OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 28, 2020

कोरोण विषाणुव्यापनं नियन्त्रणातीतम् - पूर्वसूचनया विश्वस्वास्थ्यसंस्था।

   जनीव>कोरोण विषाणुव्यापनं नियन्त्रणातीतम्  वर्तते इति  विश्वस्वास्थ्यसंस्था। अत्यापत्करम् भविष्यति विषाणुव्यापनम् इति  विश्वस्वास्थ्यसंस्थया पूर्वसूचना प्रदत्ता। चीन राष्ट्रे इदानीं १०० मानवाः रोगेण मृताः। चीनतः समीपराष्ट्रेषु च रोगः आविष्टः। लोके सर्वत्र विमाननिलयेषु सञ्चारिणः रोगग्रस्थाः वा इति आवेक्षणीयः इति संयुक्तराष्ट्रसभया (UN) निर्दिष्टः। २०१४ तमे  आफ्रिक्क भूखण्डस्थेषु राष्ट्रेषु ११३००० जनाः एबोल विषाणुना हताः आसन्।

Monday, January 27, 2020

टि२० क्रिकेट्- भारतस्य द्वितीयः विजयः
- के.वि.रजीष्
     ओक्लण्ट् > न्यूसिलण्ट्दलं प्रति द्वितीयटि२० क्रीडायां भारतस्य ७ क्रीडकानां विजयः। क्रीडायां प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं निश्चितोवर् मध्ये ५ क्रीडकानां नष्टेन १३२ धावनाङ्‌कान् प्रापत्। न्यूसिलण्ट्दलाय गुप्टिल्(३३), सीफेर्ट्(३३*), मण्रो(२६), टेय्लर् (१८) च सामान्यं प्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां १७.३ ओवर् मध्ये केवलं त्रयाणां क्रीडकानां नष्टेन भारतं लक्ष्यं प्रापत्। भारताय राहुलः पुनरपि अर्धशतकं(५६*) प्रापत्। श्रेयस् अय्यर् (४४), कोह्लिः(११) च उत्तमसहयोगं दत्तवन्तौ। क्रीडायाः सर्वेष्वपि स्तरेषु भारतेन औन्नत्‍यं संरक्षितम्। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतं(२-०) अग्रे वर्तते।
राष्ट्रस्य प्रगतिः यूनां हस्तेषु, गान्धिनः उपदेशान् स्वीकृतैः स्वस्य कर्म समीचीनतया  पूर्णतया च कर्तुं शाक्यते इति -राष्ट्रपतिः रामनाथ कोविन्दः।
   नवदिल्ली> राष्ट्रस्य प्रगतिः यूनां हस्तेषु भवति इति भारतस्य राष्ट्रपतिना रामानाथकोविन्देन  उक्तम्। यूनां प्रवर्तनेन राष्ट्रं प्रथमस्थानं  प्राप्‌स्यति इत्यपि  रामनाथकोविन्देन उक्तम्I राष्ट्रस्य ७४-तमे गणतन्द्रदिने राष्ट्रं प्रति भाषमाणः आसीत् सः। २१ शताब्दस्य तृतीये दशके भारतीयानां प्रगतेः कालोऽयम्। वैज्ञानिकविद्यायाः सदुपयोगेन युवानः ज्ञानसम्पन्नाः  आत्मविश्वाससम्पन्नाः च अभवन्। राष्ट्रस्य धार्मिक-मूल्यानि राष्ट्रतत्परतां च मनसि निधाय भवन्तु भविष्यकालप्रवर्तनानि इत्यपि राष्ट्रपतिना युवानः उपदिष्टाः।

Saturday, January 25, 2020

निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारः।

   निर्वाचनायोगास्य-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारेण आलोच्यते। सभायां विधेयकस्य अवतारणात् पूर्वं विषयनिर्धारणसभायाः अनुज्ञायैः निश्चितम्। केन्द्रनियम-आयोगेन प्रक्रमाः समारब्धाः। निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं निर्देशः निर्वाचनायोगेन निवेदितः।  एकस्य नाम विभिन्नेषु मण्डलेषु मतदातॄणां सूचिकायाम् भविष्यति, तद्वत् मतदानं स्यात् इत्‍यादि दोषान् परिहर्तु मुद्दिश्य भवति निर्वाचनायोगस्य निर्देशः। एतदर्थं जनप्रतिनिध्यनियमे परिकारः आवश्यकः। जनुवरी मासे ३१ दिनाङ्के आयोक्ष्यमाणेभ्यः  अर्थसङ्कल्प मेलनात् पूर्वं आमुखरूपं निर्धार्य विषयनिर्धारणसभायाः पुरतः समर्पयितुं शाक्यते इति उद्योगिनः वदन्ति।
टि२० क्रिकेट्- भारतस्य विजयः।
-के.वि.रजीष्
      ओक्टण्ट् >  न्यूसिलण्ट् पर्यटने भारतस्य शुभारम्भः। प्रथमटि२० क्रिकेट् क्रीडायां भारतं ६ क्रीडकानां विजयं प्रापत्। धावनाङ्कानां वृष्टिः जातायां क्रीडायां न्यूसिलण्ट्दलं ५ क्रीडकानां नष्टेन २०३ धावनाङ्कान् प्रापत्। न्यूसिलण्ट्दलाय मण्रो(५९), रोस्टेय्लर् (५४), विल्यम्सन् (५१), गुप्टिल् (३०) चेति क्रीडकाः उत्तमप्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां भारतं ४ क्रीडकानां नष्टेन लक्ष्यं (२०४) प्रापत्। भारताय श्रेयस् अय्यर् (५८*), राहुलः (५६), कोह्लिः (४५) पाण्डे (१४*) च धावनाङ्कान् प्राप्ताः। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतम् (१-०) अग्रे वर्तते।

Friday, January 24, 2020

'कोरोण' रोगव्यापनम् - चीनदेशे वुहान्‌ नगरं पिधानं कृतम्।
-के.वि.रजीष्

    नवदहली> 'कोरोण' रोगाणु प्रभवस्थानमिति संशयन्तं वुहान् नगरं प्रति गमनागमनम् अधिकृतैः प्रतिरुद्धम्। चीनदेशे कोरोणरोगेण १७ जनाः मृताः अभवन्। जनाः नगरात् बहिः मा गच्छन्तु इति अधिकृतैः निर्देशः दत्तः च। प्रदेशस्थं सर्वमपि गतागतसंविधानं आंशिककालपर्यन्तं बन्धितं वर्तते। ताय्लाण्ट्, ताय्वान्, सौत्कोरियः, जापानः, सौदि अरेब्यः इत्यादिषु राष्ट्रेषु अपि कोरोणरोगः व्याप्तः अभवत्

Thursday, January 23, 2020

भारते 'कोरोण' रोगाणुसङ्क्रमणम् नास्ति- स्वास्थ्यमन्त्रालयः।
- के.वि.रजीष्
        नवदहली> विश्वे बहुत्र 'कोरोण' रोगाणुसङ्क्रमणम्  जाते सन्दर्भे भारतमपि निरीक्षणं प्रतिरोधसज्जीकरणं च शक्तम् अकरोत्। निरीक्षणसम्बन्धतया ४३ विमानेभ्यः ९५१६ यात्रिकाणां वैद्यनिरीक्षणमकरोत्। तस्मिन् यः कोऽपि कोरोणरोगग्रस्तः इति न  दृष्टम् केन्द्रस्वाास्थ्यमन्त्रालयेन स्पष्टीकृतम्। दहली, मुम्बै, कोल्कत्त, चेन्नै इत्यादिषु प्रमुखवैमानिकसङ्केतेषु एव यात्रिकाणां वैद्यनिरीक्षणं सञ्जातम्। अग्रिमदिनेषु अन्येषु प्रमुखकेन्द्रेष्वपि निरीक्षणादिकार्याणां व्यापनं करिष्यतीति मन्त्रालयवक्त्रा सूचितम्। तथापि, चीनदेशे कोरोण रोगाणुग्रस्थानां संख्या १७ अभवत्।

Wednesday, January 22, 2020

६०० सस्यानि ९१ चित्रशालभाः, ५४ पक्षिवर्गाः, इयं छात्राणां वनपाठशाला।

       तिरुवनन्तपुरम्> श्रीकण्ठपुरम् सर्वकारीय उच्चतरविद्यालये जैववैविध्य - उद्याने दृश्यानि विशिष्टानि सन्ति। षट् शतं (६००) सस्यानि एकनवतिः (९१) शलभवर्गाः, चतुष्पञ्चाशत्  पक्षिवर्गाः एवम् अनेकेषां जीविनां नामवैजात्येन सूचिका दीर्घा अस्ति।  श्रीकण्ठपुरम्  बस् निस्थानतः सार्धत्रि- कि.मी मात्रं भवति छात्राणाम्  इदं जैव-वैविध्योद्यानं प्रति।
      परिस्थितिसंरक्षणस्य पाठम्  पुस्तकात् बहिः साक्षात् अध्येतुं छात्रेभ्यः  सन्दर्भ: लब्धः इत्यस्ति प्राधान्यम्I 'एकर्'चतुषटयवि

Monday, January 20, 2020

परीक्षायाः अङ्कादपि जीवने मूल्यवत् सन्ति कानिचित्l परीक्षा पे चर्चायां नरेन्द्रमोदिना उक्तम्।
         नवदिल्ली> पराजयः विजयस्य प्रथमसोपानः इति चन्द्रयानं द्वे इत्यस्य उदाहरणत्वेन नरेन्द्रमोदिना सूचितः। परीक्षा पे चर्चा २०२० इति कार्यक्रमे छात्रान् प्रति भाषमाणः आसीत् सःI जीवनं केवलं परीक्षा न। परीक्षायाः अङ्कादुपरि मूल्यवत् सन्ति कानिचित् जीवने इति सः छात्रान् उपदिशत्l मेक् इन् इन्द्या इति समारंभं विजयं प्राप्तव्यम्। तदर्थं २०२२ संवत्सरानन्तरं भारतोत्पन्नानि वस्तूनि क्रेष्यामि इति निश्चयं  कर्तुं शक्यते वा?  अस्माभिः मेक्‌ इन् इन्द्या इति समारंभः प्रचोदनीयः। अयं अस्माकम् आर्थिकावस्थां शक्तं कारयेत् इत्यपि तेनोक्तम्।
दिनोसर् जीविवर्गाणां कालतः प्राक्तनाः 'पैन्' वृक्षाः वनाग्नीतः संरक्षिताः।
    सिड्णि> ओस्ट्रेलियराष्ट्रे दुरापन्नायाः वनाग्नि-दुर्घटनायाः वोलमि इति वृक्षविशेषः संरक्षितः। दिनोसर् जीविवर्गाणां कालतः प्राक्तनः पैन् वृक्षःभवति वोलमि। विश्वे ओस्ट्रेलियायां एव अस्ति वोलमि इति पैन् वृक्षः।
    १०० वृक्षाः सन्ति अत्रत्‍येषु वनेषु I अग्निबाधायाः समये सर्वकारेण अग्निशमन-सैनिकान् उपयुज्य वृक्षाणां रक्षणाय प्रयत्नः कृतः। द्वौ विहाय ९८ वृक्षाः तैः संरक्षिताः। सिड्णि नगरात् ८० कि.मी दूरे भवति वोलमि राष्ट्रियोद्यानम्। २०० मिल्यण्‌ संवत्सरेभ्य पुरातनाः भवन्ति अत्रत्याः वृक्षाः। १९९४ तमे आसीत्‌ वृक्षस्य प्रत्यभिज्ञानम्। तदनन्तरं सर्वकारेण परिपालिताः आसन् एते विशेषवृक्षाः।
जानुवारी मासस्य २६ दिनाङ्के देशभक्तान्-हुतात्मानां पवित्र-स्मृतौ
श्रद्धाञ्जलीं याचयितुं आह्वान् पिपिएफ्ए।

       गुहावती>  जानुवारी मासस्य आगामी 26 दिनाङ्के त्रिरङ्गा जातीयध्वजोत्तलनेन गणराज्य दिवसस्य पालनेन देशस्य शत-सहस्र स्वतन्त्रसंग्रामी स्वदेशप्रेमिकानां हुतात्मानानां पवित्र स्मृतौ श्रद्धाञ्जलिं याचयितुं पेट्रियटिक पिपल्स फ्रन्ट असम (पिपिएफ्ए) इत्यनेन नागरिकान् आह्वानः क्रियते। एकेन वार्ताविवृतियोगेन पिपिएफ्ए इति वदति यत् यद्यपि 1950 वर्षतः 26 जानुवारी इति दिवसं आनुष्ठानिकरूपेण अस्माकं गणराज्य गणतन्त्र दिवसं वा रूपेण स्वीकृता अस्ति, परन्तु 15 आगष्ट, 1947 वर्षस्य स्वतन्त्रता दिवसात् प्राग् बहु वर्षेभ्यः पराधीनभारतवर्षे 26 जानुवारी इत्येव दिनाङ्कं स्वतन्त्र-सङ्ग्रामीणां कृते प्रतीकिरूपेण स्वतन्त्रदिवसत्वेन स्वीकृतम् आसीत्। पराधीनभारतवर्षे अस्मिनेव दिनाङ्के देशप्रेमिणः सङ्ग्रामस्य नव-नव कार्यसूचीं शपथग्रहणम् आदि कुर्वन्ति स्म, तथा च पुर्णस्वतन्त्रतार्जनाय सङ्ग्रामे आत्मानं नयोजितवन्तः। अतः,
क्रिकेट्- भारतस्य विजयः परम्परा च।
- के.वि.रजीष्
           बङ्गलुरु > आस्ट्रेलियदलं प्रति त्रयाणां क्रीडानां एकदिनक्रिकेट्परम्परा भारतदलेन जिता। तृतीयक्रीडायां ७ क्रीडकैः भारतदलम् आस्ट्रेलियदलं पराजयत्। भारतं प्रति प्रथमं क्रीडनं कृत्वा आस्ट्रेलियदलं ९ क्रीडकानां नष्टेन २८६ धावनाङ्कान् प्रापत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (१३१) शतकं प्रापत्। लम्बूषेन् (५४), अलक्स् कारि (३५) च उत्तमसहयोगम् अकुरुताम्। भारताय षमिः४, जडेजः २ च क्रीडकान् सम्पाद्य उत्तमप्रकटनम् अकुरुताम्। प्रतिक्रीडनवेलायां भारतं ३क्रीडाकानां नष्टेन लक्ष्यं प्रापत्। भारताय रोहित् शर्मा-राहुल् सख्यं ६९ धावनाङ्कानां शुभारम्भम् अदात्। भारताय रोहित् शर्मा (११९) शतकं प्रापत्। नायकः कोह्लिः(८९),श्रेयस् अय्यर् (४४*) च प्राप्नुवताम्। प्रथमा क्रीडा आस्ट्रेलियदलेन जिता। द्वितीयतृतीयक्रीडे जित्वा भारतदलेन परम्परा २-१ इति क्रमे प्राप्ता च।

Sunday, January 19, 2020

भारते सञ्चारमाध्यमानां नियन्त्रणम्।
    नवदिल्ली> सञ्चारमाध्यमानाम्  अचिरात् नियन्त्रणं भविष्यति इत्यस्ति आवेदनम्। फेस्बुक्, वाट्साप्,  इन्स्टाग्रां, ट्विट्टर्, टिक्‌ टोक्‌ इत्यादिषु एव नियन्त्रणं भविष्यतिI व्याजवार्ताः दुष्कीर्तिकरवार्ताः स्खलिताः सूचनाः, वंशीयाधिक्षेपाः इत्यादीन् नियन्त्रितुमुद्दिश्य भवति नूतनप्रक्रमः। नूतननियमस्य निर्माणं सूचनामन्त्रालयेन निर्मीयते इत्यस्ति स्थितिः। इदानीं विद्यमानेषु सञ्चारमाध्यमलेखेषु अपि प्रत्यभिज्ञाप्रकारः पुनरपि करणीयः भविष्यति।

Saturday, January 18, 2020

शलभास्त्रस्य आक्रमणेन राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिनाशः।
       श्रीगङ्गानगरम्> राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिः शलभास्त्रस्य आक्रमणेन विनष्टा। पश्चिमराजस्थानस्य दशजनपदेषु एव अधिकः नाशः सञ्जातः। श्रीगङ्गानगरस्थ- कृषिभूमौ प्रतिशतं पञ्चसप्तति (७५%) मानं गोधूमः एवं विनष्टः इति कृषिविभागेन निवेद्यते। विगते मेय् मासे आसीत् शलभास्त्रस्य आक्रमणं प्रथमतया जातम्। पाकिस्थानस्य दक्षिणभागात् आसीत् शलभास्त्राणाम् आगमनम्। सप्ताहद्वयाभ्यन्तरे एव कलमाः सर्वे शलभास्त्रेण भक्षिताः।
क्रिकेट् - भारतस्य ३६ धावनाङ्कानां विजयः।
    राज्कोट्> भारत-आस्ट्रेलियदलयोः एकदिनक्रिकेटपरम्परायाः द्वितीयक्रीडायां भारतदलेन आस्ट्रेलियदलं ३६ धावनाङ्‌कैः पराजितम्। अनेन जयेन त्रयाणां क्रीडाणां परम्परायां भारतदलं (१-१) तुल्यतां प्रापत्। प्रथमक्रीडनं कृत्वा भारतदलेन ६ क्रीडकानां नष्टेन ३४० धावनाङ्काः प्राप्ताः। भारताय शिखर् धवान् (९६), राहुल् (८०), कोह्लिः(७८), रोहित् शर्मा (४२) च उत्तमप्रकटनम् प्रादर्शयन्। प्रतिक्रीडनवेलायाम् आस्ट्रेलियदलं ३०४ धावनाङ्काभ्यन्तरे निष्कासयत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (९८), लबूषेन् (४६), फिञ्च् (३३), आगर् (२५) इत्येतेषां प्रकटनं विजयाय पर्याप्तम् नाभवत्। भारताय षमी(३), सैनी(२), जडेजः(२), कुल्दीप्‌ यादवः(२) च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। परम्परायाः अन्तिमा क्रीडा रविवासरे बङ्गलुरु मध्ये भविष्यति।
जिसाट्-३० विक्षेपणं विजयप्रदम्।
- के.वि.रजीष्।
   बङ्गलूरु> नववत्सरस्य प्रथमदौत्यं विजयपथं नीत्वा ऐ एस् आर् ओ। इस्रो संस्थायाः आशयविनिमयाय उपयुक्तः अतिनूतनः कृत्रिमोपग्रहः जिसाट्-३० विजयप्रदरीत्या विक्षेपितः। दक्षिणामेरिक्कस्य कौरु विक्षेपणकेन्द्रात् शुक्रवासरे प्रातः २.४५ वादने विक्षेपणम् अभवत्। जिसाट्-३० उपग्रहस्य प्रवर्तनेन भारतस्य आशयविनिमयमण्डले महती पुरोगतिः भविष्यति इति वैज्ञानिकलोकं साक्षीकरोति। जिसाट्-३० उपग्रहेन ग्रामीणमण्डलस्य अन्तर्जालसंविधाने पुरोगति: साध्या च। एवमेव दूरदर्शनसंप्रेषणं, डि एस् एन् जि सेवनं, डि टि एच् दूरदर्शनसेवनम् इत्यादिकमपि अनेन साध्यं भवति।

Friday, January 17, 2020


अखिल-भारतीय-प्राच्यविद्या-सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे सम्पन्नम् 
      हर्ष-प्रकर्ष-पुरस्सरं वृत्तमिदं संसूच्यते यद् अखिल-भारतीय-प्राच्यविद्या सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे ऐषमः जान्युआरि-मासे नवम-दिनाङ्कात् महता संरम्भेण समुत्साहेन च आरब्धम्, स्वामिनो विवेकानन्दस्य जन्म-जयन्त्यवसरे द्वादशे दिनाङ्के च परिपूर्णम् | अस्य सम्मेलनस्य शताब्द-पूर्तिं संलक्ष्य आयोजकेन कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयेन आयोजितस्य त्रिदिवसात्मकस्य अस्याधिवेशनस्य अनेकानि वैशिष्ट्यानि समुपकल्पितानि आसन् |


    एतेषु वैशिष्ट्येषु अन्यतमत्वेन अधिवेशनारम्भस्य पूर्व-सन्ध्यावसरे सर्वेऽपि सम्विभागाध्यक्षाः अधिवेशनस्य अध्यक्षेण महामहोपाध्येन प्रो.गौतम-पटेलेन, महासचिवया प्रो.सरोजाभाटे-महाभागया, कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयस्य कुलपतिना प्रो.श्रीनिवास-वरखेडी-महोदयेन, अधिवेशनस्य स्थानीय-सचिवेन च प्रो.मधुसूदन-पेन्ना-वर्येण अभिनन्दिताः सम्मानिताश्च |
अस्याधिवेशनस्य वैशिष्ट्येषु प्रथमे दिने प्रातः समुत्साहिनां नगर-वासिनां संस्कृत-विद्यायाः भारतीय-विद्यायाः प्राच्यविद्यायाः चानुरागिणां छात्राणाम् अध्यापकानां शोधार्थिनां च शोभायात्रा अन्यतमा | एवमेव शोधपत्रोपस्थापनार्थं संस्कृत-पत्रकारिता, शिक्षाशास्त्रम्, 
४५०कोटिवर्षदेशीयायाः भूमीतः ७५० कोटिवर्षस्य पुरातनं वस्तुम् अलभत।
     १९६०तमे वर्षे भूमौ पतितात् उल्काशकलात् अतिप्राचीनम् अंशं प्रत्यभिज्ञातं वैज्ञानिकैः। ७५० कोटि वर्षेषेभ्यः पूर्वं कानिचन नक्षत्रसमूहेषु विद्यमानानि धूलीपटलानि आसीत् अयम् अंशःI इतःपूर्वं लब्धस्य अंशस्य आयुः ५५०कोटिवर्षम् आसीत्। किन्तु भूमेः नक्षत्रस्य सूर्यस्य ४६० कोटिवर्षः भूमेः ४५० कोटिवर्षः च भवति इदानीं निर्णीत: आयुः।  सौरयूथस्थ जननात् पूर्वं विद्यमानान् नक्षत्रान् तथा प्रपञ्चान् अधिकृत्य सुव्यक्तावगमनाय एते उल्कांशाः सहायकाः इति वैज्ञानिकाः वदन्ति।