OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 14, 2019

पौरत्वनियमः - प्रत्याघातः निरीक्षणीयः इति यू एन्। 
नवदिल्ली > भारते समुपस्थितः पौरत्वपरिष्करणनियमः आधारेण विवेचनस्वभावयुक्त इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागेन प्रस्तुतम्। परिष्करणस्य आधारे संभव्यमाणाः प्रत्याघाताः निरीक्षणीयाः वर्तन्ते इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागस्य वक्ता जेरमि लोरन्स् इत्येषः उक्तवान्। भारतस्य अवस्थाः सूक्ष्मनिरीक्षणे वर्तन्ते। 
 अमेरिका, बङ्गलादेशः, जापान् इत्यादीनि विविधानि राष्ट्राणि भारतं प्रति स्वाशङ्कां प्राकाशयन्। गुहावत्यां प्रचाल्यमानं जापानी भारत शिखरमेलनं निरस्तम्। जापानस्य प्रधानमन्त्री आबे षिन्सो भारतं नागच्छति।
शक्तानां वनितानाम् अनुसूच्यां निर्मला सीतारामः अपि।    
-के.वि.रजीष्।
   नवदहली> विश्वस्य शक्तानां वनितानां पट्टिकायां भारतस्य धनकार्यमन्त्री निर्मला सीतारामः अपि स्थानं समपादयत्। फोब्स् मासिक्यां प्रकाशितायां शक्तानां शतं वनितानां अनुसूच्यां ३४ तमं स्थानमेव निर्मला सीतारामः प्रापत्। फोब्स् अनुसूच्यां निर्मलायाः प्रथमं प्रवेशनं भवतीदम्। निर्मलया सह एच् सि एल् मुख्यनिर्वाहककार्यकर्त्री रोषिणी नडार् मल्होत्रा, बयोकोण् स्थापका किरण् मजुन्दार् षा च यथाक्रमं ५४,६५ स्थानयोः वर्तेते। जर्मनिदेशस्य अध्यक्षा आञ्जलो मेर्कल् एव प्रथमस्थाने वर्तते। द्वितीयतृतीयस्थानयोः यथाक्रमं यूरोपीय केन्द्रवित्तकोशस्य अध्यक्षा क्रिस्टीना लगार्ड्, यु एस् जनप्रतिनिधिसभाध्यक्षा नान्सी पेलोसी च वर्तेते।
काश्मीरे लडाके च द्वौ एयिंस् आतुरालयौ।
 -के.वि.रजीष्
    श्रीनगर् > काश्मीरे लडाके च द्वयोः एयिंस् आतुरालययोः निर्माणाय केन्द्रसर्वकारस्य अनुमतिः। विषयमिमं केन्द्राभ्यन्तरसहमन्त्री जि.किषन् रेड्डि रेखासहितं लोकसभायां न्यवेदयत्। काश्मीरे लडाके च एयिंस् आतुरालयसहिताः अष्टौ वैद्यकलालयाः अपि संस्थाप्यन्ते इति मन्त्री  असूचयत्। दोद, कत्व, बारामुल्ल, अनन्त् नाग्‌, रजौरी, उद्दंपूर्, हन्द्वारा इत्यादिषु प्रदेशेषु वैयकलालयानां निर्माणप्रवर्तनानि आरब्धानि इत्यपि सः सभां न्यवेदयत्। जम्मूकाश्मीरस्य तथा लडाकस्य च समग्रविकासाय मोदिसर्वकारः प्रतिज्ञाबद्धः एवेति मन्त्री अवदत्।

Friday, December 13, 2019


भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भविष्यति कुमरकम्।
   कोट्टयम् (केरलम्)> स्फटिककूप्यां पेयं जलं, फलरसपानाय वेणुनिर्मिता पाननालिका - भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भवितुं सज्जताम् आवहति कुमरकं देशः। एकवारस्य उपयोगानन्तरं परित्यजन्तीं पलास्तिकर्निर्मतानाम् उत्पन्नानां बाधा उद्‌घोष्य तारवसतिगृहाणि प्रथमपदक्षेपः  कृतानि। प्रकोष्टेषु दीयमानेषु कूपीजलस्य स्थानेषु स्फटिककूप्यां पेयं जलं ददाति। पलास्तिक-पाननालिकायाः स्थाने फलरसपानाय वेणुनिर्मिता नालिकाः च दीयन्ते। अतिथीनां कृते पलास्तिकं विरुद्ध्य मनोभावोत्तेजनाय बोधपत्राणि वितीर्यन्ते। उत्तरदायित्व-विनोदयत्न-र्दौत्य नेतृत्वे चेम्बर् ओफ् वेम्पनाट् होट्टल्स् आन्ट् रिसेर्ट्स् (सि वि एच् आर्), ओल् केरला हौस् बोट् ओणेर्स् असोसियेषन् केरल ट्रावल् मार्ट् इत्याख्याः  सङ्घाः मिलित्वा योजनां प्रचालयन्तः।

Thursday, December 12, 2019

सौदिराष्ट्रस्य सैनिकोद्योगिनः अनुशीलनम् अमेरिक्केन निवारितम्।
  नवदिल्ली> सैदिराष्ट्रस्य सैनिकानां कृतेदीयमानं सायुधानुशीलनम्  अमेरिक्केन क्वचित् कालेभ्यः निवारितम्I आयुधानुशीलनं विमानोड्डयनानुशीलनं च निवारितयोः अन्तर्भवति। कतिपयदिनेभ्यः पूर्वं फ्लोरिडस्थे पेन्सकोल सैनिकविमाननिलये सौद्याः सैनिकोद्योगी त्रयान् नालिकाशस्त्रेण अमारयत् इत्यनेन भवति अयं प्रक्रमः। सौदिराष्ट्रस्य ३०० सौनिकाः इदानीं  यू एस् मध्ये अनुशीलनं कुर्वन्तः सन्ति। नूतनः निश्चयः एतान्  ग्रसति। सुरक्षा सम्बन्धतथा भवति नूतनः प्रक्रमः इति पेन्टगण् गणैः उच्यते। तथापि सैनिक छात्रेभ्यः पाठ्यक्रमानुसारम् आङ्गलभाषाध्यापनं, पाठ्य प्रवर्तनानि च अनुवर्तते इति च तैः उच्यते।

Wednesday, December 11, 2019

१४७५ कोटि डोलर् समाहृतः पीट्टर् ३५ वयसि दिवङ्गतः।
एषः खलु 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः। 

    आविश्वम् अतिप्रसिद्धा 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः पीट्टर् फ्रेट्स् (३५) दिवङ्गतः। अमिट्रोफिक् लाट्टरल् क्लिरोसिस् (AALS) इति रोगेण पीडितः आसीत्। ईदृशरोगेण पीडितानां  जनानां साहायाय एषः 'ऐस् बक्कट् चालञ्च्' परियोजना समारब्धवान्। हिमखण्डनिभृतं  द्रोणीजलं शिरसि प्रस्रवणं करणीयं तदनन्तरं त्रयान् एतदर्थं समाह्वनीयम् , यः समाह्वयितः सः हिमजलप्रस्रवणं करणीयं नो चेत्  १०० डोलर् रोग-बाधितानां समाश्‌वासनिधिं प्रति देयं   इत्यस्ति करणीयक्रमः। द्वावपि करणीयः इत्यस्ति करणीयं 'चालञ्च्'। 
     टों क्रूस्, स्टीवन् स्पिल् बर्ग्, बिल् गेट्स्, जोर्ज् बुष् इत्येते प्रमुखाः अस्यां भागं स्वीकृताः। मार्क् सुक्कर् बर्गः समाह्वानं स्वीकृत्य बिल्गेट्सं समाहृतवान् आसीत्। लक्षशाः जनाः परियोजनायां भागं स्वीकृताःl एवं १४७५ कोटि धनं समाहृतम् आसीत्।
नूतना लूता प्रत्यभिज्ञाता- मनुष्यचर्मनाशकारिणी एषा।

   मेक्‌सिक्को> मनुष्यचर्मनाशकारिणी विषयुक्ता लूता  प्रत्यभिज्ञता। नाषणल् ओट्टोणमस् यूणिवेर्सिट्टि ओफ्  मेक्सिको (UNM) इत्यस्य वैज्ञानिकैः एव लोक्सोसेल्स् टेनोच्टिट्लान् इति नूतनलूता प्रत्यभिज्ञाता। जैववैज्ञानिकः विश्वविविद्यालयस्य वरिष्ठाध्यापकः अलजान्ट्रो वालडेस मोण् ड्रागणः तस्यशिष्याः क्लोडिया नवारो, कारेन् सोलिस्, मयर कोर्टेस् वै अल्म जुवारस् च भवन्ति अनुसन्धानस्य पृष्टतःI गृहोपकरणेषु एव लूतायाः वास:। दंशनेन मृत्युः न भविष्यति चेदपि बालकेषु मृत्यु-कारणत्वेन वर्तते। दंशनेन चर्मस्य नाशः एव भविष्यति। विषशमनाय  मासानां चिकित्साक्रमः आवश्यकःl व्रणकिणः तु तथैव स्थास्यति च। वृष्टिकाले एव लूतायाः उपद्रवस्य अधिक्यम् अनुभूयते।   प्रत्यभिज्ञाता लूता इदानीं मेक्सिको प्रदेशेषु एव वर्तन्ते। अन्यत्रदेशात् अस्याः सन्निधिः न आवेदिता।
पौरत्वपरिष्करणविधेयकम् अद्य राज्यसभायाम्।
विधेयकं विरुध्य आराष्ट्रं प्रतिषेधः।
विधेयकं प्रतिषिध्य  त्रिपुरे जातः अक्रमः।
नवदिल्ली > केन्द्रसर्वकारेण लोकसभायां विजयीकृतं राष्ट्रियपौरत्वपरिष्करणविधेयकमद्य राज्यसभायामवतार्यते। तत्र विधेयकं विजेतुम् आवश्यकी अङ्गसंख्या भाजपादलाय पृथक् नास्तीत्यपि महानात्मविश्वासः प्रकाश्यते सर्वकारेण। विपक्षदला अपि विधेयकं पराभावयितुं महन्तं परिश्रमं कुर्वन्ति। 
आराष्ट्रं प्रतिषेधः। तथा च विधेयकं प्रतिषिध्य राष्ट्रे सर्वत्र राजनैतिक-सामाजिक-छात्रदलैः महान् प्रतिषेधः कृतः। उत्तरपूर्वराज्येषु बहुत्र अक्रमाः जाताः। पौरत्वं लभ्यमाणाः अधिनिवेशिनः स्वदेशस्य संस्कृतेः जीवनोपाधिनां च भीषारूपेण भविष्यन्तीति गोत्रसंघटनानामाशङ्का।

Tuesday, December 10, 2019

जाग्रतानिर्देशः तृणवत्कृतः। 
न्यूसिलान्टे अग्निपर्वतस्फोटनेन बहवः अप्रत्यक्षाः।
वेल्लिङ्टण् >  न्यूसिलान्ट् राष्ट्रे 'वैट् एेलान्ट्' नामके प्रदेशे अग्निपर्वतस्य  विस्फोटनेन बहवः विनोदसञ्चारिजनाः अप्रत्यक्षाः अभवन्। सोमवासरे प्रादेशिकसमयमनुसृत्य  मध्याह्ने सपादद्विवादने आसीदेषा दुर्घटना। तत्समये उपशतं जनाः तत्र सन्निहिताः तेषु अनेके अप्रत्यक्षा इति प्रधानमन्त्रिणा जसीन्ता आर्डेण् महाभागया निगदितम्। 
  वैट् ऐलान्ट् प्रदेशस्थः अग्निपर्वतः विस्फोटनप्रायः, अतः तत्स्थानं न सन्दर्शनयोग्यमिति आरक्षकैः शास्त्रज्ञैश्च  जाग्रतानिर्देशः कृतः आसीत्। तं तृणवत्कृत्वा एव विनोदसञ्चारिणः वैट्लान्टं प्राप्तवन्तः।
राष्ट्रिय-पौरत्वपरिष्कारविधेयकम् अङ्गीकृतम्। 

   नवदिल्ली> १९३ सामाजिकानाम् अनुज्ञया सह राष्ट्रिय-पौरत्वपरिष्कार विधेयकम् अङ्गीकृतम्। ८२ सामाजिकाः विषयेऽस्मिन् विप्रतिपत्तिः प्रकाशयन्तः आसन्। कोण्ग्रस्दलं विमृश्य आभ्यन्तरमन्त्रिणा अमितशाहेन विधेयकस्य अवतारणं कृतम्l प्रतिशतं ०.००१ आंशमपि न्यूनपक्ष विरोद्धो न भवति पत्रम् इति अमितशाहेन उक्तम्I भा ज पा अतिरिच्य शिवसेना, बिजु जनतादल, ए ऐ डि एम् के, टि डि पि, वैए एस् अर् कोण्ग्रस् च विधेयकावतरणस्य अनुकूलतया मतदानं कृतम्। कोण्ग्रस्, वामपक्षीयाः तृणमूलः एन् सि पि, मुस्लीं लीग् , डि एम् के  समाजवादि दलीयाश्च विरुद्धतया मतदानं कृतवन्तः च।

Monday, December 9, 2019

चन्द्रयानं ३ - २०२०नवंबर् मासे विक्षिप्यते।  

   बंगलूरु> तृतीयस्य चन्द्रयानस्य विक्षेपणाय ऐ एस् आर् ओ सज्जायते। २०२० नवंबर्  मासे  विक्षेपणं भविष्यति इति ऐ एस् आर् ओ संस्थया आवेदितम्।  विक्षेपणप्रयोगाय ७५ कोटि रूप्यकाणि अधिकतया दातव्यम्  इति भारतसर्वकारः  ऐ एस्‌ आर् ओ संस्थया अभ्यर्थितः। आहत्य ६६६ कोटि रूप्यकाणां व्ययः भविष्यति।
      चन्द्रयानं २ उपयुज्य चन्द्रस्य  दक्षिणध्रुवे अवतीर्य परीक्षणानि कर्तुमेव ऐ एस् आर् ओ संस्थया उद्दिष्टम् आसीत्। किन्तु मुदुलावतरणवेलायाम् अवतारकेन सह विद्यमानः आशयविनिमय-सम्बन्धः क्षणात् पूर्वं विनष्टम् आसीत्I

Sunday, December 8, 2019

न्यायालयव्यवहारः सामान्यजनेभ्यः अप्राप्यः भवति - भारतराष्ट्रपतिः।
 जोधपुरः> न्यायालय-व्यवहराः  अधिकधनव्ययोपेतानि सामान्यजनेभ्यः अप्राप्यः च भवन्ति इति भारतस्य राष्ट्रपतिना रामनाथकोविन्देन अवोचत्। राजस्थानस्य उच्चन्यायालयस्य नूतनपत्तनस्य उद्घाटनं निरूह्य भाषमाणः आसीत् सः। ''नीतिन्यायसञ्चालनं इति अधिकव्ययोपेतं भवति। विविधकारेन उच्च-न्यायालये सर्वोच्च-न्यायालये च सामान्य-जनेभ्यः अप्राप्यः च भवतिI दरिद्राय याचिकया अत्र  समागन्तुं शक्नोति वा? एषः प्रश्नः प्रसक्तः प्रधानतमः च भवति। कारणं तु अस्माकं शासन-संविधानस्य आमुखे व्यक्तीकृतः नीतिः सर्वेषां तुल्या इति तत्त्वम् अस्माभिः अङ्गीकृतम्'' राष्ट्रपतिः अब्रवीत्। सामान्यजनेभ्यः निशुल्कं नियमसेवाप्रापणम् अनिवार्यमिति महात्मा गान्धिनः वाचमपि उदृत्य भाषमाणः आसीत्‌ सः॥
   
नीतिनिर्वहणं प्रतीकाररूपेण न - सर्वोच्चन्यायाधिपः। 
न्याय.  एस् ए बोब् डे 

जोधपुरम्> प्रतीकारकर्मरूपेण नीतिनिर्वहणं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः एस् ए बोब् डे अवोचत्।  जोधपुरे राजस्थानराज्यस्य उच्चन्यायालयस्य नूतनं भवनसमुच्चयम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। प्रतीकाराधिष्ठिता नीतिः स्वाभाविकधर्मगुणादिरहिता स्यादिति सः अभिप्रैतवान्। नीतिः इत्येतत् तत्क्षणलभ्या नास्तीति तेन सूचितम्। 

  तेलुङ्काने पशुचिकित्सकां युवतीं   बलात्कारानन्तरं अग्निसात्कृतवन्तः अपराधिनः आरक्षकैः सह प्रतिद्वन्द्वे निहताः इति वृत्तान्तं परामर्शयन् आसीत्तस्य मतप्रकाशनम्।

Saturday, December 7, 2019

आर्थिकाभिवृद्धिः केवलं ५% इति रिसर्वबाङ्केन अङ्गीकृतम्। 
मुम्बई >  अस्मिन् संवत्सरे भारतस्य आर्थिकाभिवृद्धिः प्रतिशतं पञ्चमात्रं स्यादिति  भारतीय रिसर्वबाङ्केन [आर् बि ऐ] अङ्गीकृतम्। पूर्वं ६.१% वृद्धिः इत्यासीत् रिसर्वबाङ्कस्य अनुमानम्! राष्ट्रेण अभिमुखीक्रियमाणम् आर्थिकमान्द्यमधिकृत्य अन्ताराष्ट्रिय वित्तसंस्थाभिः, मूल्यनिर्णयनियोक्तृभिश्च [Ratting agency] कृतानां मूल्यनिर्णयानां स्पष्टीकरणमभवत्।
राहुलगान्धिनः प्रभाषणस्य विवर्तनेन तारायते सफा। 
राहुलगान्धिनः प्रभाषणं विवर्तनं कुर्वन्ती सफा फेबिन्। 
मलप्पुरं > केवलैकेन निमेषेन 
  करुवारक्कुण्ट् सर्वकारीय उच्चतरविद्यालये सफा फेबिन्  नामिका 'प्लस् द्वे' विद्यार्थिनी तारपदं प्राप्तवती। स्वविद्यालये शास्त्रपरीक्षणशालायाः उद्घाटनाय आगतः कोण्ग्रस् दलनेता तथा वयनाट् मण्डलस्य सदस्यः राहुलगान्धी स्वकीयाङ्गलप्रभाषणं कैरल्यां विवर्तयितुं छात्रेषु यः को$पि सन्नद्धः वेति सदस्यान् छात्रान् अपृच्छत्। कालविलम्बं विनैव दृढतरपदविन्यासैः दृढमनसा च सफा वेदिकां प्राप्ता। राहुलगान्धिनः प्रभाषणाय तया दत्ता   ग्राम्यसुन्दरमलयालपरिभाषा सदस्यैः करघोषेण स्वीकृता। प्रभाषणान्ते सन्तुष्टः राहुलः मधुरं प्रदाय सफायै अभिनन्दनमपि कृतवान्।
भारते स्त्रीविरुद्धदोषिणान् दण्डयतुं १००० अतिवेग-न्यायालयाः संस्थाप्यन्ते।
   नवदिल्ली> स्त्रीविरुद्धतया जायमानेषु अतिक्रमेषु तथा गुरुतरदोषेषु च नियमप्रक्रमाः विलम्बते इति कारणेन, नूतन-प्रख्यापनाय उद्युक्तो भवति नरेन्द्रमोदीसर्वकारः। आराष्ट्रं सहस्रम् (१०००) अतिवेग-न्यायालयानां संस्थापनाय सज्जतां करोति। स्रीविरुद्धातिक्रमेषु त्वरितवेगेन निर्णयः तथा दण्डः च भविष्यतः।  राष्ट्रे स्त्रीविरुद्घ अतिक्रमेषु नियमप्रक्रमाः  विलम्बते इति  जनानाम् अभिमतानि परिगणय्य भवन्ति नूतननिश्चयः।

Friday, December 6, 2019

डोणाल्ड ट्रम्पं दोषारोपणविचिन्तन विधेयं कर्तुं यू एस् प्रतिनिधिसभायाः प्रवक्न्त्रा अनुज्ञा प्रदत्ता। 
   वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिं डोणाल्ड् ट्रम्पं दोषारोपण-विचिन्तन-विधेयं कर्तुं प्रक्रमान् सज्जीकर्तुं   यू एस् प्रतिनिधिसभायाः नियमायोगाय  अनुज्ञा   प्रदत्ता अस्ति। वार्तामिमां प्रवक्ता नान्सि पेलोसिना  उक्तम्। वस्तुतयः निस्तर्काः भवन्ति। स्वस्य वैयक्तिक-लाभाय राजनैतिक-लाभाय वा तेन अधिकारः दुर्विनियोगः कृतः इति नान्सि पेलोसि पत्रकारान् प्रति अवदत्। विंशत्युत्तर द्विसहस्र तमे (२०२०) सम्भव्यमाने राष्ट्रपतिनिर्वाचने ट्रम्पस्य प्रतियोगी भविष्यति पूर्वोपराष्ट्रपतिः  जोबैडः । अतः  तं तस्य पुत्रं च विरुद्ध्य प्रक्रमान् स्वीकर्तुंम् उक्रेन् सर्वकारस्योपरि ट्रम्पः सम्मर्दः अकरोत्। अनेन कारणोन भवति एनं विरुद्ध्य प्रक्रमः स्वीक्रियते इति नान्सि पेलोसिना  उक्तम्।