्वादकान् उद्‌वेगभरितान् कृतायां क्रीडायां 'सूपर् ओवर्' मध्ये १८ धावनाङ्‌कानां लक्ष्यं भारतेन क्रीडकनष्टं विना प्राप्तम्। अन्तिमकन्दुकद्वये षट्कं सम्पाद्य रोहित् शर्म (१५*) भारतविजयं सुकरम् अकारयत्। क्रीडायां प्रथमं कन्दुकताडनं कृत्‍वा भारतदलेन निश्चिते २० ओवर् मध्ये ५ क्रीडकानां नष्टेन १७९ धावनाङ्काः प्राप्ताः। भारताय रोहित् शर्म(६५), राहुलः(२७) च प्रथमसहयोगे ८९ धावनाङ्कान् प्राप्तवन्तौ। नायकः कोह्लिः(३८) उत्तमं प्रकटनं प्रादर्शयत्। प्रतिक्रीडनवेलायां  न्यूसिलण्ट्दलाय नायकः केन् विल्यम्सण् ९५ धावनाङ्कान् प्रापत्। गुप्टिलः ३१ धावनाङ्कान् प्रापत् च। अन्येषां प्रकटनं निराशापूर्णमासीत्। तेन च ६ क्रीडकानां नष्टेन १७९ धावनाङ्काः एव न्यूसिलण्ट्दलेन प्राप्ताः।  अङ्कानां तुल्यता जाता इत्यतः क्रीडा 'सूपर् ओवर्' चक्रं प्रविष्टा।  'सूपर् ओवर्' मध्ये प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं १७ धावनाङ्कान् प्रापत्। प्रतिक्रीडनवेलायां भारतदलेन क्रीडकनष्टं विना २० धावनाङ्कान् प्राप्य क्रीडा जिता। अनेन विजयेन भारतदलं परम्परायाम् अजय्यतां च (३-०) प्रापत्।

Wednesday, January 29, 2020

कोरोणरोगाणुबाधा- दहलीमध्ये त्रयः जनाः निरीक्षणे।
-के.वि.रजीष्
     नवदहली > चीनदेशसन्दर्शनात्परं भारतं प्रत्यागताः कोरोणरोगाणुबाधिताः इति मन्यमानाः त्रयः जनाः निरीक्षणे वर्तन्ते। एते दहलीस्थे राम् मनोहर् लोह्य आतुरालये सविशेषपरिचरणविभागम् प्रवेशिताः। एतेषु एकः गतमासे अपरौ द्वौ गतसप्ताहे च चीनदेशात् भारतं प्रत्यागगताः। आतुरालयप्रवेशवेलायाम् एते ज्वरेण, कासेन च पीडिताः आसन्। एतेषां रक्तांशाः परीक्षणाय पूने वैरोलजि इन्स्टिट्यूट् मध्ये स्वीकृताः वर्तन्ते। राष्ट्रे कोरोणरोगाणुभीतेः सन्दर्भे अस्मिन् रोगप्रतिरोधचिकित्सायै राम् मनोहर् लोह्य आतुरालयः सर्वसज्जः भवतीति आतुरालयाधिकृतैः सूचितम्।

Tuesday, January 28, 2020

कोरोण विषाणुव्यापनं नियन्त्रणातीतम् - पूर्वसूचनया विश्वस्वास्थ्यसंस्था।

   जनीव>कोरोण विषाणुव्यापनं नियन्त्रणातीतम्  वर्तते इति  विश्वस्वास्थ्यसंस्था। अत्यापत्करम् भविष्यति विषाणुव्यापनम् इति  विश्वस्वास्थ्यसंस्थया पूर्वसूचना प्रदत्ता। चीन राष्ट्रे इदानीं १०० मानवाः रोगेण मृताः। चीनतः समीपराष्ट्रेषु च रोगः आविष्टः। लोके सर्वत्र विमाननिलयेषु सञ्चारिणः रोगग्रस्थाः वा इति आवेक्षणीयः इति संयुक्तराष्ट्रसभया (UN) निर्दिष्टः। २०१४ तमे  आफ्रिक्क भूखण्डस्थेषु राष्ट्रेषु ११३००० जनाः एबोल विषाणुना हताः आसन्।

Monday, January 27, 2020

टि२० क्रिकेट्- भारतस्य द्वितीयः विजयः
- के.वि.रजीष्
     ओक्लण्ट् > न्यूसिलण्ट्दलं प्रति द्वितीयटि२० क्रीडायां भारतस्य ७ क्रीडकानां विजयः। क्रीडायां प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं निश्चितोवर् मध्ये ५ क्रीडकानां नष्टेन १३२ धावनाङ्‌कान् प्रापत्। न्यूसिलण्ट्दलाय गुप्टिल्(३३), सीफेर्ट्(३३*), मण्रो(२६), टेय्लर् (१८) च सामान्यं प्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां १७.३ ओवर् मध्ये केवलं त्रयाणां क्रीडकानां नष्टेन भारतं लक्ष्यं प्रापत्। भारताय राहुलः पुनरपि अर्धशतकं(५६*) प्रापत्। श्रेयस् अय्यर् (४४), कोह्लिः(११) च उत्तमसहयोगं दत्तवन्तौ। क्रीडायाः सर्वेष्वपि स्तरेषु भारतेन औन्नत्‍यं संरक्षितम्। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतं(२-०) अग्रे वर्तते।
राष्ट्रस्य प्रगतिः यूनां हस्तेषु, गान्धिनः उपदेशान् स्वीकृतैः स्वस्य कर्म समीचीनतया  पूर्णतया च कर्तुं शाक्यते इति -राष्ट्रपतिः रामनाथ कोविन्दः।
   नवदिल्ली> राष्ट्रस्य प्रगतिः यूनां हस्तेषु भवति इति भारतस्य राष्ट्रपतिना रामानाथकोविन्देन  उक्तम्। यूनां प्रवर्तनेन राष्ट्रं प्रथमस्थानं  प्राप्‌स्यति इत्यपि  रामनाथकोविन्देन उक्तम्I राष्ट्रस्य ७४-तमे गणतन्द्रदिने राष्ट्रं प्रति भाषमाणः आसीत् सः। २१ शताब्दस्य तृतीये दशके भारतीयानां प्रगतेः कालोऽयम्। वैज्ञानिकविद्यायाः सदुपयोगेन युवानः ज्ञानसम्पन्नाः  आत्मविश्वाससम्पन्नाः च अभवन्। राष्ट्रस्य धार्मिक-मूल्यानि राष्ट्रतत्परतां च मनसि निधाय भवन्तु भविष्यकालप्रवर्तनानि इत्यपि राष्ट्रपतिना युवानः उपदिष्टाः।

Saturday, January 25, 2020

निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारः।

   निर्वाचनायोगास्य-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारेण आलोच्यते। सभायां विधेयकस्य अवतारणात् पूर्वं विषयनिर्धारणसभायाः अनुज्ञायैः निश्चितम्। केन्द्रनियम-आयोगेन प्रक्रमाः समारब्धाः। निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं निर्देशः निर्वाचनायोगेन निवेदितः।  एकस्य नाम विभिन्नेषु मण्डलेषु मतदातॄणां सूचिकायाम् भविष्यति, तद्वत् मतदानं स्यात् इत्‍यादि दोषान् परिहर्तु मुद्दिश्य भवति निर्वाचनायोगस्य निर्देशः। एतदर्थं जनप्रतिनिध्यनियमे परिकारः आवश्यकः। जनुवरी मासे ३१ दिनाङ्के आयोक्ष्यमाणेभ्यः  अर्थसङ्कल्प मेलनात् पूर्वं आमुखरूपं निर्धार्य विषयनिर्धारणसभायाः पुरतः समर्पयितुं शाक्यते इति उद्योगिनः वदन्ति।
टि२० क्रिकेट्- भारतस्य विजयः।
-के.वि.रजीष्
      ओक्टण्ट् >  न्यूसिलण्ट् पर्यटने भारतस्य शुभारम्भः। प्रथमटि२० क्रिकेट् क्रीडायां भारतं ६ क्रीडकानां विजयं प्रापत्। धावनाङ्कानां वृष्टिः जातायां क्रीडायां न्यूसिलण्ट्दलं ५ क्रीडकानां नष्टेन २०३ धावनाङ्कान् प्रापत्। न्यूसिलण्ट्दलाय मण्रो(५९), रोस्टेय्लर् (५४), विल्यम्सन् (५१), गुप्टिल् (३०) चेति क्रीडकाः उत्तमप्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां भारतं ४ क्रीडकानां नष्टेन लक्ष्यं (२०४) प्रापत्। भारताय श्रेयस् अय्यर् (५८*), राहुलः (५६), कोह्लिः (४५) पाण्डे (१४*) च धावनाङ्कान् प्राप्ताः। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतम् (१-०) अग्रे वर्तते।