OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 15, 2020

 आतङ्‌कवादिभिः सह बन्धः- सौदिराष्ट्रस्य सैनिकाः अमेरिक्केन निष्कासिताः।

  वाषिङ्टण्> यु एस् राष्ट्रे अभ्यसनाय समागतानां सौदिराष्ट्रस्य सैनिकानां आतङ्कवादिबन्धं अस्ति इति ज्ञात्वा अमेरिक्केन सैनिकाः परित्यक्ताः। २१ सैनिकाः एवं सैनिकाध्ययनात् निष्कासितः। एतेषां सैनिकानां भीकरदलै: सह संबन्धः अस्ति इत्यस्य प्रमाणम् उपलब्धम् अस्ति इति यु एस् 'अट्टोणि जनरल्' विल्यं  बार् इत्याख्येन उक्तम्।

Tuesday, January 14, 2020

अमेरिक्कायाम् अतिशाक्तेन वातेन ११ जनाः मारिताःI
 वाषिङ्टण्> अमेरिक्काराष्ट्रस्य दक्षिणपूर्व प्रदेशेषु  आपन्ने प्रचण्डवातेन ११ जनाः मृत्युमुपगताः। टेक्सास्, अलबाम, लूसियान इत्यादि प्रदेशतः मृति: आवेदितः।  मिसौरि, ओक्लहोम आदि प्रदेशेषु  प्रचण्डवाते महाविनाशः अभवत्। अलबाम, मिसिसिप्पि प्रदेशेषु विद्युत्बन्धः पूर्णतया विनष्टः चI प्रचण्डवातकारणेन उप पञ्चाशत्  अन्ताराष्ट्रविमानानां सेवा  स्थगिता।
भारते उदग्रछायाग्राहिणः पञ्जीकरणं समारब्धम्I अन्तिमतिथिः  जनवरि ३१
     नवदिल्ली> आराष्ट्रम् उदग्रछायाग्राहिणः (Dron) जनवरि ३१ दिनाङ्कतः पूर्वं पञ्जीकरणं करणीयं इति व्योममन्त्रालयेन आदिष्टाः। सुरक्षानुबन्धतया भवति नूतनप्रक्रमाः। विगतवर्षस्य गणनानुसारं  भारते नियविरुद्धतया ५०००० उदग्रछायाग्राहिणः सन्ति इति अनुमन्यते।
   पञ्जीकरण-प्रक्रमानन्तरं सर्वेषां उदग्रछायाग्राहिणाम् पञ्जीकरणसंख्या तथा  स्वामित्वसंख्या च लब्स्येते।  विना पञ्जीकरणं  उदग्रछायाग्राहिणः उपयोगः दण्डार्हः भविष्यतिI पञ्जीकरणम् 'ओण् लैन्' द्वारा 'डिजिट्टल् स्कै' इति अन्तर्जालस्थाने करणीयम्।

Monday, January 13, 2020

 अज्ञातेन रोगाणुना एकस्य जीवः अपहृतः। सप्तानां अवस्था गुरुतरा। भीत्यां चीनाः।

वूहान् विमाननिलये निरीक्षणं प्रचलति।
  बैजिङ्> चीनस्य वूहान् प्रदेशे अज्ञातवैरस् रोगाणोः व्यापनेन स्वास्थ्य विभागः निरीक्षणं शक्तं कृतम्। रोगाणुना एकस्य जीवः अपहृतः। ६१ वयस्कः गुरुवासरे मृतवान्। सप्तानां अवस्था गुरुतरा वर्तते इति चीनस्य वार्तामाध्यमै: आवेद्यते। ४१ संख्याकाः जनाः अणुबाधिताः सन्ति। तेषु द्वाै अणुविमुक्तौ आतुरालयात् गतौ इति वूहान् स्वास्थ्य आयोगेन आवेदितम्। जनुवरि तृतीयदिनानन्तरं नूतनं रोगसङ्क्रमणं न आवेदितम्। मनुष्यात् मनुष्यं प्रति सङ्क्रमणाय क्षमता नास्ति रोगाणोः। 'कोरोण'वैराणो: (Virus) नूतनप्रकारयुक्तं 'न्युमोणिय' रोगाणु सदृशः भवति नूतनः अणुः इति वैज्ञानिकाः वदन्ति।

Sunday, January 12, 2020

सर्वं भद्रम्। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं सम्पन्नम्।
   कोच्ची> अलीकेन नियमान् विगणय्य निर्मिताः चत्वारि अट्टटगृहाणि धूलीकतानि। सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितानां अट्टगृहाणां धूलीकरणम् अद्य मध्याह्ने सार्धद्वि वादने सम्पन्नम्। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धाधानि अट्टगृहाणि। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भवति इत्यस्ति विशेषता। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते। भवनसान्द्रप्रदेशे विस्फोटनेन धूलीकरणं कृतम्। किन्तु समीपवर्तिनां गृहाणां स्वल्पोपि क्षतः नासीत् इति विज्ञानेकानां क्षमतायाः निदर्शनमेवI 

Saturday, January 11, 2020

बहुलाट्टगृहाणां नामानि एव अवशिष्यन्ते। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं भारते प्रथमतया भविष्यति।
   कोच्ची> सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितस्य अट्टगृहाणां धूलीकरणम् अद्य प्रातः द्वादश (११) वादने भविष्यति। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धम् इदम् अट्टगृहम्। चत्वारि गृहाणि एवं धूलीक्रियते। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भविष्यति। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते। 
तृतीय टि२० क्रीडायां भारतस्य विजयः परम्परा च।
- के.वि.रजीष्‌
    पूने> श्रीलङ्कदलं प्रति टि२० क्रिकेट् परम्परायां भारतस्य विजयः (२-०)। तृतीयक्रीडायां भारतदलं ७८ धावनाङ्कैः विजयं समपादयत्। क्रीडायां प्रथमक्रीडनवेलायां भारतदलं ६ क्रीडकानां नष्टेन २०१ धावनाङ्कान् प्रापत्। भारताय के एल् राहुलः(५४),धवानः(५२) च अर्धशतकं समपादयताम्। नायकः कोह्लिः(२६) मनीष्‌ पाण्डे(३१*) शर्दुल् ठाकुर् (२२*) च उत्तमं प्रकटनम् अकुर्वन्। प्रतिक्रीडनवेलायां श्रीलङ्कदलं १२३ इत्यङ्के निष्कासयत्। भारताय नवदीप् सैनिः३, ठाकुर् २, वाषिङ्ण्टण् सुन्दर् २ च क्रीडकान् निष्कासयन्। परम्परायाः प्रथमक्रीडा वृष्टिवशात् त्यक्ता आसीत्। द्वितीयक्रीडायां भारतदलेन ७ क्रीडकानां विजयः प्राप्तः च।

Friday, January 10, 2020

अग्निसायकानां पतनेन गर्तीभूतौ अमेरिक्कस्य सैनिकनिलयौI
    वाषिङ्टटण्> अमेरिक्कस्य इराखस्थौ सैनिकनिलयौ इरानस्य बालिस्टिक् अग्नि बाणपतनेन गर्तीभूतौ। आक्रमणात् पूर्वं तदनन्तरं च विद्यमाना अवस्था च उपग्रहस्य साहायेन गृहीतयोः चित्रयो: द्रष्टुं शक्यते।  इराखस्य नगरप्रविश्यायाः ऐन् अल् असद् सैनिकनिलयः कुर्दिस्थानस्य इर्ब् इत्यस्थ निलयः च इरानेन आक्रमितौ। उपपञ्चदश (१५) बाणाः एतदर्थम् उपयुक्ताः इत्यस्ति आवेदनम्।

Thursday, January 9, 2020

भूमिं विहाय अन्यत्रापि जीवयुक्तवातावराणत्मकः ग्रहः। नूतनानुसन्धानेन नास।

  वाषिङ्‌टण्> भूमेः बहिः जीवयुक्तवातावराणत्मकः ग्रहः अस्ति इति नास संस्था वदति। आकारे भूमेः समः भवति ग्रहः अस्य टि ओ ऐ ७०० डि इति नाम दत्तम्। भूमीतः १०० प्रकाशवर्षात्  दूरं  वर्तते अस्य भ्रमणपथः। हवाय् द्वीपे अमेरिक्‌कस्य खगोल आयोगस्य संवत्सरीय उपवेशने आसीत् नूतनग्रहम् अधिकृत्य नूतन वार्तायाः प्रकाशनम्। उच्च विद्यालयस्य छात्रः  आल्टन् स्पेन्सर् अन्ये बाल ज्योतिवैज्ञानिकानां शोधाभिमतं स्पेस् दूरदर्शिनी द्वारा प्रमाणीकृत्यनन्तरमासीत् नास संस्थायाः वार्ताप्रकाशनम्। सूर्येण सह तुलनायां कृतायां सत्यां प्रतिशतं चवारिंशत् (४०%)  लख्विष्टः भवति एषः। किन्तु भूमेरपेक्षया २०% आकारे गरिष्टः च भवति एषः ७००डि ग्रहः। जलम् द्रवरूपे स्थातुम् अनुकूलम् उष्णमेव भवति अस्मिन्। स्वस्मिन् नक्षत्रे भ्रमणं कर्तुं अस्य ३७ भूदिनानि पर्याप्तानि।

Wednesday, January 8, 2020

संस्कृतायनम्
-प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदासविश्वविद्यालयः, महाराष्ट्रम्।
     नमांसि, पूर्वं संस्कृतं भाष्यमाणभाषा आसीत्। मातृभाषा आसीत्, जनभाषा आसीत्। शिक्षाया:, प्रशासनस्य, वाणिज्यस्य, साहित्यस्य, कलानां, बौद्धिकचर्चानां, संवादानां च माध्यमभाषारूपेण समग्रे भारते प्रयुज्यमाना आसीत्। सहस्रवर्षात्मके पराधीनताकाले सा ह्रासं गता। ब्रिटिश् शासनकाले तु योजनापूर्वकं संस्कृतस्य निष्कासनं कृतम्। संस्कृतविद्यालयानां पिधानं कृत्वा आंग्लविद्यालयानाम् आरम्भ:, संस्कृतं मृतभाषा इति निरन्तरप्रचार:, संस्कृतशिक्षणविधिपरिवर्तनम्, संस्कृतशिक्षकेभ्य: न्यूनवेतनम्, आंग्लाध्ययनं धनोपार्जनस्य प्रतिष्ठाया: च मूलम् इति व्यवस्थानिर्माणम् इति एतै: पञ्चभि: उपायै: आंग्लेयै: संस्कृताय प्राणान्तिकप्रहार: दत्त:, कुठाराघात: कृत:।मित्राणि, संस्कृतमातुः पुनर्वैभवाय कृतसङ्कल्पाः भवेम।
 जयतु संस्कृतम् जयतु भारतम् ।

१२ दिनानाम् आर्द्रामहोत्सवः समारभ्यते।


१२ दिनानाम् आर्द्रामहोत्सवः
सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटियिष्यते। प्रति संवत्सरम् आद्रा नक्षत्रात् १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता| केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं तालिः च समर्प्यते चेत् एकसंवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl www.thiruvairanikkulamtemple.org

Tuesday, January 7, 2020

डोणाल् ट्रम्पस्य शिरश्च्छेदाय ८ कोटि डोलर् धनम् इरानेन प्रख्यापितम्
    तेह्रान्> अमेरिक्कस्य राष्ट्रपतेः  शिरोलवनम् उद्दिश्य इरानेन ८ कोटि डोलर् धनं  प्रख्यापितम्। अमेरिक्कस्य अग्निबाणेन हतस्य खासिं सुलैमानि इत्यस्य  मरणानन्तरक्रियायाः मध्ये आसीत् इरानस्य प्रख्यापनम्। ड्रम्पस्य आज्ञानुसारं भवति सुलैमानी इत्यस्य वधः इत्यासीत् आवेदनम्। इरानस्य यःकोऽपि वा भवतु ट्रम्पं हन्ति सः ८ कोटिमितं डोलर् धनम् अर्हति।  मरणानन्तरक्रियायाः सन्दर्भे इरानस्य सैनिकनिर्देशकेन प्रख्यापितम् इति अन्ताराष्ट्र वार्तामाध्यमेन  आवेदितम्। जनुवरिमासस्य तृतीय दिनाङ्के उषसि अमेरिक्कस्य अनिबाणाक्रमणेन सुलैमानि हतः आसीत्।

Monday, January 6, 2020

अमेरिक्क-इरान् देशयोः कलहे आशङ्कां निवेद्य भारतम्।
-के.वि.रजीष्
      नवदहली> अमेरिक्क-इरान् देशयोः मध्ये सञ्जाते कलहे भारतस्य आशङ्कां   विदेशकार्यमन्त्रालयेन निवेदितम्। इरानदेशस्य विदेशकार्यमन्त्रिणा जवाद्‌ सारिफेण सह कृते दूरवाणीसम्भाषणे भारतस्य विदेशकार्यमन्त्री एस् जयशङ्कर् महोदयः विषयेऽस्मिन् भारतस्य आशङ्कां न्यवेदयत्। गतदिने अमेरिक्कस्य व्योमाक्रमणे इरानस्य सैनिकप्रमुखः खासि सुलैमानिः अन्ये पञ्च सैनिकाश्च मृताः आसन्। ततः तयोः राष्ट्रयोः मध्ये कलहः मूर्च्छितः च। विषयमिमं युद्धभीत्या एव विश्वराष्ट्राणि निरीक्षन्ते। एवमेव कलहेनानेन तैलोत्पादनमण्डले जाता समस्या भारतमपि प्रतिकूलतया बाधते इति भारतस्य पेट्रोलियं मन्त्री धर्मेन्द्रप्रधान् महोदयः अवदत्।
विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Sunday, January 5, 2020

एयर् इन्ट्य - सेवासम्बन्ध विशदीकरणेन सह अध्यक्षः।
-के.वि.रजीष्
       नवदहली> एयर् इन्ट्य सेवनं पर्यवसति इति वार्ता विश्वासरहिता भवति इति संस्थायाः अध्यक्षः अश्वनि लोहानिः। एवमेव संस्थायाः आर्थिकमूल्यानां विक्रयसम्बन्धवार्ता अपि न युक्ता इति सः अवदत्। एयर् इन्ट्य विभागात् वैमानिकसेवनम् अनुस्यूततया सर्वेभ्यः जनविभागेभ्यः लभ्यते इत्यपि सः ट्विट्ट् सामाजिकमाध्यमद्वारा असूचयत्।
क्षौरिकस्य आपणे ग्रन्थालयः। पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता। 
चित्रम् - मातृभूमिः प्रादेशिकपत्रतः
    चेन्नै>पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। चेन्नैराज्यस्थे तूत्तुक्कुटि नगरतः भवति इयं विशेषवार्ता। अस्मिन् नगरेविद्यमाने क्षौरिकस्य आपणतः (सुशील कुमार ब्यूटी सलूण्) भवति एतादृशं ख्यापनम्। क्षौरिकस्य नाम पोन् मारियप्पन् इति।  अस्य क्षौरिकापणे १००० पुस्तकानां ग्रन्थालयः वर्तते। ये ग्रन्थपठनं कुर्वन्ति तेषां कृते क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। पठितान् ग्रन्थानधिकृत्य टिप्पणि लिखित्वा दीयते चेत् मूल्ये न्यूनता अधिकतया भविष्यति। चलदूरवाणीतः पुस्तकवाचनाय जनान् प्रेरयतुमुद्दिश्य भवति प्रक्रिया इति  पोन् मारियप्पन् महोदयेन उक्तम्। धनाभावेन अष्टम्यां कक्षायाम्  अध्ययनम्  स्तगितम्। किन्तु पुस्तकाध्यानस्य  प्राधान्यम् एषः  समीचीनतया अवगतवान्। 

Saturday, January 4, 2020

उत्तरखण्ड-संस्कृत-अकादम्यां संस्कृतेन एव संभाषणम्l
-डा.घनश्याम भट्टः
    हरिद्वार> उत्तरखण्ड-संस्कृत-अकादम्यां  जनवरि २६ दिनाङ्कतः  संस्कृतसंभाषणम् अनिवार्यं भविष्यति। तदर्थं कर्मचारिभ्यः छात्रेभ्यः च  विशेषसंस्कृत-संभाषण-कार्यशालायाः आयोजनं  भविष्यति संस्कृत-अकादम्याः सचिवः डा.आनन्द भारद्वाजः कथयति यत् संस्कृतस्य दैनन्दिन-व्यवहारे प्रयोगार्थं एतादृशाः उद्यमाः करणीयाः। भारद्वाजः कथयति, विदुषां समूहः एकैकस्य ग्रामस्य अधिग्रहणं कृत्वा अखिलेऽपि ग्रामं प्रशिक्षणं प्रदाय संस्कृत-ग्रामस्य निर्माणं करिष्यति इति। 

Friday, January 3, 2020

उदग्रयानदुर्घटनया  ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः मारिताः। 
  ताय्पेयि> उदग्रयानं पतित्वा ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः च मारिताः। गुरुवासरे  प्रभाते पर्वतप्रदेशे डयमाने सन्दर्भे असीत् 'ब्लाक् होक्' इत्यस्य‌ उदग्रयानस्य पतनम्। सेनाध्यक्षः षेन् यि मिङ् अन्ये सप्त सैनिक उद्योगिनः च दुर्घटनया व्यापादिताः इति मध्याह्ने व्योमसेनानिर्देशकेन उक्तम्।  जनुवरिमासस्य ११ दिनाङ्के  राष्ट्रपतिः तथा शासनसभाङ्गानां  पदेभ्यः  च निर्वाचन-प्रक्रमान् प्रचाल्यमाणे  सन्दर्भे आसीत् इयं दुर्घटना।