OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 30, 2019

उत्तरभारतम् अतिशैत्येन कम्पते।
अतिजाग्रतायाः सूचना प्रख्यापिता।
    नवदिल्ली>  शतवर्षाभ्यन्तरे समागतात् अधिकशैत्यं भवति अस्मिन् वर्षे। पञ्चदशदिनानि यावत् क्रमानुगतरीत्या अन्तरिक्षोष्‌णः न्यूनः भवति। अतीवशैत्यः इति हेतोः पर्यावरणविभागेन दिल्यां शोणजाग्रता प्रख्यापिता अस्ति। उत्तरभारतस्य अन्ये राज्याः अपि शैत्यपीडायां वर्तन्ते। 
      दिल्यां २.८° सेल्स्यस् भवति भानुवासरस्य न्यूनतमं तापमानम्। १९१९  तमे असीत् पूर्वम् एता वत् शैत्यं वर्धितम्। तदा न्यूनतमं तापमानम् १७.३° इत्यासीत्‌I विमान,रेल्यान, 'रोड्' यानसेवा अपि शैत्येन बाधते। अन्तरिक्षवायुमानकमपि न्यूनतमावस्थायाम् अस्ति। हरियाणस्य तापमानः गतदिने ०.३° इति अतिन्यूनतायाम् असीत्। राजस्थानं- न्यूनं ३°, श्रीनगरं - न्यूनं ५.६°, पहलग्राम् - न्यूनं १२° इति च आसन्I

Sunday, December 29, 2019

मनोगतम्’ [०२.०७]   ‘मन की बात’ 
प्रसारण-तिथि : २९-दिसम्बरः,२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य प्रस्थान-पलम् अस्माकं समक्षं विराजते | दिन-त्रये एव वर्षमिदं प्रस्थास्यते तथा च वयं, न केवलं विंशोत्तर-द्विसहस्र-तम-वर्षे प्रवेक्ष्यामः, नवीने सम्वत्सरे प्रवेक्ष्यामः, नूतने दशके प्रवेक्ष्यामः, एकविंश-शताब्दस्य तृतीये दशके प्रवेक्ष्यामः | अहं, सर्वेषां देशवासिनां कृते विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तम-वर्ष-हेतोः हार्दिकीः शुभकामनाः व्याहरामि | अस्य दशकस्य विषये वृत्तमिदं सुनिश्चितम्, अस्मिन्, देशस्य विकासं गतिमत्तरं विधातुं ते जनाः सक्रियां भूमिकां निर्वक्ष्यन्ति ये एकविंश-शताब्दे जनिम् अलभन्त – ये नाम अस्य शताब्दस्य महत्वपूर्णान् विषयान् अवगच्छन्तः एधन्ते | एतादृशः युवानः, साम्प्रतम्, बहुभिः
मेरि कोम् महाभागया योग्यताचक्रं जितम्।
-के.वि.रजीष्
      नवदहली> अग्रिम ओलिम्पिक्स् स्पर्धायै २०२० फिब्रवरिमासे चीनराष्ट्रे सम्पद्यमाने एष्य-ओष्यानियविभागस्य योग्यताचक्रे मुष्टिप्रहरस्पर्धायां ५१ कि.जि भारयुतानां विभागे भारतं प्रतिनिधीकृत्य मेरि कोम् भागभाक्त्वं करिष्यति। ह्यः नवदहलीमध्ये सम्पन्ने योग्यतास्पर्धायां निखात् सरिनां पराजित्य एव मेरि कोम महाभागया योग्यता प्राप्ता वर्तते। भारतस्य मेरि कोम् विश्वमुष्टिप्रहरस्पर्धायां षड्वारं विजिता अभवच्च।
२०२० मध्ये सुप्रधानदाैत्यैः सह ऐ एस् आर् ओ।
-के.वि.रजीष्
   बङ्गलूरु> २०२० तमे वर्षे भारतीय शून्याकाशगवेषणसमितिः सुप्रधानशास्त्रप्रवर्तनानि आयोजयन्ति। एषु प्रवर्तनेषु मुख्ये भवतः चन्द्रयान् ३,सूर्यसम्बन्धपद्धतिः आदित्‍या च। तथैव पुनरुपयोगयुक्तम् आकाशबाणमपि अपरं मुख्यं प्रवर्ननं भवति। चान्द्रयान् २ दौत्ये चन्द्रोपरि यत् विफलं जातं तस्य ललितावरोहणप्रवर्तनस्य कृते चान्द्रयान् ३ दौत्ये प्रामुख्यं दीयते इति विश्वासवृतैः सूच्यते च।

Our Newsreaders are School students.
Sanskrit News|SampratiVarth | Episode 110 | 29-12-2019
It is an academic project. You can also support this.
https://youtu.be/7QJQLz8YnWM

Saturday, December 28, 2019

तटाकाः संरक्षणीयाः, विद्यालयेषु प्रकृतिसंरक्षणाय अभ्यासः भवितव्यः -सर्वोच्चन्यायालयः। 

चित्रं -मातृभूमिः पत्रिका
  नवदिल्ली> सौविध्यविकासाय तटाकानां नाशः न भवतु, विद्यालयैः प्रकृतिसंरक्षणाय अधिकं प्राधान्यं दातव्यम् इति सर्वोच्चन्यायालयः निरदिशत्। प्रतिवारं एकहोरा  एतदर्थम् उपयोक्तव्या। आभारतम् एतस्य आयोजनाय प्रतिराज्यं आदेशः प्रेषणीयः इति   सर्वोच्चन्यायालयः निरदिशत्।
   दिल्यां गौतमबुद्धनगरे व्यवसायाभिवृद्धिम् उद्दिश्य तटाकाः मृत्पाषाणादिभिः पूरणाय अधिकारीभिः निश्चयः कृतः दृश्यते। तान् प्रक्रमान् विरुद्ध्य लब्धायां  याचिकायाम् अदेशप्रदानसन्दर्भे आसीत् सर्वोच्चन्यायालयस्य अयं निर्देशः। 
कसाखिस्थाने विमानापघातः १४ यात्रिकाः मारिताः।

 अल्माट्टि> शतं यात्रिकैः डयितं विमानं कसाखिस्थानस्य अल्माट्टि विमाननिलयस्य समीपम् अपतत्। शुक्रवासरे उषसि ७.२२ वादने बेक् एयर् विमानस्य आसीत् अपघातः। १४ यात्रिकाः मृताः इति प्रमाणीकृतम् आवेदनम् अस्ति। ९५ यात्रिकाः ५ कर्मकराः च विमाने आसीत्। क्षताः अतुरालयं प्रविष्टाः इति वार्तासंस्थया आवेद्यते।

Friday, December 27, 2019

राष्ट्रियनागरिक पञ्चिकां विरुद्ध्य कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता।

    नवदिल्ली> राष्ट्रियनागरिक पञ्चिकायां व्याज-विवरणानि दातव्यानि इति कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता अस्ति। एकेन नियमवादिसङ्घेन एव याचिका प्रदत्ता। राष्ट्रे भिन्नतावर्धनम् उद्दिश्य भवति तस्याः उक्तिः इति याचिकायां दोषारोपं लिखितम्। नागरिकता पञ्जीकरणाय उद्योगी आगमिष्यतिचेत् तेषां पुरतः व्याजनामानि देयानि इति तस्याः उपदेशं विरुद्ध्य  बहवः जनाः  प्रतिषेधं प्रकाशितवन्तः।
चिलिदेशे २०० गृहाणि अग्निना दग्धानि।
   वाल् परैसो> क्रिस्तुमस् दिने चिलिदेशस्थे वाल परैसो प्रदेशे आपन्नायां अग्निबाधायाम् उप-द्विशातं गृहाणि दग्धानि। अत्युष्णः वातः च अग्नि सन्तरणस्य कारणम् अभवत्I  चिलिदेशस्य विनोद सञचारकेन्द्रः भवति 'वाल् परैसो'। वनाग्निः स्यात् इति इति कारणेन सहस्राधिका: जनाः ततः निष्कासिताःI पञ्चचत्वारिंशदधिकचतुशतं (४४५)  एकर्  विस्तृता तृणभूमिः अग्निना दग्धा अस्ति। अग्नि नियन्त्रणसेना इदानीमपि अग्निशमनाय प्रयत्नं कुर्वन्तः सन्ति।
रोहिङ्ग्यवंशजानां जनानां देशान्तरगमनं सर्वेषां राष्ट्राणां दोषाय -षेय्क् हसीना।
-के.वि.रजीष्
     धाक्क > रोहिङ्ग्यवंशजानां देशान्तरगमनम् एष्य-पसफिक् मण्डलस्थानां सर्वेषामपि राष्ट्राणां दोषाय भवति इति बङ्‌ग्लादेशस्य प्रधानमन्त्रिणी षेय्क् हसीना। समस्यायाः अस्याः शाश्वतपरिहाराय अन्ताराष्ट्रसमूहस्य सहयोगः अनिवार्यः भवति इति तया अभिप्रेतम्। धाक्कमध्ये 'ग्लोबल् डयलोग् २०१९' कार्यक्रमस्य उद्घाटनं कृत्वा भाषामाणासीत् सा। एष्य-पसफिक् मण्डलस्थानां राष्ट्राणां मुख्या समस्या दारिद्र्यं तथा क्षुत्पीडा च भवतः इति सा अवदत्। अतः मण्डलस्यास्य सामाजिक-आर्थिकपुरोगत्यै सुरक्षायै च राष्ट्राणां परस्परसहयोगः अनिवार्यः- सा अवदत्। अधुना बङ्‌ग्लादेशं एकादश (११) लक्षाधिकाः रोहिङ्ग्यवंशजाः अधिवसन्ति। तेषु ७ लक्षाधिकाः जनाः म्यान्मारदेशस्य सैनिकध्वंसनात्परं बङ्‌ग्लादेशम् आगताः भवन्ति। २०१७ तमस्य सूचनानुसारं ४०००० रोहिङ्ग्यवंशजाः भारतम् अधिवसन्तः सन्ति।

Thursday, December 26, 2019

जनाः शताब्दस्य सूर्यग्रहणं दृष्ट्वा विस्मितवन्तः। 
   कासरगोड् (केरलम्)> सूर्यग्रहणमिति शताब्दस्य अद्भुतं दृष्ट्वा विस्मितवन्तः जनाः। केरलेषु कासरगोड्  जनपदस्थे चेरुवत्तूर्  प्रदेशे एव सूर्यग्रहणं सुव्यक्तताया दृष्टम्। पञ्चसहस्राधिकाः (५०००) जनाः ग्रहणं द्रष्टुं समागतवन्तः आसन्। प्रभाते नवाधिक षट्विंशति वादनतः सार्धनव वादन पर्यन्तमासीत् वलयसूर्यग्रहणम् I चतुर्निमेषपर्यन्तमात्रं दीर्घितं वलयग्रहणं दृष्ट्वा जनाः अद्‌भुत-परतन्त्राः अभवन्I 
   चेरुवत्तूरं विहाय कोच्ची, कोट्टयं,  तिरुवनन्तपुरं नगरेषु ग्रहणं द्रष्टुं वैज्ञानिकरीत्या सज्जता कृता आसीत्।
तुर्किराष्ट्रेण पलाण्डोः प्रेषणं निरुद्धं, भारते मूल्ये वर्धनं भविष्यति।
     नवदिल्ली> भारते पलाण्डुमूल्यस्य वर्धनं स्यात् इति आवेदनम्। तुर्किराष्ट्रात् भवति इदानीं भारते पलाण्डोः आनयनम्। किन्तु ततः  पलाण्डोः प्रेषणम् इदानीं  निवारितम् अस्ति इति कारणेन प्रतिशतं दशतः पञ्चदशपर्यन्तं (10% -15%)मूल्ये वर्धनं भविष्यति सूचना अस्ति अतिवृष्ट्‌या भारते कृषिनाशेन पलाण्डुमूल्यम् अधिकतया वर्धितम्  आसीत्। अतः भारतेन तुर्कीतः पालाण्डुम् अवतारणं कृतम्। किन्तु तुर्किराष्ट्रे आभ्यन्तरविपण्यां मूल्यवर्धनमभवत् इत्यनेन देशान्तरप्रेषणं तुर्किना निवारितम्।  जनुवरि मासस्य अर्धकालान्तरं भारते पलाण्डोः फलसङ्ग्रहकालः इत्यनेन मूल्यं न्यूनं भविष्यति इति व्यापारिवर्गाः वदन्ति। 

Wednesday, December 25, 2019


आदिशङ्करस्य जन्मभूमीतः द्विचक्रिकया अरुण् तथागतः। लक्ष्यं विश्वदर्शनम्।

   बाङ्कोक्> आभारतम् अटनं कृत्वा अद्वैतसिद्धान्तस्य संस्थापनं कृतवान् आसीत्  आदि शङ्करः। ततः पूर्वम् आविश्वं   स्नेहमन्त्रं वितीर्य प्रकाशं प्रसृतवानासीत्  श्री बुद्धः। इदानीं द्विचक्रिकया सह आदिशङ्करस्य जन्मभूमीतः अरुण् तथागतो नाम सञ्चारी यात्रां समारभ्य ताय् लान्ट् देशं प्राप्तवानस्ति। ब्रह्मदेशस्य स्नेहं स्वीकृत्यानन्तरं भवति ताय् लान्ट्स्थम् अटनम्।

    देशस्नेहादुपरि देशः स्नेहयुक्तः भवतु इति तेन स्वस्य मुखपुस्तिकायाः (फेस् बुक्) पुटे लिखितम्। जनानां जीवनरीतिः तेषां मर्यादा, जीवनोपाधिः, द्रष्टव्यानि सांस्कृतिकदृश्यानि प्रकृतिदृश्यानि च सः स्वस्य मुखपुस्तके यथाकालं  प्रकाशयति। बुद्धस्य अहिंसां स्वात्मसु धृतवन्तः शान्तशीलाः भवन्ति देशवासिनः इति सः स्वस्य मुखपुस्तिकायां लिखितवान्।   यात्रां समाप्य प्रतिगमनं कदा भविष्यति इति प्रश्नस्य अरुण तथागतस्य  प्रत्युत्तरं सस्मितं अन्यः प्रश्नः आसीत् - 'यात्रा कदापि न अवस्यति मार्गः अपि तद्वत् किल?' एवमुक्त्वा द्वि चक्रिकायां सः स्वस्य यात्राम् अनुवर्तितवान्।
बृहत् ओप्पना चरित्रपथे सरति।
     अतिप्रौढां संस्कृतभाषामिमां जनकीयपदवीमानेतुम् सहायकःमहान् तथा   विस्मयावहः प्रयत्नः  संभूत: केरलेषु। एष्याभूखण्डेषु प्रचलन् महान् कलामहोत्सव : भवति केरलशालाकलोत्सवः। वर्षेस्मिन् राज्यस्तरीय : विद्यालयकलोत्सव: २०१९ नवम्बर् २८, २९, ३०, डिसम्बर १ दिनाङ्केषु कासरगोट्‌ जनपदस्थे काञ्ञड्डाट् ग्रामे प्रचालितः केरलसर्वकारेण । कलोत्सवस्यास्य सांस्कृतिकोकोत्सववे  'बृहत् ओप्पना' इति नाम्ना संस्कृतम् ओप्पना समायोजितासीत्। माप्पिलगानस्य तथा ओप्पनागानस्य तालानुसारं  संस्कृतगानं विरच्य नृत्तरूपेण बृहत् कलारूपोगSयम् अवतारित : छात्रैः ।
    केरलं दैवस्य स्वदेशः इति प्रस्तावेन समारब्धे पद्ये केरलदेशस्य प्राचीनं प्रौढं देशचरितं तथा देशस्यास्य धर्मसहिष्णुतां सांस्कृतिकं महत्‍वं च प्रतिपादयति ।  विश्वमानविकतां प्रति  भारतस्य तथा केरलस्य योगदानप्रतिपादनं च संस्कृतपङ्‌क्तिषु विरच्य राष्ट्रमहिमानं द्योतयति। प्रलयेन पीडितस्य केरलस्य दुरवस्था,प्रकृतिनाशस्य तीव्रता, अतिजीवनस्य आवश्यकता, तथा मानवसौहार्दस्य प्रसक्तिश्च   गानेनानेन  स्मारयन्ति। 
   कासरगोट् जिल्लायां विद्यमाने तच्चङडाट् सर्वकारीय उच्च विद्यालये पठन्त्यायः एकोत्तर त्रिशतं विद्यार्थिन्य: बृहत् ओप्पनायां नृत्तम् अकुर्वन् । इदंप्रथमतया  संस्कृतभाषायां ओप्पनागीतं व्यरचयत् तच्चडड़ाट्, सर्वकारीयोच्चविद्यालयस्य संस्कृताध्यापक: डा.सुनिल् कुमार् कोरोत्त् वर्य: ।अस्मिन् कलारूपे इदंप्रथमतया चेण्टा, इडक्का इत्येतयो: वाद्ययो: प्रयोगः  कृतः इति सविशेषताम् चावहति बृहत्  ओप्पना ।अस्याः ओप्पनाया:, परिशीलक: तथा निदेशकः भवति जुनैद् मेट्टम्मल् संयोजकस्तु सजीवन् वेङ्ङाट्ट् I संस्कृतपङ्क्त्यनुसारं प्रथमतया अवतारिता ओप्पना इति ख्यातिं स्वायत्तीकृत्य बृहत् ओप्पना सहृदय हृदयमाकर्षति॥
भारते राष्ट्रियजनसंख्या पञ्जिकायै केन्द्रमन्त्रिसभायाः अनुमतिः।
-के.वि.रजीष्
     नवदहली> राष्ट्रियजनसंख्या पञ्जिकायै प्रधानमन्त्रिणः आध्यक्षे संवृत्तः मन्त्रिसभायोगः अनुमतिः दत्ता। २०२० मार्च्मासात् सितम्बर्मासपर्यन्तं  राष्ट्रे पूर्णतया जनसंख्यागणनाकार्यक्रमः प्रचलिष्यति। २०२१ तमे वर्षे अन्तिमं जनसंख्यागणनाफलं प्रकाशयिष्यति। एतदर्थं ८७५४ कोटिरुप्यकाणि दीयन्ते च। जनसंख्यापञ्चीकरणाय जङ्गमदूरवाणी-प्रयोगसंविधानं सज्जीकरिष्यतीति केन्द्रमन्त्री प्रकाश् जावदेकर् अवदत्। एतदर्थं जनैः या कापि रेखा वा न समर्पणीया इत्यपि मन्त्री असूचयत्। राष्ट्रिय-नागरिकत्वगणनायाः राष्ट्रिय-जनसंख्यापञ्जिकया सह सम्बन्धः नास्ति इति केन्द्रसर्वकारपक्षतः मन्त्रिणा सूचितम्। एवमेव राष्ट्रस्य विविधसेनाविभागानाम् संयोजनाय प्रतिरोधसेनाधिपस्य नियुक्तये च मन्त्रिसभायोगे निर्णयः स्वीकृतः वर्तते। भूगर्भजल-विनियोगाय 'अडल् जल्' इति नाम्ना सविशेषपरियोजनायै अपि मन्त्रिसभायोगः अनुमतिः दत्ता च।

Tuesday, December 24, 2019

कदलीस्तम्भात् जैवं पलास्तिकम्- सुप्रधानेन अनुसन्धानेन विजयम् अवाप्ताः वैज्ञानिकाः।
कदलीस्तम्भात् निर्मितं जैवं पलास्तिकम्I
     पलास्तिकं प्रकृतेः तथा जीविवर्गाणां च भीषा एव भवति। इमं विषयं  सर्वे जानन्ति च। किन्तु पलास्तिकं विना पुरतो गान्तुं न शक्यते अधुना। अस्मिन् सन्दर्भे मोदाय एका वार्ता अस्ति। ओस्त्रेलियस्य न्यू सौत् वेल्स् विश्व विद्यालयस्य प्राध्यापिके जयश्री आर्कोट्, मरीना स्टेन्सल् च  कदलीस्तम्भत्  नूतनं जैवं पलास्तिकं निर्मातुं शक्यते इति वदतः। 
   एते वैज्ञानिके कदलीस्तम्भात्  'नानोसेल्लुलोस्' विश्लेषणेन स्वीकृत्य पलास्तिकं निर्मितवत्‍यौ। पक्वफल लवनानन्तरं कदलीस्तम्भस्य आन्तरिक दण्डं स्वीकृत्य लघु उष्णेन शुष्कीकृत्य पुनः धूलीकृत्य तदनन्तरं संस्करण-क्रियया 'नानो सेल्लुलोस्‌' निर्माति। अनेन भक्ष्यवस्तूनाम् आच्छादकयुक्तं स्तरपलास्तिकं निर्मातुं शक्यते। जैवं इदं मृत्‌संयोगेन  जीर्णं भविष्यति इति सर्वेषां मोदाय भवति।

Monday, December 23, 2019

क्रिकेट् - भारतदलं प्रख्यापितम्।
-के.वि.रजीष्
    मुम्बय् > श्रीलङ्क-आस्ट्रेलियदलयोः प्रति क्रीडनाय भारतदलं प्रख्यापितम्। रोहित् शर्मणे मुहम्मद्षमये च अवकाशः कल्पितः वर्तते। ज्सप्रीत् बुम्रः, शिखर् धवानः, सञ्जु साम्सणः च संघे अन्तर्भूताः। शर्दुल् ठाकुरस्य नवदीपसैनेः च स्थानं संरक्षितम्। नायकस्थाने विराट् कोह्लिः अनुवर्तते।