OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 25, 2019

भारते राष्ट्रियजनसंख्या पञ्जिकायै केन्द्रमन्त्रिसभायाः अनुमतिः।
-के.वि.रजीष्
     नवदहली> राष्ट्रियजनसंख्या पञ्जिकायै प्रधानमन्त्रिणः आध्यक्षे संवृत्तः मन्त्रिसभायोगः अनुमतिः दत्ता। २०२० मार्च्मासात् सितम्बर्मासपर्यन्तं  राष्ट्रे पूर्णतया जनसंख्यागणनाकार्यक्रमः प्रचलिष्यति। २०२१ तमे वर्षे अन्तिमं जनसंख्यागणनाफलं प्रकाशयिष्यति। एतदर्थं ८७५४ कोटिरुप्यकाणि दीयन्ते च। जनसंख्यापञ्चीकरणाय जङ्गमदूरवाणी-प्रयोगसंविधानं सज्जीकरिष्यतीति केन्द्रमन्त्री प्रकाश् जावदेकर् अवदत्। एतदर्थं जनैः या कापि रेखा वा न समर्पणीया इत्यपि मन्त्री असूचयत्। राष्ट्रिय-नागरिकत्वगणनायाः राष्ट्रिय-जनसंख्यापञ्जिकया सह सम्बन्धः नास्ति इति केन्द्रसर्वकारपक्षतः मन्त्रिणा सूचितम्। एवमेव राष्ट्रस्य विविधसेनाविभागानाम् संयोजनाय प्रतिरोधसेनाधिपस्य नियुक्तये च मन्त्रिसभायोगे निर्णयः स्वीकृतः वर्तते। भूगर्भजल-विनियोगाय 'अडल् जल्' इति नाम्ना सविशेषपरियोजनायै अपि मन्त्रिसभायोगः अनुमतिः दत्ता च।

Tuesday, December 24, 2019

कदलीस्तम्भात् जैवं पलास्तिकम्- सुप्रधानेन अनुसन्धानेन विजयम् अवाप्ताः वैज्ञानिकाः।
कदलीस्तम्भात् निर्मितं जैवं पलास्तिकम्I
     पलास्तिकं प्रकृतेः तथा जीविवर्गाणां च भीषा एव भवति। इमं विषयं  सर्वे जानन्ति च। किन्तु पलास्तिकं विना पुरतो गान्तुं न शक्यते अधुना। अस्मिन् सन्दर्भे मोदाय एका वार्ता अस्ति। ओस्त्रेलियस्य न्यू सौत् वेल्स् विश्व विद्यालयस्य प्राध्यापिके जयश्री आर्कोट्, मरीना स्टेन्सल् च  कदलीस्तम्भत्  नूतनं जैवं पलास्तिकं निर्मातुं शक्यते इति वदतः। 
   एते वैज्ञानिके कदलीस्तम्भात्  'नानोसेल्लुलोस्' विश्लेषणेन स्वीकृत्य पलास्तिकं निर्मितवत्‍यौ। पक्वफल लवनानन्तरं कदलीस्तम्भस्य आन्तरिक दण्डं स्वीकृत्य लघु उष्णेन शुष्कीकृत्य पुनः धूलीकृत्य तदनन्तरं संस्करण-क्रियया 'नानो सेल्लुलोस्‌' निर्माति। अनेन भक्ष्यवस्तूनाम् आच्छादकयुक्तं स्तरपलास्तिकं निर्मातुं शक्यते। जैवं इदं मृत्‌संयोगेन  जीर्णं भविष्यति इति सर्वेषां मोदाय भवति।

Monday, December 23, 2019

क्रिकेट् - भारतदलं प्रख्यापितम्।
-के.वि.रजीष्
    मुम्बय् > श्रीलङ्क-आस्ट्रेलियदलयोः प्रति क्रीडनाय भारतदलं प्रख्यापितम्। रोहित् शर्मणे मुहम्मद्षमये च अवकाशः कल्पितः वर्तते। ज्सप्रीत् बुम्रः, शिखर् धवानः, सञ्जु साम्सणः च संघे अन्तर्भूताः। शर्दुल् ठाकुरस्य नवदीपसैनेः च स्थानं संरक्षितम्। नायकस्थाने विराट् कोह्लिः अनुवर्तते।
झार्खण्ड् मध्ये महासख्यशासनम्।
-के.वि.रजीष्‌
         राञ्चिः> राञ्चिः> झार्खण्ड् नियसभानिर्वाचनस्य फलसूचनाः आगताः। जे एम् एम्, काण्ग्रेस्, आर् जे डि दलानां महासख्यं ८१ मध्ये ४६ स्थानेषु प्रामुख्यं सम्पाद्य शासनाधिकारं प्रति सरति इति सूचना। प्रस्तुतशासनसख्यस्य देशीयजनाधिपत्यसख्यस्य नेता भा जा दलं २५ स्थानेषु प्रामुख्यं समपादयत्।स्थानानां विषये प्रायः इतोऽपि परिवर्तनं भवेत्।महासख्यात् जे एम् एम् दलस्य षिबु सोरन् राज्यस्य मुख्यमन्त्री भविष्यति इति सूचना वर्तते। सः दुंक,बर्हात् मण्डलयोरपि विजयं प्रापयत्। भा जा दलस्य अधुनातनमुख्यमन्त्री रघुबर् दास् जाम्षड्पुर् ईस्ट् मण्डले पराजयत। प्रधानमन्त्री नरेन्द्रमोदिः महासख्याय अभिनन्दनं न्यवेदयत्। पञ्चवर्षं यावत् शासनाय अवसरं दत्तवत्यै झार्खण्ड् जनतायै प्रधानमन्त्री कृतज्ञतां च न्यवेदयत्। झार्खण्डस्य विकासाय केन्द्रसर्वकारः प्रतिज्ञाबद्धः इत्यपि प्रधानमन्त्रिणा स्पष्टीकृतम्।
भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायां भारतस्य विजयःI
-के.वि.रजीष्।

    कट्टक्> भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायाः अन्तिमक्रीडायां भारतस्य ४ क्रीडकानां विजयः। जयेनानेन एकदिनात्मकक्रिकेट् परम्परापि (२-१) भारतदलेन जिता वर्तते। ३१६ धावनाङ्कानां विजयलक्ष्यम् अनुगम्य प्रतिक्रीडनमारब्धं भारतदलं ४८.४ ओवर् मध्ये लक्ष्यं प्रापत्। भारतदलस्य कृते आरम्भकक्रीडकाभ्याम् शुभारम्भः दत्तः। रोहित् शर्मणा (६३) लोकेष् राहुलेन (७७) च प्रथमक्रीडकसहयोगे १२२ धावनाङ्काः प्राप्ताः। नायकेन विराट् कोह्लिना ८५ धावनाङ्काः प्राप्ताः। अपराजिते सप्तमे सहयोगे जडेजः (३९*) शर्दुल् ठाकुरः (१७*) च ३० निर्णायकान् धावनाङ्कान् समपादयताम्। वेस्ट् इन्टीस् दलाय नायकः कीरोण् पोलार्ड् (७४) निकोलास् पूरन् (८९) च उत्तमं प्रकटनम् अकुरुताम्।

Sunday, December 22, 2019

व्याजप्रचारणेषु मा पततु, नियमं पठित्वा अवगच्छन्तु - मोदी
    नवदिल्ली> नागरिकत्वनियम परिष्करणे व्याजप्रचारणं   क़ुर्वतः विमृश्य प्रधानमन्त्री मोदी अवदत्। नगरनक्सल् भीकराः कोण्ग्रस् दलीयाः च अनृतम् उक्त्वा माहम्मदीयान् कुमार्गं नयन्ति। भारत माहम्मद धर्मीयान् क्लेशे पातयितुम् अस्मिन् नियमे किमपि नास्ति। अतः व्याजप्रचारणे मनः मा भवतु। सर्वे शिक्षिताः भवन्ति।   नागरिकत्वनियम परिष्करणे वस्तुतः किमस्ति इति पठित्वा अवगच्छन्तु इति नरेन्द्रमोदिना उक्तम्। महात्मागान्धी कोण्ग्रस् दलं च मिलित्वा पाक्किस्थानीयान् न्यूनपक्षविभागस्थान् जनान् स्वागतीकृतवन्तौ आस्ताम्। किन्तु पश्चात्कोण्ग्रस् दलेन न प्रवृत्तम्। अधुना वयं वाग्‌दानान् प्रवृत्तिपथमानयामः। अभयार्थिनः अतिक्रामिणः च विभिन्नाः एव। अभयार्थिनः नागरिकतायै अर्थयन्तः सन्ति। अतिक्रामिणः तु निलीय दुष्कर्म कुर्वन्तः सन्ति इत्यपि मोदिना उक्तम्। रामलीला महाङ्कणे पथसञ्चलनाय समवेतान् अभिमुखीकृत्य  भाषमाणः आसीत् सः।

Saturday, December 21, 2019

नागरिकतानियम-परिष्करण-विधेयकं संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपि।

 नागरिकतानियम-परिष्करण-विधेयक समर्थनं कृत्वा
अनुष्‌ठितं पदसञ्चचलनम्।
       नवदिल्ली> नागरिकतानियम-परिष्करण-विधेयकं विरुद्ध्य पथसञ्चलनादिकं एकस्मिन् पार्श्वे प्रचलिते सति, विधेयकस्य संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपरे पार्श्वे तिष्ठन्ति। नलन्द विश्वविद्यालयस्य उपकुलपतिः सुनैन सिंह्‌, जे एन् यु  पञ्जीकरणाधिकारी प्रमोदकुमारः, वरिष्ठपत्रकारः रचयिता राज्यसभा सामाजिकः स्वपनदासगुप्तः, व्यवसायी शिशिर बजोरिया च तेषां संयुक्तपत्रिकाद्वारा नियम-परिष्करण-विधेयकस्य समर्थनं कृत्वा उक्तवन्तः।
     नियमोयं बङ्ग्लादेशं पाकिस्थानम् इत्येताभ्यां समागतानां न्यूनपक्ष विभागिनां धर्मिणाम्  अभिलाषपूर्तीकरणाय युक्तम्।  कोण्ग्रस्, सि पि एम् आदिभिः राजनैतिकदलीयैः पूर्वमेव  वाञ्छितं कार्यं भवति अयं नियमः। अतः सर्वकारः अभिनन्दनम् अर्हति इति तैः संयुक्ततया  हस्ताक्षरीकृपत्रिकायां लिखितमस्ति। असत्यवक्तॄणां चार्वाकाणाम् कौटिकायां (trap) मा पततु, भाययित्वा निगूढरूपेण भारतं कलहग्रस्तं कर्तुम् उद्युक्तानां प्रवृत्तिषु खेदम् अनुभूयते इति एतैः उच्चते। राष्ट्रे अन्ताराष्ट्रस्तरे च विद्यमानस्य   विश्वविद्यालयस्य शैक्षिकप्रवराः अनुसन्धाधृभ्यः च आहत्य शताधिकसहस्रं विद्वांसः  अस्मिन् समर्थनपत्रे  हस्ताक्षीकृतवन्तः सन्ति।

Friday, December 20, 2019

भारतस्य झार्खण्ड् राज्ये अद्य अन्तिमं निर्वाचनम्‌।
-के.वि.रजीष्‌
     राञ्चिः> झार्खण्ड् राज्ये नियमसभानिर्वाचनस्य पञ्चमः स्तरः अद्य प्रचलति। अवशिष्टेषु १६ मण्डलेषु एव निर्वाचनं प्रचलति। निर्वाचनफलं २३ तमे दिनाङ्के भविष्यत। अद्य सायं पञ्चवादनपर्यन्तं निर्वाचनप्रक्रियायाः समयः कल्पितः वर्तते।
पौरत्वप्रमाणीकरणं ललितम् - भारतसर्वकारः।
-के.वि.रजीष्‌
      नवदहली> राष्ट्रियपौरत्वप्रमाणीकरणविषये कस्यापि आशङ्का नावश्यकी इति भारतस्य आभ्यन्तरमन्त्रालयेन उक्तम्। पौरत्वप्रमाणीकरणाय निर्वाचनप्रक्रियायाः प्रत्यभिज्ञानपत्रं, आधार् पत्रं, विदेशयात्राधिकारपत्रं, चालकाधिकारपत्रं, रक्षाभोगप्रमाणपत्रं, जननप्रमाणपत्रं, भूमेः जन्माधिकारपत्रं, विद्यालयीयं प्रमाणपत्रं, सर्वकारेण दीयमानानि अन्यानि प्रमाणत्राणि च उपयोक्तुं शक्यन्ते इति भारतस्य आभ्यन्तरमन्त्रालयेन स्पष्टीकृतम्।
      पौरत्वप्रमाणीकरणाय पुरातनप्रमाणपत्राणि न समर्पणीयानि इत्यपि मन्त्रालयेन सूचितम्। अपि च परिष्कृतस्य राष्ट्रियपौरत्वनियमस्य संस्थापने भारतसर्वकारस्य कापि आशङ्का नास्ति इति आभ्यन्तरमन्त्रिणा अमित् षा महोदयेन प्रस्तावितम्।

Thursday, December 19, 2019

गुरुग्रहे चक्रवातः, नास संस्थायाः 'जूणो' इति बहिराकाशयानेन   चित्रं प्रेषितम्। 
     वातकगोलस्य गुरोः दक्षिणद्रुवस्य चित्रं संगृह्य प्रेषितम् 'जूणो'। चित्रस्य विशेषता किम् इति चेत्‌ तत्र सम्भूतस्य चक्रवातस्य चित्रं भवति इदम्I  गुरोः उपरितलात् ३५०० किलोमीट्टर् दूरतः कृतं द्वाविंशतितमं भ्रमणं नवम्बर् मासस्य तृतीयदिनाङ्के सम्पूर्णमभवत्। सौरोर्जेन प्रवर्तमानं जूणोयानं गुरोः छायातः संरक्षणाय प्रयत्नं कुर्वन्नवसरे  आसीत्  चित्रमिदं लब्धम्। मध्यभागे भ्रमणं कुर्वन्तं चक्रवातं परितः षट् चक्रवाताः पञ्चभुजरूपेण क्रमीकृतावस्थायां दृश्यन्ते। नूतनां इमां अवस्थाम् अधिकृत्य अनुसन्धानम् आरब्धम् इति वैज्ञानिकाः उक्तवन्तः।
 संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदास-विश्वविद्यालयः, महाराष्ट्रट्रम्।
     नमांसि, कार्यकर्तु: जीवने ध्येयबद्धताया: कारणेन कार्यसातत्यं भवति, कार्यसातत्यस्य कारणेन ध्येयबद्धता वर्धते च। यथा दीपेन एव दीप: ज्वालयितुं शक्य:, तथैव स्वस्य उत्साहेन एव अन्यस्मिन् उत्साह: उत्पादयितुं शक्य:। (न तु भाषणेन,उपदेशेन वा) स्नेहेन एव स्नेह:, प्रेम्णा एव प्रीति:, विश्वासेन एव विश्वास:, स्वस्य आदर्शोदाहरणोपस्थापनेन एव अन्यस्मिन् आदर्श: यथा आनेतुं शक्य: तथा एव स्वस्य ध्येयबद्धतया एव इतरेषु अपि ध्येयबद्धताया: संवर्धनं शक्यम्। मित्राणि, तस्माद् वयं संस्कृतमातु: सेवार्थं सदा एव ध्येयन्यस्तमनस: स्याम। 

Wednesday, December 18, 2019

नागरिकत्वनियम-परिष्कारविषये सर्वोच्चन्यायालयेन केन्द्रसर्वकारं प्रति सूचना प्रदत्ता। 
   नवदिली> नागरिकत्वनियम परिष्कारविषये लब्धायां याचिकायां भारतस्य सर्वोच्चन्यायालयेन केन्द्रसर्वकारं प्रति सूचना प्रेषिता। जनुवरिमासस्य द्वितीय सप्ताहात् पूर्वं सर्वकारेण प्रत्युत्तरं दातव्यम्। याचिका जनुवरिमासस्य द्वाविंशति दिनाङ्के पुनरपि परिगणयिष्यति। सर्वोच्चन्यायालयस्य  मुख्यन्यायमूर्तेः आध्यक्षे आयोजिते पीठे एव याचिका अवलोकिता। नियमं स्तगयितुं न्यायालयेन न आदेशः न अयच्छत्।
पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः
  इस्‌लामबादः> पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः आदिष्टः। २००७ तमे शासनसंविधानं विगणय्य शासनं बलात् ग्रहीतवान् इति राष्ट्रद्रोहदोषाय पेषवार न्यायालयेन मृत्युदण्डः आदिष्टः। २०१४ तमे एषः दोषी इति न्यायालयेन निर्णीतः। २०१६ तम वर्षादारभ्य एषः दुबाय् देशे वसति। इदानीं तत्र चिकित्सायां वर्तते इत्यस्ति आवेदनम्। १९९९तम वर्षादारभ्य २००८ पर्यन्तम् आसीत् अस्य शासनकालः। तदा नवास् षेरीफः आसीत्  पाकिस्थानस्य प्रधानमन्त्री। २००७ तमे शासन संविधानम् अवमत्य आपातस्थितिं  स्थितिम् उद्घुष्टवान् सः इति विषयानुबन्धतया भवति प्रक्रमः। 
पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः।
हुवा चूनिङ्
   बैजिङ्> २०१९ तमस्य गणनामनुसृत्य पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः चीनस्य राष्ट्रपति षी जिन् पिन् वार्ता माध्यमानाम् उपरि कृतः अस्वतन्त्रता भवति कारागृहवासस्य  कारणम्। अष्टचत्वारिंशत् (४८) वार्तामाध्यम प्रवर्तकाः तेषाम् प्रवृत्तिं कृतवन्तः इति कारणेन इदानीं कारागृहवासम् अनुभवन्ति। अस्मिन् अनुसूच्याम्  ओस्ट्रेलियदेशीयः यङ् हेन्जिन् च अस्ति। चीनस्य विदेशकार्यमन्त्री हुवा चूनिङ् विषयमधिकृत्य वदति यत् इतःपर्यन्तं कारागृहस्थानां माध्यम प्रवर्ताकाणां गणना न कृता इति।
   विगते संवत्सरे तुर्किराष्ट्रस्य आसीत् प्रथमस्थानम्। इदानीं तुर्की द्वितीयस्थाने वर्तते,  सौदी, ईजिप्तः च पृष्ठतः स्तः

Tuesday, December 17, 2019

मुखं पिधाय जामियछात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः? पृच्छति कट्जुः।
     नवदिल्ली> नागरिकताविधेयक-परिष्कारान् विरुद्ध्य प्रतिषेधितान् जामिया-मिलिययस्य छात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः इति पृच्छति प्राक्तन-न्यायाधिपः मार्कण्डेय कट्जुः। जीन्स् ऊरुकं, रक्तवर्णयुतकं, क्रीडापादत्राणं, शिरस्त्राणं च धृत्वा वनितानामुपरि दण्डनं कृतवान् एकः। तस्य शिरस्त्राणम् तु आरक्षकाणां शिरस्त्राणसदृशं च आसीत्।  एषः शक्तया रीया वनितान् दण्डयत् आसीत् इति वार्ता माध्यमेषु समागतात् चित्रात् स्फुरति। आरक्षकाणां अङ्गवस्त्रं विना मुखं पिधाय आरक्षकैः सह स्थित्वा छात्रान् य़ः दण्डतिवान् सः कः इति वक्तुं यः कोऽपि शक्तः इति  उच्चन्यायालयस्य प्राक्तनः मुख्यन्यायमूर्तिः अपृच्छत्। मार्कण्डेय कट्जुः स्वस्य ट्विट्टर् पुटे एव तस्य प्रश्नं प्राकाशयत्।
वैद्युतविमानसेवा समारब्धा
      न्यूयोर्क्> सम्पूर्णवैद्युतविमानस्य सेवा समारब्धा। विश्वस्य प्रथमं वैद्युतविमानं भवति इदम्। प्रथमसेवा कानडा राज्यस्य फेसर् नद्याः नौकामुखतः कोलम्बियां प्रति आसीत् उड्डयनम्। सीप्लेन्  संस्थायाः हार्बर् एयर् इत्यस्य संस्थापकः ग्रेग् मेक्डोगालः विमानम् उड्डयितवानासीत्। षट्जनान् वोढुम्  अस्य क्षमता अस्ति।  
     वाणिज्यसेवायै उपयोक्तुम् उद्दिश्य निर्मितं भवति इदम्। पञ्चाशातधिक सप्तशत (७५०) अश्वशक्तियुतं माग्नि पञ्चशतं (५००) इति व्यवस्था एव विमानस्य शक्तिरूपेण वर्तते। विद्युत्कोशस्य साहाय्येन प्रवर्तमानस्य अस्य शब्द-मलिनीकरणमानम् अतिन्यूनं भवति। 

Monday, December 16, 2019

अग्निबाणपारीक्षा अमेरिक्केन क्रियते। रष्येन विप्रतिपत्तिः प्रकाश्यतेI
     मोस्को> अमेरिक्केन क्रियमाणम् अग्निबाणपरीक्षां विरुद्ध्य रष्यः  प्रतितिष्ठति। द्वौ मध्य-दूर आणवबाणौ एव अमेरिक्केन परीक्षायै सज्जं क्रियेते। परीक्षेयम् अन्ताराष्ट्र आणवनयानां लङ्घनं भविष्यति इति रष्यस्य सबाणसेनायाः 'कमान्टर् जनरल् सेर्जि काराकायेव् अवदत्। बाणयोः मध्ये प्रथमस्य १००० कि.मी परिधौ द्वितीयस्य ३००० कि. मी परिधौ च प्रहरक्षमता अस्ति। आणवशक्तिः अपि तयोः न भविष्यतः इति वक्तुं शक्तः कोऽपि नास्ति खलु  इति सेर्जि काराकायेव् पृष्टवान्। 
        गतसप्ताहे अमेरिक्केन भूतल बाणपरीक्षा  कृता आसीत्। सागरात् प्रयोक्तुं  क्षमतायुक्तस्य अस्य ५०० कि. मी सञ्चारक्षमता आसीत्। १९८७ तमे संवत्सरे उभयोः मिथः आणव-निर्व्यापन-सन्धौ हस्ताक्षरीकृतम् आसीत्। किन्तु अस्मिन् संवत्सरे अमेरिक्कः सन्धीतः प्रतिनिवर्तितवान्।
पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् - अन्तिमदिनाङ्कः डिसम्बर् ३१
-के.वि.रजीष्
    नवदहली> राष्ट्रे प्रत्यभिज्ञानरेखयोः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय कल्पितः समयः अस्य मासस्य ३१तमे दिनाङ्के पर्यवसति। उच्चतरन्यायालयस्य निर्देशानुसारम् आयकरविभागेन जनेभ्यः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय डिसम्बर् ३१ पर्यन्तं समयः कल्पितः आसीत्। वर्षादौ आयकरनियमस्य १३९एए विभागः उच्चतरन्यायालयेन अङ्गीकृतः आसीत्। तदनन्तरम् आयकरसेवनादिकं भाविकालेऽपि लब्धुं पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् आवश्यकम् इति विभागेन घोषितमासीत्।